शब्दात्मकप्रमामव्यूहविशेषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः
वृत्तानुवादः
नारदः—
विश्वास-प्रस्तुतिः - 12.1
सुरासुरगणाराध्य1 नमस्ते पार्वतीप्रिय।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥ 12.1 ॥
मूलम् - 12.1
सुरासुरगणाराध्य1 नमस्ते पार्वतीप्रिय।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥ 12.1 ॥
विश्वास-प्रस्तुतिः - 12.2
यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥ 12.2 ॥
मूलम् - 12.2
यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥ 12.2 ॥
त्रय्यादिस्वरूपपन्नः
विश्वास-प्रस्तुतिः - 12.3
त्रयी सांख्यं तथा योगशास्त्रं पाशुपतं तथा।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥ 12.3 ॥
मूलम् - 12.3
त्रयी सांख्यं तथा योगशास्त्रं पाशुपतं तथा।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥ 12.3 ॥
विश्वास-प्रस्तुतिः - 12.4
श्रृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक्।
संकल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥ 12.4 ॥
मूलम् - 12.4
श्रृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक्।
संकल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥ 12.4 ॥
विश्वास-प्रस्तुतिः - 12.5
तत्र त्रयीमयं 4रूपमाद्यं सर्वार्थदर्शनम्।
ऋग्यजुः सामरूपत्वात् त्रयी सा परिकीर्तिता ॥ 12.5 ॥
मूलम् - 12.5
तत्र त्रयीमयं 4रूपमाद्यं सर्वार्थदर्शनम्।
ऋग्यजुः सामरूपत्वात् त्रयी सा परिकीर्तिता ॥ 12.5 ॥
विश्वास-प्रस्तुतिः - 12.6
कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता।
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ॥ 12.6 ॥
मूलम् - 12.6
कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता।
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ॥ 12.6 ॥
विश्वास-प्रस्तुतिः - 12.9
शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम्।
साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् ॥ 12.9 ॥
मूलम् - 12.9
शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम्।
साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् ॥ 12.9 ॥
विश्वास-प्रस्तुतिः - 12.10
इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः।
स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् ॥ 12.10 ॥
मूलम् - 12.10
इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः।
स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् ॥ 12.10 ॥
विश्वास-प्रस्तुतिः - 12.13
धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा।
निबद्धा चानिबद्धा च संस्काराचारसंततिः ॥ 12.13 ॥
मूलम् - 12.13
धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा।
निबद्धा चानिबद्धा च संस्काराचारसंततिः ॥ 12.13 ॥
विश्वास-प्रस्तुतिः - 12.16
दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम्।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥ 12.16 ॥
मूलम् - 12.16
दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम्।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥ 12.16 ॥
विश्वास-प्रस्तुतिः - 12.17
वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात्।
त्रयीरूपेण संकल्प इयद्भेदो विजृम्भितः ॥ 12.17 ॥
मूलम् - 12.17
वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात्।
त्रयीरूपेण संकल्प इयद्भेदो विजृम्भितः ॥ 12.17 ॥
विश्वास-प्रस्तुतिः - 12.18
सांख्यरूपेण संकल्पो वैष्णवः कपिलादृषेः।
उदीतो यादृशः पूर्वं तादृशं श्रुणु मेऽखिलम् ॥ 12.18 ॥
मूलम् - 12.18
सांख्यरूपेण संकल्पो वैष्णवः कपिलादृषेः।
उदीतो यादृशः पूर्वं तादृशं श्रुणु मेऽखिलम् ॥ 12.18 ॥
विश्वास-प्रस्तुतिः - 12.20
प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥ 12.20 ॥
मूलम् - 12.20
प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥ 12.20 ॥
विश्वास-प्रस्तुतिः - 12.21
त्रीणि तन्त्राण्यथान्यानि 5त्रशक्तेर्नियतिकालयोः।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥ 12.21 ॥
मूलम् - 12.21
त्रीणि तन्त्राण्यथान्यानि 5त्रशक्तेर्नियतिकालयोः।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥ 12.21 ॥
विश्वास-प्रस्तुतिः - 12.23
क्रियातन्त्राणि पञ्चाथ मात्रातन्त्राणि पञ्च च।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥ 12.23 ॥
मूलम् - 12.23
क्रियातन्त्राणि पञ्चाथ मात्रातन्त्राणि पञ्च च।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥ 12.23 ॥
विश्वास-प्रस्तुतिः - 12.26
त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम्।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥ 12.26 ॥
मूलम् - 12.26
त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम्।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥ 12.26 ॥
विश्वास-प्रस्तुतिः - 12.27
अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम्।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥ 12.27 ॥
मूलम् - 12.27
अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम्।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥ 12.27 ॥
विश्वास-प्रस्तुतिः - 12.28
आनुश्रविककाण्डं च दुःखकाण्डमतः परम्।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम्6 ॥ 12.28 ॥
मूलम् - 12.28
आनुश्रविककाण्डं च दुःखकाण्डमतः परम्।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम्6 ॥ 12.28 ॥
विश्वास-प्रस्तुतिः - 12.29
तथा समयकाण्डं च मोक्षकाण्डमतः परम्।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥ 12.29 ॥
मूलम् - 12.29
तथा समयकाण्डं च मोक्षकाण्डमतः परम्।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥ 12.29 ॥
विश्वास-प्रस्तुतिः - 12.30
षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने।
षष्टितन्त्रमिदं सांख्यं सुदर्शनमयं हरेः ॥ 12.30 ॥
मूलम् - 12.30
षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने।
षष्टितन्त्रमिदं सांख्यं सुदर्शनमयं हरेः ॥ 12.30 ॥
विश्वास-प्रस्तुतिः - 12.35
आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत्।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥ 12.35 ॥
मूलम् - 12.35
आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत्।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥ 12.35 ॥
विश्वास-प्रस्तुतिः - 12.36
सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥ 12.36 ॥
मूलम् - 12.36
सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥ 12.36 ॥
विश्वास-प्रस्तुतिः - 12.37
ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥ 12.37 ॥
मूलम् - 12.37
ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥ 12.37 ॥
विश्वास-प्रस्तुतिः - 12.38
बाह्याभ्यन्तरूपेण द्वे अपि द्विविधे स्मृते।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥ 12.38 ॥
मूलम् - 12.38
बाह्याभ्यन्तरूपेण द्वे अपि द्विविधे स्मृते।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥ 12.38 ॥
विश्वास-प्रस्तुतिः - 12.41
पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम्।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥ 12.41 ॥
मूलम् - 12.41
पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम्।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥ 12.41 ॥
विश्वास-प्रस्तुतिः - 12.43
सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत्।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥ 12.43 ॥
मूलम् - 12.43
सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत्।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥ 12.43 ॥
विश्वास-प्रस्तुतिः - 12.45
भेदो दशविधस्तस्य संक्षेपेण प्रकीर्तितः।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥ 12.45 ॥
मूलम् - 12.45
भेदो दशविधस्तस्य संक्षेपेण प्रकीर्तितः।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥ 12.45 ॥
विश्वास-प्रस्तुतिः - 12.46
विद्यामयी तृतीया च चतुर्थी कालसंहिता।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥ 12.46 ॥
मूलम् - 12.46
विद्यामयी तृतीया च चतुर्थी कालसंहिता।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥ 12.46 ॥
विश्वास-प्रस्तुतिः - 12.47
सप्तमी गदिता तत्र पूज्या 7संयमसंहिता।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥ 12.47 ॥
मूलम् - 12.47
सप्तमी गदिता तत्र पूज्या 7संयमसंहिता।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥ 12.47 ॥
विश्वास-प्रस्तुतिः - 12.49
एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने।
युगे युगे 8विभज्यन्ते विष्णुसंकल्पचोदितैः ॥ 12.49 ॥
मूलम् - 12.49
एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने।
युगे युगे 8विभज्यन्ते विष्णुसंकल्पचोदितैः ॥ 12.49 ॥
विश्वास-प्रस्तुतिः - 12.50
तत्तत्कर्तृसमाख्यातास्तास्तास्त्रय्यादिसंहिताः।
प्रादेशिक्यो निवर्तन्ते 9ह्रासकालानुकालतः ॥ 12.50 ॥
मूलम् - 12.50
तत्तत्कर्तृसमाख्यातास्तास्तास्त्रय्यादिसंहिताः।
प्रादेशिक्यो निवर्तन्ते 9ह्रासकालानुकालतः ॥ 12.50 ॥
शास्त्राभासप्रवृत्तौ कारणम्
विश्वास-प्रस्तुतिः - 12.51
हिंस्राणां मोहनार्थाय संकल्पा एव वैष्णवाः।
शास्त्राभासाः प्रवर्तन्ते 10देवब्रह्मर्षिवक्त्रतः ॥ 12.51 ॥
मूलम् - 12.51
हिंस्राणां मोहनार्थाय संकल्पा एव वैष्णवाः।
शास्त्राभासाः प्रवर्तन्ते 10देवब्रह्मर्षिवक्त्रतः ॥ 12.51 ॥
विश्वास-प्रस्तुतिः - 12.53
प्राणो माया क्रिया शक्तिर्भाव उन्मेव उद्यमः।
सुदर्शनं च संकल्पः शब्दाः पर्यायवाचकाः ॥ 12.53 ॥
मूलम् - 12.53
प्राणो माया क्रिया शक्तिर्भाव उन्मेव उद्यमः।
सुदर्शनं च संकल्पः शब्दाः पर्यायवाचकाः ॥ 12.53 ॥
विश्वास-प्रस्तुतिः - 12.54
निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम्।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥ 12.54 ॥
मूलम् - 12.54
निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम्।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥ 12.54 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहविशेषषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः
आदितः श्लोकाः 738