शुद्धेतरसृष्टिवर्णनं नाम षष्ठोऽध्यायः
शक्तितद्वतोर्भेदवदभेदस्याप्युपपत्तिः
अहिर्बुध्न्यः—
योऽसौ नारायणो देवः परमात्मा सनातनः।
अहंभावात्मिका शक्तिस्तस्य तद्धर्मधर्मिणी ॥ 6.1 ॥
ताविमावेकधैवोक्तौ भेद्यभेदकभावतः।
पृथक्त्वेन च शास्त्रेषु जगद्धेतुतयोदितौ ॥ 6.2 ॥
शक्तितद्वतोरपृथक्स्थितिः
नैव शक्त्या विना कश्चिच्छक्तिमानस्ति कारणम्।
न च शक्तिमता शक्तिर्विनैका व्यवतिष्ठते ॥ 6.3 ॥
भगवतो लक्ष्म्याश्च प्रत्येकं जगत्कारणत्वव्यवहारकथनम्
तत्तद्गौरवमाश्रित्य तन्त्रवेदान्तपारगैः।
जगद्धेतुतया देवावेकैकाविव दर्शितौ ॥ 6.4 ॥
शुद्धेतरसृष्टिकथनप्रतिज्ञा
इति व्यवस्थिते सृष्टिमुक्तशिष्टामिमां श्रृणु।
भूतिशक्तेः स्वसंकल्परूपक्रियाशक्तिप्रवर्त्यत्वम्
ययं 1भूतिमयी स्फूर्तिर्विष्णुशक्तेः पुरोदिता ॥ 6.5 ॥
योगालम्बनभूतव्यूहविभवादेः शुद्धिमयस्फूर्तिरूपत्वम्
भूतेः शुद्धिमयी स्फूर्तिः सा व्यूहविभवात्मिका5 ॥ 6.6 ॥
यामालम्ब्य तरन्तीमं योगिनो भवसागरम्।
शुद्धेतरसृष्टेः व्यूहविभवमूलकत्वम्
अथ शुद्धेतरा सृष्टिस्तन्मूलैव प्रवर्तते ॥ 6.7 ॥
तस्यास्त्रैविध्यम्
पुरुषश्चैव कालश्च गुणश्चेति त्रिधोच्यते।
भूतिः शुद्धेतरा विष्णोः पुरुषो द्विचतुर्मयः6 ॥ 6.8 ॥
7स मनूनां समाहारो ब्रह्मक्षत्रादिभेदिनाम्।
प्रद्युम्नात् मिथुनचतुष्टयोत्पत्तिः
ब्राह्मणो ब्राह्मणी चैव मिथुनं तन्मनुद्वयम् ॥ 6.9 ॥
प्रद्युम्नस्य मुस्वाज्जातं स्वसंकल्पेन चोदितम्।
उरसः क्षत्रियद्वन्द्वमूरुतश्च विशो द्वयम् ॥ 6.10 ॥
पद्भ्यां शूद्रद्वयं चैव प्रद्युम्नस्य समुद्गतम्।
समष्टिर्या मनूनां सा पुरुषो 8द्विचतुर्मयः ॥ 6.11 ॥
कालप्रकृतिसृष्टिः
9सूक्ष्मकालगुणावस्था सुदर्शनसमीरिता।
प्रद्युम्नस्य ललाटाच्च भ्रुवोः कर्णादुदीरिता ॥ 6.12 ॥
अनिरुद्धाय पालनाज्ञादानम्
पुरुषः शक्तिरित्येतच्चेतनोचेतनात्मकम्।
10वर्धयेत्यनिरुद्धाय प्रद्युम्नेनोपपाद्यते ॥ 6.13 ॥
तेन तद्वर्धनम्
अन्तः स्थपुरुषां11 शक्तिं तामादाय स्वमूर्तिगाम्12।
संवर्धयति योगेन ह्यनिरुद्धः स्वतेजसा ॥ 6.14 ॥
नियतिकाल्योरुदयः
नियतिः काल इत्येवं शक्तिः संकल्पचोदिता।
द्विधोदेत्यनिरुद्धात् सा यत् तत् कालमयं वपुः ॥ 6.15 ॥
गुणमय्याः प्रकृतेस्त्रैविध्यम्
यत्तद्गुणमयं रूपं शक्तेस्तस्याः प्रकीर्तितम्।
सत्त्वं रजस्तम इति त्रिधोदेति क्रमेण तत् ॥ 6.16 ॥
सत्त्वादिभ्यो रजआद्युत्पत्तिः
सत्त्वाद्रजस्तमस्तस्मात् तमसो बुद्धिरुद्गता।
बुद्धेरहंकृतिस्तस्या13 भूततन्मात्रपञ्चकम् ॥ 6.17 ॥
एकादशकमक्षाणां मात्रेभ्यो भूतपञ्चकम्।
भूतेभ्यो भौतिकं सर्वमित्ययं सृष्टिसंग्रहः ॥ 6.18 ॥
पुनर्विस्तरेण सृष्टिप्रपञ्चनप्रश्नः
नारदः—
भगवन् भगनेत्रघ्न तत्त्वविज्ञानवारिधे।
आख्याहि 14विस्तरेणाद्य भूतेरुन्मेषमद्भुतम् ॥ 6.19 ॥
तत्प्रपञ्चनम्।
अहिर्बुधन्यः—
श्रृणु नारद तत्त्वेन विष्णोः संकल्पकारिताम्।
भूतेः परिणतिं चित्रां चिदचिद्वर्गसंकुलाम् ॥ 6.20 ॥
परवासुदेवस्य नित्यविभूतिमत्ताप्रतिपादनम्
शुद्धा पूर्वोदिता सृष्टिर्या सा 15व्यूहादिभेदिनी।
सुदर्शनाख्यात् संकल्पात् तस्या एव प्रभोज्ज्वला ॥ 6.21 ॥
ज्ञानानन्दमयी 16स्त्यना देशभावं व्रजत्युत।
स देशः परमं व्योम निर्मलं पुरुषात् परम् ॥ 6.22 ॥
निःसीमसुखसंतानमनवद्यमनाकुलम्।
तत्रानन्दमया भोगा 17लोकाश्चानन्दलक्षणाः ॥ 6.23 ॥
ज्ञानानन्दमया देहा मुक्तानां भावितात्मनाम्।
श्रियः पत्युर्भगवतो नित्यमुक्तानुभाव्यत्वम्
सदा पश्यन्ति ते18 देवाः पुरुषं पुष्करेक्षणम् ॥ 6.24 ॥
षाड्गुण्यविग्रहं देवं तादृश्या च श्रिया युतम्।
संकल्पसाधिताशेषदेहदैहिकविस्तरम् ॥ 6.25 ॥
ईशानमस्य 19सर्वस्य जगतस्तस्थुषस्पतिम्।
सर्वावासमनावासं नारायणमनामयम् ॥ 6.26 ॥
मुक्तानां स्वरूपम्
तत् पदं प्राप्य 20तत्त्वज्ञा मुच्यन्ते वीतकल्मषाः।
त्रसरेणुप्रमाणास्ते रश्मिकोटिविभूषिताः ॥ 6.27 ॥
आविर्भावतिरोभावधर्मबेदविवर्जिताः।
तेषामपुनरावृत्तिः
परमं तेऽध्वनः पारं वैष्णवं पदमाश्रिताः ॥ 6.28 ॥
21विशन्ति नेममध्वानं कालकल्लोलसंकुलम्।
तेषां यथोपासनं फलप्राप्तिः
भक्तास्ते यादृशे रूपे संसारपदमाश्रिताः ॥ 6.29 ॥
तादृशं ते समीक्षन्ते परमव्योमवासिनः।
विहृत्य सुचिरं कालं 22कोट्योघप्रतिसंचरम् ॥ 6.30 ॥
ततो विशन्ति ते 23दिव्यं षाड्गुण्यं वैष्णवं यशः।
परमव्योम्नोऽशक्यवर्णनत्वम्
तदेतत् परमव्योम लेशतस्ते प्रदर्शितम् ॥ 6.31 ॥
नैव वर्षायुतेनापि वक्तुं शक्योऽस्य विस्तरः।
जीवसमष्टिपुरुषस्यार्वाचीनस्थानवर्तित्वम्
उक्तः कर्माधिकारो यः पुरुषस्ते चतुर्युगः ॥ 6.32 ॥
अस्मात् स परमव्योम्नस्तिष्ठत्यर्वाचि24 वै पदे।
सर्वात्मनां समष्टिर्या कोशो मधुकृतामिव ॥ 6.33 ॥
शुद्ध्यशुद्धिमयो भावो भूतेः स पुरुषः स्मृतः।
अनादिवासनारेणुकुण्ठितैरात्मभिश्चितः ॥ 6.34 ॥
स्वतः शुद्धानामप्यात्मनां भगवच्छक्त्या स्वरूपतिरोधानम्
25आत्मनो भूतिभेदास्ते सर्वज्ञाः सर्वतोमुखाः।
भगवच्छक्तिमय्यैवं मन्दतीव्रादिभावया ॥ 6.35 ॥
तत्तत्सुदर्शनोन्मेषनिमेषानुकृतात्मना।
26सर्वतोऽविद्यया विद्धाः क्लेशमय्या वशीकृताः ॥ 6.36 ॥
तिरोहितस्वरूपाणां चातूरूप्यम्
ब्रह्मक्षत्रादिभावेन चातूरूप्यं व्रजन्ति ते।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदतः ॥ 6.37 ॥
आत्मानो जीवसंज्ञास्ते बन्धमोक्षौ 27व्रजन्ति ते।
तेषां कर्मपारवश्यात् पृथिव्यामवतरणम्
मनवो 28नाम कूटस्थास्तेषामुक्ताः समष्टयः ॥ 6.38 ॥
क्लेशाशयापरामृष्टाः 29सर्वज्ञाः सर्वतोमुखाः।
नित्यसिद्धा हि30 भूत्यंशास्ते प्रोक्ता भगवन्मयाः॥ 6.39 ॥
आविर्भावतिरोभावैः स्वस्मिन्नात्मनि नारद।
आत्मनो वर्तयन्तस्ते वैष्णवा आधिकारिकाः॥ 6.40 ॥
विष्णोः संकल्परूपेण स्थित्वास्मिन् पौरुषे पदे।
योगेनावतरन्त्यंशैः स्थानात् स्थानं धरावधि ॥ 6.41 ॥
अवतीर्णानां प्रजास्रष्टृत्वम्
सृष्टायां कर्मभूमौ ते मिथुनीभूय मानवान्।
चतुःशतं सृजन्त्येते भूयो मानवमानवान् ॥ 6.42 ॥
ते चापरिमिताः सर्वे विस्तारस्तत्र31 वक्ष्यते।
अनिरुद्धात् शक्त्युत्पत्तिः
अर्वाचीने पदे तस्मात् 32पुरुषाद्धि चतुर्युगात् ॥ 6.43 ॥
[^31]सृष्टानिरुद्धतः शक्तिस्तत्सुदर्शनचोदितात्।
शक्तौ कूटस्थमनूनामवतरणम्
सृष्टायामथ शक्तौ तु मनवोऽष्टौ महामुने ॥ 6.44 ॥
शक्तितो नियतेरुत्पत्तिः
कालस्य नियतिर्नाम सूक्ष्मः सर्वनियामकः ॥ 6.46 ॥
उदेति प्रथमं शक्तेर्विष्णुसंकल्पचोदितः।
तत्र मनूनां स्थितिः
मनवोऽवतरन्त्यत्र ते सुदर्शनचोदिताः ॥ 6.47 ॥
यस्य स्याद्यादृशं रूपं यत्करं यत्स्वभावकम्।
सुदर्शनप्रभावस्थं 33तत्तन्नियमभावितम् ॥ 6.48 ॥
नियतितः कालस्योत्पत्तिः
कालस्य 34पावनं रूपं यत्तु तत्कलनात्मकम्।
उदेति नियतेः सोऽथ कालः संकल्पचोदितः ॥ 6.49 ॥
तत्र मनूनां स्थितिः
नियतेर्मनवोऽप्यत्र 35काले ह्यवतरन्ति ते।
कालः स 36कलयत्येको विष्णुसंकल्पचोदितः ॥ 6.50 ॥
37कलयत्यखिलं 38काल्यं नदीकूलं यथा रयः।
तत्र प्रथमं सत्त्वोत्पत्तिः
सत्त्वं तत्र लघु स्वच्छं गुणरूपमनामयम् ॥ 6.52 ॥
प्रथमं व्यज्यते कालान्मनवोऽवतरन्त्यतः।
आनिरुद्ध्या वैष्णवमूर्त्या तस्याधिष्ठानम्
आनिरुद्धी ततो मूर्तिः स्वसंकल्पप्रचोदिता ॥ 6.53 ॥
अधितिष्ठति तत् सत्त्वं विष्णुनाम्नैव नामभाक्।
तत एव तस्य सुखरूपत्वं स्वच्छत्वं च। सत्त्वाद्रजउत्पत्तिः
तदेतत् सकलं स्वच्छं सुखमासीदनाकुलम् ॥ 6.54 ॥
अन्तःस्थमनुकं सत्त्वमन्तःस्थाचिद्गुणं मुने।
विष्णुनाधिष्ठितं तस्माद्विष्णुसंकल्पचोदितात् ॥ 6.55 ॥
रजो नाम गुणः 39सत्त्वात् तस्मादाविर्भवत्यलम्।
तत्र मनूनां स्थितिः
मनवोऽवतरन्त्यत्र सत्त्वात् संकल्पचोदिताः ॥ 6.56 ॥
तस्यानिरुद्धाधिष्ठितब्रह्मरूपत्वम्
ब्राह्मी मूर्तिर्गुणं तं चाप्यानिरुद्ध्यधितिष्ठति।
रजसस्तमउत्पत्तिः
ब्रह्मणाधिष्ठितात् तस्मादन्तः स्थमनुकान्मुने ॥ 6.58 ॥
संकल्पचोदितं विष्णोस्तमो नाम गुणोऽभव
-
भूतमयी A B C J.
तस्याः संकल्पमय्यैव स्फूर्त्या सा बहु 2नर्त्यते। ↩︎ -
मन्यते A B C E F J ↩︎
-
सकलीभूताः D ↩︎
-
विद्यते A B C ↩︎
-
विभवादिका D ↩︎
-
द्विचतुर्यगः A B C J ↩︎
-
स मन्यूनां A B C D E; समानानां J. ↩︎
-
द्विचतुर्यगः A B C. ↩︎
-
सूक्ष्मा A D E F ↩︎
-
वर्धयत्यनिरुद्धाय A B C ↩︎
-
पुरुषाः शक्तिं D ↩︎
-
स्वमूर्तिकाम् B C; समूर्तिकाम् D. ↩︎
-
तस्य All MSS ↩︎
-
विस्तरेणेमं D. ↩︎
-
व्यूहाविभेदिनी A B C J ↩︎
-
सारा J; `सत्या’ इत्यपि पाठान्तरमन्यकोशेषु ↩︎
-
लोका आनन्द A B C E F J. ↩︎
-
तं A B C J. ↩︎
-
देवस्य D; जगतः A B C ↩︎
-
सर्वज्ञाः A B C E F J. ↩︎
-
J Omits two lines from here ↩︎
-
कोट्या संप्रतिसंचरम् A B C E F J ↩︎
-
दैव्यम् d. ↩︎
-
अर्वाचिके A B C E F. ↩︎
-
आत्मानो D E F ↩︎
-
सर्वतोऽविद्यया सिद्धाः क्लेशाशयवशीकृताः D ↩︎
-
भजन्ति D ↩︎
-
मान All MSS. ↩︎
-
सुसंज्ञाः A B C E F ↩︎
-
विभूत्यंशास्ते D ↩︎
-
तस्य A B C E F J ↩︎
-
पुरुषोऽधि चतुर्यगः A B C
[^31]सृष्टोऽनिरुद्धतो देवाः A B C
अवतीर्य स्वकात् स्थानाद्विष्णुसंकल्पचोदिताः।
तिष्ठन्ति 3कललीभूतास्तस्मिञ्शक्तिमये पदे ॥ 6.45 ॥
कालो नाम गुणो नाम तस्या गर्भस्थितं द्वयम्। ↩︎ -
तत्तन्नियति D ↩︎
-
वाचनं D; पाचनं E.F. ↩︎
-
कालेऽपि D ↩︎
-
कालयति E.F ↩︎
-
कालयति E.F ↩︎
-
कार्यम् A B C
कालात् क्रमेण गुणमयरूपोत्पत्तिः
यत्तद्गुणमयं रूपं शक्तेः पूर्वं समीरितम् ॥ 6.51 ॥
सोपानक्रमतः कालात् तद्गौणं 4व्यज्यते वपुः। ↩︎ -
सत्त्वं तस्मिन्नाविर्भवत्यलम् A B C
अतस्तस्य दुःखरूपत्वम्
तदेतत् प्रचलं दुःखं रजः शश्वत्प्रवृत्तिमत् ॥ 6.57 ॥
लोलीभूतमिदं तच्च [^41]विश्वमन्तः स्थितं तदा। ↩︎