०५ शुद्ध-सृष्टि-वर्णनम्

शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः

अहिर्बुधन्यः—

विश्वास-प्रस्तुतिः

कार्य-कारण-वर्गस्य
प्रलयोऽयं प्रदर्शितः।
सुदर्शनमयीं सृष्टिं
तस्य 1वक्ष्यामि ते मुने ॥ 5.1 ॥

मूलम्

कार्यकारणवर्गस्य प्रलयोऽयं प्रदर्शितः।
सुदर्शनमयीं सृष्टिं तस्य 1वक्ष्यामि ते मुने ॥ 5.1 ॥

प्रलयावस्थ-ब्रह्म-स्वरूपम्

विश्वास-प्रस्तुतिः

प्रसुप्ताखिल-कार्यं यत्
सर्वतः समतां गतम्।
2नारायणः परं ब्रह्म
सर्वावासम् अनाहतम्3 ॥ 5.2 ॥
पूर्ण-स्तिमित-षाड्-गुण्यम्
असमीराम्बरोपमम्।+++(4)+++

मूलम्

प्रसुप्ताखिलकार्यं यत् सर्वतः समतां गतम्।
2नारायणः परं ब्रह्म सर्वावासमनाहतम्3 ॥ 5.2 ॥
पूर्णस्तिमितषाड्गुण्यमसमीराम्बरोपमम्।

शक्ति-रूपाया लक्ष्म्याः क्वचिद् उन्मेषः

विश्वास-प्रस्तुतिः

तस्य स्तैमित्य-रूपा या
शक्तिः शून्यत्व-रूपिणी ॥ 5.3 ॥
स्वातन्त्र्याद् एव कस्माच्चित्
क्वचित् सोन्मेषम् ऋच्छति

मूलम्

तस्य स्तैमित्यरूपा या शक्तिः शून्यत्वरूपिणी ॥ 5.3 ॥
स्वातन्त्र्यादेव कस्माच्चित् क्वचित् सोन्मेषमृच्छति।

विश्वास-प्रस्तुतिः

आत्मभूता हि या शङ्क्तिः
परस्य ब्रह्मणो हरेः ॥ 5.4 ॥
देवी विद्युद् इव व्योम्नि
क्वचिद् उद्द्योतते तु सा।
शक्तिर् विद्योतमाना सा
शक्तिर् इत्य् उच्यते ऽम्बरे ॥ 5.5 ॥

मूलम्

आत्मभूता हि या शङ्क्तिः परस्य ब्रह्मणो हरेः ॥ 5.4 ॥
देवी विद्युदिव व्योम्नि क्वचिदुद्द्योतते तु सा।
शक्तिर्विद्योतमाना सा शक्तिरित्युच्यतेऽम्बरे ॥ 5.5 ॥

शक्तेर् विविध-भाव-व्यञ्जकत्वम्

विश्वास-प्रस्तुतिः

व्यनक्ति विविधान् भावान्
शुद्धाशुद्धान् 4समूर्तिकान्।
तस्या उन्मेषम् ऋच्छन्त्याः
स्वातन्त्र्यं यत् स्वनिर्मितम्॥ 5.6 ॥

मूलम्

व्यनक्ति विविधान् भावान् शुद्धाशुद्धान् 4समूर्तिकान्।
तस्या उन्मेषमृच्छन्त्याः स्वातन्त्र्यं यत् स्वनिर्मितम्॥ 5.6 ॥

विश्वास-प्रस्तुतिः

प्रेक्षणात्मा स संकल्पस्
तत् सुदर्शनम् उच्यते।
सा क्रिया, तद्+धरेर् वीर्यं
तत् तेजश् च बलं च तत् ॥ 5.7 ॥

मूलम्

प्रेक्षणात्मा स संकल्पस्तत् सुदर्शनमुच्यते।
सा क्रिया तद्धरेर्वीर्थं तत् तेजश्च बलं च तत् ॥ 5.7 ॥

विश्वास-प्रस्तुतिः

5व्यज्यन्ते ये च ते भावाः
स्व-भित्ति-परिवर्तिताः।
सा भूतिर्, विष्णु-शक्तिः सा,
शक्तेः कोट्य्-अंश-कल्पिता …॥ 5.8 ॥

मूलम्

5व्यज्यन्ते ये च ते भावाः स्वभित्तिपरिवर्तिताः।
सा भूतिर्विष्णुशक्तिः सा शक्तेः कोट्यंशकल्पिता॥ 5.8 ॥

विश्वास-प्रस्तुतिः

… बहुभिर् द्वन्द्व-भावैः सा
शक्तिर् भूत-मयी6 स्थिता।
शुद्धाशुद्ध-विभागेन
चेत्य-चेतन-रूपतः॥ 5.9 ॥

मूलम्

बहुभिर्द्वन्द्वभावैः सा शक्तिर्भूतमयी6 स्थिता।
शुद्धाशुद्धविभागेन चेत्यचेतनरूपतः॥ 5.9 ॥

विश्वास-प्रस्तुतिः

7काल्य-काल-विभेदेन
व्यक्ताव्यक्त-विभागतः।
व्यङ्ग्य-व्यञ्जन-रूपेण8
वाच्य-वाचक-भेदतः ॥ 5.10 ॥+++(5)+++

मूलम्

7काल्यकालविभेदेन व्यक्ताव्यक्तविभागतः।
व्यङ्ग्यव्यञ्जनरूपेण8 वाच्यवाचकभेदतः ॥ 5.10 ॥

विश्वास-प्रस्तुतिः

भोग्य-भोक्तृ-विभेदेन
देह-देहि-विभेदतः।
अन्यैश् चैवं-प्रकारैः सा
द्वन्द्व-भेदैर् विभज्यते ॥ 5.11 ॥

मूलम्

भोग्यभोक्तृविभेदेन देहदेहिविभेदतः।
अन्यैश्चैवंप्रकारैः सा द्वन्द्वभेदैर्विभज्यते ॥ 5.11 ॥

विश्वास-प्रस्तुतिः

एवं प्रकार-भेदेन9
या शक्तिर् हेतुतां गता।
तां विजानीहि देवर्षे
दिव्यां सौदर्शनीं कलाम् ॥ 5.12 ॥

मूलम्

एवं प्रकारभेदेन9 या शक्तिर्हेतुतां गता।
तां विजानीहि देवर्षे दिव्यां सौदर्शनीं कलाम् ॥ 5.12 ॥

विश्वास-प्रस्तुतिः

समीर्यते यथा वह्निर्
मेघो वापि समीरणात्।
तथा सुदर्शनेनैव
विभूतिः प्रेर्यते कला ॥ 5.13 ॥

मूलम्

समीर्यते यथा वह्निर्मेघो वापि समीरणात्।
तथा सुदर्शनेनैव विभूतिः प्रेर्यते कला ॥ 5.13 ॥

विश्वास-प्रस्तुतिः

आनुलोम्येन सर्गे तु
प्रातिलोम्येन संहृतौ।
यथा संप्रेर्यमाणा सा
सुदर्शन-नभस्वता ॥ 5.14 ॥
दधाति विविधान् भावांस्
तथा10 मे 11गदतः श्रृणु।

मूलम्

आनुलोम्येन सर्गे तु प्रातिलोम्येन संहृतौ।
यथा संप्रेर्यमाणा सा सुदर्शननभस्वता ॥ 5.14 ॥
दधाति विविधान् भावांस्तथा10 मे 11गदतः श्रृणु।

शुद्ध-सृष्टि-प्रपञ्चनम्

विश्वास-प्रस्तुतिः

तत्र शुद्धमयं सर्गं
विभूतेः प्रथमं श्रृणु ॥ 5.15 ॥

यत् तत् षाड्-गुण्यम् इत्य् उक्तं
ज्ञानैश्वर्य-बलादिकम्।
युगैस् तस्य त्रिभिः शुद्धा
सृष्टिर् भूतेः12 प्रवर्तते ॥ 5.16 ॥

मूलम्

तत्र शुद्धमयं सर्गं विभूतेः प्रथमं श्रृणु ॥ 5.15 ॥
यत् तत् षाड्गुण्यमित्युक्तं ज्ञानैश्वर्यबलादिकम्।
युगैस्तस्य त्रिभिः शुद्धा सृष्टिर्भूतेः12 प्रवर्तते ॥ 5.16 ॥

गुण-युग्म-त्रयात् व्यूह-त्रयाविर्भावः

विश्वास-प्रस्तुतिः

तत्र ज्ञान-बल-द्वन्द्वाद्
रूपं सांकर्षणं हरेः।
ऐश्वर्य-वीर्य-संभेदाद्
रूपं प्राद्युम्नम् उच्यते ॥ 5.17 ॥

मूलम्

तत्र ज्ञानबलद्वन्द्वाद्रूपं सांकर्षणं हरेः।
ऐश्वर्यवीर्यसंभेदाद्रूपं प्राद्युम्नमुच्यते ॥ 5.17 ॥

विश्वास-प्रस्तुतिः

शक्ति-तेजः-समुत्कर्षाद्
आनिरुद्धी तनुर् हरेः।
एते शक्तिमया व्यूहा
गुणोन्मेष-स्व-लक्षणाः13 ॥ 5.18 ॥

मूलम्

शक्तितेजःसमुत्कर्षादानिरुद्धी तनुर्हरेः।
एते शक्तिमया व्यूहा गुणोन्मेषस्वलक्षणाः13 ॥ 5.18 ॥

व्यूह-त्रयेऽपि षाड्गुण्यानुवृत्तिः

विश्वास-प्रस्तुतिः

षाड्-गुण्य-विग्रहा देवाः
पुरुषाः पुष्करेक्षणाः।
तत्र तत्रावशिष्टं यद्
गुणानां द्वि-युगं मुने ॥ 5.19 ॥
अनुवृत्तिं भजत्य् एव
तत्र तत्र 14यथायथम्।

मूलम्

षाड्-गुण्य-विग्रहा देवाः
पुरुषाः पुष्करेक्षणाः।
तत्र तत्रावशिष्टं यद्
गुणानां द्वि-युगं मुने ॥ 5.19 ॥
अनुवृत्तिं भजत्य् एव
तत्र तत्र 14यथायथम्।

त्रिधा चातुरात्म्यस्थितिः

विश्वास-प्रस्तुतिः

व्याप्ति-मात्रं, गुणोन्मेषो,
मूर्तीकार15 इति त्रिधा16॥ 5.20 ॥
चातुर्-आत्म्य-स्थितिर् विष्णोर्
गुण-व्यतिकरोद्भवा।

मूलम्

व्याप्तिमात्रं गुणोन्मेषो मूर्तीकार15 इति त्रिधा16॥ 5.20 ॥
चातुरात्म्यस्थितिर्विष्णोर्गुणव्यतिकरोद्भवा।

संकर्षणस्य कृत्यम्

विश्वास-प्रस्तुतिः

तत्र ज्ञान-मयत्वेन
देवः संकर्षणो 17बली ॥ 5.21 ॥
व्यनक्त्य् ऐकान्तिकं 18मार्गं
भगवत्-प्राप्ति-साधनम्।

मूलम्

तत्र ज्ञानमयत्वेन देवः संकर्षणो 17बली ॥ 5.21 ॥
व्यनक्त्यैकान्तिकं 18मार्गं भगवत्प्राप्तिसाधनम्।

प्रद्युम्नस्य कृत्यम्

विश्वास-प्रस्तुतिः

वीर्यैश्वर्यमयो देवः
प्रद्युम्नः 19पुरुषोत्तमः ॥ 5.22 ॥
स्थितः शास्त्रार्थ-भावेन
भगवत्-प्राप्तिवर्त्मना।

मूलम्

वीर्यैश्वर्यमयो देवः प्रद्युम्नः 19पुरुषोत्तमः ॥ 5.22 ॥
स्थितः शास्त्रार्थभावेन भगवत्प्राप्तिवर्त्मना।

अनिरुद्धस्य कृत्यम्

विश्वास-प्रस्तुतिः

शास्त्रार्थस्य फलं यत् तद्
भगवत्-प्राप्ति-लक्षणम् ॥ 5.23 ॥
प्रापयत्य् अनिरुद्धः 20सन्
साधकान् पुरुषोत्तमः।

मूलम्

शास्त्रार्थस्य फलं यत् तद् भगवत्प्राप्तिलक्षणम् ॥ 5.23 ॥
प्रापयत्यनिरुद्धः 20सन् साधकान् पुरुषोत्तमः।

विश्वास-प्रस्तुतिः

शास्त्र–शास्त्रार्थ–तत्-साध्य-
फल-निर्वाहका इमे ॥ 5.24 ॥
पुरुषाः पुण्डरीकाक्षा
व्यूहा शक्तिमया हरेः।

मूलम्

शास्त्रशास्त्रार्थतत्साध्यफलनिर्वाहका इमे ॥ 5.24 ॥
पुरुषाः पुण्डरीकाक्षा व्यूहा शक्तिमया हरेः।

पर-वासुदेवेन सह व्यूहस्य चातुरात्म्यम्

विश्वास-प्रस्तुतिः

भगवान् वासुदेवश् च
व्यूहाश् चैते त्रयो मुने॥ 5.25 ॥
चातुरात्म्यम् इदं विद्धि
व्यक्ताव्यक्त-स्व-लक्षणम्।

मूलम्

भगवान् वासुदेवश्च व्यूहाश्चैते त्रयो मुने॥ 5.25 ॥
चातुरात्म्यमिदं विद्धि व्यक्ताव्यक्तस्वलक्षणम्।

गुणोन्मेष-स्वरूप-प्रदर्शनम्

विश्वास-प्रस्तुतिः

गुणाः शक्तिमया ये21 ते
ज्ञानैश्वर्य-बलादयः ॥ 5.26 ॥
तेषां युगपद् उन्मेषः
स्तैमित्य-विरहात्मकः।
संकल्प-कल्पितो विष्णोर्
यः22 स तद्-व्यक्ति-लक्षणः …॥ 5.27 ॥

मूलम्

गुणाः शक्तिमया ये21 ते ज्ञानैश्वर्यबलादयः ॥ 5.26 ॥
तेषां युगपदुन्मेषः स्तैमित्यविरहात्मकः।
संकल्पकल्पितो विष्णोर्यः22 स तद्व्यक्तिलक्षणः॥ 5.27 ॥

विश्वास-प्रस्तुतिः

… भगवान् वासुदेवः स,

परमा प्रकृतिश् च सा।
शक्तिर् या 23व्यापिनो विष्णोः
सा जगत्-प्रकृतिः परा ॥ 5.28 ॥

शक्तेः शक्तिमतो 24भेदाद्
वासुदेव इतीर्यते

मूलम्

भगवान् वासुदेवः स परमा प्रकृतिश्च सा।
शक्तिर्या 23व्यापिनो विष्णोः सा जगत्प्रकृतिः परा ॥ 5.28 ॥
शक्तेः शक्तिमतो 24भेदाद् वासुदेव इतीर्यते।

सिसृक्षोर् वासुदेवात् संकर्षणाविर्भावः

विश्वास-प्रस्तुतिः

सर्व-शक्तिमयो देवो
वासुदेवः सिसृक्षया ॥ 5.29 ॥
विभजत्य् आत्मना ऽऽत्मानं
यः स संकर्षणः स्मृतः।

मूलम्

सर्वशक्तिमयो देवो वासुदेवः सिसृक्षया ॥ 5.29 ॥
विभजत्यात्मनात्मानं यः स संकर्षणः स्मृतः।

तत्र दृष्टान्तः

विश्वास-प्रस्तुतिः

भानाव् उदय-शैलस्थे
प्रभा यद्वद् विजृम्भते ॥ 5.30 ॥
उदयस्थे तथा25 देवे
प्रभा संकर्षणात्मिका।

मूलम्

भानावुदयशैलस्थे प्रभा यद्वद्विजृम्भते ॥ 5.30 ॥
उदयस्थे तथा25 देवे प्रभा संकर्षणात्मिका।

तस्य षोडश-शत-वर्ष-प्रतीक्षणम्

विश्वास-प्रस्तुतिः

अव्यापृता26 शतान्य् एषा
शक्तिस् तिष्ठति षोडश ॥ 5.31 ॥
संकर्षणात्मिका साक्षाद्
विज्ञान-बल-वारिधिः27

मूलम्

अव्यापृता26 शतान्येषा शक्तिस्तिष्ठति षोडश ॥ 5.31 ॥
संकर्षणात्मिका साक्षाद् विज्ञानबलवारिधिः27

विश्वास-प्रस्तुतिः

अनन्तो भगवान् विष्णुः
शक्तिमान् पुरुषोत्तमः ॥ 5.32 ॥
पूर्ण-स्तिमित-षाड्-गुण्यो
निस्तरङ्गार्णवोपमः।

षण्णां युगपद् उन्मेषाद्
गुणानां स्वप्रचोदितात् ॥ 5.33 ॥
अनन्त एव भगवान्
वासुदेवः सनातनः।

तत्र ज्ञान-बलोन्मेषात्
स्व-संकल्प-प्रचोदितात् ॥ 5.34 ॥
अनन्त एव भगवान्
देवः संकर्षणो ऽच्युतः ।

मूलम्

अनन्तो भगवान् विष्णुः शक्तिमान् पुरुषोत्तमः ॥ 5.32 ॥
पूर्णस्तिमितषाड्गुण्यो निस्तरङ्गार्णवोपमः।
षण्णां युगपदुन्मेषाद् गुणानां स्वप्रचोदितात् ॥ 5.33 ॥
अनन्त एव भगवान् वासुदेवः सनातनः।
तत्र ज्ञानबलोन्मेषात् स्वसंकल्पप्रचोदितात् ॥ 5.34 ॥
अनन्त एव भगवान् देवः संकर्षणोऽच्युतः।

प्रद्युम्नाविर्भावः

विश्वास-प्रस्तुतिः

स्थित्वा षोडश वर्षाणि
देवः शक्तिमयोऽच्युतः ॥ 5.35 ॥
28अनन्त एव भगवान्
प्रद्युम्नः पुरुषोत्तमः।

अंशांशेनोदिता शक्तिः
प्राद्युम्नी भगवत्प्रभा ॥ 5.36 ॥
अव्यापृता शतान्येषा
तूष्णीं तिष्ठति षोडश।

मूलम्

स्थित्वा षोडश वर्षाणि देवः शक्तिमयोऽच्युतः ॥ 5.35 ॥
28अनन्त एव भगवान् प्रद्युम्नः पुरुषोत्तमः।
अंशांशेनोदिता शक्तिः प्राद्युम्नी भगवत्प्रभा ॥ 5.36 ॥
अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश।

अनिरुद्धाविर्भावः

विश्वास-प्रस्तुतिः

ततः शक्तिमयो देवः
प्रद्युम्नः पुरुषोत्तमः ॥ 5.37 ॥
शतानि षोडश स्थित्वा
स्व-संकल्प-प्रचोदितः।
अनन्त एव भगवान्
अनिरुद्धो भवत्युत ॥ 5.38 ॥

मूलम्

ततः शक्तिमयो देवः प्रद्युम्नः पुरुषोत्तमः ॥ 5.37 ॥
शतानि षोडश स्थित्वा स्वसंकल्पप्रचोदितः।
अनन्त एव भगवाननिरुद्धो भवत्युत ॥ 5.38 ॥

विश्वास-प्रस्तुतिः

अंशांशेनोदिता शक्तिर्
आनिरुद्धी हरेः प्रभा।
अव्यापृता शतान्येषा
29तूष्णीं तिष्ठति षोडश ॥ 5.39 ॥

मूलम्

अंशांशेनोदिता शक्तिरानिरुद्धी हरेः प्रभा।
अव्यापृता शतान्येषा 29तूष्णीं तिष्ठति षोडश ॥ 5.39 ॥

व्यूहस्य षोडश-शत-वर्षानन्तरं सृष्टौ व्यापृतिः

विश्वास-प्रस्तुतिः

शतानि षोडश स्थित्वा
ऽनिरुद्धः शक्तिमान् असौ।
तदा व्याप्रियते सृष्टौ
30पूर्वाभ्यां सह नारद ॥ 5.40 ॥

मूलम्

शतानि षोडश स्थित्वानिरुद्धः शक्तिमानसौ।
तदा व्याप्रियते सृष्टौ 30पूर्वाभ्यां सह नारद ॥ 5.40 ॥

व्यूहानां हेयप्रतिभटत्वम् अनादित्वं च

विश्वास-प्रस्तुतिः

31व्यूहा एते विशालाक्षाश्
चात्वारः पुरुषोत्तमाः।
निर्दोषा निरनिष्ठाश् च
निरवद्याः सनातनाः ॥ 5.41 ॥

मूलम्

31व्यूहा एते विशालाक्षाश्चात्वारः पुरुषोत्तमाः।
व्यूहानां हेयप्रतिभटत्वमनादित्वं च
निर्दोषा निरनिष्ठाश्च निरवद्याः सनातनाः ॥ 5.41 ॥

विश्वास-प्रस्तुतिः

अनन्तमक्षरं 32चैतच्
चातुरात्म्यं महामुने।
निस्तरङ्ग-दशायां ते
निःसत्ताः सक्त-चिन्मयाः ॥ 5.42 ॥

मूलम्

अनन्तमक्षरं 32चैतच्चातुरात्म्यं महामुने।
निस्तरङ्गदशायां ते निः सत्ताः सक्तचिन्मयाः ॥ 5.42 ॥

विश्वास-प्रस्तुतिः

शक्त्य्-आत्मका गुणोन्मेष-
दशायां
ते व्यवस्थिताः।
33तत्र स्थूल-दशायां ते
व्यक्ति-भावम् उपागताः ॥ 5.43 ॥

मूलम्

शक्त्यात्मका गुणोन्मेष-दशायां ते व्यवस्थिताः।
33तत्र स्थूलदशायां ते व्यक्तिभावमुपागताः ॥ 5.43 ॥

चातुरात्म्यस्य मनआलम्बनार्थत्वम्

विश्वास-प्रस्तुतिः

जगताम् उपकाराय
सच्-चिद्-आनन्द-लक्षणाः।
मन-आलम्बनायैषा34
चातुरात्म्य-व्यवस्थितिः ॥ 5.44 ॥+++(4)+++

मूलम्

जगतामुपकाराय सच्चिदानन्दलक्षणाः।
मनआलम्बनायैषा34 चातुरात्म्यव्यवस्थितिः ॥ 5.44 ॥

व्यूहात् व्यूहान्तराविर्भाव

विश्वास-प्रस्तुतिः

आम्नासिषुर् अमुष्याश् च
रहस्याम्नाय-वेदिनः।
व्यूहान्तर-विभावादीन्
भेदान् संकल्पकल्पितान् ॥ 5.45 ॥

मूलम्

आम्नासिषुरमुष्याश्च रहस्याम्नायवेदिनः।
व्यूहान्तरविभावादीन् भेदान् संकल्पकल्पितान् ॥ 5.45 ॥

द्वादश व्यूहान्तराणि

विश्वास-प्रस्तुतिः

व्यूहान्तरं दश द्वे च
केशवाद्याः प्रकीर्तिताः।

मूलम्

व्यूहान्तरं दश द्वे च केशवाद्याः प्रकीर्तिताः।

वासुदेवात् केशवादित्रयम्

विश्वास-प्रस्तुतिः

केशवादित्रयं तत्र
वासुदेवाद् विभाव्यते ॥ 5.46 ॥

मूलम्

केशवादित्रयं तत्र वासुदेवाद् विभाव्यते ॥ 5.46 ॥

संकर्षणात् गोविन्दादित्रयाविर्भावः

विश्वास-प्रस्तुतिः

संकर्षणाच्च गोविन्द-
पूर्वं त्रितयमद्भुतम्।

मूलम्

संकर्षणाच्च गोविन्दपूर्वं त्रितयमद्भुतम्।

प्रद्युम्नात् त्रिविक्रमादित्रयाविर्भावः

विश्वास-प्रस्तुतिः

त्रिविक्रमाद्यं त्रितयं
प्रद्युम्नाद् उदितं मुने ॥ 5.47 ॥

मूलम्

त्रिविक्रमाद्यं त्रितयं प्रद्युम्नादुदितं मुने ॥ 5.47 ॥

अनिरुद्धात् हृषीकेशादित्रयाविर्भावः

विश्वास-प्रस्तुतिः

हृषीकेशादिकं तत्त्वम्
अनिरुद्धान् महामुने।

मूलम्

हृषीकेशादिकं तत्त्वमनिरुद्धान्महामुने।

व्यूहान्तरस्य त्रैविध्यम्

विश्वास-प्रस्तुतिः

पराः स्वकार्णान्तःस्थाः
सूक्ष्मास् ते द्विभुजाः स्मृताः॥ 5.48 ॥

मूलम्

पराः स्वकार्णान्तःस्थाः सूक्ष्मास्ते द्विभुजाः स्मृताः॥ 5.48 ॥

विश्वास-प्रस्तुतिः

चतुर्भुजास् ते विज्ञेयाः
स्थूलास् त्रिभुवनेश्वराः।
चक्राद्य्-आयुध-विन्यासो
यन्त्रतन्त्रे ऽभिधास्यते ॥ 5.49 ॥

मूलम्

चतुर्भुजास्ते विज्ञेयाः स्थूलास्त्रिभुवनेश्वराः।
चक्राद्यायुधविन्यासो यन्त्रतन्त्रेऽभिधास्यते ॥ 5.49 ॥

विभवा एकोनचत्वारिंशत्

विश्वास-प्रस्तुतिः

विभवाः पद्मनाभाद्यास्
त्रिंशच्च नव चैव हि।
पद्मानाभो, ध्रुवो, ऽनन्तः,
शक्त्यात्मा, मधुसूदनः ॥ 5.50 ॥ +++(इति ५)+++

मूलम्

विभवाः पद्मनाभाद्यास्त्रिंशच्च नव चैव हि।
पद्मानाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ॥ 5.50 ॥

विश्वास-प्रस्तुतिः

विद्याधिदेवः, कपिलो,
विश्वरूपो, विहंगमः।
35क्रोडात्मा, बडबा-वक्त्रो,
धर्मो, वागीश्वरस् तथा ॥ 5.51 ॥ +++(इति ५+८)+++

मूलम्

विद्याधिदेवः कपिलो विश्वरूपो विहंगमः।
35क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ॥ 5.51 ॥

विश्वास-प्रस्तुतिः

एकाम्भोनिधि-शायी च
भगवान् कमठेश्वरः।
36वराहो, नारसिंहश् च
37पीयूष-हरणस् तथा ॥ 5.52 ॥ +++(इति १३+५)+++

मूलम्

एकाम्भोनिधिशायी च भगवान् कमठेश्वरः।
36वराहो नारसिंहश्च 37पीयूषहरणस्तथा ॥ 5.52 ॥

विश्वास-प्रस्तुतिः

श्रीपतिर् भगवान्, देवः
कान्तात्मा, ऽमृत-धारकः।
राहु-जित्, काल-नेमि-घ्नः,
पारिजात-हरस् तथा॥ 5.53 ॥+++(इति १८+६)+++

मूलम्

श्रीपतिर्भगवान् देवः कान्तात्मामृतधारकः।
राहुजित् कालनेमिघ्नः पारिजातहरस्तथा॥ 5.53 ॥

विश्वास-प्रस्तुतिः

लोकनाथस् तु शान्तात्मा,
दत्तात्रेयो महाप्रभुः।
न्यग्रोध-शायी भगवान्,
एक-श्रृङ्ग-तनुस् तथा ॥ 5.54 ॥+++(इति २४ + ४)+++

मूलम्

लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः।
न्यग्रोधशायी भगवानेकश्रृङ्गतनुस्तथा ॥ 5.54 ॥

विश्वास-प्रस्तुतिः

देवो वामन-देहस् तु
सर्वव्यापी त्रिविक्रमः।
नरो, नारायणश् चैव
हरिः, कृष्णस् तथैव च ॥ 5.55 ॥ +++(इति २८ + ६)+++

मूलम्

देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 5.55 ॥

विश्वास-प्रस्तुतिः

ज्वलत्-परशु-धृग् रामो 38
रामश् चान्यो धनुर्-धरः।
वेद-विद् भगवान्, कल्की,
पाताल-शयनः 39स्मृतः ॥ 5.56 ॥+++(इति ३४+५)+++

मूलम्

ज्वलत्परशुधृग्रामो 38रामश्चान्यो धनुर्धरः।
वेदविद्भगवान् कल्की पातालशयनः 39स्मृतः ॥ 5.56 ॥

विश्वास-प्रस्तुतिः

त्रिंशच्च नव चैवेते
पद्मनाभादयो मताः।

मूलम्

त्रिंशच्च नव चैवेते पद्मनाभादयो मताः।

तेषाम् उत्पत्त्यादिकं सात्त्वतादौ ज्ञेयम्

विश्वास-प्रस्तुतिः

यतश् चैषां समुत्पत्तिर्
यो व्यापारो, यद् आयुधम् ॥ 5.57 ॥

मूलम्

यतश्चैषां समुत्पत्तिर्यो व्यापारो यदायुधम् ॥ 5.57 ॥

विश्वास-प्रस्तुतिः

या मूर्तिर् यादृशी चैव,
यत्र चैते व्यवस्थिताः।
भूषणानि विचित्राणि,
वासांसि विविधानि च ॥ 5.58 ॥

मूलम्

या मूर्तिर्यादृशी चैव यत्र चैते व्यवस्थिताः।
भूषणानि विचित्राणि वासांसि विविधानि च ॥ 5.58 ॥

विश्वास-प्रस्तुतिः

बाह्यान्तः-करणानां च
त्रयो वर्गाः सवृत्तयः।
संकल्प-निर्मिता शक्तिर्
या तत्-तत्-कार्य-गोचरा40
सात्त्वते शासने सर्वं
तत् तद् उक्तं महामुने41 ॥ 5.59 ॥

मूलम्

बाह्यान्तःकरणानां च त्रयो वर्गाः सवृत्तयः।
संकल्पनिर्मिता शक्तिर्या तत्तत्कार्यगोचरा40
सात्त्वते शासने सर्वं तत्तदुक्तं महामुने41 ॥ 5.59 ॥

अध्यायार्थोपसंहारः

विश्वास-प्रस्तुतिः

इतीयं 42शुद्धसृष्टिस् ते
विष्णोः संकल्प-कल्पिता।
भूत्य्-अंशो लेशतः प्रोक्तः
श्रृणु सृष्टिम् अथेतराम् ॥ 5.60 ॥

मूलम्

इतीयं 42शुद्धसृष्टिस्ते विष्णोः संकल्पकल्पिता।
भूत्यंशो लेशतः प्रोक्तः श्रृणु सृष्टिमथेतराम् ॥ 5.60 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः
आदितः श्लोकाः 330


  1. वक्ष्याम्यहं B C E F J. ↩︎ ↩︎

  2. नारायणमयं D.नारायणपरं J. ↩︎ ↩︎

  3. अनागतम् D. ↩︎ ↩︎

  4. स्वभक्तिगान् D; स्वमूर्तिकान् E.J. स्वमूर्तिगान् F. ↩︎ ↩︎

  5. व्यज्यते A B C E F. ↩︎ ↩︎

  6. भूतमयैः A B C E F J ↩︎ ↩︎

  7. कालकाल्य A B C J. ↩︎ ↩︎

  8. व्यङ्ग्यव्यञ्जनभावेन A B C E F J. ↩︎ ↩︎

  9. भेदस्य A B C E F J. ↩︎ ↩︎

  10. तदा E.F ↩︎ ↩︎

  11. वदतः A B C E F J ↩︎ ↩︎

  12. सृष्टिभूते A B C F सृष्टिभूतैः E. ↩︎ ↩︎

  13. सलक्षणः A B C E F. ↩︎ ↩︎

  14. यथातथम् E; यथा तथा E J. ↩︎ ↩︎

  15. मूर्तिकार इति All MSS. ↩︎ ↩︎

  16. क्रिया A B C D. ↩︎ ↩︎

  17. बलः D ↩︎ ↩︎

  18. रूपम् J. ↩︎ ↩︎

  19. पुष्करेक्षणः D ↩︎ ↩︎

  20. तत् A B C E F. ↩︎ ↩︎

  21. एते B C J. ↩︎ ↩︎

  22. र्या स्थितिर्व्यक्तिलक्षणा A B C E F J ↩︎ ↩︎

  23. व्यापिनि A B C E F J ↩︎ ↩︎

  24. देवाद् A B C E F.देवः J ↩︎ ↩︎

  25. तदा A B C E F ↩︎ ↩︎

  26. अव्यावृता D ↩︎ ↩︎

  27. वारिधेः B C ↩︎ ↩︎

  28. A Omits line ↩︎ ↩︎

  29. शक्तिः A B C E F ↩︎ ↩︎

  30. व्यूहाभ्यां A B C E F J ↩︎ ↩︎

  31. व्यूहानां ते A B C ↩︎ ↩︎

  32. चैव A B C E F J ↩︎ ↩︎

  33. ततः स्थूलदशायां ते मूर्तिभावमुपागताः D ↩︎ ↩︎

  34. आलम्बना एषा B C E F ↩︎ ↩︎

  35. क्रोधात्मा D.J. ↩︎ ↩︎

  36. परमो J. ↩︎ ↩︎

  37. पीयूषा E F J ↩︎ ↩︎

  38. रामश्चान्यश्चतुर्गतिः D E F G J ↩︎ ↩︎

  39. प्रभुः D E F J ↩︎ ↩︎

  40. या सा तत्कार्यगोचरा A B C D E F J ↩︎ ↩︎

  41. महामते E F ↩︎ ↩︎

  42. शुद्धसंसृष्टिः A B C E F J ↩︎ ↩︎