०८

जगदाधारनिरूपणं नाम अष्टमोऽध्यायः
सृष्टौ वादिनां बहुधा विप्रतिपत्तिः

नारदः—

विश्वास-प्रस्तुतिः - 8.1

भगवन् देवदेवेश भगनेत्रविनाशन।
श्रुतं 1मयैतदखिलं तव वक्त्राम्बुजस्रुतम् ॥ 8.1 ॥

मूलम् - 8.1

भगवन् देवदेवेश भगनेत्रविनाशन।
श्रुतं 1मयैतदखिलं तव वक्त्राम्बुजस्रुतम् ॥ 8.1 ॥

विश्वास-प्रस्तुतिः - 8.2

व्याकुलस्त्वन्तरात्मा मे नानाज्ञानविमोहितः।
केचित् त्रैभूतिकीं सृष्टिं ब्रुवते तत्त्ववादिनः ॥ 8.2 ॥

मूलम् - 8.2

व्याकुलस्त्वन्तरात्मा मे नानाज्ञानविमोहितः।
केचित् त्रैभूतिकीं सृष्टिं ब्रुवते तत्त्ववादिनः ॥ 8.2 ॥

विश्वास-प्रस्तुतिः - 8.3

चतुर्भूतमयीमन्ये केऽप्यन्ये पाञ्चभौतिकीम्।
तां षड्धातुमयीमेके2 सप्तधातुमयीं परे ॥ 8.3 ॥

मूलम् - 8.3

चतुर्भूतमयीमन्ये केऽप्यन्ये पाञ्चभौतिकीम्।
तां षड्धातुमयीमेके2 सप्तधातुमयीं परे ॥ 8.3 ॥

विश्वास-प्रस्तुतिः - 8.4

अष्टप्रकृतिकां3 केचिन्नवप्रकृतिकां4 परे।
दशतत्त्वमयीमेके केचिदेकादशात्मिकाम् ॥ 8.4 ॥

मूलम् - 8.4

अष्टप्रकृतिकां3 केचिन्नवप्रकृतिकां4 परे।
दशतत्त्वमयीमेके केचिदेकादशात्मिकाम् ॥ 8.4 ॥

विश्वास-प्रस्तुतिः - 8.5

एवमुच्चावचां संख्यां तत्त्वप्रकृतिगोचराम्।
वदन्ति मुनयः सिद्धा देवा वेदास्तथैव च ॥ 8.5 ॥

मूलम् - 8.5

एवमुच्चावचां संख्यां तत्त्वप्रकृतिगोचराम्।
वदन्ति मुनयः सिद्धा देवा वेदास्तथैव च ॥ 8.5 ॥

अण्डजामपरे सृष्टिं पद्मजामपि चापरे। [^5]पावकीमपरे सृष्टिं केचित् कायान्तरोद्भवाम् ॥ 8.6 ॥
विश्वास-प्रस्तुतिः - 8.8

नानादर्शनकल्लोलजातकोलाहलोद्भटे।
विमुह्यत्यवमग्नेयमप्लवा बुद्धिरद्य मे ॥ 8.8 ॥

मूलम् - 8.8

नानादर्शनकल्लोलजातकोलाहलोद्भटे।
विमुह्यत्यवमग्नेयमप्लवा बुद्धिरद्य मे ॥ 8.8 ॥

निर्णयप्लवदानेन [^6]तामुत्तारय शंकर।

तदुत्तरकथनारम्भः
अहिर्बुध्न्यः—
6उचितं तव देवर्षे यदयं प्रश्न ईरितः ॥ 8.9 ॥

विश्वास-प्रस्तुतिः - 8.10

मुह्यन्त्यत्र महान्तोऽपि 7शृणु मे तत्त्वनिर्णयम्।
परमात्मा परो देव एकः षाड्गुण्यमुज्ज्वलम् ॥ 8.10 ॥

मूलम् - 8.10

मुह्यन्त्यत्र महान्तोऽपि 7शृणु मे तत्त्वनिर्णयम्।
परमात्मा परो देव एकः षाड्गुण्यमुज्ज्वलम् ॥ 8.10 ॥

वेदवाचोऽपि कार्त्स्न्येन तत्त्वावगाहनासामर्थ्यम्
विश्वास-प्रस्तुतिः - 8.11

वागनादिरनन्तापि 8तत्त्वं तन्नावगाहते।
गुणैस्तटस्थितैस्तैस्तैरजानानेव सा स्थिता ॥ 8.11 ॥

मूलम् - 8.11

वागनादिरनन्तापि 8तत्त्वं तन्नावगाहते।
गुणैस्तटस्थितैस्तैस्तैरजानानेव सा स्थिता ॥ 8.11 ॥

विप्रतिपत्तौ हेतुकथनम्
विश्वास-प्रस्तुतिः - 8.12

यद्गुणे नाम्नि ये श्रान्तास्तत्र तत्त्वविदो मुने।
मनुभिस्तद्गुणैस्तैस्तैस्ते ते तत्त्वविदां 9वराः ॥ 8.12 ॥

मूलम् - 8.12

यद्गुणे नाम्नि ये श्रान्तास्तत्र तत्त्वविदो मुने।
मनुभिस्तद्गुणैस्तैस्तैस्ते ते तत्त्वविदां 9वराः ॥ 8.12 ॥

विश्वास-प्रस्तुतिः - 8.13

निर्दिशन्ति जगद्धेतुं 10स्वनिरूढैर्महामुने।
नानागुणनिमित्तैस्तैर्नानावक्तृसमीरितैः ॥ 8.13 ॥

मूलम् - 8.13

निर्दिशन्ति जगद्धेतुं 10स्वनिरूढैर्महामुने।
नानागुणनिमित्तैस्तैर्नानावक्तृसमीरितैः ॥ 8.13 ॥

भेदं व्यवस्थिताः शब्दैरपर्यायविदो जनाः। एकस्या अपि लक्ष्म्या नानाशब्दगोचरत्वम् एवं विष्णोः [^12]प्रिया भाः सा शक्तिः षाड्गुण्यविग्रहा ॥ 8.14 ॥ नानानामभिरेकापि तत्त्वविद्भिरुपास्यते। तत्त्वविदां स्वस्वदृष्टार्थवादित्वम् तस्यां प्रवर्तमानायां स्वसंकल्पेन सर्जने ॥ 8.15 ॥
विश्वास-प्रस्तुतिः - 8.16

तथा निवर्तमानायां स्वसंकल्पेन संहृतौ।
विज्ञानबलवैषम्याद्ये ये तत्त्वविदो मुने ॥ 8.16 ॥

मूलम् - 8.16

तथा निवर्तमानायां स्वसंकल्पेन संहृतौ।
विज्ञानबलवैषम्याद्ये ये तत्त्वविदो मुने ॥ 8.16 ॥

विश्वास-प्रस्तुतिः - 8.17

न्यूनाधिकविभेदेन यावतीर्ददृशुर्भिदाः।
तावतीस्तावतीस्ते ते प्रोचुः शिष्याभिचोदिताः॥ 8.17 ॥

मूलम् - 8.17

न्यूनाधिकविभेदेन यावतीर्ददृशुर्भिदाः।
तावतीस्तावतीस्ते ते प्रोचुः शिष्याभिचोदिताः॥ 8.17 ॥

[^13]अतश्चासर्वदृग्बुद्धिः संख्यासु प्रविमुह्यति। पितामहादयो ये च जगत्कार्याधिकारिणः ॥ 8.18 ॥ [^14]तेषां न्यूनाधिभावोऽपि वक्तृभेदात् प्रकल्पितः। स्वातन्त्र्यमनियोज्यं तु विष्णोः षाड्गुण्यरूपिणः ॥ 8.19 ॥ तद्बुद्धिरुचिवैचित्र्यादण्डपद्मादिसंभवः। [^15]नानुयोजनमर्हन्ति परमात्मप्रवृत्तयः ॥ 8.20 ॥

भगवात्प्रकारान्त्यम्

विश्वास-प्रस्तुतिः - 8.21

स यथा चेष्टते सृष्टौ स्थितौ संहरणेऽपि वा।
तथा तथा प्रकारास्ते ह्यनन्ताः कालवैभवात् ॥ 8.21 ॥

मूलम् - 8.21

स यथा चेष्टते सृष्टौ स्थितौ संहरणेऽपि वा।
तथा तथा प्रकारास्ते ह्यनन्ताः कालवैभवात् ॥ 8.21 ॥

वादिनामेकैकप्रकारवादित्वम्
विश्वास-प्रस्तुतिः - 8.22

एवं प्रकारनानात्वे देवस्य हरिमेधसः।
कश्चिदेकं परोऽन्यं तु प्रकारमपरोऽपरम् ॥ 8.22 ॥

मूलम् - 8.22

एवं प्रकारनानात्वे देवस्य हरिमेधसः।
कश्चिदेकं परोऽन्यं तु प्रकारमपरोऽपरम् ॥ 8.22 ॥

धिया विदित्वा प्रोवाच शिष्याय हितकाम्यया। अतः शास्त्रवैविध्यम् चित्रा सृष्ट्यादिशास्त्राणां प्रवृत्तिरत ईदृशी ॥ 8.23 ॥ [^16]यथाद्यत्वे मनुष्याणां कर्मवैषम्यसं भवा। अहोरात्रादिभेदेषु सुखदुःखव्यवस्थितिः ॥ 8.24 ॥ [^17]तथा ब्राह्मेष्वहः स्विष्टा सुखदुःखव्यवस्थितिः। ब्राह्मकल्पानां नानारूपत्वम् केचिद्वाताकुला घस्रा ब्रह्मणो मुनिसत्तम ॥ 8.25 ॥
विश्वास-प्रस्तुतिः - 8.26

तथा वर्षाकुलाः केचित् केचिदातपसंकुलाः।
प्रभूतशत्रवः केचित् केचित् सुखमनोहराः ॥ 8.26 ॥

मूलम् - 8.26

तथा वर्षाकुलाः केचित् केचिदातपसंकुलाः।
प्रभूतशत्रवः केचित् केचित् सुखमनोहराः ॥ 8.26 ॥

विश्वास-प्रस्तुतिः - 8.27

अनेन निश्चयेनैव धियमास्थाय शाश्वतीम्।
संस्तम्भयान्तरात्मानं व्यामोहस्ते विनश्यतु11 ॥ 8.27 ॥

मूलम् - 8.27

अनेन निश्चयेनैव धियमास्थाय शाश्वतीम्।
संस्तम्भयान्तरात्मानं व्यामोहस्ते विनश्यतु11 ॥ 8.27 ॥

विश्वास-प्रस्तुतिः - 8.28

इति नानाविधाकारं क्रियाभूतिविभेदितम्12
निमित्तोत्पादकाकारं कारणं कथितं मुने ॥ 8.28 ॥

मूलम् - 8.28

इति नानाविधाकारं क्रियाभूतिविभेदितम्12
निमित्तोत्पादकाकारं कारणं कथितं मुने ॥ 8.28 ॥

श्रुतार्थानुवादः
नारदः—-

विश्वास-प्रस्तुतिः - 8.29

कारणं कथितं देव सर्बज्ञ वृषकेतन।
या सा शक्तिर्जगद्धातुः कथिता समवायिनी ॥ 8.29 ॥

मूलम् - 8.29

कारणं कथितं देव सर्बज्ञ वृषकेतन।
या सा शक्तिर्जगद्धातुः कथिता समवायिनी ॥ 8.29 ॥

विश्वास-प्रस्तुतिः - 8.30

लक्ष्मीर्नाम द्विधा सा तु क्रियाभूतिविभेदिनी।
या क्रिया नाम संकल्पः स सुदर्शननामवान् ॥ 8.30 ॥

मूलम् - 8.30

लक्ष्मीर्नाम द्विधा सा तु क्रियाभूतिविभेदिनी।
या क्रिया नाम संकल्पः स सुदर्शननामवान् ॥ 8.30 ॥

विश्वास-प्रस्तुतिः - 8.31

भूतिर्नाम जगद्रूपा कालाव्यक्तपुमात्मिका।
अशुद्धा शुद्धरूपा तु सा व्यूहविभवात्मिका ॥ 8.31 ॥

मूलम् - 8.31

भूतिर्नाम जगद्रूपा कालाव्यक्तपुमात्मिका।
अशुद्धा शुद्धरूपा तु सा व्यूहविभवात्मिका ॥ 8.31 ॥

विश्वास-प्रस्तुतिः - 8.32

क्रिया प्रवर्तिका भूतेः सा सुदर्शनरूपिणी।
इत्येतद्दर्शितं तत्त्वं देवदेवेन मे श्रुतम् ॥ 8.32 ॥

मूलम् - 8.32

क्रिया प्रवर्तिका भूतेः सा सुदर्शनरूपिणी।
इत्येतद्दर्शितं तत्त्वं देवदेवेन मे श्रुतम् ॥ 8.32 ॥

द्वितीयप्रश्नस्मारणम्
विश्वास-प्रस्तुतिः - 8.33

अधुना श्रोतुमिच्छामि द्वितीयं प्रश्नमीश्वर।
आधारो नाम यः प्रोक्तो जगतां वृषभध्वज ॥ 8.33 ॥

मूलम् - 8.33

अधुना श्रोतुमिच्छामि द्वितीयं प्रश्नमीश्वर।
आधारो नाम यः प्रोक्तो जगतां वृषभध्वज ॥ 8.33 ॥

सुदर्शनस्य जगदाधारत्वम् अहिर्बुध्न्यः----
विश्वास-प्रस्तुतिः - 8.34

श्रृणु नारद तत्त्वेन य आधार उदीर्यते।
येनेदं ध्रियते विश्वं तन्तुना मणयो यथा ॥ 8.34 ॥

मूलम् - 8.34

श्रृणु नारद तत्त्वेन य आधार उदीर्यते।
येनेदं ध्रियते विश्वं तन्तुना मणयो यथा ॥ 8.34 ॥

विश्वास-प्रस्तुतिः - 8.35

या सा शक्तिर्हरेराद्या लक्ष्मीर्नाम महामुने।
या सा सर्वात्मनो विष्णोर्भावाभावानुयायिनी ॥ 8.35 ॥

मूलम् - 8.35

या सा शक्तिर्हरेराद्या लक्ष्मीर्नाम महामुने।
या सा सर्वात्मनो विष्णोर्भावाभावानुयायिनी ॥ 8.35 ॥

विश्वास-प्रस्तुतिः - 8.36

तस्या अल्पायुतांशांशः स्वस्वातन्त्र्यविजृम्भितः।
क्रियाभूतिविभेदेन समुदेतीति वर्णितम् ॥ 8.36 ॥

मूलम् - 8.36

तस्या अल्पायुतांशांशः स्वस्वातन्त्र्यविजृम्भितः।
क्रियाभूतिविभेदेन समुदेतीति वर्णितम् ॥ 8.36 ॥

विश्वास-प्रस्तुतिः - 8.37

सुदर्शनेन क्रियया शङ्कुनेव छदो मुने।
भूतिः सा ध्रियते 13शश्वद्विस्तरं तत्र मे शृणु ॥ 8.37 ॥

मूलम् - 8.37

सुदर्शनेन क्रियया शङ्कुनेव छदो मुने।
भूतिः सा ध्रियते 13शश्वद्विस्तरं तत्र मे शृणु ॥ 8.37 ॥

तत्र महारात्रिधरचक्रं प्रथमम्

विश्वास-प्रस्तुतिः - 8.38

संहृताखिलभूतस्य स्तैमित्यं ब्रह्मणो हि यत्।
अप्ययः सा 14महारात्रिस्तत्संकल्पेन धार्यते ॥ 8.38 ॥

मूलम् - 8.38

संहृताखिलभूतस्य स्तैमित्यं ब्रह्मणो हि यत्।
अप्ययः सा 14महारात्रिस्तत्संकल्पेन धार्यते ॥ 8.38 ॥

महारात्रिधरो[^22] नाम तदरं वै सुदर्शनम्। [^23]तदेकारं महच्चक्रमद्यत्वे चिन्त्यते सुरैः ॥ 8.39 ॥ उषश्चक्रं द्वितीयम्
विश्वास-प्रस्तुतिः - 8.40

यत् सिसृक्षामयं रूपं ब्रह्मणः शक्तिसंभवम्।
ज्वालेन वायुना वह्नेः संकल्पेन तदीर्यते ॥ 8.40 ॥

मूलम् - 8.40

यत् सिसृक्षामयं रूपं ब्रह्मणः शक्तिसंभवम्।
ज्वालेन वायुना वह्नेः संकल्पेन तदीर्यते ॥ 8.40 ॥

[^24]उषश्चक्रं तदुद्दिष्टमरद्वितयभूषितम्। भूतिकामैरजस्रं तद्ब्रह्मणा चैव धार्यते ॥ 8.41 ॥

उदयचक्रं तृतीयम्

विश्वास-प्रस्तुतिः - 8.42

यः स संकर्षणोन्मेषो यो धारयति तं सदा।
साक्षादुदयचक्रं 15तद्विज्ञानत्रितयात्मकम् ॥ 8.42 ॥

मूलम् - 8.42

यः स संकर्षणोन्मेषो यो धारयति तं सदा।
साक्षादुदयचक्रं 15तद्विज्ञानत्रितयात्मकम् ॥ 8.42 ॥

स संकर्षणसंकल्पो ज्ञानकामैर्निषेव्यते।

ऐश्वर्यचक्रं चतुर्थम्
यः स प्राद्युम्न उन्मेष ऐश्वर्यमय ऊर्जितः ॥ 8.43 ॥

विश्वास-प्रस्तुतिः - 8.44

वैष्णवेनैव 16लाक्ष्मेण स संकल्पेन धार्यते।
तद्वै प्रद्युम्नसंकल्पमैश्वर्यमयमूर्जितम् ॥ 8.44 ॥

मूलम् - 8.44

वैष्णवेनैव 16लाक्ष्मेण स संकल्पेन धार्यते।
तद्वै प्रद्युम्नसंकल्पमैश्वर्यमयमूर्जितम् ॥ 8.44 ॥

सम्यक् चतुररं चक्रमैश्वर्यस्था उपासते।
विश्वास-प्रस्तुतिः - 8.45

शक्तिमहाचक्रं पञ्चमम्।
आनिरुद्धो य उन्मेषः शक्तितेजोविदीपितः ॥ 8.45 ॥

मूलम् - 8.45

शक्तिमहाचक्रं पञ्चमम्।
आनिरुद्धो य उन्मेषः शक्तितेजोविदीपितः ॥ 8.45 ॥

विश्वास-प्रस्तुतिः - 8.46

संकल्पो ब्रह्मशक्त्युत्थस्तं धारयति सर्वदा।
तद्वै शक्तिमहाचक्रं पञ्चारं परिकल्पितम् ॥ 8.46 ॥

मूलम् - 8.46

संकल्पो ब्रह्मशक्त्युत्थस्तं धारयति सर्वदा।
तद्वै शक्तिमहाचक्रं पञ्चारं परिकल्पितम् ॥ 8.46 ॥

शक्तितेजःसमृद्धयर्थं विश्वे देवा उपासते। षडरचक्रं षष्ठम् व्यूहान्तरसमाख्यातं केशवादिद्विषट्ककम् ॥ 8.47 ॥
विश्वास-प्रस्तुतिः - 8.48

सुदर्शनेन ध्रियते येन संकल्परूपिणा।
षडरं तन्महाचक्रं व्यूहान्तरविभावकम् ॥ 8.48 ॥

मूलम् - 8.48

सुदर्शनेन ध्रियते येन संकल्परूपिणा।
षडरं तन्महाचक्रं व्यूहान्तरविभावकम् ॥ 8.48 ॥

विश्वास-प्रस्तुतिः - 8.50

स येन ध्रियते विष्णोः संकल्पेन महामुने।
महासुदर्शनं नाम द्वादशारं तदुच्यते ॥ 8.50 ॥

मूलम् - 8.50

स येन ध्रियते विष्णोः संकल्पेन महामुने।
महासुदर्शनं नाम द्वादशारं तदुच्यते ॥ 8.50 ॥

विभवान्तरसंज्ञं [^28]तद्यच्छक्त्यावेशसंभवम्। [^29]धृतं तद् द्वादशारेण तत्संकल्पेन चक्रिणा ॥ 8.51 ॥ सहस्रारचक्रमष्टमम्
विश्वास-प्रस्तुतिः - 8.52

यत्तु तत् परमं व्योम यद् विष्णोः पदमूर्जितम्।
सहस्रारेण चक्रेण तत्संकल्पेन धार्यते ॥ 8.52 ॥

मूलम् - 8.52

यत्तु तत् परमं व्योम यद् विष्णोः पदमूर्जितम्।
सहस्रारेण चक्रेण तत्संकल्पेन धार्यते ॥ 8.52 ॥

[^30]एते सौदर्शना व्यूहाः समासेन प्रकीर्तिताः। आधाराधेयभावेन वर्तन्ते ते स्वयं मुने ॥ 8.53 ॥
विश्वास-प्रस्तुतिः - 8.54

संकल्पः कोटिकोट्यंशः शक्तेर्भूतिस्तथा द्विधा।
शक्तिः सा वैष्णवी 17सत्ता बहुधैवं 18प्रभासते ॥ 8.54 ॥

मूलम् - 8.54

संकल्पः कोटिकोट्यंशः शक्तेर्भूतिस्तथा द्विधा।
शक्तिः सा वैष्णवी 17सत्ता बहुधैवं 18प्रभासते ॥ 8.54 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जगदाधारवर्णनं नाम अष्टमोऽध्यायः
आदितः श्लोकाः 520


  1. मयेदमखिलम् A B C E F ↩︎ ↩︎

  2. मयीमन्ये A B C E F ↩︎ ↩︎

  3. अष्टप्रकृतिजां D ↩︎ ↩︎

  4. नवप्रकृतिजां D ↩︎ ↩︎

  5. व्रतकामैरुपास्यते B.C ↩︎

  6. उचितस्तव D ↩︎

  7. शृणु तत्त्वविनिर्णयम् A B ↩︎ ↩︎

  8. तत्त्वतस्तन्न गाहते D ↩︎ ↩︎

  9. वर A B C E F ↩︎ ↩︎

  10. स्वनिरूढे E. ↩︎ ↩︎

  11. विनश्यति A B C ↩︎ ↩︎

  12. विभूतिदम् A B C E F J ↩︎ ↩︎

  13. शश्वद्विस्तरेणात्र A B C E F J ↩︎ ↩︎

  14. महारात्रिः सा संकल्पेन A B C; महारात्रिः संकल्पेनैव E.J. ↩︎ ↩︎

  15. तद्विज्ञातं त्रिकधारकम् A B C E F ↩︎ ↩︎

  16. लाक्ष्म्येण संकल्पेनैव E.
    ऋत्वरं तत् समाख्यातं 5व्रतकामा उपासते।
    महासुदर्शनचक्रं सप्तमम्
    विभवो यः पुरा प्रोक्तः पद्मनाभादिरूर्जितः ॥ 8.49 ॥ ↩︎ ↩︎

  17. शक्ता A B C F; सक्ता E. ↩︎ ↩︎

  18. प्रकाशते D. ↩︎ ↩︎