११

शब्दात्मकप्रमामव्यूहनिरूपणं नाम एकादशोऽध्यायः

नारदः—-
1नमः समस्तगीर्वाणसुखसौभाग्यदायिने।
शंकराय गिरीशाय गौरीदयित ते नमः ॥ 11.1 ॥
शब्दात्मकप्रमाणप्रश्नः

विश्वास-प्रस्तुतिः - 11.2

श्रुतः प्रमाणरूपोऽयं व्यूहार्थो यन्मयाखिलः।
शब्दाकारो य उद्दिष्टस्तं मे वद 2सुरेश्वर ॥ 11.2 ॥

मूलम् - 11.2

श्रुतः प्रमाणरूपोऽयं व्यूहार्थो यन्मयाखिलः।
शब्दाकारो य उद्दिष्टस्तं मे वद 2सुरेश्वर ॥ 11.2 ॥

तत्प्रतिविवक्षयोपोद्धातः अहिर्बुध्न्यः---
विश्वास-प्रस्तुतिः - 11.3

आदिसर्गे पुरावृत्ते नानाभावविभूषिते।
आसीच्छक्तिमतो विष्णोरियं चिन्ता सुखोदया ॥ 11.3 ॥

मूलम् - 11.3

आदिसर्गे पुरावृत्ते नानाभावविभूषिते।
आसीच्छक्तिमतो विष्णोरियं चिन्ता सुखोदया ॥ 11.3 ॥

आदिसर्गे भगवतश्चिन्ताप्रकारः
विश्वास-प्रस्तुतिः - 11.4

विपुलेयं कृता सृष्टिर्मया सत्त्वगुणोत्तरा।
प्रत्यसर्वधर्मार्था 3निराबाधा सुखोत्तरा ॥ 11.4 ॥

मूलम् - 11.4

विपुलेयं कृता सृष्टिर्मया सत्त्वगुणोत्तरा।
प्रत्यसर्वधर्मार्था 3निराबाधा सुखोत्तरा ॥ 11.4 ॥

प्रजेयमभिनिर्वृत्ता [^4]देवर्षिब्रह्मसंकुला।

सत्त्वविवृद्ध्या परमपुरुषप्राप्तिपूर्वकं स्वरूपाविर्भावः
तत्त्वज्ञानसमायोगात् सद्धर्मकरणादिपि ॥ 11.5 ॥
अचिरेणैव मां प्राप्य स्वीयं भावं भजिष्यते।
रजस्तमोविवृद्ध्या सत्त्वह्रासः
रजस्तमोगुणोद्रेकः 4कालेनैव भविष्यति ॥ 11.6 ॥
तदुन्मेषवशेनैव सत्त्वमप्युपचोष्यते।
तदा दैत्याद्याविर्भावः
तदा प्रादुर्भविष्यन्ति दैत्यदानवराक्षसाः ॥ 11.7 ॥
तैर्वैदिकमर्यादाविलोपनम्
तैरियं सात्त्विकी दिव्या मर्यादा चालयिष्यते।
ज्ञानप्रमोषात् धर्मतिरोधानम्
रजस्तमोगुणोन्मेषात् सम्यग्ज्ञाने विनाशिते ॥ 11.8 ॥
ज्ञानहेतुः स धर्मोऽपि तिरोधानं गमिष्यति।
ततः प्रजाक्षोभः
ततश्चेयमनाधारा प्रजाशुद्धा विनङ्क्ष्यति ॥ 11.9 ॥
तदा भगवदवताराणां लब्धावकाशता
तत्र रूपैरनेकैर्मे कृत्यं शश्वद्भविष्यति।

विश्वास-प्रस्तुतिः - 11.11

आविश्याविश्य भूतानि स्वेन रूपेण मायया।
तैस्तैः साधनसंभेदैर्निरस्य सुकृतद्विषः ॥ 11.11 ॥

मूलम् - 11.11

आविश्याविश्य भूतानि स्वेन रूपेण मायया।
तैस्तैः साधनसंभेदैर्निरस्य सुकृतद्विषः ॥ 11.11 ॥

सुकरा धर्ममर्यादा तत्र तत्र भविष्यति। अधर्मनिराससाधनद्वैविध्यम् साधनं च द्विधा कार्यं धर्मद्वेषिनिराकृतौ ॥ 11.12 ॥ शश्त्रास्त्रव्यूहरूपेण शास्त्ररूपेण चैव हि। भगवत्संकल्पात् तदुभयोत्पत्तिः [^6]इत्युक्त्वार्थत्वरूपं हि शस्त्रास्त्रौघसमाकुलम् ॥ 11.13 ॥
विश्वास-प्रस्तुतिः - 11.14

व्यूहं ससर्ज संकल्प्य स्वेन संकल्पतेजसा।
स च सौदर्शनो व्यूहो मर्यादाधारणक्षमः ॥ 11.14 ॥

मूलम् - 11.14

व्यूहं ससर्ज संकल्प्य स्वेन संकल्पतेजसा।
स च सौदर्शनो व्यूहो मर्यादाधारणक्षमः ॥ 11.14 ॥

प्रमाणरूप उद्धिष्टो वक्ष्यते च तथा तथा। [^7]प्रमाणरूपशास्त्रार्थः संकल्पो वैष्णवो हि यः ॥ 11.15 ॥ उदितो ब्रह्मणस्तस्माद्यथा तदवधारय। आदिशास्त्रस्वरूपवर्णनम् संकल्पमयमेवैकं [^8]सकलान्तस्तमोनुदम् ॥ 11.16 ॥
विश्वास-प्रस्तुतिः - 11.17

निर्घातशब्दवद्व्योम्नः शास्त्रमेकमभूत् तदा।
वर्णार्थैः संभृतैर्वर्णैश्चिदानन्दमहोर्मिभिः ॥ 11.17 ॥

मूलम् - 11.17

निर्घातशब्दवद्व्योम्नः शास्त्रमेकमभूत् तदा।
वर्णार्थैः संभृतैर्वर्णैश्चिदानन्दमहोर्मिभिः ॥ 11.17 ॥

विश्वास-प्रस्तुतिः - 11.18

विष्णुशक्तिसमुद्रोत्थैर्मणिभिर्मौक्तिकैरिव।
प्रोतं सौदर्शनं रूपं विष्णोः संकल्पकल्पितम् ॥ 11.18 ॥

मूलम् - 11.18

विष्णुशक्तिसमुद्रोत्थैर्मणिभिर्मौक्तिकैरिव।
प्रोतं सौदर्शनं रूपं विष्णोः संकल्पकल्पितम् ॥ 11.18 ॥

विश्वास-प्रस्तुतिः - 11.19

तद्विज्ञानमयं शास्त्रं सद्धर्मप्रतिपादकम्।
नियुताध्यायि यत् प्रोक्तं कामपालेन शाश्वतम् ॥ 11.19 ॥

मूलम् - 11.19

तद्विज्ञानमयं शास्त्रं सद्धर्मप्रतिपादकम्।
नियुताध्यायि यत् प्रोक्तं कामपालेन शाश्वतम् ॥ 11.19 ॥

तस्य सर्वशास्त्रार्थगर्भितत्वम्

विश्वास-प्रस्तुतिः - 11.20

पुरुषार्थैश्चतुर्भिस्तदन्वितं हेतुसंकुलम्।
ऋग्यजुःसामभिर्जुष्टमङ्गिरोभिरथर्वभिः ॥ 11.20 ॥

मूलम् - 11.20

पुरुषार्थैश्चतुर्भिस्तदन्वितं हेतुसंकुलम्।
ऋग्यजुःसामभिर्जुष्टमङ्गिरोभिरथर्वभिः ॥ 11.20 ॥

विश्वास-प्रस्तुतिः - 11.21

पदवाक्यप्रमाणार्थैर्विकल्पैर्बहुभिश्चितम्।
अलंकृतं शुभैस्तैस्तैः समयैर्दिव्यमानुषैः ॥ 11.21 ॥

मूलम् - 11.21

पदवाक्यप्रमाणार्थैर्विकल्पैर्बहुभिश्चितम्।
अलंकृतं शुभैस्तैस्तैः समयैर्दिव्यमानुषैः ॥ 11.21 ॥

विश्वास-प्रस्तुतिः - 11.22

तैस्तैर्विकल्पितैः कल्पैश्छन्दोभिर्विविधैर्वृतम्5
कालोपग्रहसंख्याभिः प्रकृतिप्रत्ययैः स्वरैः ॥ 11.22 ॥

मूलम् - 11.22

तैस्तैर्विकल्पितैः कल्पैश्छन्दोभिर्विविधैर्वृतम्5
कालोपग्रहसंख्याभिः प्रकृतिप्रत्ययैः स्वरैः ॥ 11.22 ॥

विश्वास-प्रस्तुतिः - 11.23

विभक्तिकारकैर्लिङ्गैः 6स्वैरैः प्रकृतिसन्धिभिः।
संज्ञाभिः साधिकाराभिर्भूषितं परिभाषया ॥ 11.23 ॥

मूलम् - 11.23

विभक्तिकारकैर्लिङ्गैः 6स्वैरैः प्रकृतिसन्धिभिः।
संज्ञाभिः साधिकाराभिर्भूषितं परिभाषया ॥ 11.23 ॥

विश्वास-प्रस्तुतिः - 11.24

आदेशैरागमैर्लोपैर्विकारैश्चाप्युपाधिभिः।
वृत्तिभिर्विविधाभिश्च वाक्यैरुपपदैरपि ॥ 11.24 ॥

मूलम् - 11.24

आदेशैरागमैर्लोपैर्विकारैश्चाप्युपाधिभिः।
वृत्तिभिर्विविधाभिश्च वाक्यैरुपपदैरपि ॥ 11.24 ॥

विश्वास-प्रस्तुतिः - 11.25

अव्ययैरुपसर्गैश्च नामाख्यातनिपातकैः7
मात्रावृत्तिस्वरबलैरभिनिष्टानसामभिः ॥ 11.25 ॥

मूलम् - 11.25

अव्ययैरुपसर्गैश्च नामाख्यातनिपातकैः7
मात्रावृत्तिस्वरबलैरभिनिष्टानसामभिः ॥ 11.25 ॥

विश्वास-प्रस्तुतिः - 11.26

यमरङ्गविभागैश्च भूषितं पदभङ्गिभिः।
वर्णागमविकल्पैश्च तथा वर्णविपर्ययैः ॥ 11.26 ॥

मूलम् - 11.26

यमरङ्गविभागैश्च भूषितं पदभङ्गिभिः।
वर्णागमविकल्पैश्च तथा वर्णविपर्ययैः ॥ 11.26 ॥

विश्वास-प्रस्तुतिः - 11.27

कल्पनाभिश्च 8लघ्वीभिर्विकृतेः प्रकृतेरपि।
निरुक्तकल्पैर्विविधैर्नानानिगमनैरपि ॥ 11.27 ॥

मूलम् - 11.27

कल्पनाभिश्च 8लघ्वीभिर्विकृतेः प्रकृतेरपि।
निरुक्तकल्पैर्विविधैर्नानानिगमनैरपि ॥ 11.27 ॥

[^13]ग्रहनक्षत्रराशिस्थैर्विकल्पैर्गणनोत्थितैः। होरास्कन्धविकल्पैश्च विधानैः फलकल्पितैः ॥ 11.28 ॥
विश्वास-प्रस्तुतिः - 11.29

विध्यर्थवादमन्त्रोत्थैर्विचारैः 9कर्मकल्पनैः।
अङ्गयुक्तिक्रमोहैश्च तन्त्रवापातिदेशनैः ॥ 11.29 ॥

मूलम् - 11.29

विध्यर्थवादमन्त्रोत्थैर्विचारैः 9कर्मकल्पनैः।
अङ्गयुक्तिक्रमोहैश्च तन्त्रवापातिदेशनैः ॥ 11.29 ॥

विश्वास-प्रस्तुतिः - 11.30

अधिकारैरनेकैश्च विचारैर्वाक्यगोचरैः।
प्रमाणकल्पितैर्न्यायैर्निग्रहच्छलजातिभिः ॥ 11.30 ॥

मूलम् - 11.30

अधिकारैरनेकैश्च विचारैर्वाक्यगोचरैः।
प्रमाणकल्पितैर्न्यायैर्निग्रहच्छलजातिभिः ॥ 11.30 ॥

विश्वास-प्रस्तुतिः - 11.31

द्रव्यकर्मविकल्पैश्च गुणसामान्यकल्पनैः10
चातुर्होत्रविकल्पैश्च चातुर्वैद्यविजृम्भितैः11 ॥ 11.31 ॥

मूलम् - 11.31

द्रव्यकर्मविकल्पैश्च गुणसामान्यकल्पनैः10
चातुर्होत्रविकल्पैश्च चातुर्वैद्यविजृम्भितैः11 ॥ 11.31 ॥

विश्वास-प्रस्तुतिः - 11.32

चातुराश्रम्यकल्पैश्च चातुर्वर्ण्यविकल्पितैः।
संस्कारकल्पैर्विविधैर्नितद्यकाम्यक्रियाक्रमैः ॥ 11.32 ॥

मूलम् - 11.32

चातुराश्रम्यकल्पैश्च चातुर्वर्ण्यविकल्पितैः।
संस्कारकल्पैर्विविधैर्नितद्यकाम्यक्रियाक्रमैः ॥ 11.32 ॥

विश्वास-प्रस्तुतिः - 11.33

इतिहासपुराणाभ्यां विविधाभ्यां समन्वितम्।
विविधैस्च प्रसंख्यानैः स्वप्रकृत्यादिकल्पितैः ॥ 11.33 ॥

मूलम् - 11.33

इतिहासपुराणाभ्यां विविधाभ्यां समन्वितम्।
विविधैस्च प्रसंख्यानैः स्वप्रकृत्यादिकल्पितैः ॥ 11.33 ॥

विश्वास-प्रस्तुतिः - 11.34

पुमीश्वरविकल्पैश्च परिणामविकल्पितैः।
अवस्थालक्षणव्याख्याधर्मक्लृप्तिविचित्रितम्12 ॥ 11.34 ॥

मूलम् - 11.34

पुमीश्वरविकल्पैश्च परिणामविकल्पितैः।
अवस्थालक्षणव्याख्याधर्मक्लृप्तिविचित्रितम्12 ॥ 11.34 ॥

प्रमाणानां ससर्गाणां नानाकल्पनयान्वितम्। [^18]लेपालेपविचारैश्च पुरुषाव्यक्तगोचरैः ॥ 11.35 ॥
विश्वास-प्रस्तुतिः - 11.36

तत्त्वातात्त्विककल्पैश्च नानागतिविचिन्तनैः।
मुक्तिक्रमविचारैश्च ख्यातिकल्पैरनेकशः ॥ 11.36 ॥

मूलम् - 11.36

तत्त्वातात्त्विककल्पैश्च नानागतिविचिन्तनैः।
मुक्तिक्रमविचारैश्च ख्यातिकल्पैरनेकशः ॥ 11.36 ॥

विश्वास-प्रस्तुतिः - 11.37

ज्ञानाज्ञानसमाख्यातगुणदोषविचारणैः।
गुणत्रयविकल्पैश्च 13सर्गसंयोगचिन्तनैः ॥ 11.37 ॥

मूलम् - 11.37

ज्ञानाज्ञानसमाख्यातगुणदोषविचारणैः।
गुणत्रयविकल्पैश्च 13सर्गसंयोगचिन्तनैः ॥ 11.37 ॥

[^20]अन्वितं विविधैः सांख्यैः प्रसंख्यानकृतक्रमैः। योगप्रकारकल्पैश्च वृत्तीनां कल्पनैरपि ॥ 11.38 ॥
विश्वास-प्रस्तुतिः - 11.39

अभ्यासकल्पैर्विविधैश्चातुर्वैराग्यकल्पनैः।
अन्तरङ्गबहिर्भूतयोगाङ्गपरिचिन्तनैः ॥ 11.39 ॥

मूलम् - 11.39

अभ्यासकल्पैर्विविधैश्चातुर्वैराग्यकल्पनैः।
अन्तरङ्गबहिर्भूतयोगाङ्गपरिचिन्तनैः ॥ 11.39 ॥

विश्वास-प्रस्तुतिः - 11.40

क्लेशकर्मविपाकानामाशयानां च वर्णनैः।
तापसंस्कारचिन्ताभिर्दुःखभेदविचिन्तनैः ॥ 11.40 ॥

मूलम् - 11.40

क्लेशकर्मविपाकानामाशयानां च वर्णनैः।
तापसंस्कारचिन्ताभिर्दुःखभेदविचिन्तनैः ॥ 11.40 ॥

विश्वास-प्रस्तुतिः - 11.41

तैस्तैश्चतुरधिष्ठानकल्पनैः 14कल्पितं पृथक्।
उपादेयस्य हेयस्य हानोपादानयोरपि ॥ 11.41 ॥

मूलम् - 11.41

तैस्तैश्चतुरधिष्ठानकल्पनैः 14कल्पितं पृथक्।
उपादेयस्य हेयस्य हानोपादानयोरपि ॥ 11.41 ॥

स्वरूपचिन्तनैश्चित्रैर्भोगकामविकल्पनैः[^22]।
विश्वास-प्रस्तुतिः - 11.43

सिद्धिभिश्च विचित्राभिश्चित्तस्थाभिरलंकृतम्।
पतिपाशपशुव्याख्याविकल्पैर्हेतुचित्रितैः ॥ 11.43 ॥

मूलम् - 11.43

सिद्धिभिश्च विचित्राभिश्चित्तस्थाभिरलंकृतम्।
पतिपाशपशुव्याख्याविकल्पैर्हेतुचित्रितैः ॥ 11.43 ॥

विश्वास-प्रस्तुतिः - 11.44

शुद्धाध्वकल्पनाभिश्च क्रियाज्ञानविभेदतः।
अर्थपञ्चकचिन्ताभिरनेकाभिरलंकृतम् ॥ 11.44 ॥

मूलम् - 11.44

शुद्धाध्वकल्पनाभिश्च क्रियाज्ञानविभेदतः।
अर्थपञ्चकचिन्ताभिरनेकाभिरलंकृतम् ॥ 11.44 ॥

विश्वास-प्रस्तुतिः - 11.45

शक्तिपञ्चकचिन्ताभिर्मलत्रयविचारणैः।
भोगोपकारणाख्यानैः पुंसां रूपविकल्पनैः ॥ 11.45 ॥

मूलम् - 11.45

शक्तिपञ्चकचिन्ताभिर्मलत्रयविचारणैः।
भोगोपकारणाख्यानैः पुंसां रूपविकल्पनैः ॥ 11.45 ॥

विश्वास-प्रस्तुतिः - 11.46

दीक्षाप्रतिष्ठाकल्पैश्च धर्मैः पाशुपतैरपि।
इति नानाविधाकारबुद्धिकल्पविचित्रया ॥ 11.46 ॥

मूलम् - 11.46

दीक्षाप्रतिष्ठाकल्पैश्च धर्मैः पाशुपतैरपि।
इति नानाविधाकारबुद्धिकल्पविचित्रया ॥ 11.46 ॥

विश्वास-प्रस्तुतिः - 11.47

युक्तं कल्पनया शश्वत् क्लृप्तनानाधिकारया।
अधिकारेण सद्धर्मान् व्याचक्षाणमनेकधा ॥ 11.47 ॥

मूलम् - 11.47

युक्तं कल्पनया शश्वत् क्लृप्तनानाधिकारया।
अधिकारेण सद्धर्मान् व्याचक्षाणमनेकधा ॥ 11.47 ॥

विश्वास-प्रस्तुतिः - 11.48

नियुताध्यायकं पूर्वमासीत् संकर्षणोदितम्।
संकल्पमयमाद्यस्य विष्णोः संकल्पजात् किल ॥ 11.48 ॥

मूलम् - 11.48

नियुताध्यायकं पूर्वमासीत् संकर्षणोदितम्।
संकल्पमयमाद्यस्य विष्णोः संकल्पजात् किल ॥ 11.48 ॥

तस्य शास्त्रस्य भगवत्प्रीतिहेतुत्वम्

विश्वास-प्रस्तुतिः - 11.49

तेन शास्त्रेण ते दिव्या मनवो मानवाश्च ते।
ये प्रोक्ता आदिसर्गे ते तथा मानवमानवाः ॥ 11.49 ॥

मूलम् - 11.49

तेन शास्त्रेण ते दिव्या मनवो मानवाश्च ते।
ये प्रोक्ता आदिसर्गे ते तथा मानवमानवाः ॥ 11.49 ॥

[^23]सत्क्रियाभिरनल्पाभिर्नारायणमतोषयन्।

तस्य शास्त्रस्य मन्दप्रचारता
अथ कालविपर्यासाद्युगभेदसमुद्भवे ॥ 11.50 ॥

विश्वास-प्रस्तुतिः - 11.51

त्रेतादौ सत्त्वसंकोचाद्रजसि प्रविजृम्भिते।
कामं कामयमानेषु ब्राह्मणेषु महात्मसु ॥ 11.51 ॥

मूलम् - 11.51

त्रेतादौ सत्त्वसंकोचाद्रजसि प्रविजृम्भिते।
कामं कामयमानेषु ब्राह्मणेषु महात्मसु ॥ 11.51 ॥

मन्दप्रचारमासीत् तच्छासनं यत् सुदर्शनम्।

वाच्यायनादिभिस्तच्छास्त्रविभजनम्
ततो मोहाकुले लोके लोकतन्त्रविधायिनः ॥ 11.52 ॥

विश्वास-प्रस्तुतिः - 11.53

संभूय लोककर्तारः कर्तव्यं समचिन्तयन्।
अपान्तरतपा नाम मुनिर्वाक्संभवो हरेः ॥ 11.53 ॥

मूलम् - 11.53

संभूय लोककर्तारः कर्तव्यं समचिन्तयन्।
अपान्तरतपा नाम मुनिर्वाक्संभवो हरेः ॥ 11.53 ॥

विश्वास-प्रस्तुतिः - 11.54

कपिलश्च पुराणर्षिरादिदेवसमुद्भवः।
हिरण्यागर्भो लोकादिरहं पशुपतिः शिवः ॥ 11.54 ॥

मूलम् - 11.54

कपिलश्च पुराणर्षिरादिदेवसमुद्भवः।
हिरण्यागर्भो लोकादिरहं पशुपतिः शिवः ॥ 11.54 ॥

विश्वास-प्रस्तुतिः - 11.55

एते तप्त्वा तपस्तीव्रं वर्षाणामयुतं शतम्।
आदिदेवमनुज्ञाप्य देवदेवेन चोदिताः ॥ 11.55 ॥

मूलम् - 11.55

एते तप्त्वा तपस्तीव्रं वर्षाणामयुतं शतम्।
आदिदेवमनुज्ञाप्य देवदेवेन चोदिताः ॥ 11.55 ॥

विश्वास-प्रस्तुतिः - 11.56

सुदर्शनस्य लेशेन तत्संकल्पेन संयुताः।
विज्ञानबलमासाद्य 15धर्माद्देवप्रसादजात् ॥ 11.56 ॥

मूलम् - 11.56

सुदर्शनस्य लेशेन तत्संकल्पेन संयुताः।
विज्ञानबलमासाद्य 15धर्माद्देवप्रसादजात् ॥ 11.56 ॥

आविर्भूतं तु तत्छास्त्रमंशतस्ते ततक्षिम।

तत्र वाच्यायनेन वेदविभजनम्
ततक्ष भगवान्पूर्वमपान्तरतपा मुनिः ॥ 11.57 ॥

विश्वास-प्रस्तुतिः - 11.58

हरेर्वाच्यायनः 16पुत्रो यावदात्तं च वै ततः।
उदभूत् तत्र धीरूपमृग्यजुः सामसंकुलम् ॥ 11.58 ॥

मूलम् - 11.58

हरेर्वाच्यायनः 16पुत्रो यावदात्तं च वै ततः।
उदभूत् तत्र धीरूपमृग्यजुः सामसंकुलम् ॥ 11.58 ॥

विष्णुसंकल्पसंभूतमेतद्वाच्यायनेरितम्।

हिरण्यगर्भेण योगसास्त्रविभजनम्
हिरण्यगर्भो लोकादिर्यत् ततक्षादिशासनात् ॥ 11.60 ॥
यमाद्यङ्गमभूदेतद् दिव्यं योगानुशासनम्।

शिवेन पाशुपतविभजनम्
अहं ततक्ष यच्छास्त्रादंशान्नानाव्रताकुलात् ॥ 11.61 ॥
अभूत् पाशुपताख्यं तत् पशुपाशविमोचनम्।

भगवता पाञ्चरात्रविभजनम्
सदागममयात् तस्मात् केवलाद् दिव्यशासनात् ॥ 11.62 ॥

विश्वास-प्रस्तुतिः - 11.63

निर्ममे सारमुद्धृत्य स्वयं विष्णुरसंकुलम्।
तत् परव्यूविभवस्वभावादिनिरूपणम् ॥ 11.63 ॥

मूलम् - 11.63

निर्ममे सारमुद्धृत्य स्वयं विष्णुरसंकुलम्।
तत् परव्यूविभवस्वभावादिनिरूपणम् ॥ 11.63 ॥

विश्वास-प्रस्तुतिः - 11.64

पञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम्।
सुदर्शनाह्वयो योऽसौ संकल्पो वैष्णवः परः ॥ 11.64 ॥

मूलम् - 11.64

पञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम्।
सुदर्शनाह्वयो योऽसौ संकल्पो वैष्णवः परः ॥ 11.64 ॥

स स्वयं बिभिदे तेन पञ्चधा पञ्चवक्त्रगः[^26]।

अध्यायार्थनिगमनम्

विश्वास-प्रस्तुतिः - 11.65

विष्णुसंकल्परूपोऽयं प्रमाणव्यूह ईरितः।
शस्त्रशास्त्रविभेदेन किं भूयः श्रोतुमिच्छसि ॥ 11.65 ॥

मूलम् - 11.65

विष्णुसंकल्परूपोऽयं प्रमाणव्यूह ईरितः।
शस्त्रशास्त्रविभेदेन किं भूयः श्रोतुमिच्छसि ॥ 11.65 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहनिरूपणं नामैकादशोऽध्यायः
आदितः श्लोकाः 683


  1. नमः सर्वज्ञ गीर्वाणशुभ A B C E F J ↩︎

  2. महेश्वर D ↩︎ ↩︎

  3. निरायासा D ↩︎ ↩︎

  4. कालेन तु D
    तेषूपकरणापेक्षा नानाकारा भविष्यति ॥ 11.10 ॥
    धर्मस्थापननिश्चयः ↩︎

  5. स्मृतम् A B C E F. ↩︎ ↩︎

  6. रूपैः E F J ↩︎ ↩︎

  7. निपातनैः A ↩︎ ↩︎

  8. बह्वीभिः A B C J; लध्वीभिः प्रकृतेर्विकृतेरपि D ↩︎ ↩︎

  9. मन्त्रकल्पनैः B C D ↩︎ ↩︎

  10. कल्पितैः D.J. ↩︎ ↩︎

  11. विकल्पितैः A B C E F ↩︎ ↩︎

  12. कर्मक्लृप्तिविचित्रितम् A B C; धर्मकल्पविचित्रितम् J ↩︎ ↩︎

  13. परिणामविकल्पनैः D ↩︎ ↩︎

  14. परिकल्पितम् B C ↩︎ ↩︎

  15. धर्मं देवप्रसादजम् D. ↩︎ ↩︎

  16. वात्स्यायनः B C D
    कपिलेन सांख्यविभजनम्
    ततक्ष कपिलः शास्त्राद्यावदंशमुदारधीः ॥ 11.59 ॥
    तत् सांख्यम भवच्छास्त्रं प्रसंख्यानपरायणम्। ↩︎ ↩︎