०९

अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायाः
प्रथमं पौरुषचक्रम्

अहिर्बुध्न्यः—-

विश्वास-प्रस्तुतिः - 9.1

आधारः कथितः शुद्धः शुद्धा सा येन धार्यते।
भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते ॥ 9.1 ॥

मूलम् - 9.1

आधारः कथितः शुद्धः शुद्धा सा येन धार्यते।
भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते ॥ 9.1 ॥

विश्वास-प्रस्तुतिः - 9.2

पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका।
सा येन धार्यते चक्रं तत्संकल्पमयं श्रृणु॥ 9.2 ॥

मूलम् - 9.2

पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका।
सा येन धार्यते चक्रं तत्संकल्पमयं श्रृणु॥ 9.2 ॥

त्रयरं तत् पौरुषं चक्रं पुरुषो येन धार्यते। शक्त्यादिचक्राणि चक्रं त्रिंशदरं प्रोक्तं शक्तिः सा येन धार्यते ॥ 9.3 ॥
विश्वास-प्रस्तुतिः - 9.4

तादृशं नैयतं चक्रं नियतिर्येन धार्यते।
षडरं कालचक्रं तत् स कालो येन धार्यते ॥ 9.4 ॥

मूलम् - 9.4

तादृशं नैयतं चक्रं नियतिर्येन धार्यते।
षडरं कालचक्रं तत् स कालो येन धार्यते ॥ 9.4 ॥

[^1]सत्त्वं रजस्तमश्चैव धार्यन्ते यैर्महामुने। तानि त्वाधारचक्राणि त्र्यराणीति विदुर्बुधाः ॥ 9.5 ॥ चक्रमेकादशारं तु बुद्धिः सा येन धार्यते।
विश्वास-प्रस्तुतिः - 9.7

एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् ।
त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥ 9.7 ॥

मूलम् - 9.7

एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् ।
त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥ 9.7 ॥

विश्वास-प्रस्तुतिः - 9.8

पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते।
गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः ॥ 9.8 ॥

मूलम् - 9.8

पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते।
गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः ॥ 9.8 ॥

विश्वास-प्रस्तुतिः - 9.9

एकादशविधं चक्रमैन्द्रियं द्वियुगारकम्।
इयमाधारशक्तिस्ते प्रोक्ता प्रातिस्विकी मुने ॥ 9.9 ॥

मूलम् - 9.9

एकादशविधं चक्रमैन्द्रियं द्वियुगारकम्।
इयमाधारशक्तिस्ते प्रोक्ता प्रातिस्विकी मुने ॥ 9.9 ॥

महाविभूतिचक्रम्
विश्वास-प्रस्तुतिः - 9.10

एकधारं महच्चकं महाभूतिकरं2 श्रृणु।
महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते ॥ 9.10 ॥

मूलम् - 9.10

एकधारं महच्चकं महाभूतिकरं2 श्रृणु।
महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते ॥ 9.10 ॥

विश्वास-प्रस्तुतिः - 9.11

अनिशं 3पावमानेन पवमानेन वै मुने।
संकर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा ॥ 9.11 ॥

मूलम् - 9.11

अनिशं 3पावमानेन पवमानेन वै मुने।
संकर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा ॥ 9.11 ॥

विश्वास-प्रस्तुतिः - 9.12

निरालम्बे 4पटे भूतिः संकल्पेनैव धार्यते।
तत्संकल्पमयं चक्रमनन्तारं महामुने ॥ 9.12 ॥

मूलम् - 9.12

निरालम्बे 4पटे भूतिः संकल्पेनैव धार्यते।
तत्संकल्पमयं चक्रमनन्तारं महामुने ॥ 9.12 ॥

विश्वास-प्रस्तुतिः - 9.13

दिव्यं महाविभूत्याख्यमवाङ्भनसलङ्घितम्।
अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् ॥ 9.13 ॥

मूलम् - 9.13

दिव्यं महाविभूत्याख्यमवाङ्भनसलङ्घितम्।
अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् ॥ 9.13 ॥

विश्वास-प्रस्तुतिः - 9.14

अनन्तारमपर्यन्तं पर्यन्तकुलसंकुलम्।
ब्रह्मण्डकोटिकोट्योघकोट्यर्बुदविभावितम्5 ॥ 9.14 ॥

मूलम् - 9.14

अनन्तारमपर्यन्तं पर्यन्तकुलसंकुलम्।
ब्रह्मण्डकोटिकोट्योघकोट्यर्बुदविभावितम्5 ॥ 9.14 ॥

विश्वास-प्रस्तुतिः - 9.16

अङ्कितं क्षुद्रमेघाभैर्ब्रह्मण्डैरनुचित्रितम्।
महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् ॥ 9.16 ॥

मूलम् - 9.16

अङ्कितं क्षुद्रमेघाभैर्ब्रह्मण्डैरनुचित्रितम्।
महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् ॥ 9.16 ॥

विश्वास-प्रस्तुतिः - 9.17

विप्रड्भिरिव वर्षाणां विततं वैष्णवं पदम्।
महाभूतैः क्वचिद्दीप्तं 6ज्योतिर्भिरयुतायुतैः ॥ 9.17 ॥

मूलम् - 9.17

विप्रड्भिरिव वर्षाणां विततं वैष्णवं पदम्।
महाभूतैः क्वचिद्दीप्तं 6ज्योतिर्भिरयुतायुतैः ॥ 9.17 ॥

विश्वास-प्रस्तुतिः - 9.18

वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित्।
क्षुद्रावकाशसंकाशैराकाशैः कोटिकोटिशः ॥ 9.18 ॥

मूलम् - 9.18

वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित्।
क्षुद्रावकाशसंकाशैराकाशैः कोटिकोटिशः ॥ 9.18 ॥

विश्वास-प्रस्तुतिः - 9.19

छिद्रितं विविधाकारैरहंकारैरहंकृतम्।
अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः ॥ 9.19 ॥

मूलम् - 9.19

छिद्रितं विविधाकारैरहंकारैरहंकृतम्।
अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः ॥ 9.19 ॥

विश्वास-प्रस्तुतिः - 9.20

अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम्।
क्वचिद्विविधसंतापचलनैरयुतायुतैः ॥ 9.20 ॥

मूलम् - 9.20

अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम्।
क्वचिद्विविधसंतापचलनैरयुतायुतैः ॥ 9.20 ॥

विश्वास-प्रस्तुतिः - 9.21

रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित्।
अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः ॥ 9.21 ॥

मूलम् - 9.21

रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित्।
अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः ॥ 9.21 ॥

[^8]त्रिविधैः षट्प्रकारैश्च द्विषट्कप्रविभागिभिः[^9] । चतुर्विंषतिसंभेदैस्त्रिंशदर्धद्वयोज्ज्वलैः[^10] ॥ 9.22 ॥
विश्वास-प्रस्तुतिः - 9.23

षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः7
कालैरनेकसाहस्रैरयुतायुतसंकुलैः ॥ 9.23 ॥

मूलम् - 9.23

षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः7
कालैरनेकसाहस्रैरयुतायुतसंकुलैः ॥ 9.23 ॥

विश्वास-प्रस्तुतिः - 9.24

कीर्णं नियतिरूपेण नानानियमनात्मना।
कोटिकोटिसहस्रौघकोटिकोटिगुणेन च ॥ 9.24 ॥

मूलम् - 9.24

कीर्णं नियतिरूपेण नानानियमनात्मना।
कोटिकोटिसहस्रौघकोटिकोटिगुणेन च ॥ 9.24 ॥

शक्त्या नानाविधाकारमधुकोशनिभात्मना। [^12]निष्यन्दमानतत्त्वौधस्वरूपमधुविप्रुषा[^13] ॥ 9.25 ॥
विश्वास-प्रस्तुतिः - 9.26

कोटिकोटिसहस्रौघनियुतायुतरूपया।
स्निग्धं क्वचिदिवात्यर्थं पुंसा8 क्वचिदिवास्थितम् ॥ 9.26 ॥

मूलम् - 9.26

कोटिकोटिसहस्रौघनियुतायुतरूपया।
स्निग्धं क्वचिदिवात्यर्थं पुंसा8 क्वचिदिवास्थितम् ॥ 9.26 ॥

विश्वास-प्रस्तुतिः - 9.27

शुक्लरक्तासिताकारकर्मकल्पितरूपिणा।
अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना ॥ 9.27 ॥

मूलम् - 9.27

शुक्लरक्तासिताकारकर्मकल्पितरूपिणा।
अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना ॥ 9.27 ॥

विश्वास-प्रस्तुतिः - 9.28

नानाजीवविभेदेन नानाफलविधाजुषा।
शुभाशुभोभयाकारवासनाजटिलात्मना ॥ 9.28 ॥

मूलम् - 9.28

नानाजीवविभेदेन नानाफलविधाजुषा।
शुभाशुभोभयाकारवासनाजटिलात्मना ॥ 9.28 ॥

विश्वास-प्रस्तुतिः - 9.29

अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित्।
निर्मलानन्दसंबोधमहासत्तामयेन च ॥ 9.29 ॥

मूलम् - 9.29

अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित्।
निर्मलानन्दसंबोधमहासत्तामयेन च ॥ 9.29 ॥

विश्वास-प्रस्तुतिः - 9.30

नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः।
साक्षात् पश्यद्भिरीशानं नारायणमनामयम् ॥ 9.30 ॥

मूलम् - 9.30

नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः।
साक्षात् पश्यद्भिरीशानं नारायणमनामयम् ॥ 9.30 ॥

विश्वास-प्रस्तुतिः - 9.31

देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया।
नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् ॥ 9.31 ॥

मूलम् - 9.31

देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया।
नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् ॥ 9.31 ॥

विश्वास-प्रस्तुतिः - 9.32

आत्मभिः शोभितेनैवं 9वरेण नियताङ्कितम्।
षाड्गुण्यविग्रहैर्व्यूहैः10 पुरुषैः पुष्करेक्षणैः ॥ 9.32 ॥

मूलम् - 9.32

आत्मभिः शोभितेनैवं 9वरेण नियताङ्कितम्।
षाड्गुण्यविग्रहैर्व्यूहैः10 पुरुषैः पुष्करेक्षणैः ॥ 9.32 ॥

विश्वास-प्रस्तुतिः - 9.33

आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः।
इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् ॥ 9.33 ॥

मूलम् - 9.33

आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः।
इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् ॥ 9.33 ॥

विश्वास-प्रस्तुतिः - 9.34

चित्राम्बरधरां11 सम्यग्दधदात्मानमात्मना।
संकल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः12 ॥ 9.34 ॥

मूलम् - 9.34

चित्राम्बरधरां11 सम्यग्दधदात्मानमात्मना।
संकल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः12 ॥ 9.34 ॥

तदनन्तारमव्यक्तं महच्चक्रं सुदर्शनम्। [^19]भावितं स्मृतिमात्रेण भावयत्यखिला गतीः ॥ 9.35 ॥

संहृतिचक्रम्

विश्वास-प्रस्तुतिः - 9.36

यो13 जिहीर्षामयो नित्यः संकल्पो वैष्णवः परः।
अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ॥ 9.36 ॥

मूलम् - 9.36

यो13 जिहीर्षामयो नित्यः संकल्पो वैष्णवः परः।
अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ॥ 9.36 ॥

विश्वास-प्रस्तुतिः - 9.37

एक एव तु संकल्पो रूपैर्नानोपगीयते।
अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ॥ 9.37 ॥

मूलम् - 9.37

एक एव तु संकल्पो रूपैर्नानोपगीयते।
अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ॥ 9.37 ॥

अतरङ्गार्णवाकारमनभ्राम्बरसंनिभम्। [^21]एकं तत् परमं ब्रह्म षाड्गुण्यस्तिमितं महत् ॥ 9.38 ॥
विश्वास-प्रस्तुतिः - 9.39

भावाभावमयी तस्य शक्तिरेकानपायिनी।
तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः ॥ 9.39 ॥

मूलम् - 9.39

भावाभावमयी तस्य शक्तिरेकानपायिनी।
तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः ॥ 9.39 ॥

विश्वास-प्रस्तुतिः - 9.40

तस्य संकल्पसंकल्पो14 रूपव्याप्रियमाणता।
स्तैमित्यस्थितिसंकल्पस्तिमितं तत् सुदर्शनम् ॥ 9.40 ॥

मूलम् - 9.40

तस्य संकल्पसंकल्पो14 रूपव्याप्रियमाणता।
स्तैमित्यस्थितिसंकल्पस्तिमितं तत् सुदर्शनम् ॥ 9.40 ॥

प्रभवे चाप्यये वापि स्थितौ वापि महामुने।
15चलत्तापूर्वरूपं यः संकल्पस्तत्र वर्तते ॥ 9.41 ॥
चलनं नाम तच्चक्रं सुदर्शनमयं महत्।
तस्य त्रैविध्यम्
भेदास्त्रयोऽस्य विज्ञेयास्तन्त्रविज्ञानपारगैः ॥ 9.42 ॥

विश्वास-प्रस्तुतिः - 9.43

महासृष्टिमयं तत्र समासव्यासलक्षणम्।
नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा ॥ 9.43 ॥

मूलम् - 9.43

महासृष्टिमयं तत्र समासव्यासलक्षणम्।
नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा ॥ 9.43 ॥

विश्वास-प्रस्तुतिः - 9.44

महासंहारचक्रं च समासव्यासलक्षणम्।
तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा ॥ 9.44 ॥

मूलम् - 9.44

महासंहारचक्रं च समासव्यासलक्षणम्।
तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा ॥ 9.44 ॥

[^24]स्थितिचक्रं तु यन्मध्ये समासव्यासलक्षणम्। तस्य वक्ष्यामि विस्तारं यत्प्रमाणतया स्थितम्॥ 9.45 ॥
विश्वास-प्रस्तुतिः - 9.46

यथा 16ह्योको नटो भावैर्नानारूपैर्विभज्यते।
तथा संकल्प एवैकस्तैस्तैर्भेदैर्विभज्यते ॥ 9.46 ॥

मूलम् - 9.46

यथा 16ह्योको नटो भावैर्नानारूपैर्विभज्यते।
तथा संकल्प एवैकस्तैस्तैर्भेदैर्विभज्यते ॥ 9.46 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायः
आदितः श्लोका 566


  1. महासहस्रकोठ्योघ B ↩︎

  2. धरम् D ↩︎ ↩︎

  3. पञ्चमानेन A B C; पवमानेन E.J. ↩︎ ↩︎

  4. पदे सर्वैः A B C J ↩︎ ↩︎

  5. विभासितम् J
    1महाभूतसहस्रौघसहस्रौघविभावनम्।
    ज्योतिरिङ्गमसच्छायैरिन्द्रियैः कोटिकोटिशः ॥ 9.15 ॥ ↩︎ ↩︎

  6. ज्योत्स्नाभिः A C J ↩︎ ↩︎

  7. विभागशः A B C E F ↩︎ ↩︎

  8. पुंसा च क्वचिदास्थितम् D J ↩︎ ↩︎

  9. परेण E F J ↩︎ ↩︎

  10. पुण्यैः J ↩︎ ↩︎

  11. निभा B C E J ↩︎ ↩︎

  12. स्थितान् A B C ↩︎ ↩︎

  13. तत्संहृतिमयो D ↩︎ ↩︎

  14. संकल्पौ रूपां वा D
    चलनचक्रम् ↩︎ ↩︎

  15. चलच्चित्तापूर्वरूपं संकल्पस्तत्र वर्तते A B C E F J ↩︎

  16. होकं नभो A C J ↩︎ ↩︎