शुद्धेतरसृष्टिवर्णनं नाम सप्तमोऽध्यायः
प्रकृतिपुरुषकालानां समष्टिः
अहिर्बुध्न्यः—-
1अन्यूनानतिरिक्तं यद् गुणसाम्यं तमोमयम्।
तत् सांख्यैर्जगतो मूलं प्रकृतिश्चेति कथ्यते ॥ 7.1 ॥
विश्वास-प्रस्तुतिः - 7.2
क्रमावतीर्णो यस्तत्र चतुर्मनुयुगः पुमान्।
समष्टिः पुरुषो योनिः स कूटस्थ इतीर्यते ॥ 7.2 ॥
मूलम् - 7.2
क्रमावतीर्णो यस्तत्र चतुर्मनुयुगः पुमान्।
समष्टिः पुरुषो योनिः स कूटस्थ इतीर्यते ॥ 7.2 ॥
विश्वास-प्रस्तुतिः - 7.3
यत् तत् कालमयं तत्त्वं जगतः संप्रकालनम्2।
स तयोः कार्यमास्थाय संयोजकविभाजकः ॥ 7.3 ॥
मूलम् - 7.3
यत् तत् कालमयं तत्त्वं जगतः संप्रकालनम्2।
स तयोः कार्यमास्थाय संयोजकविभाजकः ॥ 7.3 ॥
भगवत्संकल्पचोदितात् त्रितयादस्मात् महदाद्युत्पत्तिः
विश्वास-प्रस्तुतिः - 7.4
मृत्पिण्डीभूतमेतत्तु कालादित्रितयं मुने।
विष्णोः सुदर्शनेनैव स्वस्वकार्यप्रचोदितम् ॥ 7.4 ॥
मूलम् - 7.4
मृत्पिण्डीभूतमेतत्तु कालादित्रितयं मुने।
विष्णोः सुदर्शनेनैव स्वस्वकार्यप्रचोदितम् ॥ 7.4 ॥
प्रकृतिः स्वरूपतः स्वभावतश्च परिणामिनी
पयोमृदादिवत् तत्र प्रकृतिः परिणामिनी ॥ 7.5 ॥
पुरुषः स्वरूपतोऽपरिणामी
पुमानपरिणामी सन् संनिधानेन कारणम्।
कालस्य प्रकृतिपुरुषपाचकत्वम्
कालः पचति तत्त्वे द्वे प्रकृतिं पुरुषं च ह ॥ 7.6 ॥
प्रकृतेर्महत्तत्त्वोत्पत्तिः
विश्वास-प्रस्तुतिः - 7.7
पुरुषाधिष्ठितात् तस्माद्विष्णुसंकल्पचोदितात्।
कालेन कलिताच्चैव गुणसाम्यान्महामुने ॥ 7.7 ॥
मूलम् - 7.7
पुरुषाधिष्ठितात् तस्माद्विष्णुसंकल्पचोदितात्।
कालेन कलिताच्चैव गुणसाम्यान्महामुने ॥ 7.7 ॥
महत्तत्त्वपर्यायाः
विद्या 7गौर्यवनी ब्राह्मी वधूर्वृद्धिर्मतिर्मधुः ॥ 7.8 ॥
8अख्यातिरीश्वरः प्राज्ञेत्येते तद्वाचका मुने।
महतस्त्रैविध्यम्
कालो बुद्धिस्तथा प्राण इति त्रेधा स गीयते ॥ 7.9 ॥
तमःसत्त्वरजोभेदात् तत्तदुन्मेषसंज्ञया।
विश्वास-प्रस्तुतिः - 7.10
कालस्त्रुटिलवाद्यात्मा बुद्धिरघ्यवसायिनी ॥ 7.10 ॥ प्राणः प्रयतनाकार इत्येता महतो भिदाः।
मूलम् - 7.10
कालस्त्रुटिलवाद्यात्मा बुद्धिरघ्यवसायिनी ॥ 7.10 ॥ प्राणः प्रयतनाकार इत्येता महतो भिदाः।
तत्र सात्त्विकस्य चातुर्विध्यम्
विश्वास-प्रस्तुतिः
धर्मो ज्ञानं विरागश्चाप्यैश्वर्यमिति संज्ञया॥ 7.11 ॥
महतः सात्त्विकं रूपं चतुर्धा प्रविभज्यते ।
मूलम्
धर्मो ज्ञानं विरागश्चाप्यैश्वर्यमिति संज्ञया॥ 7.11 ॥
महतः सात्त्विकं रूपं चतुर्धा प्रविभज्यते ।
तामसस्यापि चातुर्विध्यम्
विश्वास-प्रस्तुतिः
9अधर्माज्ञानावैराग्यमनैश्वर्यं च तामसम् ॥ 7.12 ॥
मूलम्
9अधर्माज्ञानावैराग्यमनैश्वर्यं च तामसम् ॥ 7.12 ॥
महत्तत्त्वे मनूनामवस्थितिः
विश्वास-प्रस्तुतिः - 7.13
विद्याया उदरेऽष्टौ ते सुदर्शनसमीरिताः।
मनवो गर्भतां यान्ति सर्वज्ञाः सर्वदर्शिनः ॥ 7.13 ॥
मूलम् - 7.13
विद्याया उदरेऽष्टौ ते सुदर्शनसमीरिताः।
मनवो गर्भतां यान्ति सर्वज्ञाः सर्वदर्शिनः ॥ 7.13 ॥
विश्वास-प्रस्तुतिः - 7.14
बोधनं नाम वैद्यं तदिन्द्रियं तेषु जायते।
येनार्थानध्यवस्येयुः सदसत्प्रविभागिनः10 ॥ 7.14 ॥
मूलम् - 7.14
बोधनं नाम वैद्यं तदिन्द्रियं तेषु जायते।
येनार्थानध्यवस्येयुः सदसत्प्रविभागिनः10 ॥ 7.14 ॥
विश्वास-प्रस्तुतिः - 7.15
विद्याया उदरे तत्राहंकृतिर्नाम जायते।
संकल्पाच्चोदिता विष्णोश्चोदितायाः सुदर्शनात् ॥ 7.15 ॥
मूलम् - 7.15
विद्याया उदरे तत्राहंकृतिर्नाम जायते।
संकल्पाच्चोदिता विष्णोश्चोदितायाः सुदर्शनात् ॥ 7.15 ॥
अहंकारपर्यायाः
विश्वास-प्रस्तुतिः - 7.16
अहंकारोऽभिमानश्च प्रजापतिरहंकृतिः।
अभिमन्ता च बोद्धा चेत्यस्याः पर्यायवाचकाः ॥ 7.16 ॥
मूलम् - 7.16
अहंकारोऽभिमानश्च प्रजापतिरहंकृतिः।
अभिमन्ता च बोद्धा चेत्यस्याः पर्यायवाचकाः ॥ 7.16 ॥
विश्वास-प्रस्तुतिः - 7.17
तस्य वैकारिकं नाम रूपं सात्त्विकमुच्यते।
तैजसं राजसं रूपं भूतादिर्नाम तामसम् ॥ 7.17 ॥
मूलम् - 7.17
तस्य वैकारिकं नाम रूपं सात्त्विकमुच्यते।
तैजसं राजसं रूपं भूतादिर्नाम तामसम् ॥ 7.17 ॥
अहंकारस्य रूपभेदाः
विश्वास-प्रस्तुतिः - 7.18
कामः क्रोधश्च लोभश्च मानश्चावमतिस्तृषा।
इत्यहंकृतिरूपाणि दर्शितानि 11मुने तव ॥ 7.18 ॥
मूलम् - 7.18
कामः क्रोधश्च लोभश्च मानश्चावमतिस्तृषा।
इत्यहंकृतिरूपाणि दर्शितानि 11मुने तव ॥ 7.18 ॥
विश्वास-प्रस्तुतिः - 7.19
नानाविभवयुक्तायामुत्पन्नायामहंकृतौ।
तदन्तर्गर्भमायाति मनूनां तच्चतुर्युगम् ॥ 7.19 ॥
मूलम् - 7.19
नानाविभवयुक्तायामुत्पन्नायामहंकृतौ।
तदन्तर्गर्भमायाति मनूनां तच्चतुर्युगम् ॥ 7.19 ॥
विश्वास-प्रस्तुतिः - 7.20
सुदर्शनेरितं विष्णोराहंकारिकमिन्द्रियम्।
मनो नाम मनूनां तज्जायते चिन्तनात्मकम् ॥ 7.20 ॥
मूलम् - 7.20
सुदर्शनेरितं विष्णोराहंकारिकमिन्द्रियम्।
मनो नाम मनूनां तज्जायते चिन्तनात्मकम् ॥ 7.20 ॥
विश्वास-प्रस्तुतिः - 7.24
श्रोत्रं वागिति विज्ञानकर्मेन्द्रिययुगं मुने।
समीक्षयैव देवस्य मनुषु प्रतिजायते ॥ 7.24 ॥
मूलम् - 7.24
श्रोत्रं वागिति विज्ञानकर्मेन्द्रिययुगं मुने।
समीक्षयैव देवस्य मनुषु प्रतिजायते ॥ 7.24 ॥
विश्वास-प्रस्तुतिः - 7.29
चेष्टमानस्तदा गर्भो विष्णुसंकल्पचोदितः।
त्वक्पाणिद्वयवानासीत् 12स्पर्शादानादिसिद्धये ॥ 7.29 ॥
मूलम् - 7.29
चेष्टमानस्तदा गर्भो विष्णुसंकल्पचोदितः।
त्वक्पाणिद्वयवानासीत् 12स्पर्शादानादिसिद्धये ॥ 7.29 ॥
रूपतन्मात्रजेजसोरुत्पत्तिः
विश्वास-प्रस्तुतिः - 7.30
तामसादथ भूतादेः सुदर्शनसमीरितात्।
जायते रूपमात्रं तु ज्योतिस्तस्माच्च रूपवत् ॥ 7.30 ॥
मूलम् - 7.30
तामसादथ भूतादेः सुदर्शनसमीरितात्।
जायते रूपमात्रं तु ज्योतिस्तस्माच्च रूपवत् ॥ 7.30 ॥
विश्वास-प्रस्तुतिः - 7.31
रूपं व्यक्तिस्तथा पाकः कान्तिर्दीप्तिरितीदृशाः।
जायन्ते तैजसा भेदा भेदाद्वैकारिकात् तथा ॥ 7.31 ॥
मूलम् - 7.31
रूपं व्यक्तिस्तथा पाकः कान्तिर्दीप्तिरितीदृशाः।
जायन्ते तैजसा भेदा भेदाद्वैकारिकात् तथा ॥ 7.31 ॥
विश्वास-प्रस्तुतिः - 7.33
मनवो रूपवन्तस्ते कान्तिदीप्त्यादिशालिनः।
चक्षुष्मन्तः पादवन्तो 13वीक्षणाटनयोगिनः ॥ 7.33 ॥
मूलम् - 7.33
मनवो रूपवन्तस्ते कान्तिदीप्त्यादिशालिनः।
चक्षुष्मन्तः पादवन्तो 13वीक्षणाटनयोगिनः ॥ 7.33 ॥
विश्वास-प्रस्तुतिः - 7.40
वैकारिकादहंकारात् सुदर्शनसमीरितात्।
घ्राणं पायुरिति द्वन्द्वं ज्ञानकर्मात्मकं मुने ॥ 7.40 ॥
मूलम् - 7.40
वैकारिकादहंकारात् सुदर्शनसमीरितात्।
घ्राणं पायुरिति द्वन्द्वं ज्ञानकर्मात्मकं मुने ॥ 7.40 ॥
मनुविभागः
मनवोऽपि विभज्यन्ते सुदर्शनसमीरिताः ॥ 7.46 ॥
विश्वास-प्रस्तुतिः - 7.47
युगशो युगशः पूर्वं पश्चात् पुंस्त्रीविभेदतः।
स्वयमागतविज्ञानाः सर्वज्ञाः सर्वदर्शिनः ॥ 7.47 ॥
मूलम् - 7.47
युगशो युगशः पूर्वं पश्चात् पुंस्त्रीविभेदतः।
स्वयमागतविज्ञानाः सर्वज्ञाः सर्वदर्शिनः ॥ 7.47 ॥
विश्वास-प्रस्तुतिः - 7.55
गर्भवत्येव सा देवान् नानागुणविभेदितान्।
दैत्यदानवरक्षांसि गन्धर्वोरगकिंनरान् ॥ 7.55 ॥
मूलम् - 7.55
गर्भवत्येव सा देवान् नानागुणविभेदितान्।
दैत्यदानवरक्षांसि गन्धर्वोरगकिंनरान् ॥ 7.55 ॥
विश्वास-प्रस्तुतिः - 7.56
इति नानाविधा योनीर्विष्णोः संकल्पचोदिता।
स्वसंकल्पेन सृजति ते चान्यांस्तेऽपि चापरान् ॥ 7.56 ॥
मूलम् - 7.56
इति नानाविधा योनीर्विष्णोः संकल्पचोदिता।
स्वसंकल्पेन सृजति ते चान्यांस्तेऽपि चापरान् ॥ 7.56 ॥
विश्वास-प्रस्तुतिः - 7.57
मनुगर्भदशायां तु पितृदेवर्षिमानवाः14।
इति सृष्टास्तया शश्वद्विद्याया ब्रह्मणा स्वयम् ॥ 7.57 ॥
मूलम् - 7.57
मनुगर्भदशायां तु पितृदेवर्षिमानवाः14।
इति सृष्टास्तया शश्वद्विद्याया ब्रह्मणा स्वयम् ॥ 7.57 ॥
विश्वास-प्रस्तुतिः - 7.58
कूटस्थो यः पुरा प्रोक्तः पुमान् व्योम्नः [^20]परादधः।
मनवो देवताद्याश्च तद्व्यष्ट्य इतीरिताः ॥ 7.58 ॥
मूलम् - 7.58
कूटस्थो यः पुरा प्रोक्तः पुमान् व्योम्नः [^20]परादधः।
मनवो देवताद्याश्च तद्व्यष्ट्य इतीरिताः ॥ 7.58 ॥
विश्वास-प्रस्तुतिः - 7.63
तदादिष्टेन मार्गेण ते यान्ति परमां गतिम्।
लेशतः सृष्टिरुक्तेयं भूतेः शुद्धेतरा मुने ॥ 7.63 ॥
मूलम् - 7.63
तदादिष्टेन मार्गेण ते यान्ति परमां गतिम्।
लेशतः सृष्टिरुक्तेयं भूतेः शुद्धेतरा मुने ॥ 7.63 ॥
-
अथ न्यूनातिरिक्तम् A B C E F; अथ मानातिरिक्तम् J ↩︎
-
इत्येतद् द्वन्द्वं ज्ञानकियात्मकम् A B C E F J ↩︎
-
भेदतः A B C E F; भेदिनः J
घ्राणपाय्वोरुत्पत्तिः ↩︎ -
विद्या परिणता सेयं विष्णुवीक्षया D ↩︎
-
सप्त ये मुने D. ↩︎
-
गौर्युवती ब्रह्मा D. ↩︎
-
इदमर्धं सर्वत्रैवमेव पठ्यते ↩︎
-
महामुने D.
मनवोऽष्टौ महाबुद्दे तदा वैकारिकात् पुनः ॥ 7.23 ॥
श्रोत्रवाचोरुत्पत्तिः ↩︎ ↩︎ -
वीक्षणायन E.J.
जायते रसमात्रं तु जायन्तेऽम्भांसि वै ततः ॥ 7.34 ॥
तत्क्रियाभेदाः
जायन्तेऽथ गुणास्तेषां रसस्नेहद्रवादयः।
रसनोपस्थेन्द्रियोत्पत्तिः
अथ वैकारिकात् तस्माद् विष्णुसंकल्पचोदितात् ॥ 7.35 ॥
रसनोपस्थमित्येतज्जायते3 दृक्क्रियात्मकम्।
अप्सु मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति विष्णुसंकल्पचोदिताः ॥ 7.36 ॥
मनवस्ते महाबुद्धे विष्णुकर्माधिकारिणः।
तेषां रसनोपस्थवैशिष्ट्यम्
सरसाः स्नेहवन्तश्च रुधिरादिद्रवान्विताः ॥ 7.37 ॥
जायन्ते रसनावन्तः पुंस्त्रीव्यञ्जनभेदिताः4।
गन्धतन्मात्रमह्योरुत्पत्तिः
सुदर्शनेरितात् तस्माद्भूतादेस्तदनन्तरम् ॥ 7.38 ॥
जायते गन्धनन्मात्रं तस्माद्गन्धवती मही।
पार्थिवगुणभेदाः
काठिन्यं गौरवं स्थैर्यमित्याद्याः पार्थिवा गुणाः ॥ 7.39 ॥ ↩︎ ↩︎ -
दानवाः E F J
मनूनां देवादीनां च कूटस्थपुरुषव्यष्टिरूपत्वम् ↩︎ ↩︎