१३

प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः
प्रमाणार्थविषयकः प्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 13.1

नमस्ते देवदेवेश नमस्ते मरुतां पते1
भवानीपतये तुभ्यं नमस्ते वृषकेतन ॥ 13.1 ॥

मूलम् - 13.1

नमस्ते देवदेवेश नमस्ते मरुतां पते1
भवानीपतये तुभ्यं नमस्ते वृषकेतन ॥ 13.1 ॥

विश्वास-प्रस्तुतिः - 13.2

त्वद्वक्त्रकमलोद्भूता अर्था अवधृता मया।
यत् कारणं च जगतामाधारो जगतां च यः ॥ 13.2 ॥

मूलम् - 13.2

त्वद्वक्त्रकमलोद्भूता अर्था अवधृता मया।
यत् कारणं च जगतामाधारो जगतां च यः ॥ 13.2 ॥

विश्वास-प्रस्तुतिः - 13.3

जगतां यत् प्रमाणं च त्रयं तदवधारितम्।
प्रमाणार्थमिदानीं मे वक्तुमर्हसि शंकर ॥ 13.3 ॥

मूलम् - 13.3

जगतां यत् प्रमाणं च त्रयं तदवधारितम्।
प्रमाणार्थमिदानीं मे वक्तुमर्हसि शंकर ॥ 13.3 ॥

यश्च यादृक् च यावांश्च प्रमाणास्यार्थ इष्यते।

तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः—
श्रृणु नारद तत्त्वेन प्रमाणस्यार्थमुत्तमम्2 ॥ 13.4 ॥
विष्णुसंकल्पमूलो यो 3बहुधा प्रविजृम्भते।
प्रमाणशब्दनिर्वचनम्
मितिर्मा गदिता सद्धिः प्रकृष्टा मा प्रमा स्मृता॥

विश्वास-प्रस्तुतिः - 13.6

प्रकर्षश्च मितेः सोऽयं 4यद्यथार्थावधारणम्।
धीसाधकतमं यत् तत् प्रमाणमिति शब्द्यते ॥ 13.6 ॥

मूलम् - 13.6

प्रकर्षश्च मितेः सोऽयं 4यद्यथार्थावधारणम्।
धीसाधकतमं यत् तत् प्रमाणमिति शब्द्यते ॥ 13.6 ॥

प्रमाणार्थस्वरूपम्
विश्वास-प्रस्तुतिः - 13.7

प्रमाणेनार्थ्यते यद्धि स प्रमाणार्थ उच्यते।
यत् पुंसो हितमत्यन्तं सर्वदेशेषु सर्वदा ॥ 13.7 ॥

मूलम् - 13.7

प्रमाणेनार्थ्यते यद्धि स प्रमाणार्थ उच्यते।
यत् पुंसो हितमत्यन्तं सर्वदेशेषु सर्वदा ॥ 13.7 ॥

स प्रमाणार्थ इष्टोऽत्र स द्वेधा व्यवतिष्ठते। तस्य द्वैविध्यम् हितं च साधनं चेति तयोस्तत्त्वमिदं श्रृणु ॥ 13.8 ॥ हितस्वरूपम्
विश्वास-प्रस्तुतिः - 13.9

आत्यन्तिकी निवृत्तिस्तु पुंसो या दुःखसंततेः।
तयोपलक्षितं नित्यं सुखं यत् तद्धितं स्मृतम् ॥ 13.9 ॥

मूलम् - 13.9

आत्यन्तिकी निवृत्तिस्तु पुंसो या दुःखसंततेः।
तयोपलक्षितं नित्यं सुखं यत् तद्धितं स्मृतम् ॥ 13.9 ॥

साधनस्वरूपम्
विश्वास-प्रस्तुतिः - 13.10

तस्य योऽव्यभिचारेण साधनत्वं प्रपद्यते।
हितसाधनमित्युक्तः सोऽर्थो वेदान्तपारगैः ॥ 13.10 ॥

मूलम् - 13.10

तस्य योऽव्यभिचारेण साधनत्वं प्रपद्यते।
हितसाधनमित्युक्तः सोऽर्थो वेदान्तपारगैः ॥ 13.10 ॥

हितस्वरूपयाथात्म्यम्
विश्वास-प्रस्तुतिः - 13.11

स्वरूपभूतं यत् पुंसो हितं सुखमुदीरितम्।
भगवन्मयता सास्य भगवत्तापराह्वया ॥ 13.11 ॥

मूलम् - 13.11

स्वरूपभूतं यत् पुंसो हितं सुखमुदीरितम्।
भगवन्मयता सास्य भगवत्तापराह्वया ॥ 13.11 ॥

विश्वास-प्रस्तुतिः - 13.12

अत्यन्तसाधनं तस्य यत् तद् द्वेधा व्यवस्थितम्।
विधा ज्ञानमिति त्वेका 5धर्म इत्यपरा विधा ॥ 13.12 ॥

मूलम् - 13.12

अत्यन्तसाधनं तस्य यत् तद् द्वेधा व्यवस्थितम्।
विधा ज्ञानमिति त्वेका 5धर्म इत्यपरा विधा ॥ 13.12 ॥

तयोर्हेतुहेतुमद्भावः [^6]हेतुमद्धेतुभावस्तु विधयोरनयोः स्मृतः। ज्ञानद्वैविध्यम् ज्ञानं तु हेतुमत् तत्र तच्च द्वेधा व्यवस्थितम् ॥ 13.13 ॥ साक्षात्कारमयं [^7]चैकं परोक्षं परमीर्यते। तयोरपि हेतुहेतुमद्भावः हेतुमद्धेतुभावोऽयं द्वयोरपि निरूप्यते ॥ 13.14 ॥ हेतुमत्त्वपरोक्षं यत् परोक्षं हेतुरुच्यते। कर्मणां ज्ञानहेतुत्वम् अनयोर्ज्ञानयोर्धर्मः स हेतुरिति गीयते ॥ 13.15 ॥ साक्षात् परोक्षे तत्साध्ये हेतुस्तन्मुखतो ह्यसौ। कर्मणा द्वैराश्यम् अस्यापि द्वे विधे [^8]दृष्टे तत्त्वशास्त्राब्धिपारगैः ॥ 13.16 ॥

साक्षादाराधनात्मैकः परस्तु व्यवधानतः।
व्यवहितकर्मस्वरूपम्
6अपारं तत् परं ब्रह्म शक्तिमत् परमेश्वरः ॥ 13.17 ॥

विश्वास-प्रस्तुतिः - 13.18

नारायणसमाख्यातं नित्यं षाड्गुण्यमव्ययम्।
विभूतयस्तु तस्येमे ब्रह्माद्याः स्थावरान्तिमाः ॥ 13.18 ॥

मूलम् - 13.18

नारायणसमाख्यातं नित्यं षाड्गुण्यमव्ययम्।
विभूतयस्तु तस्येमे ब्रह्माद्याः स्थावरान्तिमाः ॥ 13.18 ॥

[^10]भावनात्रयसंमिश्रास्तत्सुदर्शनजृम्भिताः । या सा भूतिः पुरा शक्तेः कोट्यंशेनोदिता मया॥ 13.19 ॥
विश्वास-प्रस्तुतिः - 13.20

तदंशलेशाद् ब्रह्माद्या विष्णुसंकल्पजृम्भिताः।
एतद्विभूतिमुखतो यो ह्यकामहतैर्नरैः ॥ 13.20 ॥

मूलम् - 13.20

तदंशलेशाद् ब्रह्माद्या विष्णुसंकल्पजृम्भिताः।
एतद्विभूतिमुखतो यो ह्यकामहतैर्नरैः ॥ 13.20 ॥

ब्रह्मार्णणेन क्रियते स धर्मो व्यवधानवान्। अव्यवहितधर्मस्वरूपम् विभूतिमत् परं ब्रह्म तदेवाव्यवधानतः ॥ 13.21 । येन प्रीणयते योगी स साक्षाद्धर्म इष्यते। पाञ्चरात्रस्याव्यवहितधर्मपरत्वम् सात्त्वतं शासनं सर्वं तस्यैतस्यावबोधकम् ॥ 13.22 ॥ शशिरस्कस्य वेदस्य व्यवहितधर्मपरत्वम्
विश्वास-प्रस्तुतिः - 13.23

यस्तु पूर्वस्त्रयीभागः परभागार्थतां गतः।
अपरस्य स धर्मस्य निष्कामानां निरूपकः ॥ 13.23 ॥

मूलम् - 13.23

यस्तु पूर्वस्त्रयीभागः परभागार्थतां गतः।
अपरस्य स धर्मस्य निष्कामानां निरूपकः ॥ 13.23 ॥

विश्वास-प्रस्तुतिः - 13.24

धर्म एकविभूतिस्थो मया पाशुपते स्मृतः।
उग्रव्रतैर्नरैः शश्वद् ब्रह्मप्रीत्यै स साध्यते ॥ 13.24 ॥

मूलम् - 13.24

धर्म एकविभूतिस्थो मया पाशुपते स्मृतः।
उग्रव्रतैर्नरैः शश्वद् ब्रह्मप्रीत्यै स साध्यते ॥ 13.24 ॥

सांख्यस्य परोक्षज्ञानफलकत्वम्
विश्वास-प्रस्तुतिः - 13.25

साक्षाच्च व्यवधानाच्च यत् तन्मोक्षस्य साधनम्।
परोक्षं तत् प्रसंख्यानं ज्ञानं सांख्येन चिन्त्यते ॥ 13.25 ॥

मूलम् - 13.25

साक्षाच्च व्यवधानाच्च यत् तन्मोक्षस्य साधनम्।
परोक्षं तत् प्रसंख्यानं ज्ञानं सांख्येन चिन्त्यते ॥ 13.25 ॥

वेदान्तानामपरोक्षज्ञानफलकत्वम् [^11]अन्तरङ्गसमाद्यङ्गभक्तिश्रद्धापुरः सरम्। त्रय्यन्तैर्ब्रह्मविज्ञानमपरोक्षं विभाव्यते[^12] ॥ 13.26 ॥ योगस्यापरोक्षज्ञानाङ्गयमादिपरत्वम्
विश्वास-प्रस्तुतिः - 13.27

बहिरङ्गान्तरङ्गाख्ययमाद्यङ्गकलापवान्।
चित्तवृत्तिनिरोधात्मा योगो योगानुसासने ॥ 13.27 ॥

मूलम् - 13.27

बहिरङ्गान्तरङ्गाख्ययमाद्यङ्गकलापवान्।
चित्तवृत्तिनिरोधात्मा योगो योगानुसासने ॥ 13.27 ॥

विश्वास-प्रस्तुतिः - 13.28

शश्वदभ्यासवैराग्यपरेशप्रणिधानतः।
साक्षात्कारावभासांख्यसिद्धशुद्धापवर्गदः ॥ 13.28 ॥

मूलम् - 13.28

शश्वदभ्यासवैराग्यपरेशप्रणिधानतः।
साक्षात्कारावभासांख्यसिद्धशुद्धापवर्गदः ॥ 13.28 ॥

गुणप्रधानभावेन सर्वत्र सर्वोपदेशः
विश्वास-प्रस्तुतिः - 13.29

यथोक्ततत्त्वविज्ञानं नानाहेतुविधान्वितम्।
धर्मो बहुविधश्चेति 7सर्वं सर्वैर्निरूप्यते ॥ 13.29 ॥

मूलम् - 13.29

यथोक्ततत्त्वविज्ञानं नानाहेतुविधान्वितम्।
धर्मो बहुविधश्चेति 7सर्वं सर्वैर्निरूप्यते ॥ 13.29 ॥

शास्त्रेषु विविधफलान्तरसाधनान्तरोपदेशस्याभिप्रायकथनम्
हितप्रवृत्तेर्लोकानां तनूकाराय पाप्मनाम्।
8रागद्वेषप्रयुक्तानामायुर्वेदोपदेशवत् ॥ 13.30 ॥

विश्वास-प्रस्तुतिः - 13.31

नानारूपफलावाप्त्यै नानानियमभेदिताः।
शास्त्रैर्धर्मा विधीयन्ते नानारूपा धियस्तथा ॥ 13.31 ॥

मूलम् - 13.31

नानारूपफलावाप्त्यै नानानियमभेदिताः।
शास्त्रैर्धर्मा विधीयन्ते नानारूपा धियस्तथा ॥ 13.31 ॥

लौकिकपुरुषार्थद्वयोपक्षेपः

विश्वास-प्रस्तुतिः - 13.32

तदित्थं 9सविशेषं ते पुमर्थद्वयमीरितम्।
अथान्यल्लोकिकं10 शास्त्रैः पुमर्थद्वयमीरितम् ॥ 13.32 ॥

मूलम् - 13.32

तदित्थं 9सविशेषं ते पुमर्थद्वयमीरितम्।
अथान्यल्लोकिकं10 शास्त्रैः पुमर्थद्वयमीरितम् ॥ 13.32 ॥

[^17]अर्थकामौ तयोः कामः स्मृतो वैषयिकेरितः। अर्थो गोभूहिरम्यादिप्रेक्षोत्थानफलात्मकः ॥ 13.33 ॥ त्रिवर्गस्य मिथः साध्यसाधनभावविवेकः अर्थो धर्मस्य कामस्य तथार्थस्यापि साधनम्। [^18]धर्मो धर्मस्य कामस्य तथार्थस्यापि साधनम् ॥ 13.34 ॥
विश्वास-प्रस्तुतिः - 13.35

कामो धर्मस्य कामस्य तथार्थस्यापि साधनम्।
अर्थः कामश्च सर्वत्र व्यभिचारेण साधनम् ॥ 13.35 ॥

मूलम् - 13.35

कामो धर्मस्य कामस्य तथार्थस्यापि साधनम्।
अर्थः कामश्च सर्वत्र व्यभिचारेण साधनम् ॥ 13.35 ॥

विश्वास-प्रस्तुतिः - 13.36

धर्मः सर्वस्य साध्यस्य नियमेनैव साधनम्।
तदेतत् त्रितयं प्रोक्तं त्रिवर्ग इति पण्डितैः ॥ 13.36 ॥

मूलम् - 13.36

धर्मः सर्वस्य साध्यस्य नियमेनैव साधनम्।
तदेतत् त्रितयं प्रोक्तं त्रिवर्ग इति पण्डितैः ॥ 13.36 ॥

मोक्षस्य सर्वदा साध्यत्वमेव
मोक्षश्च साध्य एवेति पुरुषार्थचतुष्टयम्।
अर्थकामयोः प्रमाणनिरूपणम्
दण्‍डनीतिः सवार्ता सा सोपवेदचतुष्टया ॥ 13.37 ॥
प्रमाणत्वेन निर्दिष्टा पण्डितैरर्थकामयोः।
इतिहासादेस्तत्त्वज्ञानसहकारित्वम्
इतिहासपुराणाख्य उपवेदो हि यः स्मृतः ॥ 13.38 ॥

विश्वास-प्रस्तुतिः - 13.39

सहायभावं शास्त्राणां तत्त्वज्ञाने व्रजत्यसौ।
इति ते लेशतः प्रोक्ता पुरुषार्थचतुष्टयी ॥ 13.39 ॥

मूलम् - 13.39

सहायभावं शास्त्राणां तत्त्वज्ञाने व्रजत्यसौ।
इति ते लेशतः प्रोक्ता पुरुषार्थचतुष्टयी ॥ 13.39 ॥

धर्मादीनामन्तरङ्गसाधनानि
विश्वास-प्रस्तुतिः - 13.40

अन्तरङ्गममुष्यास्तु साधनं श्रृणु नारद।
निर्व्याजा निरुपस्कारा दया धर्मस्य साधनम्॥ 13.40 ॥

मूलम् - 13.40

अन्तरङ्गममुष्यास्तु साधनं श्रृणु नारद।
निर्व्याजा निरुपस्कारा दया धर्मस्य साधनम्॥ 13.40 ॥

विश्वास-प्रस्तुतिः - 13.41

हेतुरुत्थानमर्थस्य देशकालोपपादितम्।
हेतुः कामस्य संकल्पो निर्व्याजो निरुपस्कृतः ॥ 13.41 ॥

मूलम् - 13.41

हेतुरुत्थानमर्थस्य देशकालोपपादितम्।
हेतुः कामस्य संकल्पो निर्व्याजो निरुपस्कृतः ॥ 13.41 ॥

हेतुस्तु सर्वसंन्यासो मोक्षे ज्ञानपुरस्कृतः। तेषामेव बहिःसाधनानि न्याय्यं धर्मादि धर्मस्य बहिःसाधनमुच्यते ॥ 13.42 ॥ [^19]बहिः साधनमर्थस्य तन्त्रावापादिचिन्तनम्। कामे पाणिग्रहाद्युक्तं बहिरङ्गं विचक्षणैः ॥ 13.43 ॥
विश्वास-प्रस्तुतिः - 13.44

निष्कामधर्मकृत्यादि बहिर्मोक्षस्य साधनम्।
विजृम्भितमिदं भूतेः पुरुषार्थचतुष्टयम् ॥ 13.44 ॥

मूलम् - 13.44

निष्कामधर्मकृत्यादि बहिर्मोक्षस्य साधनम्।
विजृम्भितमिदं भूतेः पुरुषार्थचतुष्टयम् ॥ 13.44 ॥

संकल्पो वैष्णवस्तस्य विजृम्भाहेतुरुच्यते।

अध्यायार्थोपसंहारः

विश्वास-प्रस्तुतिः - 13.45

इति ते सकला प्रोक्ता प्रमाणार्थगतिः परा।
ससाधना सप्रकारा किं भूयः श्रोतुमिच्छसि ॥ 13.45 ॥

मूलम् - 13.45

इति ते सकला प्रोक्ता प्रमाणार्थगतिः परा।
ससाधना सप्रकारा किं भूयः श्रोतुमिच्छसि ॥ 13.45 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः
आदितः श्लोकाः 783


  1. पितः D ↩︎ ↩︎

  2. मुत्थितम् E F J; मर्थितम् A B C ↩︎

  3. बहु प्रेम्णि विजृम्भते A B C ↩︎

  4. यद्धितार्थावधारणम् All MSS
    साधद्वैविध्यम् ↩︎ ↩︎

  5. अपरा धर्म इत्यपि A B C E F J. ↩︎ ↩︎

  6. अन्तरङ्गं परं ब्रह्म D ↩︎

  7. सर्वैरत्र निरूप्यते A B C E F J ↩︎ ↩︎

  8. रागद्वेषप्रवृत्तानाम् D ↩︎

  9. मव्यशेषम् A B C F J;हव्यशेषम् E. ↩︎ ↩︎

  10. लौकिकैः A B C E ↩︎ ↩︎