अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायाः
प्रथमं पौरुषचक्रम्
अहिर्बुध्न्यः—-
विश्वास-प्रस्तुतिः - 9.1
आधारः कथितः शुद्धः शुद्धा सा येन धार्यते।
भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते ॥ 9.1 ॥
मूलम् - 9.1
आधारः कथितः शुद्धः शुद्धा सा येन धार्यते।
भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते ॥ 9.1 ॥
विश्वास-प्रस्तुतिः - 9.2
पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका।
सा येन धार्यते चक्रं तत्संकल्पमयं श्रृणु॥ 9.2 ॥
मूलम् - 9.2
पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका।
सा येन धार्यते चक्रं तत्संकल्पमयं श्रृणु॥ 9.2 ॥
विश्वास-प्रस्तुतिः - 9.4
तादृशं नैयतं चक्रं नियतिर्येन धार्यते।
षडरं कालचक्रं तत् स कालो येन धार्यते ॥ 9.4 ॥
मूलम् - 9.4
तादृशं नैयतं चक्रं नियतिर्येन धार्यते।
षडरं कालचक्रं तत् स कालो येन धार्यते ॥ 9.4 ॥
विश्वास-प्रस्तुतिः - 9.7
एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् ।
त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥ 9.7 ॥
मूलम् - 9.7
एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् ।
त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥ 9.7 ॥
विश्वास-प्रस्तुतिः - 9.8
पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते।
गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः ॥ 9.8 ॥
मूलम् - 9.8
पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते।
गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः ॥ 9.8 ॥
विश्वास-प्रस्तुतिः - 9.9
एकादशविधं चक्रमैन्द्रियं द्वियुगारकम्।
इयमाधारशक्तिस्ते प्रोक्ता प्रातिस्विकी मुने ॥ 9.9 ॥
मूलम् - 9.9
एकादशविधं चक्रमैन्द्रियं द्वियुगारकम्।
इयमाधारशक्तिस्ते प्रोक्ता प्रातिस्विकी मुने ॥ 9.9 ॥
विश्वास-प्रस्तुतिः - 9.10
एकधारं महच्चकं महाभूतिकरं2 श्रृणु।
महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते ॥ 9.10 ॥
मूलम् - 9.10
एकधारं महच्चकं महाभूतिकरं2 श्रृणु।
महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते ॥ 9.10 ॥
विश्वास-प्रस्तुतिः - 9.11
अनिशं 3पावमानेन पवमानेन वै मुने।
संकर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा ॥ 9.11 ॥
मूलम् - 9.11
अनिशं 3पावमानेन पवमानेन वै मुने।
संकर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा ॥ 9.11 ॥
विश्वास-प्रस्तुतिः - 9.12
निरालम्बे 4पटे भूतिः संकल्पेनैव धार्यते।
तत्संकल्पमयं चक्रमनन्तारं महामुने ॥ 9.12 ॥
मूलम् - 9.12
निरालम्बे 4पटे भूतिः संकल्पेनैव धार्यते।
तत्संकल्पमयं चक्रमनन्तारं महामुने ॥ 9.12 ॥
विश्वास-प्रस्तुतिः - 9.13
दिव्यं महाविभूत्याख्यमवाङ्भनसलङ्घितम्।
अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् ॥ 9.13 ॥
मूलम् - 9.13
दिव्यं महाविभूत्याख्यमवाङ्भनसलङ्घितम्।
अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् ॥ 9.13 ॥
विश्वास-प्रस्तुतिः - 9.14
अनन्तारमपर्यन्तं पर्यन्तकुलसंकुलम्।
ब्रह्मण्डकोटिकोट्योघकोट्यर्बुदविभावितम्5 ॥ 9.14 ॥
मूलम् - 9.14
अनन्तारमपर्यन्तं पर्यन्तकुलसंकुलम्।
ब्रह्मण्डकोटिकोट्योघकोट्यर्बुदविभावितम्5 ॥ 9.14 ॥
विश्वास-प्रस्तुतिः - 9.16
अङ्कितं क्षुद्रमेघाभैर्ब्रह्मण्डैरनुचित्रितम्।
महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् ॥ 9.16 ॥
मूलम् - 9.16
अङ्कितं क्षुद्रमेघाभैर्ब्रह्मण्डैरनुचित्रितम्।
महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् ॥ 9.16 ॥
विश्वास-प्रस्तुतिः - 9.17
विप्रड्भिरिव वर्षाणां विततं वैष्णवं पदम्।
महाभूतैः क्वचिद्दीप्तं 6ज्योतिर्भिरयुतायुतैः ॥ 9.17 ॥
मूलम् - 9.17
विप्रड्भिरिव वर्षाणां विततं वैष्णवं पदम्।
महाभूतैः क्वचिद्दीप्तं 6ज्योतिर्भिरयुतायुतैः ॥ 9.17 ॥
विश्वास-प्रस्तुतिः - 9.18
वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित्।
क्षुद्रावकाशसंकाशैराकाशैः कोटिकोटिशः ॥ 9.18 ॥
मूलम् - 9.18
वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित्।
क्षुद्रावकाशसंकाशैराकाशैः कोटिकोटिशः ॥ 9.18 ॥
विश्वास-प्रस्तुतिः - 9.19
छिद्रितं विविधाकारैरहंकारैरहंकृतम्।
अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः ॥ 9.19 ॥
मूलम् - 9.19
छिद्रितं विविधाकारैरहंकारैरहंकृतम्।
अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः ॥ 9.19 ॥
विश्वास-प्रस्तुतिः - 9.20
अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम्।
क्वचिद्विविधसंतापचलनैरयुतायुतैः ॥ 9.20 ॥
मूलम् - 9.20
अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम्।
क्वचिद्विविधसंतापचलनैरयुतायुतैः ॥ 9.20 ॥
विश्वास-प्रस्तुतिः - 9.21
रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित्।
अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः ॥ 9.21 ॥
मूलम् - 9.21
रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित्।
अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः ॥ 9.21 ॥
विश्वास-प्रस्तुतिः - 9.23
षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः7।
कालैरनेकसाहस्रैरयुतायुतसंकुलैः ॥ 9.23 ॥
मूलम् - 9.23
षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः7।
कालैरनेकसाहस्रैरयुतायुतसंकुलैः ॥ 9.23 ॥
विश्वास-प्रस्तुतिः - 9.24
कीर्णं नियतिरूपेण नानानियमनात्मना।
कोटिकोटिसहस्रौघकोटिकोटिगुणेन च ॥ 9.24 ॥
मूलम् - 9.24
कीर्णं नियतिरूपेण नानानियमनात्मना।
कोटिकोटिसहस्रौघकोटिकोटिगुणेन च ॥ 9.24 ॥
विश्वास-प्रस्तुतिः - 9.26
कोटिकोटिसहस्रौघनियुतायुतरूपया।
स्निग्धं क्वचिदिवात्यर्थं पुंसा8 क्वचिदिवास्थितम् ॥ 9.26 ॥
मूलम् - 9.26
कोटिकोटिसहस्रौघनियुतायुतरूपया।
स्निग्धं क्वचिदिवात्यर्थं पुंसा8 क्वचिदिवास्थितम् ॥ 9.26 ॥
विश्वास-प्रस्तुतिः - 9.27
शुक्लरक्तासिताकारकर्मकल्पितरूपिणा।
अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना ॥ 9.27 ॥
मूलम् - 9.27
शुक्लरक्तासिताकारकर्मकल्पितरूपिणा।
अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना ॥ 9.27 ॥
विश्वास-प्रस्तुतिः - 9.28
नानाजीवविभेदेन नानाफलविधाजुषा।
शुभाशुभोभयाकारवासनाजटिलात्मना ॥ 9.28 ॥
मूलम् - 9.28
नानाजीवविभेदेन नानाफलविधाजुषा।
शुभाशुभोभयाकारवासनाजटिलात्मना ॥ 9.28 ॥
विश्वास-प्रस्तुतिः - 9.29
अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित्।
निर्मलानन्दसंबोधमहासत्तामयेन च ॥ 9.29 ॥
मूलम् - 9.29
अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित्।
निर्मलानन्दसंबोधमहासत्तामयेन च ॥ 9.29 ॥
विश्वास-प्रस्तुतिः - 9.30
नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः।
साक्षात् पश्यद्भिरीशानं नारायणमनामयम् ॥ 9.30 ॥
मूलम् - 9.30
नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः।
साक्षात् पश्यद्भिरीशानं नारायणमनामयम् ॥ 9.30 ॥
विश्वास-प्रस्तुतिः - 9.31
देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया।
नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् ॥ 9.31 ॥
मूलम् - 9.31
देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया।
नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् ॥ 9.31 ॥
विश्वास-प्रस्तुतिः - 9.32
आत्मभिः शोभितेनैवं 9वरेण नियताङ्कितम्।
षाड्गुण्यविग्रहैर्व्यूहैः10 पुरुषैः पुष्करेक्षणैः ॥ 9.32 ॥
मूलम् - 9.32
आत्मभिः शोभितेनैवं 9वरेण नियताङ्कितम्।
षाड्गुण्यविग्रहैर्व्यूहैः10 पुरुषैः पुष्करेक्षणैः ॥ 9.32 ॥
विश्वास-प्रस्तुतिः - 9.33
आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः।
इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् ॥ 9.33 ॥
मूलम् - 9.33
आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः।
इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् ॥ 9.33 ॥
विश्वास-प्रस्तुतिः - 9.34
चित्राम्बरधरां11 सम्यग्दधदात्मानमात्मना।
संकल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः12 ॥ 9.34 ॥
मूलम् - 9.34
चित्राम्बरधरां11 सम्यग्दधदात्मानमात्मना।
संकल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः12 ॥ 9.34 ॥
संहृतिचक्रम्
विश्वास-प्रस्तुतिः - 9.36
यो13 जिहीर्षामयो नित्यः संकल्पो वैष्णवः परः।
अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ॥ 9.36 ॥
मूलम् - 9.36
यो13 जिहीर्षामयो नित्यः संकल्पो वैष्णवः परः।
अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ॥ 9.36 ॥
विश्वास-प्रस्तुतिः - 9.37
एक एव तु संकल्पो रूपैर्नानोपगीयते।
अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ॥ 9.37 ॥
मूलम् - 9.37
एक एव तु संकल्पो रूपैर्नानोपगीयते।
अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ॥ 9.37 ॥
विश्वास-प्रस्तुतिः - 9.39
भावाभावमयी तस्य शक्तिरेकानपायिनी।
तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः ॥ 9.39 ॥
मूलम् - 9.39
भावाभावमयी तस्य शक्तिरेकानपायिनी।
तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः ॥ 9.39 ॥
विश्वास-प्रस्तुतिः - 9.40
तस्य संकल्पसंकल्पो14 रूपव्याप्रियमाणता।
स्तैमित्यस्थितिसंकल्पस्तिमितं तत् सुदर्शनम् ॥ 9.40 ॥
मूलम् - 9.40
तस्य संकल्पसंकल्पो14 रूपव्याप्रियमाणता।
स्तैमित्यस्थितिसंकल्पस्तिमितं तत् सुदर्शनम् ॥ 9.40 ॥
प्रभवे चाप्यये वापि स्थितौ वापि महामुने।
15चलत्तापूर्वरूपं यः संकल्पस्तत्र वर्तते ॥ 9.41 ॥
चलनं नाम तच्चक्रं सुदर्शनमयं महत्।
तस्य त्रैविध्यम्
भेदास्त्रयोऽस्य विज्ञेयास्तन्त्रविज्ञानपारगैः ॥ 9.42 ॥
विश्वास-प्रस्तुतिः - 9.43
महासृष्टिमयं तत्र समासव्यासलक्षणम्।
नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा ॥ 9.43 ॥
मूलम् - 9.43
महासृष्टिमयं तत्र समासव्यासलक्षणम्।
नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा ॥ 9.43 ॥
विश्वास-प्रस्तुतिः - 9.44
महासंहारचक्रं च समासव्यासलक्षणम्।
तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा ॥ 9.44 ॥
मूलम् - 9.44
महासंहारचक्रं च समासव्यासलक्षणम्।
तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा ॥ 9.44 ॥
विश्वास-प्रस्तुतिः - 9.46
यथा 16ह्योको नटो भावैर्नानारूपैर्विभज्यते।
तथा संकल्प एवैकस्तैस्तैर्भेदैर्विभज्यते ॥ 9.46 ॥
मूलम् - 9.46
यथा 16ह्योको नटो भावैर्नानारूपैर्विभज्यते।
तथा संकल्प एवैकस्तैस्तैर्भेदैर्विभज्यते ॥ 9.46 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायः
आदितः श्लोका 566