अर्थात्मकप्रमाणनिरूपणं नाम दशमोऽध्यायः
नारदः—-
विश्वास-प्रस्तुतिः - 10.1
भगवन् देवदेवेश भवानीजीवितेश्वर।
लोकनाथ जगन्नाथ देवानामभयप्रद ॥ 10.1 ॥
मूलम् - 10.1
भगवन् देवदेवेश भवानीजीवितेश्वर।
लोकनाथ जगन्नाथ देवानामभयप्रद ॥ 10.1 ॥
विश्वास-प्रस्तुतिः - 10.2
नमस्ते त्रिपुरुघ्नाय तत्त्वविज्ञानसिन्धवे।
दशाव्ययाय ते नित्यं षडङ्गाय नमो नमः ॥ 10.2 ॥
मूलम् - 10.2
नमस्ते त्रिपुरुघ्नाय तत्त्वविज्ञानसिन्धवे।
दशाव्ययाय ते नित्यं षडङ्गाय नमो नमः ॥ 10.2 ॥
विश्वास-प्रस्तुतिः - 10.3
यदेतदुदितं नित्यं जगत्कारणमव्ययम्।
यच्चाधारतया प्रोक्तं संकल्पाख्यं सुदर्शनम् ॥ 10.3 ॥
मूलम् - 10.3
यदेतदुदितं नित्यं जगत्कारणमव्ययम्।
यच्चाधारतया प्रोक्तं संकल्पाख्यं सुदर्शनम् ॥ 10.3 ॥
विश्वास-प्रस्तुतिः - 10.4
तदेतदखिलं देव विष्णुसंकल्पजृम्भितम्।
समासव्यासरूपेण1 तत्त्वतो मेऽवधारितम् ॥ 10.4 ॥
मूलम् - 10.4
तदेतदखिलं देव विष्णुसंकल्पजृम्भितम्।
समासव्यासरूपेण1 तत्त्वतो मेऽवधारितम् ॥ 10.4 ॥
विश्वास-प्रस्तुतिः - 10.5
इदानीं श्रोतुमिच्छामि विस्तरेणान्तकान्तक।
किं तत् प्रमाणमित्युक्तं कीदृशं2 किंविधं च तत् ॥ 10.5 ॥
मूलम् - 10.5
इदानीं श्रोतुमिच्छामि विस्तरेणान्तकान्तक।
किं तत् प्रमाणमित्युक्तं कीदृशं2 किंविधं च तत् ॥ 10.5 ॥
विश्वास-प्रस्तुतिः - 10.6
किमर्थं किंमयं देव तन्मे विस्तरशो3 वद।
वक्ता सर्वस्य गुह्यस्य त्वदन्यो नैव विद्यते ॥ 10.6 ॥
मूलम् - 10.6
किमर्थं किंमयं देव तन्मे विस्तरशो3 वद।
वक्ता सर्वस्य गुह्यस्य त्वदन्यो नैव विद्यते ॥ 10.6 ॥
विश्वास-प्रस्तुतिः - 10.7
श्रृणु नारद तत्त्वेन प्रमाणस्थितिमव्ययाम्।
विश्वं यत्रैव 4विश्रान्तं सदेवासुरमानुषम्5 ॥ 10.7 ॥
मूलम् - 10.7
श्रृणु नारद तत्त्वेन प्रमाणस्थितिमव्ययाम्।
विश्वं यत्रैव 4विश्रान्तं सदेवासुरमानुषम्5 ॥ 10.7 ॥
विश्वास-प्रस्तुतिः - 10.8
मध्यमोः यः स संकल्पो विष्णोः सृष्टवतो जगत्।
शाश्वते 6तिष्ठति व्यक्तं जगन्मार्ग इतीदृशः7 ॥ 10.8 ॥
मूलम् - 10.8
मध्यमोः यः स संकल्पो विष्णोः सृष्टवतो जगत्।
शाश्वते 6तिष्ठति व्यक्तं जगन्मार्ग इतीदृशः7 ॥ 10.8 ॥
प्रमाणविभागः
समष्टिव्यष्टिभावेन तद् द्विरूपं विभाव्यते ॥ 10.9 ॥
समष्टिप्रमाणस्वरूपम्
विश्वास-प्रस्तुतिः - 10.10
ऐकरूप्येण संकल्पो यः सर्वविषये8 स्थितः।
महास्थितिमयं चक्रं तदेतत् कीर्तितं मुने ॥ 10.10 ॥
मूलम् - 10.10
ऐकरूप्येण संकल्पो यः सर्वविषये8 स्थितः।
महास्थितिमयं चक्रं तदेतत् कीर्तितं मुने ॥ 10.10 ॥
व्यष्टिप्रमाणस्वरूपम्
विश्वास-प्रस्तुतिः
9तत्त्वेयत्ता समस्तात्मन् यस्मिन्नायततेऽखिला10।
प्रातिस्विकी व्यवस्था या यस्य सत्त्वस्य यादृशी॥ 10.11 ॥
मूलम्

11परिणामक्रियासाध्यस्थानरूपादिगोचरा।
तद्वद्व्यष्टिमये चक्रे प्रमाणे सा व्यवस्थिता ॥ 10.12 ॥

विश्वास-प्रस्तुतिः - 10.13
एकचेष्टादिको योऽर्थो यश्च सृष्ट्यादिलक्षणः ।
शास्त्रशास्त्रार्थतत्साध्यव्यवस्थात्मा च यो मुने ॥ 10.13 ॥
मूलम् - 10.13
एकचेष्टादिको योऽर्थो यश्च सृष्ट्यादिलक्षणः ।
शास्त्रशास्त्रार्थतत्साध्यव्यवस्थात्मा च यो मुने ॥ 10.13 ॥
विश्वास-प्रस्तुतिः - 10.14
वासुदेवादिके व्यूहे स्वस्वसंकल्पसंभवः।
तदाद्यं भगवद्रूपं चक्रं स्थितिमयं महत् ॥ 10.14 ॥
मूलम् - 10.14
वासुदेवादिके व्यूहे स्वस्वसंकल्पसंभवः।
तदाद्यं भगवद्रूपं चक्रं स्थितिमयं महत् ॥ 10.14 ॥
प्रमाणं येन तत् सर्वमियत्तां प्रतिपद्यते।
तस्यैव विस्तरेण प्रतिपादनम्
विश्वास-प्रस्तुतिः - 10.16
यच्च तत् परमं व्योम दिव्यसंभोगलक्षणम् ॥ 10.15 ॥
स्थितिप्रमाणरूपेण तत्संकल्पेन वै हरेः।
अनियत्तमसंकोचमनन्तं व्यवतिष्ठते ॥ 10.16 ॥
मूलम् - 10.16
यच्च तत् परमं व्योम दिव्यसंभोगलक्षणम् ॥ 10.15 ॥
स्थितिप्रमाणरूपेण तत्संकल्पेन वै हरेः।
अनियत्तमसंकोचमनन्तं व्यवतिष्ठते ॥ 10.16 ॥
विश्वास-प्रस्तुतिः - 10.18
स्वरूपकार्यभावादौ सा प्रमाणनिबन्धना।
नियतिः काल इत्येते द्वे 12कालस्य भिदे मते ॥ 10.18 ॥
मूलम् - 10.18
स्वरूपकार्यभावादौ सा प्रमाणनिबन्धना।
नियतिः काल इत्येते द्वे 12कालस्य भिदे मते ॥ 10.18 ॥
विश्वास-प्रस्तुतिः - 10.19
शुद्धाशुद्धमये मध्ये यः पुमान् कूटवत् स्थितः।
नानाजीवमहायोनिस्तस्य या स्थितिरव्यया ॥ 10.19 ॥
मूलम् - 10.19
शुद्धाशुद्धमये मध्ये यः पुमान् कूटवत् स्थितः।
नानाजीवमहायोनिस्तस्य या स्थितिरव्यया ॥ 10.19 ॥
विश्वास-प्रस्तुतिः - 10.20
इयत्ता या च सा चक्रे प्रमाणे व्यवतिष्ठते।
इयत्ताया भिदा या च कलाकाष्टादिगोचरा ॥ 10.20 ॥
मूलम् - 10.20
इयत्ता या च सा चक्रे प्रमाणे व्यवतिष्ठते।
इयत्ताया भिदा या च कलाकाष्टादिगोचरा ॥ 10.20 ॥
विश्वास-प्रस्तुतिः - 10.21
सा प्रमाणमये चक्रे 13सर्वाप्यायतते मुने।
सत्त्वादीनां स्वरूपं यद्या प्रवृत्तिः फलं च यत् ॥ 10.21 ॥
मूलम् - 10.21
सा प्रमाणमये चक्रे 13सर्वाप्यायतते मुने।
सत्त्वादीनां स्वरूपं यद्या प्रवृत्तिः फलं च यत् ॥ 10.21 ॥
विश्वास-प्रस्तुतिः - 10.22
इयत्ता तत्र सर्वत्र सा प्रमाणसुदर्शनात्।
यद्रूपत्रितयं बुद्धेर्धर्माद्या या च विक्रिया ॥ 10.22 ॥
मूलम् - 10.22
इयत्ता तत्र सर्वत्र सा प्रमाणसुदर्शनात्।
यद्रूपत्रितयं बुद्धेर्धर्माद्या या च विक्रिया ॥ 10.22 ॥
विश्वास-प्रस्तुतिः - 10.23
व्यापारस्पन्दनिर्णीतिर्निमेषात्मा च योऽखिलः।
योऽत्रेयत्तामयो भावः स प्रमाणसुदर्शनात्14 ॥ 10.23 ॥
मूलम् - 10.23
व्यापारस्पन्दनिर्णीतिर्निमेषात्मा च योऽखिलः।
योऽत्रेयत्तामयो भावः स प्रमाणसुदर्शनात्14 ॥ 10.23 ॥
विश्वास-प्रस्तुतिः - 10.24
अभिमानो द्विधा योऽपि संरम्भो योऽप्यहंकृतेः।
यश्च कामादिको भावस्तत्रेयत्तास्थितिश्च या ॥ 10.24 ॥
मूलम् - 10.24
अभिमानो द्विधा योऽपि संरम्भो योऽप्यहंकृतेः।
यश्च कामादिको भावस्तत्रेयत्तास्थितिश्च या ॥ 10.24 ॥
विश्वास-प्रस्तुतिः - 10.25
सा प्रमाणमये चक्रे संकल्पेऽस्मिन् सुदर्शने।
पञ्चानां पञ्चकं यच्च संकल्पानामवस्थितम् ॥ 10.25 ॥
मूलम् - 10.25
सा प्रमाणमये चक्रे संकल्पेऽस्मिन् सुदर्शने।
पञ्चानां पञ्चकं यच्च संकल्पानामवस्थितम् ॥ 10.25 ॥
विश्वास-प्रस्तुतिः - 10.26
तादृशं15 च विकल्पानां तदेतद् द्वितयं मुने।
इयत्ता या स्थिता व्याप्य सा प्रमाणसुदर्शनात् ॥ 10.26 ॥
मूलम् - 10.26
तादृशं15 च विकल्पानां तदेतद् द्वितयं मुने।
इयत्ता या स्थिता व्याप्य सा प्रमाणसुदर्शनात् ॥ 10.26 ॥
विश्वास-प्रस्तुतिः - 10.27
तानवं पाटवं यच्च यच्चालोचनपञ्चकम्।
शान्तघोरादिकं16 रूपं यच्च धीन्द्रियपञ्चके ॥ 10.27 ॥
मूलम् - 10.27
तानवं पाटवं यच्च यच्चालोचनपञ्चकम्।
शान्तघोरादिकं16 रूपं यच्च धीन्द्रियपञ्चके ॥ 10.27 ॥
विश्वास-प्रस्तुतिः - 10.28
वचनादानविक्रान्तिमोदोत्सर्गमयं च यत्।
शान्तघोरादिकं रूपं यत्कर्मेन्द्रियपञ्चके ॥ 10.28 ॥
मूलम् - 10.28
वचनादानविक्रान्तिमोदोत्सर्गमयं च यत्।
शान्तघोरादिकं रूपं यत्कर्मेन्द्रियपञ्चके ॥ 10.28 ॥
विश्वास-प्रस्तुतिः - 10.29
तत्रेयत्तामयं रूपं यच्च स्थितिमयं वपुः।
प्रमाणे वैष्णवे सर्वं तत्संकल्पसुदर्शने ॥ 10.29 ॥
मूलम् - 10.29
तत्रेयत्तामयं रूपं यच्च स्थितिमयं वपुः।
प्रमाणे वैष्णवे सर्वं तत्संकल्पसुदर्शने ॥ 10.29 ॥
विश्वास-प्रस्तुतिः - 10.31
स्थैर्यपार्थिवकाठिन्यमित्येतद्भौतिकं वपुः।
एकद्वित्रिचतुः पञ्चगुणव्यूहमयी स्थितिः ॥ 10.31 ॥
मूलम् - 10.31
स्थैर्यपार्थिवकाठिन्यमित्येतद्भौतिकं वपुः।
एकद्वित्रिचतुः पञ्चगुणव्यूहमयी स्थितिः ॥ 10.31 ॥
विश्वास-प्रस्तुतिः - 10.33
सा सा प्रमाणचक्रस्य संकल्पस्य हरेर्गतिः।
इतीयं स्थितिमर्यादेयत्ता चक्रे17 प्रकीर्तिता ॥ 10.33 ॥
मूलम् - 10.33
सा सा प्रमाणचक्रस्य संकल्पस्य हरेर्गतिः।
इतीयं स्थितिमर्यादेयत्ता चक्रे17 प्रकीर्तिता ॥ 10.33 ॥
विश्वास-प्रस्तुतिः - 10.34
विष्णुसंकल्पसंभूतां स्थितिमन्यां मुने श्रृणु।
प्रतिबन्धनिरासेन या स्वभावगतिर्मुने18 ॥ 10.34 ॥
मूलम् - 10.34
विष्णुसंकल्पसंभूतां स्थितिमन्यां मुने श्रृणु।
प्रतिबन्धनिरासेन या स्वभावगतिर्मुने18 ॥ 10.34 ॥
विश्वास-प्रस्तुतिः - 10.35
तत्त्वानां तात्त्विकानां च सा स्थितिः कथ्यते मुने।
गुणान्तरानुग्रहेण यः सत्त्वोन्मेष ऊर्जितः ॥ 10.35 ॥
मूलम् - 10.35
तत्त्वानां तात्त्विकानां च सा स्थितिः कथ्यते मुने।
गुणान्तरानुग्रहेण यः सत्त्वोन्मेष ऊर्जितः ॥ 10.35 ॥
विश्वास-प्रस्तुतिः - 10.36
धर्मज्ञानादिरूपोऽसौ सुदर्शनसमीरितः।
परिमाणविशेषः स 19बोध्यस्त्रैलोक्यधारकः ॥ 10.36 ॥
मूलम् - 10.36
धर्मज्ञानादिरूपोऽसौ सुदर्शनसमीरितः।
परिमाणविशेषः स 19बोध्यस्त्रैलोक्यधारकः ॥ 10.36 ॥
विश्वास-प्रस्तुतिः - 10.38
गुणान्तरानुग्रहेण तमसो यः स उद्यमः।
अधर्मादिस्वरूपोऽसौ विष्णुसंकल्पचोदितः ॥ 10.38 ॥
मूलम् - 10.38
गुणान्तरानुग्रहेण तमसो यः स उद्यमः।
अधर्मादिस्वरूपोऽसौ विष्णुसंकल्पचोदितः ॥ 10.38 ॥
विश्वास-प्रस्तुतिः - 10.39
शनैराचर्यमाणोऽसौ तमोमलिनबुद्धिभिः।
अन्नवृष्ट्यादिनाशेन विनाशयति रोदसी ॥ 10.39 ॥
मूलम् - 10.39
शनैराचर्यमाणोऽसौ तमोमलिनबुद्धिभिः।
अन्नवृष्ट्यादिनाशेन विनाशयति रोदसी ॥ 10.39 ॥
शस्त्रव्यूहप्रतिपादनम्
धर्मसंस्थापनायाथ निरसिष्यन्नधार्मिकान् ॥ 10.40 ॥
विश्वास-प्रस्तुतिः - 10.41
जनार्दनत्वमीशानो यदा विष्णुः प्रपद्यते।
तदा देवस्य संकल्पः सुदर्शनसमाह्वयः ॥ 10.41 ॥
मूलम् - 10.41
जनार्दनत्वमीशानो यदा विष्णुः प्रपद्यते।
तदा देवस्य संकल्पः सुदर्शनसमाह्वयः ॥ 10.41 ॥
विश्वास-प्रस्तुतिः - 10.42
आयुधादिस्वरूपेणाकारत्वं प्रतिपद्यते।
चक्रलाङ्गलसौनन्दशङ्खशार्ङ्गशरात्मना ॥ 10.42 ॥
मूलम् - 10.42
आयुधादिस्वरूपेणाकारत्वं प्रतिपद्यते।
चक्रलाङ्गलसौनन्दशङ्खशार्ङ्गशरात्मना ॥ 10.42 ॥
विश्वास-प्रस्तुतिः - 10.43
खडूगखेटकरूपेण पाशाङ्कुशपरश्वधैः।
दण्डकुन्तस्वरूपेण दम्भोलिमुसलात्मना ॥ 10.43 ॥
मूलम् - 10.43
खडूगखेटकरूपेण पाशाङ्कुशपरश्वधैः।
दण्डकुन्तस्वरूपेण दम्भोलिमुसलात्मना ॥ 10.43 ॥
विश्वास-प्रस्तुतिः - 10.44
शतवक्राग्निरूपेण कुन्तशक्तिमयात्मना।
तथा शूलस्वरूपेण खर्वाङ्गाद्यायुधात्मना ॥ 10.44 ॥
मूलम् - 10.44
शतवक्राग्निरूपेण कुन्तशक्तिमयात्मना।
तथा शूलस्वरूपेण खर्वाङ्गाद्यायुधात्मना ॥ 10.44 ॥
विश्वास-प्रस्तुतिः - 10.45
एवं नानाविधै 20रूपैस्तत्संकल्पविकल्पितैः।
उदेति 21जगतो वृद्ध्यै नारायणकराश्रयी ॥ 10.45 ॥
मूलम् - 10.45
एवं नानाविधै 20रूपैस्तत्संकल्पविकल्पितैः।
उदेति 21जगतो वृद्ध्यै नारायणकराश्रयी ॥ 10.45 ॥
विश्वास-प्रस्तुतिः - 10.46
इति शस्त्रमयो व्यूहो लेशतस्ते निदर्शितः।
अपरोऽस्त्रमयो व्यूहः सौदर्शन उदीर्यते ॥ 10.46 ॥
मूलम् - 10.46
इति शस्त्रमयो व्यूहो लेशतस्ते निदर्शितः।
अपरोऽस्त्रमयो व्यूहः सौदर्शन उदीर्यते ॥ 10.46 ॥
विश्वास-प्रस्तुतिः - 10.47
रूपमास्थाय दिव्यं तदङ्गप्रत्यङ्गभूषणम्।
ब्रह्मक्षत्रादिभावेन मुखबाहूरुपादतः ॥ 10.47 ॥
मूलम् - 10.47
रूपमास्थाय दिव्यं तदङ्गप्रत्यङ्गभूषणम्।
ब्रह्मक्षत्रादिभावेन मुखबाहूरुपादतः ॥ 10.47 ॥
विश्वास-प्रस्तुतिः - 10.48
ब्रह्मास्त्रादिमयं व्यूहं प्रवर्तकनिवर्तकम्।
सृजत्यशेषरक्षार्थं षष्टिद्वितयसंमतम् ॥ 10.48 ॥
मूलम् - 10.48
ब्रह्मास्त्रादिमयं व्यूहं प्रवर्तकनिवर्तकम्।
सृजत्यशेषरक्षार्थं षष्टिद्वितयसंमतम् ॥ 10.48 ॥
विश्वास-प्रस्तुतिः - 10.49
प्रजापतिपितृब्रह्मदेवेभ्यश्च तथा तथा।
दिव्यो नानाविधाकारः समुदेत्यस्त्ररूपवान् ॥ 10.49 ॥
मूलम् - 10.49
प्रजापतिपितृब्रह्मदेवेभ्यश्च तथा तथा।
दिव्यो नानाविधाकारः समुदेत्यस्त्ररूपवान् ॥ 10.49 ॥
विश्वास-प्रस्तुतिः - 10.50
ब्रह्मदेवर्षिराजर्षिष्वपि मन्त्रमयात्मसु।
अनुव्याहारशापादिरूपेणैवावतिष्ठते॥ 10.50 ॥
मूलम् - 10.50
ब्रह्मदेवर्षिराजर्षिष्वपि मन्त्रमयात्मसु।
अनुव्याहारशापादिरूपेणैवावतिष्ठते॥ 10.50 ॥
विश्वास-प्रस्तुतिः - 10.51
न तदस्ति पृथिव्यां वा दिवि वा मुनिसत्तम।
निग्रहेऽनुग्रहे वापि यत्रायं नैव साधनम् ॥ 10.51 ॥
मूलम् - 10.51
न तदस्ति पृथिव्यां वा दिवि वा मुनिसत्तम।
निग्रहेऽनुग्रहे वापि यत्रायं नैव साधनम् ॥ 10.51 ॥
विश्वास-प्रस्तुतिः - 10.52
प्रमाणव्यूह एतावानर्थाकारो निदर्शितः।
सुदर्शनस्य देवस्य शब्दाकारमथो श्रृणु ॥ 10.52 ॥
मूलम् - 10.52
प्रमाणव्यूह एतावानर्थाकारो निदर्शितः।
सुदर्शनस्य देवस्य शब्दाकारमथो श्रृणु ॥ 10.52 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अर्थात्मकप्रमाणव्यूहनिरूपणं नाम दशमोऽध्यायः
आदितः श्लोकाः 618
————-*****—————–