१५

अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः
1ध्यातो धृतात्मभिश्चक्रमध्यस्थो मधुसूदनः।
पायादपायात् संसाररूपकूपात्तु नः परः ॥
अधिकारिविषयः प्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 15.1

देवदेव नमस्तेऽस्तु वृषकेतन शंकर।
त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं 2ज्ञानमुत्तमम् ॥ 15.1 ॥

मूलम् - 15.1

देवदेव नमस्तेऽस्तु वृषकेतन शंकर।
त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं 2ज्ञानमुत्तमम् ॥ 15.1 ॥

विश्वास-प्रस्तुतिः - 15.2

प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा।
पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः ॥ 15.2 ॥

मूलम् - 15.2

प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा।
पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः ॥ 15.2 ॥

के हि तानधिकुर्वन्ति तन्मे विस्तरतो वद। तत्प्रतिवचने प्रथमं सात्त्विकरीतिप्रतिपादनम् अहिर्बुध्न्यः--- ये हि ते मनवो नाम विद्यागर्भाः पुरोदिताः ॥ 15.3 ॥
विश्वास-प्रस्तुतिः - 15.4

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः।
मानवास्तत्प्रसूता ये तथा मानवमानवाः ॥ 15.4 ॥

मूलम् - 15.4

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः।
मानवास्तत्प्रसूता ये तथा मानवमानवाः ॥ 15.4 ॥

विश्वास-प्रस्तुतिः - 15.5

मुखबाहूरुपादेभ्यो ब्राह्मणाद्याः समुत्थिताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः ॥ 15.5 ॥

मूलम् - 15.5

मुखबाहूरुपादेभ्यो ब्राह्मणाद्याः समुत्थिताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः ॥ 15.5 ॥

द्वितये ते यथायोगमधिकुर्वन्ति तानिमान्। मनुसन्ततिजानां पाञ्चरात्राधिकारः ये पुरा कथिताः पञ्च सिद्धान्ताः सर्वसंमताः ॥ 15.6 ॥ मनुसन्ततिजास्तत्र सात्त्वतं [^3]त्वधिकुर्वते। तेषां तन्निष्ठया भगवत्प्राप्तिः त्रयोदशविधं कर्म [^4]गुणैः सांयमिकैर्युतम् ॥ 15.7 ॥ कुर्वाणाः पञ्चकालस्थास्ते यान्ति पुरुषोत्तमम्। तेषु त्रैवर्णिकानां चातुराश्रम्यम् विहितं चातुराश्रम्यं [^5]त्रयाणां तत्र नारद ॥ 15.8 ॥ ब्रह्मचारी गृहस्थो वा वनस्थो भिक्षुरित्यपि। तेषां शुश्रूषया शूद्रस्य भगवत्प्राप्तिः शूद्रः शुश्रूषया तेषां भगवत्कर्मसाधनात् ॥ 15.9 ॥ अरागरोषलोभः सञ्छनैर्याति हरेः पदम्। अन्यतमाश्रमस्थानामपि तेषां मोक्षसिद्धिः [^6]सद्ब्रह्मयाजिनस्ते वै शुद्धाः स्वाध्यायतत्पराः ॥ 15.10 ॥
विश्वास-प्रस्तुतिः - 15.11

अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः।
मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः ॥ 15.11 ॥

मूलम् - 15.11

अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः।
मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः ॥ 15.11 ॥

विश्वास-प्रस्तुतिः - 15.12

आचार्यनयसंपन्नास्ते शुश्रूषणतन्पराः।
सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः ॥ 15.12 ॥

मूलम् - 15.12

आचार्यनयसंपन्नास्ते शुश्रूषणतन्पराः।
सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः ॥ 15.12 ॥

विश्वास-प्रस्तुतिः - 15.13

प्रकृतिज्ञानसंपन्नाः प्रमादपरिवर्जिताः।
त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः ॥ 15.13 ॥

मूलम् - 15.13

प्रकृतिज्ञानसंपन्नाः प्रमादपरिवर्जिताः।
त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः ॥ 15.13 ॥

विश्वास-प्रस्तुतिः - 15.14

सिद्धा नाम [^7]महाभागाः समाप्तज्ञाननिश्चयाः।
धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः ॥ 15.14 ॥

मूलम् - 15.14

सिद्धा नाम [^7]महाभागाः समाप्तज्ञाननिश्चयाः।
धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः ॥ 15.14 ॥

विश्वास-प्रस्तुतिः - 15.15

आसमाप्तेः समास्थाय चतर्णामेकमाश्रमम्।
पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् ॥ 15.15 ॥

मूलम् - 15.15

आसमाप्तेः समास्थाय चतर्णामेकमाश्रमम्।
पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् ॥ 15.15 ॥

विश्वास-प्रस्तुतिः - 15.16

विवेकजां परां प्राप्य कर्मणोऽन्ते [^8]शुभां धियम्।
प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः ॥ 15.16 ॥

मूलम् - 15.16

विवेकजां परां प्राप्य कर्मणोऽन्ते [^8]शुभां धियम्।
प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः ॥ 15.16 ॥

विश्वास-प्रस्तुतिः - 15.17

सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम्।
क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते ॥ 15.17 ॥

मूलम् - 15.17

सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम्।
क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते ॥ 15.17 ॥

गार्हस्थ्यस्याश्रमान्तरोपजीव्यत्वम्
विश्वास-प्रस्तुतिः - 15.18

अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः।
व्रतादिनिरताः शुद्धास्त्रयोऽन्येऽनग्नयः स्मृताः ॥ 15.18 ॥

मूलम् - 15.18

अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः।
व्रतादिनिरताः शुद्धास्त्रयोऽन्येऽनग्नयः स्मृताः ॥ 15.18 ॥

कौटुम्बमुपजीवन्ति ते त्रयो ह्यूर्ध्वरेतसः।
विश्वास-प्रस्तुतिः - 15.23

न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने।
पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते ॥ 15.23 ॥

मूलम् - 15.23

न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने।
पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते ॥ 15.23 ॥

सांख्यानां नैष्कर्म्यम् निष्कर्माणः स्मृताः सांख्याः प्रसंक्यानैकतत्पराः। योगनिष्ठानां वैदिककर्मानुष्ठातृत्वम् नित्यनैमित्तिकैर्युक्तो योगी योगाङ्गवाञ्छया ॥ 15.24 ॥
विश्वास-प्रस्तुतिः - 15.25

कुर्यादलब्धलाभाय लब्धवृद्धय एव च।
ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा ॥ 15.25 ॥

मूलम् - 15.25

कुर्यादलब्धलाभाय लब्धवृद्धय एव च।
ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा ॥ 15.25 ॥

त्रय्यादिमार्गगा रीतिर्नारदैषा प्रदर्शिता। वर्णाश्रमतद्धर्माणां निरूपणम् वर्णाश्रमविभागं मे धर्मैः सह निशामय ॥ 15.26 ॥ चत्वारो वर्णाः वर्णाश्चत्वार उद्दिष्टा ब्राह्मणादिक्रमेण ये[^10]। आद्यानां त्रयाणां वेदाध्ययनं द्विजातित्वं च अधीयीरंस्त्रयो वर्णाः पूर्वे भूत्वा द्विजातयः ॥ 15.27 ॥ शूद्रस्य द्विजशुश्रूषा, एकजातित्वं च चतुर्थ [^11]एकजातिस्ताञ्छुश्रूषेतानहंकृतः। याजनाध्यापनप्रतिग्रहा ब्राह्मणस्यैव ब्राह्मणो नाम यो वर्ण आद्यो ब्रह्ममुखोद्गतः ॥ 15.28 ॥
विश्वास-प्रस्तुतिः - 15.29

स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात्।
याजयेच्च यथाकामं वृत्त्यर्थमनसूयया ॥ 15.29 ॥

मूलम् - 15.29

स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात्।
याजयेच्च यथाकामं वृत्त्यर्थमनसूयया ॥ 15.29 ॥

त्रिभ्यश्च प्रतिगृह्णीयादेष वैशेषिको विधिः। शस्त्रधारणादिकं क्षत्रियस्य शस्त्राणां धारणं नित्यं क्षत्रजातेर्विशेषणम् ॥ 15.30 ॥
विश्वास-प्रस्तुतिः - 15.32

इज्याध्ययनदानं तु द्विजातीनामिदं समम्।
नित्यं 10धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् ॥ 15.32 ॥

मूलम् - 15.32

इज्याध्ययनदानं तु द्विजातीनामिदं समम्।
नित्यं 10धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् ॥ 15.32 ॥

शुश्रूषा शूद्रस्य धर्मो वृत्त्यर्था च
विश्वास-प्रस्तुतिः - 15.33

शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च।
श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते ॥ 15.33 ॥

मूलम् - 15.33

शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च।
श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते ॥ 15.33 ॥

चतुर्णां सामान्यधर्माः
विश्वास-प्रस्तुतिः - 15.34

अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया।
चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते ॥ 15.34 ॥

मूलम् - 15.34

अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया।
चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते ॥ 15.34 ॥

ब्राह्मणोत्तमक्षत्रिययोस्चातुराश्रम्यम् [^13]ब्रह्मणश्चातुराश्रम्यं क्षत्रस्य तु कथंचन। क्षत्रियवैश्ययोराद्यमाश्रमत्रयम् [^14]त्रयं चाद्यं क्षत्रविशोर्नियतं धर्मलक्षणम् ॥ 15.35 ॥
विश्वास-प्रस्तुतिः - 15.40

तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः।
कर्मशेषण चाचार्यादिच्छन् स्वाध्यायमत्वरः ॥ 15.40 ॥

मूलम् - 15.40

तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः।
कर्मशेषण चाचार्यादिच्छन् स्वाध्यायमत्वरः ॥ 15.40 ॥

विश्वास-प्रस्तुतिः - 15.41

उपासीत बहिः संध्ये 11नित्यस्नाय्यनसूयकः।
कुर्वन्निन्द्रियसंरोधं12 भूतानामनुकम्पकः ॥ 15.41 ॥

मूलम् - 15.41

उपासीत बहिः संध्ये 11नित्यस्नाय्यनसूयकः।
कुर्वन्निन्द्रियसंरोधं12 भूतानामनुकम्पकः ॥ 15.41 ॥

विश्वास-प्रस्तुतिः - 15.42

वह्निं समिद्भिरिन्धान उभे संध्ये समाहितः।
धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् ॥ 15.42 ॥

मूलम् - 15.42

वह्निं समिद्भिरिन्धान उभे संध्ये समाहितः।
धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् ॥ 15.42 ॥

उपकुर्वाणको नाम स्वाध्याये सिध्यति द्विजः। समाप्तब्रह्मचर्यस्येच्छया आश्रमान्तरप्राप्तिः वेदस्नायी व्रतस्नायी गुरवे दक्षिणां ददत् ॥ 15.43 ॥ प्राप्यानुज्ञां गुरोरिच्छेच्चतुर्णामेकमाश्रमम्। नैष्ठिकब्रह्मचारिधर्माः यदीच्छेद् ब्रह्मचर्यं स ब्रह्मचारी स्वमाश्रमम् ॥ 15.44 ॥
विश्वास-प्रस्तुतिः - 15.45

आचार्यमेव सेवेत युक्त आ देहपातनात्।
जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् ॥ 15.45 ॥

मूलम् - 15.45

आचार्यमेव सेवेत युक्त आ देहपातनात्।
जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् ॥ 15.45 ॥

अन्यथा पुण्यलोपः स्यादिति वेदानुशासनम्। गृहस्थधर्माः अथ चेद्रोचयेत् कर्तुं गार्हस्थ्यं धर्ममुत्तमम् ॥ 15.46 ॥
विश्वास-प्रस्तुतिः - 15.47

लब्धानुज्ञो गुरोः स्नात्वा संप्राप्य विधिवत् स्त्रियम्।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ॥ 15.47 ॥

मूलम् - 15.47

लब्धानुज्ञो गुरोः स्नात्वा संप्राप्य विधिवत् स्त्रियम्।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ॥ 15.47 ॥

श्राद्धकृत् सत्यवादी च नित्यं चैवातिथिप्रियः।

संकोचिनीं 13चरन् वृत्तिमनसूयुरलोलुपः ॥ 15.48 ॥
स्नातकव्रतशाली च पञ्चयज्ञपरायणः।

गृहस्थस्यापि पाञ्चरात्रधर्मावश्यकता
14पञ्चकालरतो नित्यं दयाक्षान्तिधृतिस्थितिः15 ॥ 15.49 ॥

विश्वास-प्रस्तुतिः - 15.50

अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः।
अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः ॥ 15.50 ॥

मूलम् - 15.50

अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः।
अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः ॥ 15.50 ॥

मनसा कर्मणा वापि यज्ञान् सर्वान् समाचरेत्।

निष्कामकर्मिणो गृहस्थस्यापि मोक्षप्राप्तिः
अकामहतया बुद्ध्या त्यक्ताहंकारलोभया ॥ 15.51 ॥

विश्वास-प्रस्तुतिः - 15.52

सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसंभवम्16
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ॥ 15.52 ॥

मूलम् - 15.52

सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसंभवम्16
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ॥ 15.52 ॥

विश्वास-प्रस्तुतिः - 15.53

ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम्।
प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् ॥ 15.53 ॥

मूलम् - 15.53

ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम्।
प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् ॥ 15.53 ॥

सकामस्य गृहस्थस्य ब्रह्मलोकप्राप्तिः
केवलो 17धर्मनित्योऽसौ ब्रह्मलोके महीयते।
वानप्रस्थधर्माः
गार्हस्थ्यादथवा 18पूर्वं वानप्रस्थयं श्रयेत् पदम् ॥ 15.54 ॥

विश्वास-प्रस्तुतिः - 15.55

गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः।
अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् ॥ 15.55 ॥

मूलम् - 15.55

गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः।
अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् ॥ 15.55 ॥

विश्वास-प्रस्तुतिः - 15.56

ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान्।
बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः ॥ 15.56 ॥

मूलम् - 15.56

ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान्।
बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः ॥ 15.56 ॥

वत्सरे वत्सरे त्रीणि तपांसि विधिवच्चरेत्[^28]। वानप्रस्थस्यापि निष्कामकर्मिणो मोक्षप्राप्तिः कुर्वन् वनस्थः शास्त्रार्थानकामहतया धिया ॥ 15.57 ॥
विश्वास-प्रस्तुतिः - 15.58

सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः।
वृत्तिसंकोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः ॥ 15.58 ॥

मूलम् - 15.58

सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः।
वृत्तिसंकोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः ॥ 15.58 ॥

संप्राप्य तत्त्वविज्ञानं वैष्णवं श्रयते पदम्। सकामस्य तस्य ब्रह्मलोकप्राप्तिः केवलो [^29]धर्मनित्यश्च महाप्रस्थानमाचरन्[^30] ॥ 15.59 ॥ वीतशोकभयो वन्यो ब्रह्मलोके महीयते। संन्यासिधर्माः काषायवसनं प्राप्य द्वाभ्यामादित एव [^31]वा ॥ 15.60 ॥
विश्वास-प्रस्तुतिः - 15.61

द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत्19
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥ 15.61 ॥

मूलम् - 15.61

द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत्19
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥ 15.61 ॥

विश्वास-प्रस्तुतिः - 15.62

लब्धानुज्ञो गुरोर्वाय 20कर्मश्रान्तो महाव्रती।
समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत्21 ॥ 15.62 ॥

मूलम् - 15.62

लब्धानुज्ञो गुरोर्वाय 20कर्मश्रान्तो महाव्रती।
समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत्21 ॥ 15.62 ॥

विश्वास-प्रस्तुतिः - 15.63

विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च।
उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः ॥ 15.63 ॥

मूलम् - 15.63

विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च।
उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः ॥ 15.63 ॥

विश्वास-प्रस्तुतिः - 15.64

अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना।
प्रसंख्यानपरो नित्यं वेदान्तज्ञानतत्परः ॥ 15.64 ॥

मूलम् - 15.64

अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना।
प्रसंख्यानपरो नित्यं वेदान्तज्ञानतत्परः ॥ 15.64 ॥

विश्वास-प्रस्तुतिः - 15.65

समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥ 15.65 ॥

मूलम् - 15.65

समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥ 15.65 ॥

विश्वास-प्रस्तुतिः - 15.66

विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन्।
वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः ॥ 15.66 ॥

मूलम् - 15.66

विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन्।
वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः ॥ 15.66 ॥

विश्वास-प्रस्तुतिः - 15.67

वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा।
गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः ॥ 15.67 ॥

मूलम् - 15.67

वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा।
गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः ॥ 15.67 ॥

विश्वास-प्रस्तुतिः - 15.68

धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः।
धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया ॥ 15.68 ॥

मूलम् - 15.68

धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः।
धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया ॥ 15.68 ॥

विश्वास-प्रस्तुतिः - 15.69

दत्तसर्वाभयो योगी 22सर्वैर्दत्ताभयस्तथा।
स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत्23॥ 15.69 ॥

मूलम् - 15.69

दत्तसर्वाभयो योगी 22सर्वैर्दत्ताभयस्तथा।
स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत्23॥ 15.69 ॥

विश्वास-प्रस्तुतिः - 15.70

अब्रुवन् केनचित् किंचित् प्राप्ते कालेऽप्यविब्रुवन्।
समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा ॥ 15.70 ॥

मूलम् - 15.70

अब्रुवन् केनचित् किंचित् प्राप्ते कालेऽप्यविब्रुवन्।
समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा ॥ 15.70 ॥

आत्मज्योतिरात्मरतिः प्रसीदन्नात्मनि स्वयम्।
विश्वास-प्रस्तुतिः - 15.73

कैश्चित् कः स्विदिति प्रोक्तः 24कैश्चिद् घोर इतीरितः।
उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा ॥ 15.73 ॥

मूलम् - 15.73

कैश्चित् कः स्विदिति प्रोक्तः 24कैश्चिद् घोर इतीरितः।
उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा ॥ 15.73 ॥

विश्वास-प्रस्तुतिः - 15.74

विवेकबोधसंतोषैर्नित्यं परिजनैर्वृतः।
भैक्षाशी तुष्टिसंपूर्णो 25धर्मैरीदृग्गुणैर्युतः ॥ 15.74 ॥

मूलम् - 15.74

विवेकबोधसंतोषैर्नित्यं परिजनैर्वृतः।
भैक्षाशी तुष्टिसंपूर्णो 25धर्मैरीदृग्गुणैर्युतः ॥ 15.74 ॥

संन्यासिनः परमपुरुषोपासनान्मोक्षप्राप्तिः
विश्वास-प्रस्तुतिः - 15.75

प्रदीप इव शान्तार्चिः परिव्राड् 26ध्यानमास्थितः।
देहसंस्कारनाशेन27 वैष्णवं श्रयते पदम् ॥ 15.75 ॥

मूलम् - 15.75

प्रदीप इव शान्तार्चिः परिव्राड् 26ध्यानमास्थितः।
देहसंस्कारनाशेन27 वैष्णवं श्रयते पदम् ॥ 15.75 ॥

अध्यायार्थनिगमनम् इति वर्णाश्रमा ये[^42] ते तुल्यवैशेषिकैर्युताः। [^43]धर्मास्ते लेशतः प्रोक्ताः किं भूयः श्रोतुमिच्छसि ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः
आदितः श्लोकाः 900


  1. D Omits two lines from here ↩︎

  2. ज्ञानमद्भुतम् E F J ↩︎ ↩︎

  3. रीतिर्लेशतस्ते महामुने A. ↩︎

  4. पूर्वमप्रजास्ते D ↩︎

  5. त्रयोऽपि यज्ञदीक्षायाम् D ↩︎

  6. ब्राह्मणः सवनस्थास्ते सवनान्ते यथा यथा D ↩︎

  7. वसेत् A B C E F J ↩︎

  8. तत्कर्मकारी D ↩︎

  9. कैश्चिन्मूढः D ↩︎

  10. धर्मार्थ एवैतत् A B C E F ↩︎ ↩︎

  11. नित्यं स्यादनसूयकः A B C E F J ↩︎ ↩︎

  12. संकोचम् A B C E F J ↩︎ ↩︎

  13. त्वरन् A B C E F ↩︎

  14. जपयज्ञरतो D ↩︎

  15. स्थितः B ↩︎

  16. इत्थमेव सर्वेषु कोशेषु पाठः ↩︎ ↩︎

  17. ब्रह्मनित्यः A B C E F J ↩︎

  18. पूर्वाद्वानप्रस्थम् B C E F; पूर्णाद्वानप्रश्थम् A ↩︎

  19. चरन् D ↩︎ ↩︎

  20. कर्मशान्तः A B C; कर्माश्रान्तः E ↩︎ ↩︎

  21. आवसन् A B C E F J ↩︎ ↩︎

  22. सर्वैर्मुक्ताभयः D ↩︎ ↩︎

  23. आत्मनः D
    प्रज्ञाप्रासादमारूढो विमुक्तः सर्वतो जनैः ॥ 15.71 ॥
    भूमिष्ठानिव शैलस्थः पश्यन् सर्वानवस्थितान्।
    9कैश्चिन्मूक इति प्रोक्तः कैश्चिद्धीर इतीप्सितः ॥ 15.72 ॥ ↩︎ ↩︎

  24. चरन् D. ↩︎ ↩︎

  25. यमैः A B C E F J ↩︎ ↩︎

  26. ध्यानसंमतः D ↩︎ ↩︎

  27. नाशे सः B E F J ↩︎ ↩︎