१२

शब्दात्मकप्रमामव्यूहविशेषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः

वृत्तानुवादः

नारदः—

विश्वास-प्रस्तुतिः - 12.1

सुरासुरगणाराध्य1 नमस्ते पार्वतीप्रिय।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥ 12.1 ॥

मूलम् - 12.1

सुरासुरगणाराध्य1 नमस्ते पार्वतीप्रिय।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥ 12.1 ॥

विश्वास-प्रस्तुतिः - 12.2

यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥ 12.2 ॥

मूलम् - 12.2

यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥ 12.2 ॥

त्रय्यादिस्वरूपपन्नः

विश्वास-प्रस्तुतिः - 12.3

त्रयी सांख्यं तथा योगशास्त्रं पाशुपतं तथा।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥ 12.3 ॥

मूलम् - 12.3

त्रयी सांख्यं तथा योगशास्त्रं पाशुपतं तथा।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥ 12.3 ॥

तत्प्रतिवचनप्रतिज्ञा अहिर्बुध्न्यः---
विश्वास-प्रस्तुतिः - 12.4

श्रृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक्।
संकल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥ 12.4 ॥

मूलम् - 12.4

श्रृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक्।
संकल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥ 12.4 ॥

विश्वास-प्रस्तुतिः - 12.5

तत्र त्रयीमयं 4रूपमाद्यं सर्वार्थदर्शनम्।
ऋग्यजुः सामरूपत्वात् त्रयी सा परिकीर्तिता ॥ 12.5 ॥

मूलम् - 12.5

तत्र त्रयीमयं 4रूपमाद्यं सर्वार्थदर्शनम्।
ऋग्यजुः सामरूपत्वात् त्रयी सा परिकीर्तिता ॥ 12.5 ॥

विश्वास-प्रस्तुतिः - 12.6

कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता।
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ॥ 12.6 ॥

मूलम् - 12.6

कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता।
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ॥ 12.6 ॥

चातुर्होत्रप्रधानत्वादृगादित्रितयं त्रयी। अथर्वणां पृथक्करणे हेतुः अथर्वाङ्गिरसां रूपं सर्वमृग्यजुषात्मकम् ॥ 12.7 ॥ तथापि शान्त्याभिचारप्राधान्यात् ते पृथक् कृताः । ऋगादीनां शाखासंख्या एकविंशतिशाखावानृग्वेदः परिगीयते ॥ 12.8 ॥
विश्वास-प्रस्तुतिः - 12.9

शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम्।
साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् ॥ 12.9 ॥

मूलम् - 12.9

शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम्।
साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् ॥ 12.9 ॥

इयतामेव वेदानां प्रत्यक्षत्वम्
विश्वास-प्रस्तुतिः - 12.10

इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः।
स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् ॥ 12.10 ॥

मूलम् - 12.10

इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः।
स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् ॥ 12.10 ॥

एषां नैयमिका धर्माः स्वरूपाम्नायगोचराः। कल्पादीनि षडङ्गानि कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषां गतिः ॥ 12.11 ॥
विश्वास-प्रस्तुतिः - 12.13

धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा।
निबद्धा चानिबद्धा च संस्काराचारसंततिः ॥ 12.13 ॥

मूलम् - 12.13

धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा।
निबद्धा चानिबद्धा च संस्काराचारसंततिः ॥ 12.13 ॥

धर्मशास्त्रं महर्षीणामन्तः करणसंभृतम्। उपवेदादिकम् इतिहासपुरणाख्य उपवेदः प्रकीर्तितः ॥ 12.14 ॥ [^5]वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने। आयुर्वेदश्च पञ्चैत उपवेदाः प्रकीर्तिताः ॥ 12.15 ॥
विश्वास-प्रस्तुतिः - 12.16

दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम्।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥ 12.16 ॥

मूलम् - 12.16

दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम्।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥ 12.16 ॥

विश्वास-प्रस्तुतिः - 12.17

वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात्।
त्रयीरूपेण संकल्प इयद्भेदो विजृम्भितः ॥ 12.17 ॥

मूलम् - 12.17

वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात्।
त्रयीरूपेण संकल्प इयद्भेदो विजृम्भितः ॥ 12.17 ॥

सांख्यस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 12.18

सांख्यरूपेण संकल्पो वैष्णवः कपिलादृषेः।
उदीतो यादृशः पूर्वं तादृशं श्रुणु मेऽखिलम् ॥ 12.18 ॥

मूलम् - 12.18

सांख्यरूपेण संकल्पो वैष्णवः कपिलादृषेः।
उदीतो यादृशः पूर्वं तादृशं श्रुणु मेऽखिलम् ॥ 12.18 ॥

षष्टिभेदं स्मृतं तन्त्रं सांख्यं नाम महामुने।
विश्वास-प्रस्तुतिः - 12.20

प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥ 12.20 ॥

मूलम् - 12.20

प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥ 12.20 ॥

विश्वास-प्रस्तुतिः - 12.21

त्रीणि तन्त्राण्यथान्यानि 5त्रशक्तेर्नियतिकालयोः।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥ 12.21 ॥

मूलम् - 12.21

त्रीणि तन्त्राण्यथान्यानि 5त्रशक्तेर्नियतिकालयोः।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥ 12.21 ॥

प्राणतन्त्रमथान्यत्तु [^7]कर्तृतन्त्रमथेतरत्। [^8]सामितन्त्रमथान्यत्तु ज्ञानतन्क्षत्राणि पञ्च च ॥ 12.22 ॥
विश्वास-प्रस्तुतिः - 12.23

क्रियातन्त्राणि पञ्चाथ मात्रातन्त्राणि पञ्च च।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥ 12.23 ॥

मूलम् - 12.23

क्रियातन्त्राणि पञ्चाथ मात्रातन्त्राणि पञ्च च।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥ 12.23 ॥

प्राकृतं मण्डलं प्रोक्तं वैकृतं मण्डलं श्रृणु। वैकृतमण्डलवर्णनम् अष्टाविंशतिभेदं तन्मण्डलं वैकृतं स्मृतम् ॥ 12.24 ॥ कृत्यकाण्डानि पञ्चादौ भोगकाण्डं तथाऽपरम्। [^9]वृत्तकाण्डं तथैकं तु क्लेशकाण्डानि पञ्च च ॥ 12.25 ॥
विश्वास-प्रस्तुतिः - 12.26

त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम्।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥ 12.26 ॥

मूलम् - 12.26

त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम्।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥ 12.26 ॥

विश्वास-प्रस्तुतिः - 12.27

अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम्।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥ 12.27 ॥

मूलम् - 12.27

अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम्।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥ 12.27 ॥

विश्वास-प्रस्तुतिः - 12.28

आनुश्रविककाण्डं च दुःखकाण्डमतः परम्।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम्6 ॥ 12.28 ॥

मूलम् - 12.28

आनुश्रविककाण्डं च दुःखकाण्डमतः परम्।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम्6 ॥ 12.28 ॥

विश्वास-प्रस्तुतिः - 12.29

तथा समयकाण्डं च मोक्षकाण्डमतः परम्।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥ 12.29 ॥

मूलम् - 12.29

तथा समयकाण्डं च मोक्षकाण्डमतः परम्।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥ 12.29 ॥

विश्वास-प्रस्तुतिः - 12.30

षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने।
षष्टितन्त्रमिदं सांख्यं सुदर्शनमयं हरेः ॥ 12.30 ॥

मूलम् - 12.30

षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने।
षष्टितन्त्रमिदं सांख्यं सुदर्शनमयं हरेः ॥ 12.30 ॥

आविर्बभूव सर्वज्ञात् परमर्षेर्महामुने। योगशास्त्रस्वरूपवर्णनम् विष्णुसंकल्परूपं च महद्योगानुशासनम् ॥ 12.31 ॥ हिरण्यगर्भादुद्भूतं तस्य भेदानिमाञ्श्रृणु। योगे संहिताद्वयम् आदौ हिरण्यगर्भेण द्वे प्रोक्ते योगसंहिते ॥ 12.32 ॥ एका निरोधयोगाख्या कर्मयोगाह्वया[^11] परा। निरोधसंहिताया द्वादशविधत्वम् संहिता तु निरोधाख्या तत्र द्वादशधा स्मृता ॥ 12.33 ॥ अङ्गतन्त्रमथाद्यं तु दोषतन्त्रमतः परम्।
विश्वास-प्रस्तुतिः - 12.35

आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत्।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥ 12.35 ॥

मूलम् - 12.35

आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत्।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥ 12.35 ॥

विश्वास-प्रस्तुतिः - 12.36

सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥ 12.36 ॥

मूलम् - 12.36

सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥ 12.36 ॥

कर्मसंहितायाश्चातुर्विध्यम्
विश्वास-प्रस्तुतिः - 12.37

ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥ 12.37 ॥

मूलम् - 12.37

ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥ 12.37 ॥

विश्वास-प्रस्तुतिः - 12.38

बाह्याभ्यन्तरूपेण द्वे अपि द्विविधे स्मृते।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥ 12.38 ॥

मूलम् - 12.38

बाह्याभ्यन्तरूपेण द्वे अपि द्विविधे स्मृते।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥ 12.38 ॥

सुदर्शनमयं विष्णोरुदितं तत् प्रजापतेः। पाशुपतस्वरूपवर्णनम् तन्त्रं पाशुपतं नाम पशुपाशप्रमोचनम्[^12] ॥ 12.39 ॥ मद्वक्त्रान्निः सृतं विष्णोः संकल्पप्रविजृम्भितम् । पाशुपतस्याष्टकाण्डत्वम् [^13]अष्टकाण्डमिदं प्रोक्तं मया तन्त्रमनुत्तमम् ॥ 12.40 ॥
विश्वास-प्रस्तुतिः - 12.41

पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम्।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥ 12.41 ॥

मूलम् - 12.41

पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम्।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥ 12.41 ॥

विश्वास-प्रस्तुतिः - 12.43

सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत्।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥ 12.43 ॥

मूलम् - 12.43

सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत्।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥ 12.43 ॥

दिव्यं पाशुपतं शास्त्रं [^15]मयैवोक्तं महामुने। पाञ्चरात्रस्वरूपवर्णनम् यत् तत् सौदर्शनं विष्णोः सात्त्वतं नाम जृम्भित्म् ॥ 12.44 ॥
विश्वास-प्रस्तुतिः - 12.45

भेदो दशविधस्तस्य संक्षेपेण प्रकीर्तितः।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥ 12.45 ॥

मूलम् - 12.45

भेदो दशविधस्तस्य संक्षेपेण प्रकीर्तितः।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥ 12.45 ॥

विश्वास-प्रस्तुतिः - 12.46

विद्यामयी तृतीया च चतुर्थी कालसंहिता।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥ 12.46 ॥

मूलम् - 12.46

विद्यामयी तृतीया च चतुर्थी कालसंहिता।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥ 12.46 ॥

विश्वास-प्रस्तुतिः - 12.47

सप्तमी गदिता तत्र पूज्या 7संयमसंहिता।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥ 12.47 ॥

मूलम् - 12.47

सप्तमी गदिता तत्र पूज्या 7संयमसंहिता।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥ 12.47 ॥

[^17]सात्त्वती गीयते सुद्धा दशमी मोक्षसंहिता। एतावत् सात्त्वतं शास्त्रमाविरासीत् सनातनात्[^18] ॥ 12.48 ॥
विश्वास-प्रस्तुतिः - 12.49

एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने।
युगे युगे 8विभज्यन्ते विष्णुसंकल्पचोदितैः ॥ 12.49 ॥

मूलम् - 12.49

एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने।
युगे युगे 8विभज्यन्ते विष्णुसंकल्पचोदितैः ॥ 12.49 ॥

विश्वास-प्रस्तुतिः - 12.50

तत्तत्कर्तृसमाख्यातास्तास्तास्त्रय्यादिसंहिताः।
प्रादेशिक्यो निवर्तन्ते 9ह्रासकालानुकालतः ॥ 12.50 ॥

मूलम् - 12.50

तत्तत्कर्तृसमाख्यातास्तास्तास्त्रय्यादिसंहिताः।
प्रादेशिक्यो निवर्तन्ते 9ह्रासकालानुकालतः ॥ 12.50 ॥

शास्त्राभासप्रवृत्तौ कारणम्

विश्वास-प्रस्तुतिः - 12.51

हिंस्राणां मोहनार्थाय संकल्पा एव वैष्णवाः।
शास्त्राभासाः प्रवर्तन्ते 10देवब्रह्मर्षिवक्त्रतः ॥ 12.51 ॥

मूलम् - 12.51

हिंस्राणां मोहनार्थाय संकल्पा एव वैष्णवाः।
शास्त्राभासाः प्रवर्तन्ते 10देवब्रह्मर्षिवक्त्रतः ॥ 12.51 ॥

उक्तार्थनिगमनम् [^22]एष [^23]प्रमाणयोर्व्यूहो दिव्यः सौदर्शनः परः। शब्दार्थप्रविभागेन गदितस्ते मया मुने ॥ 12.52 ॥ सुदर्शनपर्यायशब्दाः
विश्वास-प्रस्तुतिः - 12.53

प्राणो माया क्रिया शक्तिर्भाव उन्मेव उद्यमः।
सुदर्शनं च संकल्पः शब्दाः पर्यायवाचकाः ॥ 12.53 ॥

मूलम् - 12.53

प्राणो माया क्रिया शक्तिर्भाव उन्मेव उद्यमः।
सुदर्शनं च संकल्पः शब्दाः पर्यायवाचकाः ॥ 12.53 ॥

पञ्चानामपि शास्त्रणां भगवति निष्ठा
विश्वास-प्रस्तुतिः - 12.54

निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम्।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥ 12.54 ॥

मूलम् - 12.54

निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम्।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥ 12.54 ॥

प्रमाणमय उद्दिष्टो लेशतोऽयं महामुने। व्यूहः सौदर्शनो विष्णोः किं भूयः श्रोतुमिच्छसि॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहविशेषषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः
आदितः श्लोकाः 738


  1. महाध्यक्ष A B C E F J ↩︎ ↩︎

  2. उपाङ्गं तन्मयं चैव A B C E F J ↩︎

  3. देशकाण्ड D ↩︎

  4. शास्त्रं D
    छन्दसां विचयश्चेति षडङ्गानि विदुर्बुधाः।
    मीमांसा न्यायश्चोपाङ्गम्
    2उपाङ्गद्वितयं चैतन्मीमांसा न्यायविस्तरः ॥ 12.12 ॥ ↩︎ ↩︎

  5. शक्तेः पुरुषकालयोः All MSS.except D. ↩︎ ↩︎

  6. वाचनम् D; पावकम् J ↩︎ ↩︎

  7. संशय A B C E F J ↩︎ ↩︎

  8. विचिन्त्यन्ते A B C E F J ↩︎ ↩︎

  9. त्रास D. ↩︎ ↩︎

  10. देवर्षिब्रह्मवक्त्रतः A B C E F J ↩︎ ↩︎