जीवस्य संसारहेतुतदुद्धरणप्रकारवर्णनं नाम चतुर्दशोऽध्यायः
तत्रादौ मुक्तिविषयः पुनः प्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 14.1
अज्ञानतिमिरप्लोषिललाटनयनत्विषे।
नमस्ते त्रिपुराराते नमस्तेऽन्तकविद्विषे ॥ 14.1 ॥
मूलम् - 14.1
अज्ञानतिमिरप्लोषिललाटनयनत्विषे।
नमस्ते त्रिपुराराते नमस्तेऽन्तकविद्विषे ॥ 14.1 ॥
विश्वास-प्रस्तुतिः - 14.2
पुरुषार्थाः श्रुताः सर्वे मुख्यगौणविकल्पिताः1।
पुरुषार्थः श्रुतो मुख्यस्तत्र मुक्त्यभिसंज्ञितः॥ 14.2 ॥
मूलम् - 14.2
पुरुषार्थाः श्रुताः सर्वे मुख्यगौणविकल्पिताः1।
पुरुषार्थः श्रुतो मुख्यस्तत्र मुक्त्यभिसंज्ञितः॥ 14.2 ॥
विश्वास-प्रस्तुतिः - 14.3
भगवत्तामयी प्रोक्ता 2मुक्तिश्च त्रिपुरद्विषा।
तस्याश्च साधनं साक्षात् तत्त्वज्ञानं द्विधा स्थितम्॥ 14.3 ॥
मूलम् - 14.3
भगवत्तामयी प्रोक्ता 2मुक्तिश्च त्रिपुरद्विषा।
तस्याश्च साधनं साक्षात् तत्त्वज्ञानं द्विधा स्थितम्॥ 14.3 ॥
विश्वास-प्रस्तुतिः - 14.4
सादनं तस्य च प्रोक्तो धर्मो निरभिसंधिकः।
भूयो विस्तरतः शंस मुक्तिं तां चन्द्रशेखर ॥ 14.4 ॥
मूलम् - 14.4
सादनं तस्य च प्रोक्तो धर्मो निरभिसंधिकः।
भूयो विस्तरतः शंस मुक्तिं तां चन्द्रशेखर ॥ 14.4 ॥
जीवस्वरूपसंक्षेपः
अहिर्बुध्न्यः–
विश्वास-प्रस्तुतिः - 14.6
अनादिरपरिच्छेद्यश्चिदानन्दमयः पुमान्।
भगवन्मय एवायं भगवद्भावितः सदा ॥ 14.6 ॥
मूलम् - 14.6
अनादिरपरिच्छेद्यश्चिदानन्दमयः पुमान्।
भगवन्मय एवायं भगवद्भावितः सदा ॥ 14.6 ॥
विश्वास-प्रस्तुतिः - 14.7
या सा शक्तिर्महासत्ता विष्णोस्तद्धर्मधर्मिणी।
तस्याः कोट्यर्बुदांशेन शक्ती द्वे कथिते तव ॥ 14.7 ॥
मूलम् - 14.7
या सा शक्तिर्महासत्ता विष्णोस्तद्धर्मधर्मिणी।
तस्याः कोट्यर्बुदांशेन शक्ती द्वे कथिते तव ॥ 14.7 ॥
विश्वास-प्रस्तुतिः - 14.8
भूतिश्चेति क्रिया चेति भाव्यभावकसंज्ञिते।
भूतिः सा क्रियाया ज्वाला मरुतेव 8प्रणर्त्यते ॥ 14.8 ॥
मूलम् - 14.8
भूतिश्चेति क्रिया चेति भाव्यभावकसंज्ञिते।
भूतिः सा क्रियाया ज्वाला मरुतेव 8प्रणर्त्यते ॥ 14.8 ॥
विश्वास-प्रस्तुतिः - 14.9
नानाभेदवती भूतेर्विभूतिः कथिता पुरा।
शुद्ध्यशुद्धिवशाद् द्वेधा शुद्धा सा बहुधोदिता ॥ 14.9 ॥
मूलम् - 14.9
नानाभेदवती भूतेर्विभूतिः कथिता पुरा।
शुद्ध्यशुद्धिवशाद् द्वेधा शुद्धा सा बहुधोदिता ॥ 14.9 ॥
विश्वास-प्रस्तुतिः - 14.12
कालशक्तिविकारस्थः कथं संसरति ध्रुवम्।
कथं वोपायमासाद्य पुमान् 9स्वेनाभिजायते ॥ 14.12 ॥
मूलम् - 14.12
कालशक्तिविकारस्थः कथं संसरति ध्रुवम्।
कथं वोपायमासाद्य पुमान् 9स्वेनाभिजायते ॥ 14.12 ॥
विश्वास-प्रस्तुतिः - 14.13
सर्वैरननुयोज्यं तत् स्वातन्त्र्यं दिव्यमीशितुः।
अवाप्तविश्वकामोऽपि क्रीडते राजवद्वशी ॥ 14.13 ॥
मूलम् - 14.13
सर्वैरननुयोज्यं तत् स्वातन्त्र्यं दिव्यमीशितुः।
अवाप्तविश्वकामोऽपि क्रीडते राजवद्वशी ॥ 14.13 ॥
विश्वास-प्रस्तुतिः - 14.14
संकल्पो नाम यस्तस्य सुदर्शनसमाह्वयः।
सत्यप्यनन्तरूपत्वे पञ्चधा स10 विजृम्भते ॥ 14.14 ॥
मूलम् - 14.14
संकल्पो नाम यस्तस्य सुदर्शनसमाह्वयः।
सत्यप्यनन्तरूपत्वे पञ्चधा स10 विजृम्भते ॥ 14.14 ॥
विश्वास-प्रस्तुतिः - 14.16
पुमांसं जीवसंज्ञं सा तिरोभावयति स्वयम्।
आकारैश्वर्यविज्ञानतिरोभावनकर्मणा ॥ 14.16 ॥
मूलम् - 14.16
पुमांसं जीवसंज्ञं सा तिरोभावयति स्वयम्।
आकारैश्वर्यविज्ञानतिरोभावनकर्मणा ॥ 14.16 ॥
विश्वास-प्रस्तुतिः - 14.17
मायाविद्या महामोहो महातामिस्रमित्यपि।
तमो बन्धोऽथ हृद्ग्रन्थिरिति पर्यायवाचकाः ॥ 14.17 ॥
मूलम् - 14.17
मायाविद्या महामोहो महातामिस्रमित्यपि।
तमो बन्धोऽथ हृद्ग्रन्थिरिति पर्यायवाचकाः ॥ 14.17 ॥
विश्वास-प्रस्तुतिः - 14.21
तिरोभावनशक्त्यैवं वैष्णव्या बन्धमेयुषः।
अविद्यास्मित्वरागाद्या मलं समुपचिन्वते ॥ 14.21 ॥
मूलम् - 14.21
तिरोभावनशक्त्यैवं वैष्णव्या बन्धमेयुषः।
अविद्यास्मित्वरागाद्या मलं समुपचिन्वते ॥ 14.21 ॥
विश्वास-प्रस्तुतिः - 14.22
क्लिश्यद्भिः क्लेशितः11 क्लेशैरविद्यादिभिरीदृशैः।
नुन्नः प्रेप्साजिहासाभ्यामागमाननुसंपतन् ॥ 14.22 ॥
मूलम् - 14.22
क्लिश्यद्भिः क्लेशितः11 क्लेशैरविद्यादिभिरीदृशैः।
नुन्नः प्रेप्साजिहासाभ्यामागमाननुसंपतन् ॥ 14.22 ॥
विश्वास-प्रस्तुतिः - 14.24
ततः कर्मविपाकस्थः शुभाशुभविमिश्रितान्।
जात्यायुरनुबन्धान्12 स प्राप्नोति विधिचोदितः ॥ 14.24 ॥
मूलम् - 14.24
ततः कर्मविपाकस्थः शुभाशुभविमिश्रितान्।
जात्यायुरनुबन्धान्12 स प्राप्नोति विधिचोदितः ॥ 14.24 ॥
विश्वास-प्रस्तुतिः - 14.25
सुखादिवासनास्तास्ताः संचिनोति शनैः शनैः।
एषा निग्रहशक्तेस्तु 13तिरोधानपरंपरा ॥ 14.25 ॥
मूलम् - 14.25
सुखादिवासनास्तास्ताः संचिनोति शनैः शनैः।
एषा निग्रहशक्तेस्तु 13तिरोधानपरंपरा ॥ 14.25 ॥
विश्वास-प्रस्तुतिः - 14.26
अंशो यौ कालशक्त्याख्यौ भूतेः समनुवर्तिनौ14।
ताभ्यां पुंसस्तिरोभावं तनुते निग्रहात्मिका ॥ 14.26 ॥
मूलम् - 14.26
अंशो यौ कालशक्त्याख्यौ भूतेः समनुवर्तिनौ14।
ताभ्यां पुंसस्तिरोभावं तनुते निग्रहात्मिका ॥ 14.26 ॥
विश्वास-प्रस्तुतिः - 14.30
अनुग्रहात्मिका शक्तिः सा कृपा वैष्णवी परा।
शक्तिपातः स वै विष्णोरागमस्थैर्निगद्यते ॥ 14.30 ॥
मूलम् - 14.30
अनुग्रहात्मिका शक्तिः सा कृपा वैष्णवी परा।
शक्तिपातः स वै विष्णोरागमस्थैर्निगद्यते ॥ 14.30 ॥
कृपाविषयस्य जीवस्य कर्मसाम्यप्राप्तिः
विश्वास-प्रस्तुतिः - 14.31
अनुग्रहात्मना शक्त्या सुदर्शनमयात्मना।
स्वीकृतो हि यदा विष्णोः करुणावर्षरूपया ॥ 14.31 ॥
मूलम् - 14.31
अनुग्रहात्मना शक्त्या सुदर्शनमयात्मना।
स्वीकृतो हि यदा विष्णोः करुणावर्षरूपया ॥ 14.31 ॥
विश्वास-प्रस्तुतिः - 14.32
समीक्षितस्तदा सोऽयं करुणावर्षरूपया।
कर्मसाम्यं भजत्येव जीवो विष्णुसमीक्षितः ॥ 14.32 ॥
मूलम् - 14.32
समीक्षितस्तदा सोऽयं करुणावर्षरूपया।
कर्मसाम्यं भजत्येव जीवो विष्णुसमीक्षितः ॥ 14.32 ॥
विश्वास-प्रस्तुतिः - 14.34
यथा हि मोषकाः पान्थे परिबर्हमुपेयुषि।
निवृत्तमोषणोद्योगाः 15समाः सन्त उदासते ॥ 14.34 ॥
मूलम् - 14.34
यथा हि मोषकाः पान्थे परिबर्हमुपेयुषि।
निवृत्तमोषणोद्योगाः 15समाः सन्त उदासते ॥ 14.34 ॥
विश्वास-प्रस्तुतिः - 14.35
अनुग्रहात्मिकायास्तु शक्तेः पातक्षणे तता।
उदासाते समीभूय कर्मणी ते शुभाशुभे ॥ 14.35 ॥
मूलम् - 14.35
अनुग्रहात्मिकायास्तु शक्तेः पातक्षणे तता।
उदासाते समीभूय कर्मणी ते शुभाशुभे ॥ 14.35 ॥
विश्वास-प्रस्तुतिः - 14.36
तत्पातानन्तरं जन्तुर्युक्तो मोक्षसमीक्षया।
प्रवर्तमानवैराग्यो 16विवेकेऽभिनिवेशवान् ॥ 14.36 ॥
मूलम् - 14.36
तत्पातानन्तरं जन्तुर्युक्तो मोक्षसमीक्षया।
प्रवर्तमानवैराग्यो 16विवेकेऽभिनिवेशवान् ॥ 14.36 ॥
विश्वास-प्रस्तुतिः - 14.40
संहतैर्विगृहीतैश्च मार्गैरेभिः सुनिश्चयैः।
क्लेशेन महता स्थानं वैष्णवं प्रतिपद्यते ॥ 14.40 ॥
मूलम् - 14.40
संहतैर्विगृहीतैश्च मार्गैरेभिः सुनिश्चयैः।
क्लेशेन महता स्थानं वैष्णवं प्रतिपद्यते ॥ 14.40 ॥
विश्वास-प्रस्तुतिः - 14.41
संप्राप्य ज्ञानभूयस्त्वं निर्मलीकृतचेतनः।
अनाविलमसंक्लेशं वैष्णवं तद्विशेत् पदम् ॥ 14.41 ॥
मूलम् - 14.41