शब्दात्मकप्रमामव्यूहविशेषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः
वृत्तानुवादः
नारदः—
सुरासुरगणाराध्य1 नमस्ते पार्वतीप्रिय।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥ 12.1 ॥
यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥ 12.2 ॥
त्रय्यादिस्वरूपपन्नः
त्रयी सांख्यं तथा योगशास्त्रं पाशुपतं तथा।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥ 12.3 ॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः—
श्रृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक्।
संकल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥ 12.4 ॥
शास्त्राभासप्रवृत्तौ कारणम्
हिंस्राणां मोहनार्थाय संकल्पा एव वैष्णवाः।
शास्त्राभासाः प्रवर्तन्ते 20देवब्रह्मर्षिवक्त्रतः ॥ 12.51 ॥
उक्तार्थनिगमनम्
21एष 22प्रमाणयोर्व्यूहो दिव्यः सौदर्शनः परः।
शब्दार्थप्रविभागेन गदितस्ते मया मुने ॥ 12.52 ॥
सुदर्शनपर्यायशब्दाः
प्राणो माया क्रिया शक्तिर्भाव उन्मेव उद्यमः।
सुदर्शनं च संकल्पः शब्दाः पर्यायवाचकाः ॥ 12.53 ॥
पञ्चानामपि शास्त्रणां भगवति निष्ठा
निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम्।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥ 12.54 ॥
प्रमाणमय उद्दिष्टो लेशतोऽयं महामुने।
व्यूहः सौदर्शनो विष्णोः किं भूयः श्रोतुमिच्छसि॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहविशेषषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः
आदितः श्लोकाः 738
-
महाध्यक्ष A B C E F J ↩︎
-
शास्त्रं D
छन्दसां विचयश्चेति षडङ्गानि विदुर्बुधाः।
मीमांसा न्यायश्चोपाङ्गम्
3उपाङ्गद्वितयं चैतन्मीमांसा न्यायविस्तरः ॥ 12.12 ॥
धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा।
निबद्धा चानिबद्धा च संस्काराचारसंततिः ॥ 12.13 ॥
धर्मशास्त्रं महर्षीणामन्तः करणसंभृतम्।
उपवेदादिकम्
इतिहासपुरणाख्य उपवेदः प्रकीर्तितः ॥ 12.14 ॥
4वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने।
आयुर्वेदश्च पञ्चैत उपवेदाः प्रकीर्तिताः ॥ 12.15 ॥
दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम्।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥ 12.16 ॥
वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात्।
त्रयीरूपेण संकल्प इयद्भेदो विजृम्भितः ॥ 12.17 ॥
सांख्यस्वरूपवर्णनम्
सांख्यरूपेण संकल्पो वैष्णवः कपिलादृषेः।
उदीतो यादृशः पूर्वं तादृशं श्रुणु मेऽखिलम् ॥ 12.18 ॥
षष्टिभेदं स्मृतं तन्त्रं सांख्यं नाम महामुने। ↩︎ -
उपाङ्गं तन्मयं चैव A B C E F J ↩︎
-
J omits four lines from here.
प्राकृतं वैकृतं चेति मण्डले द्वे समासतः ॥ 12.19 ॥
प्राकृतमण्डलवर्णनम्
प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥ 12.20 ॥
त्रीणि तन्त्राण्यथान्यानि 5त्रशक्तेर्नियतिकालयोः।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥ 12.21 ॥
प्राणतन्त्रमथान्यत्तु 6कर्तृतन्त्रमथेतरत्।
7सामितन्त्रमथान्यत्तु ज्ञानतन्क्षत्राणि पञ्च च ॥ 12.22 ॥
क्रियातन्त्राणि पञ्चाथ मात्रातन्त्राणि पञ्च च।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥ 12.23 ॥
प्राकृतं मण्डलं प्रोक्तं वैकृतं मण्डलं श्रृणु।
वैकृतमण्डलवर्णनम्
अष्टाविंशतिभेदं तन्मण्डलं वैकृतं स्मृतम् ॥ 12.24 ॥
कृत्यकाण्डानि पञ्चादौ भोगकाण्डं तथाऽपरम्।
8वृत्तकाण्डं तथैकं तु क्लेशकाण्डानि पञ्च च ॥ 12.25 ॥
त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम्।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥ 12.26 ॥ ↩︎ -
शक्तेः पुरुषकालयोः All MSS.except D. ↩︎
-
J omits two quarters from here. ↩︎
-
इत्थमेव सर्वकोशेषु पाठः ↩︎
-
वृत्तिकाण्डमयैकं तु D; व्रतकाण्कडं J
अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम्।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥ 12.27 ॥
आनुश्रविककाण्डं च दुःखकाण्डमतः परम्।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम्9 ॥ 12.28 ॥
तथा समयकाण्डं च मोक्षकाण्डमतः परम्।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥ 12.29 ॥
षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने।
षष्टितन्त्रमिदं सांख्यं सुदर्शनमयं हरेः ॥ 12.30 ॥
आविर्बभूव सर्वज्ञात् परमर्षेर्महामुने।
योगशास्त्रस्वरूपवर्णनम्
विष्णुसंकल्परूपं च महद्योगानुशासनम् ॥ 12.31 ॥
हिरण्यगर्भादुद्भूतं तस्य भेदानिमाञ्श्रृणु।
योगे संहिताद्वयम्
आदौ हिरण्यगर्भेण द्वे प्रोक्ते योगसंहिते ॥ 12.32 ॥
एका निरोधयोगाख्या कर्मयोगाह्वया10 परा।
निरोधसंहिताया द्वादशविधत्वम्
संहिता तु निरोधाख्या तत्र द्वादशधा स्मृता ॥ 12.33 ॥
अङ्गतन्त्रमथाद्यं तु दोषतन्त्रमतः परम्। ↩︎ -
वाचनम् D; पावकम् J ↩︎
-
योगाभिधा B
उपसर्गाभिधं तन्त्रं तथाधिष्ठानकं परम् ॥ 12.34 ॥
आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत्।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥ 12.35 ॥
सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥ 12.36 ॥
कर्मसंहितायाश्चातुर्विध्यम्
ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥ 12.37 ॥
बाह्याभ्यन्तरूपेण द्वे अपि द्विविधे स्मृते।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥ 12.38 ॥
सुदर्शनमयं विष्णोरुदितं तत् प्रजापतेः।
पाशुपतस्वरूपवर्णनम्
तन्त्रं पाशुपतं नाम पशुपाशप्रमोचनम्11 ॥ 12.39 ॥
मद्वक्त्रान्निः सृतं विष्णोः संकल्पप्रविजृम्भितम् ।
पाशुपतस्याष्टकाण्डत्वम्
12अष्टकाण्डमिदं प्रोक्तं मया तन्त्रमनुत्तमम् ॥ 12.40 ॥
पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम्।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥ 12.41 ॥ ↩︎ -
विमोचनम् B C ↩︎
-
अष्टतन्त्र D.
शुद्धचर्या च मिश्रा च काण्डे द्वे परिकीर्तिते।
13देवकांडमथो षष्ठं दीक्षाकाण्डमतः परम् ॥ 12.42 ॥
सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत्।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥ 12.43 ॥
दिव्यं पाशुपतं शास्त्रं 14मयैवोक्तं महामुने।
पाञ्चरात्रस्वरूपवर्णनम्
यत् तत् सौदर्शनं विष्णोः सात्त्वतं नाम जृम्भित्म् ॥ 12.44 ॥
भेदो दशविधस्तस्य संक्षेपेण प्रकीर्तितः।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥ 12.45 ॥
विद्यामयी तृतीया च चतुर्थी कालसंहिता।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥ 12.46 ॥
सप्तमी गदिता तत्र पूज्या 15संयमसंहिता।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥ 12.47 ॥
16सात्त्वती गीयते सुद्धा दशमी मोक्षसंहिता।
एतावत् सात्त्वतं शास्त्रमाविरासीत् सनातनात्17 ॥ 12.48 ॥
एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने।
युगे युगे 18विभज्यन्ते विष्णुसंकल्पचोदितैः ॥ 12.49 ॥
तत्तत्कर्तृसमाख्यातास्तास्तास्त्रय्यादिसंहिताः।
प्रादेशिक्यो निवर्तन्ते 19ह्रासकालानुकालतः ॥ 12.50 ॥ ↩︎ -
देशकाण्ड D ↩︎
-
मत्तो व्यक्तं D ↩︎
-
संशय A B C E F J ↩︎
-
सात्त्वतैर्गीयते D ↩︎
-
सनातनम् D ↩︎
-
विचिन्त्यन्ते A B C E F J ↩︎
-
त्रास D. ↩︎
-
देवर्षिब्रह्मवक्त्रतः A B C E F J ↩︎
-
J omits four lines from lere ↩︎
-
प्राणमयो व्यूहो D E. ↩︎