प्रतिसंचरवर्णनं नाम चतुर्थोऽध्यायः
नारदः—
विश्वास-प्रस्तुतिः - 4.1
भगवन् देवदेवेश सर्वज्ञ वृषकेतन।
किं तत् कारणमित्युक्तं सृष्टये 1यत् प्रवर्तते ॥ 4.1 ॥
मूलम् - 4.1
भगवन् देवदेवेश सर्वज्ञ वृषकेतन।
किं तत् कारणमित्युक्तं सृष्टये 1यत् प्रवर्तते ॥ 4.1 ॥
विश्वास-प्रस्तुतिः - 4.2
सुदर्शनेन यद् व्याप्तं रूपतः कार्यतोऽर्थतः।
विस्तरेण ममाचक्ष्व जगतः कारणं परम् ॥ 4.2 ॥
मूलम् - 4.2
सुदर्शनेन यद् व्याप्तं रूपतः कार्यतोऽर्थतः।
विस्तरेण ममाचक्ष्व जगतः कारणं परम् ॥ 4.2 ॥
प्राकृतप्रलयवर्णनम्
अहिर्बुध्न्यः—
विश्वास-प्रस्तुतिः - 4.3
प्रोच्यमानं मया तत्त्वं कारणस्यावधारय।
तत्र तावन्निबोधेमं प्राकृतं प्रतिसंचरम् ॥ 4.3 ॥
मूलम् - 4.3
प्रोच्यमानं मया तत्त्वं कारणस्यावधारय।
तत्र तावन्निबोधेमं प्राकृतं प्रतिसंचरम् ॥ 4.3 ॥
विश्वास-प्रस्तुतिः - 4.4
येन कालेन सा विद्या प्रकृतिर्मूलसंज्ञिता2 ।
सस्यादिसृष्टये धेनुरभवन्मेघरूपिणी ॥ 4.4 ॥
मूलम् - 4.4
येन कालेन सा विद्या प्रकृतिर्मूलसंज्ञिता2 ।
सस्यादिसृष्टये धेनुरभवन्मेघरूपिणी ॥ 4.4 ॥
विश्वास-प्रस्तुतिः - 4.5
कालेन तावता सा तु चिकीर्ष्ये प्रतिसंचरे।
अधेनुर्नीरसा शुष्का भवत्यव्यक्तसंज्ञिता ॥ 4.5 ॥
मूलम् - 4.5
कालेन तावता सा तु चिकीर्ष्ये प्रतिसंचरे।
अधेनुर्नीरसा शुष्का भवत्यव्यक्तसंज्ञिता ॥ 4.5 ॥
नारदः—
3कालेन कियता सर्गः सा धेनः कामरूपिणी।
अधेनुः सा भवेद् देवी यावता प्रतिसंचरे ॥ 4.6 ॥
प्रतिसंचरकालपरिमाणम्
अहिर्बुध्न्यः—
विश्वास-प्रस्तुतिः - 4.7
अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला।
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादश स्मृतः ॥ 4.7 ॥
मूलम् - 4.7
अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला।
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादश स्मृतः ॥ 4.7 ॥
विश्वास-प्रस्तुतिः - 4.8
ते तु पञ्चदशाहः स्यात् तावती रात्रिरिष्यते।
ते4 पञ्चदश पक्षः स्यात् पक्षौ द्वौ मास 5इष्यते॥ 4.8 ॥
मूलम् - 4.8
ते तु पञ्चदशाहः स्यात् तावती रात्रिरिष्यते।
ते4 पञ्चदश पक्षः स्यात् पक्षौ द्वौ मास 5इष्यते॥ 4.8 ॥
विश्वास-प्रस्तुतिः - 4.9
संवत्सरो मानुषस्तु तैर्द्वादशभिरिष्यते।
काम्यः षोडशभिस्तैस्तु काम्याब्दानां 6तथा मुने॥ 4.9 ॥
मूलम् - 4.9
संवत्सरो मानुषस्तु तैर्द्वादशभिरिष्यते।
काम्यः षोडशभिस्तैस्तु काम्याब्दानां 6तथा मुने॥ 4.9 ॥
विश्वास-प्रस्तुतिः - 4.10
विद्या धेतुरधेनुश्च भवेत् कालेन तावता।
अधेन्वां तु ततस्तस्यां चिकीर्ष्ये[^7] प्रतिसंचरे ॥ 4.10 ॥
मूलम् - 4.10
विद्या धेतुरधेनुश्च भवेत् कालेन तावता।
अधेन्वां तु ततस्तस्यां चिकीर्ष्ये[^7] प्रतिसंचरे ॥ 4.10 ॥
सर्वस्य पृथिव्यां लयः
विश्वास-प्रस्तुतिः - 4.11
नीरसं शुष्कमेवासीज्जगदेतच्चराचरम्।
महावातेन संशुष्कं संदग्धं [^8]च महाग्निना ॥ 4.11 ॥
मूलम् - 4.11
नीरसं शुष्कमेवासीज्जगदेतच्चराचरम्।
महावातेन संशुष्कं संदग्धं [^8]च महाग्निना ॥ 4.11 ॥
विश्वास-प्रस्तुतिः - 4.12
आ शैलादा तृणाच्चैव यदा भूमौ समुन्नतम्।
मानवेषु लयं यान्ति [^9]तदा मानवमानवाः ॥ 4.12 ॥
मूलम् - 4.12
आ शैलादा तृणाच्चैव यदा भूमौ समुन्नतम्।
मानवेषु लयं यान्ति [^9]तदा मानवमानवाः ॥ 4.12 ॥
विश्वास-प्रस्तुतिः - 4.13
मनुष्वेव लयं यान्ति मानवास्ते चतुः शतम्।
एवं चेतनवर्गे तु मनुष्वेव लयं गते ॥ 4.13 ॥
मूलम् - 4.13
मनुष्वेव लयं यान्ति मानवास्ते चतुः शतम्।
एवं चेतनवर्गे तु मनुष्वेव लयं गते ॥ 4.13 ॥
विश्वास-प्रस्तुतिः - 4.14
मिथुनान्येव चत्वारि मनूनां केवलानि तु।
कूर्मपृष्ठसमानायां भुवि तिष्ठन्ति वै मुने ॥ 4.14 ॥
मूलम् - 4.14
मिथुनान्येव चत्वारि मनूनां केवलानि तु।
कूर्मपृष्ठसमानायां भुवि तिष्ठन्ति वै मुने ॥ 4.14 ॥
पृथिव्या अप्सु लयः
[^10]नारायणस्य संकल्पादव्याहतसुदर्शनात्।
भूमेर्गन्धात्मकं सारं ग्रसन्त्यापस्तदा मुने ॥ 4.15 ॥
आत्तगन्धा यदा भूमिरम्भसा [^11]कारणात्मना।
[^12]अतिभूय तदा पृथ्वीं मनवोऽप्सु व्यवस्थिताः ॥ 4.16 ॥
[^12]भूमिस्त्वात्तरसा शश्वज्जहाति व्चक्तिनामनी।
[^15]प्रभवन्त्याप एतर्हि जगदेतच्चराचरम् ॥ 4.17 ॥
अपां तेजसि लयः
विश्वास-प्रस्तुतिः - 4.18
संकल्पादेव पूर्वस्मात् सुदर्शनमयाद्धरेः।
अपामपि रसं सारं ज्योतिर्ग्रसति कारणम् ॥ 4.18 ॥
मूलम् - 4.18
संकल्पादेव पूर्वस्मात् सुदर्शनमयाद्धरेः।
अपामपि रसं सारं ज्योतिर्ग्रसति कारणम् ॥ 4.18 ॥
विश्वास-प्रस्तुतिः - 4.19
अतिभूय तदापस्तु मनवो ज्योतिषि स्थिताः।
आपश्चात्तरसाः शश्वज्जहति व्यक्तिनामनी ॥ 4.19 ॥
मूलम् - 4.19
अतिभूय तदापस्तु मनवो ज्योतिषि स्थिताः।
आपश्चात्तरसाः शश्वज्जहति व्यक्तिनामनी ॥ 4.19 ॥
विश्वास-प्रस्तुतिः - 4.21
ज्योतिषोऽप्यान्तरं रूपं सारं ग्रसति तद् ध्रुवम्।
संकल्पचोदिता[^15] विष्णोर्मनवोऽपि तदा मुने ॥ 4.21 ॥
मूलम् - 4.21
ज्योतिषोऽप्यान्तरं रूपं सारं ग्रसति तद् ध्रुवम्।
संकल्पचोदिता[^15] विष्णोर्मनवोऽपि तदा मुने ॥ 4.21 ॥
विश्वास-प्रस्तुतिः - 4.22
अतिभूयाखिलं ज्योतिर्वायुमेव श्रयन्ति ते।
आत्तरूपं तदा ज्योतिर्जहाति व्यक्तिनामनी ॥ 4.22 ॥
मूलम् - 4.22
अतिभूयाखिलं ज्योतिर्वायुमेव श्रयन्ति ते।
आत्तरूपं तदा ज्योतिर्जहाति व्यक्तिनामनी ॥ 4.22 ॥
वायोराकाशे लयः
[^16]ततः कारणमाकाशं विष्णोः संकल्पचोदितम् ॥ 4.23 ॥
विश्वास-प्रस्तुतिः - 4.24
सारं ग्रसति संस्पर्शं कारणं वै नभस्वतः।
सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने ॥ 4.24 ॥
मूलम् - 4.24
सारं ग्रसति संस्पर्शं कारणं वै नभस्वतः।
सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने ॥ 4.24 ॥
विश्वास-प्रस्तुतिः - 4.25
नभस्येवावतिष्ठन्ते व्यतिभूय समीरणम्।
आत्तस्पर्शस्तदा वायुर्जहाति व्यक्तिनामनी ॥ 4.25 ॥
मूलम् - 4.25
नभस्येवावतिष्ठन्ते व्यतिभूय समीरणम्।
आत्तस्पर्शस्तदा वायुर्जहाति व्यक्तिनामनी ॥ 4.25 ॥
आकाशस्याहंकारे लयः
क्रियाशक्तीरितो विष्णोरहंकारोऽभिमानवान् ॥ 4.26 ॥
विश्वास-प्रस्तुतिः - 4.27
सारं ग्रसति शब्दाख्यं कारणं नभसो मुने।
तयैव प्रेरिता विष्णोरतिभूय वियत्पदम् ॥ 4.27 ॥
मूलम् - 4.27
सारं ग्रसति शब्दाख्यं कारणं नभसो मुने।
तयैव प्रेरिता विष्णोरतिभूय वियत्पदम् ॥ 4.27 ॥
विश्वास-प्रस्तुतिः - 4.28
अहंकारेऽवतिष्ठन्ते मनवो भगवन्मयाः।
आत्तशब्दं वियत् तच्च जहाति व्यक्तिनामनी ॥ 4.28 ॥
मूलम् - 4.28
अहंकारेऽवतिष्ठन्ते मनवो भगवन्मयाः।
आत्तशब्दं वियत् तच्च जहाति व्यक्तिनामनी ॥ 4.28 ॥
अहंकारस्य बुद्धौ लयः
अभिमानात्मकं [^17]सारमहंकारस्य कारणम् ॥ 4.29 ॥
विश्वास-प्रस्तुतिः - 4.30
सुदर्शनेरिता विष्णोर्बुद्धिर्ग्रसति वै मुने।
सुदर्शनेरिता विष्णोरतिभूय त्वहंकृतिम् ॥ 4.30 ॥
मूलम् - 4.30
सुदर्शनेरिता विष्णोर्बुद्धिर्ग्रसति वै मुने।
सुदर्शनेरिता विष्णोरतिभूय त्वहंकृतिम् ॥ 4.30 ॥
विश्वास-प्रस्तुतिः - 4.31
बुद्धावेवावतिष्ठन्ते मनवोऽष्टौ महामुने।
आत्ताभिमानोऽहंकारो जहाति व्यक्तिनामनी ॥ 4.31 ॥
मूलम् - 4.31
बुद्धावेवावतिष्ठन्ते मनवोऽष्टौ महामुने।
आत्ताभिमानोऽहंकारो जहाति व्यक्तिनामनी ॥ 4.31 ॥
बुद्धेस्तमसि लयः
सारमध्यवसायाख्यं बुद्धेः कारणमव्ययम् ॥ 4.32 ॥
विश्वास-प्रस्तुतिः - 4.33
सुदर्शनेरितं विष्णोस्तमो ग्रसति कारणम्।
सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने ॥ 4.33 ॥
मूलम् - 4.33
सुदर्शनेरितं विष्णोस्तमो ग्रसति कारणम्।
सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने ॥ 4.33 ॥
विश्वास-प्रस्तुतिः - 4.34
अतिभूय तदा बुद्धिं तमस्येव श्रिताः स्थितम्।
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ॥ 4.34 ॥
मूलम् - 4.34
अतिभूय तदा बुद्धिं तमस्येव श्रिताः स्थितम्।
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ॥ 4.34 ॥
इन्द्रियाणां भूतैः सह तत्तत्कारणेषु लयः
घ्राणं जिह्वा च चक्षुश्च त्वक् च श्रोत्रं च पञ्चमम् ॥ 4.35 ॥
विश्वास-प्रस्तुतिः - 4.36
पायूपस्थं तथा पादौ हस्तौ वाक् चैव पञ्चमी[^18]।
द्वयोः पञ्चकयोर्द्वन्द्वं घ्राणपाय्वादिकं क्रमात् ॥ 4.36 ॥
मूलम् - 4.36
पायूपस्थं तथा पादौ हस्तौ वाक् चैव पञ्चमी[^18]।
द्वयोः पञ्चकयोर्द्वन्द्वं घ्राणपाय्वादिकं क्रमात् ॥ 4.36 ॥
विश्वास-प्रस्तुतिः - 4.37
महीजलादिभिर्हेतौ लीयमानैः[^19] स्वके स्वके।
समं विलयमायाति सह [^20]घ्राणादिवृत्तिभिः ॥ 4.37 ॥
मूलम् - 4.37
महीजलादिभिर्हेतौ लीयमानैः[^19] स्वके स्वके।
समं विलयमायाति सह [^20]घ्राणादिवृत्तिभिः ॥ 4.37 ॥
विश्वास-प्रस्तुतिः - 4.38
मनोऽहंकार इत्येतत् सवृत्ति करणद्वयम्।
अहंकारे लयं याति बुद्धौ बोधनमिन्द्रियम् ॥ 4.38 ॥
मूलम् - 4.38
मनोऽहंकार इत्येतत् सवृत्ति करणद्वयम्।
अहंकारे लयं याति बुद्धौ बोधनमिन्द्रियम् ॥ 4.38 ॥
तमसो रजसि लयः
स्थितिशक्तिर्हि या [^21]चास्य तमसो गुरुतामयी ॥ 4.39 ॥
विश्वास-प्रस्तुतिः - 4.40
रजो ग्रसति तां शश्वदीश्वरेच्छाप्रचोदितम्।
इच्छया प्रेरिता विष्णोर्मनवोऽपि महामुने ॥ 4.40 ॥
मूलम् - 4.40
रजो ग्रसति तां शश्वदीश्वरेच्छाप्रचोदितम्।
इच्छया प्रेरिता विष्णोर्मनवोऽपि महामुने ॥ 4.40 ॥
विश्वास-प्रस्तुतिः - 4.41
रजस्येवावतिष्ठन्ते व्यतिभूय तमोगतिम्।
आत्तसारं तमस्तत्तु जहाति व्यक्तिनामनी ॥ 4.41 ॥
मूलम् - 4.41
रजस्येवावतिष्ठन्ते व्यतिभूय तमोगतिम्।
आत्तसारं तमस्तत्तु जहाति व्यक्तिनामनी ॥ 4.41 ॥
रजसः सत्त्वे लयः
या सा स्पन्दमयी शक्तिश्चलत्तात्मा[^22] रजोमयी ॥ 4.42 ॥
विश्वास-प्रस्तुतिः - 4.43
तां वै सुदर्शनादिष्टं सत्त्वं ग्रसति कारणम्।
रजःस्था मनवश्चैव विष्णुसंकल्पचोदिताः ॥ 4.43 ॥
मूलम् - 4.43
तां वै सुदर्शनादिष्टं सत्त्वं ग्रसति कारणम्।
रजःस्था मनवश्चैव विष्णुसंकल्पचोदिताः ॥ 4.43 ॥
विश्वास-प्रस्तुतिः - 4.44
अतिभूय रजः सत्त्वं विशन्ति विमलं मुने।
आत्तसारं रजस्तत्तु जहाति व्यक्तिनामनी ॥ 4.44 ॥
मूलम् - 4.44
अतिभूय रजः सत्त्वं विशन्ति विमलं मुने।
आत्तसारं रजस्तत्तु जहाति व्यक्तिनामनी ॥ 4.44 ॥
सत्त्वस्य काले लयः
कालो नाम गुणो विष्णोः सुदर्शनसमीरितः ॥ 4.45 ॥
विश्वास-प्रस्तुतिः - 4.46
सारं [^23]प्रज्ञामयं सत्त्वादादत्ते ज्ञानकारणम्।
अतिभूय तदा सत्त्वं मनवः कालसंश्रिताः ॥ 4.46 ॥
मूलम् - 4.46
सारं [^23]प्रज्ञामयं सत्त्वादादत्ते ज्ञानकारणम्।
अतिभूय तदा सत्त्वं मनवः कालसंश्रिताः ॥ 4.46 ॥
विश्वास-प्रस्तुतिः - 4.47
काल एव जगत् कृत्स्नमिदमासीत् तदा मुने।
आत्तसारं च तत् सत्त्वं जहाति व्यक्तिनामनी ॥ 4.47 ॥
मूलम् - 4.47
काल एव जगत् कृत्स्नमिदमासीत् तदा मुने।
आत्तसारं च तत् सत्त्वं जहाति व्यक्तिनामनी ॥ 4.47 ॥
कालस्य नियतौ लयः
विश्वास-प्रस्तुतिः - 4.48
काली कालगता शक्तिर्या साशेषप्रकालिनी।
नियतिर्नाम तां तत्त्वं ग्रसतीश्वरचोदिता ॥ 4.48 ॥
मूलम् - 4.48
काली कालगता शक्तिर्या साशेषप्रकालिनी।
नियतिर्नाम तां तत्त्वं ग्रसतीश्वरचोदिता ॥ 4.48 ॥
विश्वास-प्रस्तुतिः - 4.50
आत्तसारस्तदा कालो जहाति व्यक्तिनामनी।
नियतिर्नाम सा विश्वमिदमासीच्चराचरम् ॥ 4.50 ॥
मूलम् - 4.50
आत्तसारस्तदा कालो जहाति व्यक्तिनामनी।
नियतिर्नाम सा विश्वमिदमासीच्चराचरम् ॥ 4.50 ॥
नियतेः शक्तौ लयः
विश्वास-प्रस्तुतिः - 4.51
महाविद्यामयी शक्तिर्नियतेर्या महामुने।
शक्तिर्नाम तदा तां तु ग्रसतीश्वरचोदिता ॥ 4.51 ॥
मूलम् - 4.51
महाविद्यामयी शक्तिर्नियतेर्या महामुने।
शक्तिर्नाम तदा तां तु ग्रसतीश्वरचोदिता ॥ 4.51 ॥
विश्वास-प्रस्तुतिः - 4.52
मनवोऽपीश्वरादिष्टा नियतिं तामतीत्य वै।
शक्तिं मायामयीं विष्णोर्विशन्ति विपुलात्मिकाम् ॥ 4.52 ॥
मूलम् - 4.52
मनवोऽपीश्वरादिष्टा नियतिं तामतीत्य वै।
शक्तिं मायामयीं विष्णोर्विशन्ति विपुलात्मिकाम् ॥ 4.52 ॥
विश्वास-प्रस्तुतिः - 4.53
नियतिश्चात्तसारा सा जहाति व्यक्तिनामनी।
अथ शक्तिरिदं विश्वं जगदासीच्चराचरम् ॥ 4.53 ॥
मूलम् - 4.53
नियतिश्चात्तसारा सा जहाति व्यक्तिनामनी।
अथ शक्तिरिदं विश्वं जगदासीच्चराचरम् ॥ 4.53 ॥
शक्तेः कूटस्थपुरुषे लयः
विश्वास-प्रस्तुतिः - 4.54
आ चैतन्योन्मिषत्तायाः शक्तेः शक्तिः सनातनी।
सुदर्शनेरितस्तां तु पुरुषो ग्रसति स्वयम् ॥ 4.54 ॥
मूलम् - 4.54
आ चैतन्योन्मिषत्तायाः शक्तेः शक्तिः सनातनी।
सुदर्शनेरितस्तां तु पुरुषो ग्रसति स्वयम् ॥ 4.54 ॥
विश्वास-प्रस्तुतिः - 4.55
अतीत्य मनवः शक्तिं तं विशन्तीश्वरेरिताः।
आत्तसारा तदा शक्तिर्जहाति व्यक्तिनामनी॥ 4.55 ॥
मूलम् - 4.55
अतीत्य मनवः शक्तिं तं विशन्तीश्वरेरिताः।
आत्तसारा तदा शक्तिर्जहाति व्यक्तिनामनी॥ 4.55 ॥
विश्वास-प्रस्तुतिः - 4.56
सर्वात्मा सर्वतः शक्तिः पुरुषः सर्वतोमुखः।
सर्वज्ञः सर्वगः सर्वः सर्वमावृत्य तिष्ठति ॥ 4.56 ॥
मूलम् - 4.56
सर्वात्मा सर्वतः शक्तिः पुरुषः सर्वतोमुखः।
सर्वज्ञः सर्वगः सर्वः सर्वमावृत्य तिष्ठति ॥ 4.56 ॥
विश्वास-प्रस्तुतिः - 4.58
त्रयोदशानां भूम्यादिशक्त्यन्तानां महामुने।
विलीनस्वस्वकार्याणां [^26]काम्यवर्षशतस्थितिः ॥ 4.58 ॥
मूलम् - 4.58
त्रयोदशानां भूम्यादिशक्त्यन्तानां महामुने।
विलीनस्वस्वकार्याणां [^26]काम्यवर्षशतस्थितिः ॥ 4.58 ॥
कूटस्थपुरुषस्यानिरुद्धे लयः
विश्वास-प्रस्तुतिः - 4.59
पुंसस्त्रीणि शतानि स्युस्ततो मनुमयः पुमान्।
चतुर्धा [^27]स्वं विभज्याथ ब्रह्मक्षत्रादिभावतः ॥ 4.59 ॥
मूलम् - 4.59
पुंसस्त्रीणि शतानि स्युस्ततो मनुमयः पुमान्।
चतुर्धा [^27]स्वं विभज्याथ ब्रह्मक्षत्रादिभावतः ॥ 4.59 ॥
विश्वास-प्रस्तुतिः - 4.61
ततोऽसौ भगवानेकः प्रलीनचिदचिन्मयः।
शतानि दश षट् चाथ[^29] वर्षाणामवतिष्ठते ॥ 4.61 ॥
मूलम् - 4.61
ततोऽसौ भगवानेकः प्रलीनचिदचिन्मयः।
शतानि दश षट् चाथ[^29] वर्षाणामवतिष्ठते ॥ 4.61 ॥
अनिरुद्धस्य प्रद्युम्नेऽप्ययः
विश्वास-प्रस्तुतिः - 4.62
अवस्थाय ततोऽप्येति प्रद्युम्नमजरं विभुम्।
निरुध्य सर्वचेष्टाः स्वास्तावत्कालं स तिष्ठति ॥ 4.62 ॥
मूलम् - 4.62
अवस्थाय ततोऽप्येति प्रद्युम्नमजरं विभुम्।
निरुध्य सर्वचेष्टाः स्वास्तावत्कालं स तिष्ठति ॥ 4.62 ॥
प्रद्युम्नस्य संकर्षणेऽप्ययः
विश्वास-प्रस्तुतिः - 4.63
ततः प्रद्युम्नसंज्ञोऽसौ भगवान् पुष्करेक्षणः।
अप्येति भगवन्तं तं संकर्षणमनामयम् ॥ 4.63 ॥
मूलम् - 4.63
ततः प्रद्युम्नसंज्ञोऽसौ भगवान् पुष्करेक्षणः।
अप्येति भगवन्तं तं संकर्षणमनामयम् ॥ 4.63 ॥
विश्वास-प्रस्तुतिः - 4.64
कालं तिष्ठति तावन्तं सर्वदेवमयोऽडच्युतः।
चिदचित्खचितं विश्वं शुद्धाशुद्धमशेषतः ॥ 4.64 ॥
मूलम् - 4.64
कालं तिष्ठति तावन्तं सर्वदेवमयोऽडच्युतः।
चिदचित्खचितं विश्वं शुद्धाशुद्धमशेषतः ॥ 4.64 ॥
विश्वास-प्रस्तुतिः - 4.65
तिलकालकवत् [^30]स्वस्य देहे ज्ञानमये दधत्।
उदयास्ताचलावेष देवः संकर्षणो बलः ॥ 4.65 ॥
मूलम् - 4.65
तिलकालकवत् [^30]स्वस्य देहे ज्ञानमये दधत्।
उदयास्ताचलावेष देवः संकर्षणो बलः ॥ 4.65 ॥
विश्वास-प्रस्तुतिः - 4.66
चिदिन्दोरचिदङ्कस्य कलास्ता अनुधावतः।
अहीनमहरेतद्धि संकर्षणमयं परम् ॥ 4.66 ॥
मूलम् - 4.66
चिदिन्दोरचिदङ्कस्य कलास्ता अनुधावतः।
अहीनमहरेतद्धि संकर्षणमयं परम् ॥ 4.66 ॥
संकर्षणस्य वासुदेवेऽप्ययः
शतानि षोडश स्थित्वा वर्षाणामयमच्युतः ॥ 4.67 ॥
विश्वास-प्रस्तुतिः - 4.68
अप्येति भगवन्तं तं वासुदेवं सनातनम्।
नासदासीत् तदानीं हि नो सदासीत् तदा मुने ॥ 4.68 ॥
मूलम् - 4.68
अप्येति भगवन्तं तं वासुदेवं सनातनम्।
नासदासीत् तदानीं हि नो सदासीत् तदा मुने ॥ 4.68 ॥
विश्वास-प्रस्तुतिः - 4.69
भावाभावौ [^32]विलोप्यान्तर्विचित्रविभवोदयौ।
अनिर्देश्यं परं ब्रह्मा वासुदेवोऽवतिष्ठते ॥ 4.69 ॥
मूलम् - 4.69
भावाभावौ [^32]विलोप्यान्तर्विचित्रविभवोदयौ।
अनिर्देश्यं परं ब्रह्मा वासुदेवोऽवतिष्ठते ॥ 4.69 ॥
विश्वास-प्रस्तुतिः - 4.70
सा रात्रिस्तत् परं ब्रह्म तदव्यक्तमुदाहृतम्।
षण्णां युगानि विज्ञानबलादीनामशेषतः ॥ 4.70 ॥
मूलम् - 4.70
सा रात्रिस्तत् परं ब्रह्म तदव्यक्तमुदाहृतम्।
षण्णां युगानि विज्ञानबलादीनामशेषतः ॥ 4.70 ॥
विश्वास-प्रस्तुतिः - ४-७१
त्रीणि यस्मिन् प्रलीयन्ते यत् तत् सा रात्रिरुच्यते ।
सङ्कर्षणादिभूम्यन्तमञ्जनं विगतं यतः ॥ ४-७१ ॥
मूलम् - ४-७१
त्रीणि यस्मिन् प्रलीयन्ते यत् तत् सा रात्रिरुच्यते ।
सङ्कर्षणादिभूम्यन्तमञ्जनं विगतं यतः ॥ ४-७१ ॥
विश्वास-प्रस्तुतिः - ४-७२
तदव्यक्तमिति ज्ञेयं समत्वात् सम उच्यते ।
या सा भगवतः शक्तिरहन्ता सर्वभावगा ॥ ४-७२ ॥
मूलम् - ४-७२
तदव्यक्तमिति ज्ञेयं समत्वात् सम उच्यते ।
या सा भगवतः शक्तिरहन्ता सर्वभावगा ॥ ४-७२ ॥
विश्वास-प्रस्तुतिः - ४-७३
अपृथक्चारिणी सत्ता महानन्दमयी परा ।
सङ्कर्षणादिभूम्यन्तस्तस्याः कोट्यंश ईरितः ॥ ४-७३ ॥
मूलम् - ४-७३
अपृथक्चारिणी सत्ता महानन्दमयी परा ।
सङ्कर्षणादिभूम्यन्तस्तस्याः कोट्यंश ईरितः ॥ ४-७३ ॥
विश्वास-प्रस्तुतिः - ४-७४
सदसच्चिदचिद्रूपैर्यत्र विश्वं प्रकाशते ।
तस्मिन्नुपरते शश्वद्विश्वकोलाहलोद्गमे ॥ ४-७४ ॥
मूलम् - ४-७४
सदसच्चिदचिद्रूपैर्यत्र विश्वं प्रकाशते ।
तस्मिन्नुपरते शश्वद्विश्वकोलाहलोद्गमे ॥ ४-७४ ॥
विश्वास-प्रस्तुतिः - ४-७५
अलक्ष्या कार्यतः शक्तिर्देवाद्विजहती भिदाम् ।
प्रतिसञ्चरिकां शक्तिं क्रियां सौदर्शनीं स्वकाम् ॥ ४-७५ ॥
मूलम् - ४-७५
अलक्ष्या कार्यतः शक्तिर्देवाद्विजहती भिदाम् ।
प्रतिसञ्चरिकां शक्तिं क्रियां सौदर्शनीं स्वकाम् ॥ ४-७५ ॥
विश्वास-प्रस्तुतिः - ४-७६
संहृत्य बिभ्रती तां तु स्थितिं सङ्कल्परूपिणीम् ।
इन्धनाभावतो ज्वाला वह्निभावं यथा गता ॥ ४-७६ ॥
मूलम् - ४-७६
संहृत्य बिभ्रती तां तु स्थितिं सङ्कल्परूपिणीम् ।
इन्धनाभावतो ज्वाला वह्निभावं यथा गता ॥ ४-७६ ॥
विश्वास-प्रस्तुतिः - ४-७७
प्। ३९) ब्रह्मभावं व्रजत्येवं सा शक्तिर्वैष्णवी परा ।
नारायणः परं ब्रह्म शक्तिर्नारायणी च सा ॥ ४-७७ ॥
मूलम् - ४-७७
प्। ३९) ब्रह्मभावं व्रजत्येवं सा शक्तिर्वैष्णवी परा ।
नारायणः परं ब्रह्म शक्तिर्नारायणी च सा ॥ ४-७७ ॥
व्यापकावतिसंश्लेषादेकं तत्त्वमिव स्थितौ ।
विश्वास-प्रस्तुतिः - ४-७८
सङ्कर्षणोदयो यावदहः पौरुषमिष्यते ।
तावती पौरुषी रात्रिः संहृताखिलवस्तुका ॥ ४-७८ ॥
मूलम् - ४-७८
सङ्कर्षणोदयो यावदहः पौरुषमिष्यते ।
तावती पौरुषी रात्रिः संहृताखिलवस्तुका ॥ ४-७८ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
प्रतिसञ्चरवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
आदितः श्लोकाः २७०
शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - ५-१
कार्यकारणवर्गस्य प्रलयोऽयं प्रदर्शितः ।
सुदर्शनमयीं सृष्टिं तस्य वक्ष्यामि ते मुने ॥ ५-१ ॥
मूलम् - ५-१
कार्यकारणवर्गस्य प्रलयोऽयं प्रदर्शितः ।
सुदर्शनमयीं सृष्टिं तस्य वक्ष्यामि ते मुने ॥ ५-१ ॥
प्रलयावस्थब्रह्मस्वरूपम्
विश्वास-प्रस्तुतिः - ५-२
प्रसुप्ताखिलकार्यं सर्वतः समतां गतम् ।
नारायणः परं ब्रह्म सर्वावासमनाहतम् ॥ ५-२ ॥
मूलम् - ५-२
प्रसुप्ताखिलकार्यं सर्वतः समतां गतम् ।
नारायणः परं ब्रह्म सर्वावासमनाहतम् ॥ ५-२ ॥
पूर्णस्तिमितषाड्गुण्यमसमीराम्बरोपमम् ।
शक्तिरूपाया लक्ष्म्याः क्वचिदुन्मेषः
तस्य स्तैमित्यरूपा या शक्तिः शून्यत्वरूपिणी ॥ ५-३ ॥
विश्वास-प्रस्तुतिः - ५-४
स्वातन्त्र्यादेव कस्माच्चित् क्वचित् सोन्मेषमृच्छति ।
आत्मभूता हि या शक्तिः परस्य ब्रह्मणो हरेः ॥ ५-४ ॥
मूलम् - ५-४
स्वातन्त्र्यादेव कस्माच्चित् क्वचित् सोन्मेषमृच्छति ।
आत्मभूता हि या शक्तिः परस्य ब्रह्मणो हरेः ॥ ५-४ ॥
विश्वास-प्रस्तुतिः - ५-५
देवी विद्युदिव व्योम्नि क्वचिदुद्द्योतते तु सा ।
शक्तिर्विद्योतमाना सा शक्तिरित्युच्यतेऽम्बरे ॥ ५-५ ॥
मूलम् - ५-५
देवी विद्युदिव व्योम्नि क्वचिदुद्द्योतते तु सा ।
शक्तिर्विद्योतमाना सा शक्तिरित्युच्यतेऽम्बरे ॥ ५-५ ॥
शक्तेर्विविधभावव्यञ्जकत्वम्
व्यनक्ति विविधान् भावान् शुद्धाशुद्धान् समूर्तिकान् ।
प्। ४१) तस्या उन्मेषमृच्छन्त्याः स्वातन्त्र्यं यत् स्वनिर्मितम् ॥ ५-६ ॥
विश्वास-प्रस्तुतिः - ५-७
प्रेक्षणात्मा स सङ्कल्पस्तत् सुदर्शनमुच्यते ।
सा क्रिया तद्धरेर्वीर्यं तत् तेजश्च बलं च तत् ॥ ५-७ ॥
मूलम् - ५-७
प्रेक्षणात्मा स सङ्कल्पस्तत् सुदर्शनमुच्यते ।
सा क्रिया तद्धरेर्वीर्यं तत् तेजश्च बलं च तत् ॥ ५-७ ॥
विश्वास-प्रस्तुतिः - ५-८
व्यज्यन्ते ये च ते भावाः स्वभित्तिपरिवर्तिताः ।
सा भूतिर्विष्णुशक्तिः सा शक्तेः कोट्यंशकल्पिता ॥ ५-८ ॥
मूलम् - ५-८
व्यज्यन्ते ये च ते भावाः स्वभित्तिपरिवर्तिताः ।
सा भूतिर्विष्णुशक्तिः सा शक्तेः कोट्यंशकल्पिता ॥ ५-८ ॥
विश्वास-प्रस्तुतिः - ५-९
बहुभिर्द्वन्द्वभावैः सा शक्तिर्भूतमयी स्थिता ।
शुद्धाशुद्धविभागेन चेत्यचेतनरूपतः ॥ ५-९ ॥
मूलम् - ५-९
बहुभिर्द्वन्द्वभावैः सा शक्तिर्भूतमयी स्थिता ।
शुद्धाशुद्धविभागेन चेत्यचेतनरूपतः ॥ ५-९ ॥
विश्वास-प्रस्तुतिः - ५-१०
काल्यकालविभेदेन व्यक्ताव्यक्तविभागतः ।
व्यङ्ग्यव्यञ्जनरूपेण वाच्यवाचकभेदतः ॥ ५-१० ॥
मूलम् - ५-१०
काल्यकालविभेदेन व्यक्ताव्यक्तविभागतः ।
व्यङ्ग्यव्यञ्जनरूपेण वाच्यवाचकभेदतः ॥ ५-१० ॥
विश्वास-प्रस्तुतिः - ५-११
भोग्यभोक्तृविभेदेन देहदेहिविभेदतः ।
अन्यैश्चैवम्प्रकारैः सा द्वन्द्वभेदैर्विभज्यते ॥ ५-११ ॥
मूलम् - ५-११
भोग्यभोक्तृविभेदेन देहदेहिविभेदतः ।
अन्यैश्चैवम्प्रकारैः सा द्वन्द्वभेदैर्विभज्यते ॥ ५-११ ॥
विश्वास-प्रस्तुतिः - ५-१२
एवं प्रकारभेदेन या शक्तिर्हेतुतां गता ।
तां विजानीहि देवर्षे दिव्यां सौदर्शनीं कलाम् ॥ ५-१२ ॥
मूलम् - ५-१२
एवं प्रकारभेदेन या शक्तिर्हेतुतां गता ।
तां विजानीहि देवर्षे दिव्यां सौदर्शनीं कलाम् ॥ ५-१२ ॥
विश्वास-प्रस्तुतिः - ५-१३
समीर्यते यथा वह्निर्मेघो वापि समीरणात् ।
तथा सुदर्शनेनैव विभूतिः प्रेर्यते कला ॥ ५-१३ ॥
मूलम् - ५-१३
समीर्यते यथा वह्निर्मेघो वापि समीरणात् ।
तथा सुदर्शनेनैव विभूतिः प्रेर्यते कला ॥ ५-१३ ॥
विश्वास-प्रस्तुतिः - ५-१४
आनुलोम्येन सर्गे तु प्रातिलोम्येन संहृतौ ।
यथा सम्प्रेर्यमाणा सा सुदर्शननभवस्वता ॥ ५-१४ ॥
मूलम् - ५-१४
आनुलोम्येन सर्गे तु प्रातिलोम्येन संहृतौ ।
यथा सम्प्रेर्यमाणा सा सुदर्शननभवस्वता ॥ ५-१४ ॥
प्। ४२) दधाति विविधान् भावांस्तथा मे गदतः शृणु ।
शुद्धसृष्टिप्रपञ्चनम्
तत्र शुद्धमयं सर्गं विभूतेः प्रथमं शृणु ॥ ५-१५ ॥
विश्वास-प्रस्तुतिः - ५-१६
यत् तत् षाड्गुण्यमित्युक्तं ज्ञानैश्वर्यबलादिकम् ।
युगैस्तस्य त्रिभिः शुद्धा सृष्टिर्भूतेः प्रवर्तते ॥ ५-१६ ॥
मूलम् - ५-१६
यत् तत् षाड्गुण्यमित्युक्तं ज्ञानैश्वर्यबलादिकम् ।
युगैस्तस्य त्रिभिः शुद्धा सृष्टिर्भूतेः प्रवर्तते ॥ ५-१६ ॥
गुणयुग्मत्रयात् व्यूहत्रयाविर्भावः
विश्वास-प्रस्तुतिः - ५-१७
तत्र ज्ञानबलद्वन्द्वाद्रूपं साङ्कर्षणं हरेः ।
ऐश्वर्यवीर्यसम्भेदाद्रूपं प्राद्युम्नमुच्यते ॥ ५-१७ ॥
मूलम् - ५-१७
तत्र ज्ञानबलद्वन्द्वाद्रूपं साङ्कर्षणं हरेः ।
ऐश्वर्यवीर्यसम्भेदाद्रूपं प्राद्युम्नमुच्यते ॥ ५-१७ ॥
विश्वास-प्रस्तुतिः - ५-१८
शक्तितेजःसमुत्कर्षादानिरुद्धी तनुर्हरेः ।
एते शक्तिमया व्यूहा गुणोन्मेषस्वलक्षणाः ॥ ५-१८ ॥
मूलम् - ५-१८
शक्तितेजःसमुत्कर्षादानिरुद्धी तनुर्हरेः ।
एते शक्तिमया व्यूहा गुणोन्मेषस्वलक्षणाः ॥ ५-१८ ॥
व्यूहत्रयेऽपि षाड्गुण्यानुवृत्तिः
विश्वास-प्रस्तुतिः - ५-१९
षाड्गुण्यविग्रहा देवाः पुरुषाः पुष्करेक्षणाः ।
तत्र तत्रावशिष्टं यद् गुणानां द्वियुगं मुने ॥ ५-१९ ॥
मूलम् - ५-१९
षाड्गुण्यविग्रहा देवाः पुरुषाः पुष्करेक्षणाः ।
तत्र तत्रावशिष्टं यद् गुणानां द्वियुगं मुने ॥ ५-१९ ॥
अनुवृत्तिं भजत्येव तत्र तत्र यथायथम् ।
त्रिधा चातुरात्म्यस्थितिः
व्याप्तिमात्रं गुणोन्मेषो मूर्तीकार इति त्रिधा ॥ ५-२० ॥
चातुरात्म्यस्थितिर्विष्णोर्गुणव्यतिकरोद्भवा ।
प्। ४३) तत्र ज्ञानमयत्वेन देवः सङ्कर्षणो बली ॥ ५-२१ ॥
व्यनक्त्यैकान्तिकं मार्गं भगवत्प्राप्तिसाधनम् ।
प्रद्युम्नस्य कृत्यम्
वीर्यैश्वर्यमयो देवः प्रद्युम्नः पुरुषोत्तमः ॥ ५-२२ ॥
स्थितः शास्त्रार्थभावेन भगवत्प्राप्तिवर्त्मना ।
अनिरुद्धस्य कृत्यम्
शास्त्रार्थस्य फलं यत् तद् भगवत्प्राप्तिलक्षणम् ॥ ५-२३ ॥
विश्वास-प्रस्तुतिः - ५-२४
प्रापयत्यनिरुद्धः सन् साधकान् पुरुषोत्तमः ।
शास्त्रशास्त्रार्थतत्साध्यफलनिर्वाहका इमे ॥ ५-२४ ॥
मूलम् - ५-२४
प्रापयत्यनिरुद्धः सन् साधकान् पुरुषोत्तमः ।
शास्त्रशास्त्रार्थतत्साध्यफलनिर्वाहका इमे ॥ ५-२४ ॥
पुरुषाः पुण्डरीकाक्षा व्यूहाः शक्तिमया हरेः ।
परवासुदेवेन सह व्यूहस्य चातुरात्म्यम्
भगवान् वासुदेवश्च व्यूहाश्चैते त्रयो मुने ॥ ५-२५ ॥
चातुरात्म्यमिदं विद्धि व्यक्ताव्यक्तस्वलक्षणम् ।
गुणोन्मेषस्वरूपप्रदर्शनम्
गुणाः शक्तिमया ये ते ज्ञानैश्वर्यबलादयः ॥ ५-२६ ॥
विश्वास-प्रस्तुतिः - ५-२७
तेषां युगपदुन्मेषः स्तैमित्यविरहात्मकः ।
सङ्कल्पकल्पितो विष्णोर्यः स तद्व्यक्तिलक्षणः ॥ ५-२७ ॥
मूलम् - ५-२७
तेषां युगपदुन्मेषः स्तैमित्यविरहात्मकः ।
सङ्कल्पकल्पितो विष्णोर्यः स तद्व्यक्तिलक्षणः ॥ ५-२७ ॥
विश्वास-प्रस्तुतिः - ५-२८
प्। ४४) भगवान् वासुदेवः स परमा प्रकृतिश्च सा ।
शक्तिर्या व्यापिनो विष्णोः सा जगत्प्रकृतिः परा ॥ ५-२८ ॥
मूलम् - ५-२८
प्। ४४) भगवान् वासुदेवः स परमा प्रकृतिश्च सा ।
शक्तिर्या व्यापिनो विष्णोः सा जगत्प्रकृतिः परा ॥ ५-२८ ॥
शक्तेः शक्तिमतो भेदाद् वासुदेव इतीर्यते ।
सिसृक्षोर्वासुदेवात् सङ्कर्षणाविर्भावः
सर्वशक्तिमयो देवो वासुदेवः सिसृक्षया ॥ ५-२९ ॥
विभजत्यात्मनात्मानं यः स सङ्कर्षणः स्मृतः ।
तत्र दृष्टान्तः
भानावुदयशैलस्थे प्रभा यद्वद्विजृम्भते ॥ ५-३० ॥
उदयस्थे तथा देवे प्रभा सङ्कर्षणात्मिका ।
तस्य षोडशशतवर्षप्रतीक्षणम्
अव्यापृता शतान्येषा शक्तिस्तिष्ठति षोडश ॥ ५-३१ ॥
विश्वास-प्रस्तुतिः - ५-३२
सङ्कर्षणात्मिका साक्षाद् विज्ञानबलवारिभिः ।
अनन्तो भगवान् विष्णुः शक्तिमान् पुरुषोत्तमः ॥ ५-३२ ॥
मूलम् - ५-३२
सङ्कर्षणात्मिका साक्षाद् विज्ञानबलवारिभिः ।
अनन्तो भगवान् विष्णुः शक्तिमान् पुरुषोत्तमः ॥ ५-३२ ॥
विश्वास-प्रस्तुतिः - ५-३३
पूर्णस्तिमितषाड्गुण्यो निस्तरङ्गार्णवोपमः ।
षण्णां युगपदुन्मेषाद् गुणानां स्वप्रचोदितात् ॥ ५-३३ ॥
मूलम् - ५-३३
पूर्णस्तिमितषाड्गुण्यो निस्तरङ्गार्णवोपमः ।
षण्णां युगपदुन्मेषाद् गुणानां स्वप्रचोदितात् ॥ ५-३३ ॥
विश्वास-प्रस्तुतिः - ५-३४
अनन्त एव भगवान् वासुदेवः सनातनः ।
तत्र ज्ञानबलोन्मेषात् स्वसङ्कल्पप्रचोदितात् ॥ ५-३४ ॥
मूलम् - ५-३४
अनन्त एव भगवान् वासुदेवः सनातनः ।
तत्र ज्ञानबलोन्मेषात् स्वसङ्कल्पप्रचोदितात् ॥ ५-३४ ॥
अनन्त एव भगवान् देवः सङ्कर्षणोऽच्युतः ।
प्। ४५) प्रद्युम्नाविर्भावः
स्थित्वा षोडश वर्षाणि देवः शक्तिमयोऽच्युतः ॥ ५-३५ ॥
विश्वास-प्रस्तुतिः - ५-३६
अनन्त एव भगवान् प्रद्युम्नः पुरुषोत्तमः ।
अंशांशेनोदिता शक्तिः प्राद्युम्नी भगवत्प्रभा ॥ ५-३६ ॥
मूलम् - ५-३६
अनन्त एव भगवान् प्रद्युम्नः पुरुषोत्तमः ।
अंशांशेनोदिता शक्तिः प्राद्युम्नी भगवत्प्रभा ॥ ५-३६ ॥
अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश ।
अनिरुद्धाविर्भावः
ततः शक्तिमयो देवः प्रद्युम्नः पुरुषोत्तमः ॥ ५-३७ ॥
विश्वास-प्रस्तुतिः - ५-३८
शतानि षोडश स्थित्वा स्वसङ्कल्पप्रचोदितः ।
अनन्त एव भगवाननिरुद्धो भवत्युत ॥ ५-३८ ॥
मूलम् - ५-३८
शतानि षोडश स्थित्वा स्वसङ्कल्पप्रचोदितः ।
अनन्त एव भगवाननिरुद्धो भवत्युत ॥ ५-३८ ॥
विश्वास-प्रस्तुतिः - ५-३९
अंशांशेनोदिता शक्तिरानिरुद्धी हरेः प्रभा ।
अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश ॥ ५-३९ ॥
मूलम् - ५-३९
अंशांशेनोदिता शक्तिरानिरुद्धी हरेः प्रभा ।
अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश ॥ ५-३९ ॥
व्यूहस्य षोडशशतवर्षानन्तरं सृष्टौ व्यापृतिः
विश्वास-प्रस्तुतिः - ५-४०
शतानि षोडश स्थित्वानिरुद्धः शक्तिमानसौ ।
तदा व्याप्रियते सृष्टौ पूर्वाभ्यां सह नारद ॥ ५-४० ॥
मूलम् - ५-४०
शतानि षोडश स्थित्वानिरुद्धः शक्तिमानसौ ।
तदा व्याप्रियते सृष्टौ पूर्वाभ्यां सह नारद ॥ ५-४० ॥
व्यूहा एते विशालाक्षाश्चत्वारः पुरुषोत्तमाः ।
व्यूहानां हेयप्रतिभटत्वमनादित्वं च
निर्दोषा निरनिष्टाश्च निरवद्याः सनातनाः ॥ ५-४१ ॥
अनन्तमक्षरं चैतच्चातुरात्म्यं महामुने ।
प्। ४६) निस्तरङ्गदशायां ते निःसत्ताः सक्तचिन्मयाः ॥ ५-४२ ॥
विश्वास-प्रस्तुतिः - ५-४३
शक्त्यात्मका गुणोन्मेषदशायां ते व्यवस्थिताः ।
तत्र स्थूलदशायां ते व्यक्तिभावमुपागताः ॥ ५-४३ ॥
मूलम् - ५-४३
शक्त्यात्मका गुणोन्मेषदशायां ते व्यवस्थिताः ।
तत्र स्थूलदशायां ते व्यक्तिभावमुपागताः ॥ ५-४३ ॥
जगतामुपकाराय सच्चिदानन्दलक्षणाः ।
चातुरात्म्यस्य मन -आलम्बनार्थत्वम्
मन -आलम्बनायैषा चातुरात्म्यव्यवस्थितिः ॥ ५-४४ ॥
व्यूहात् व्यूहान्तराविर्भावः
विश्वास-प्रस्तुतिः - ५-४५
आम्नासिषुरमुष्याश्च रहस्याम्नायवेदिनः ।
व्यूहान्तरविभावादीन् भेदान् सङ्कल्पकल्पितान् ॥ ५-४५ ॥
मूलम् - ५-४५
आम्नासिषुरमुष्याश्च रहस्याम्नायवेदिनः ।
व्यूहान्तरविभावादीन् भेदान् सङ्कल्पकल्पितान् ॥ ५-४५ ॥
द्वादश व्यूहान्तराणि
व्यूहान्तरं दश द्वे च केशवाद्याः प्रकीर्तिताः ।
वासुदेवात् केशवादित्रयम्
केशवादित्रयं तत्र वासुदेवाद् विभाव्यते ॥ ५-४६ ॥
सङ्कर्षणात् गोविन्दादित्रयाविर्भावः
सङ्कर्षणाच्च गोविन्दपूर्वं त्रितयमद्भुतम् ।
प्रद्युम्नात् त्रिविक्रमादित्रयाविर्भावः
त्रिविक्रमाद्यं त्रितयं प्रद्युम्नादुदितं मुने ॥ ५-४७ ॥
अनिरुद्धात् हृषीकेशादित्रयाविर्भावः
हृषीकेशादिकं तत्त्वमनिरुद्धान्महामुने ।
प्। ४७) व्यूहान्तरस्य त्रैविध्यम्
पराः स्वकारणान्तःस्थाः सूक्ष्मास्ते द्विभुजाः स्मृताः ॥ ५-४८
॥
विश्वास-प्रस्तुतिः - ५-४९
चतुर्भुजास्ते विज्ञेयाः स्थूलास्त्रिभुवनेश्वराः ।
चक्राद्यायुधविन्यासो यन्त्रतन्त्रेऽभिधास्यते ॥ ५-४९ ॥
मूलम् - ५-४९
चतुर्भुजास्ते विज्ञेयाः स्थूलास्त्रिभुवनेश्वराः ।
चक्राद्यायुधविन्यासो यन्त्रतन्त्रेऽभिधास्यते ॥ ५-४९ ॥
विभवा एकोनचत्वारिंशत्
विश्वास-प्रस्तुतिः - ५-५०
विभवाः पद्मनाभाद्यास्त्रिंशच्च नव चैव हि ।
पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ॥ ५-५० ॥
मूलम् - ५-५०
विभवाः पद्मनाभाद्यास्त्रिंशच्च नव चैव हि ।
पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ॥ ५-५० ॥
विश्वास-प्रस्तुतिः - ५-५१
विद्याधिदेवः कपिलो विश्वरूपो विहङ्गमः ।
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ॥ ५-५१ ॥
मूलम् - ५-५१
विद्याधिदेवः कपिलो विश्वरूपो विहङ्गमः ।
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ॥ ५-५१ ॥
विश्वास-प्रस्तुतिः - ५-५२
एकाम्भोनिधिशायी च भगवान् कमठेश्वरः ।
वराहो नारसिंहश्च पीयूषहरणस्तथा ॥ ५-५२ ॥
मूलम् - ५-५२
एकाम्भोनिधिशायी च भगवान् कमठेश्वरः ।
वराहो नारसिंहश्च पीयूषहरणस्तथा ॥ ५-५२ ॥
विश्वास-प्रस्तुतिः - ५-५३
श्रीपतिर्भगवान् देवः कान्तात्मामृतधारकः ।
राहुजित् कालनेमिघ्नः पारिजातहरस्तथा ॥ ५-५३ ॥
मूलम् - ५-५३
श्रीपतिर्भगवान् देवः कान्तात्मामृतधारकः ।
राहुजित् कालनेमिघ्नः पारिजातहरस्तथा ॥ ५-५३ ॥
विश्वास-प्रस्तुतिः - ५-५४
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा ॥ ५-५४ ॥
मूलम् - ५-५४
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा ॥ ५-५४ ॥
विश्वास-प्रस्तुतिः - ५-५५
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ५-५५ ॥
मूलम् - ५-५५
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ५-५५ ॥
विश्वास-प्रस्तुतिः - ५-५६
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ।
वेदविद्भगवान् कल्की पातालशयनः स्मृतः ॥ ५-५६ ॥
मूलम् - ५-५६
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ।
वेदविद्भगवान् कल्की पातालशयनः स्मृतः ॥ ५-५६ ॥
प्। ४८) त्रिंशच्च नव चैवेते पद्मनाभादयो मताः ।
तेषामुत्पत्त्यादिकं सात्त्वतादौ ज्ञेयम्
यतश्चैषां समुत्पत्तिर्यो व्यापारो यदायुधम् ॥ ५-५७ ॥
विश्वास-प्रस्तुतिः - ५-५८
या मूर्तिर्यादृशी चैव यत्र चैते व्यवस्थिताः ।
भूषणानि विचित्राणि वासांसि विविधानि च ॥ ५-५८ ॥
मूलम् - ५-५८
या मूर्तिर्यादृशी चैव यत्र चैते व्यवस्थिताः ।
भूषणानि विचित्राणि वासांसि विविधानि च ॥ ५-५८ ॥
बाह्यान्तःकरणानां च त्रयो वर्गाः सवृत्तयः ।
विश्वास-प्रस्तुतिः - ५-५९
सङ्कल्पनिर्मिता शक्तिर्या तत्तत्कार्यगोचरा ।
सात्त्वते शासने सर्वं तत्तदुक्तं महामुने ॥ ५-५९ ॥
मूलम् - ५-५९
सङ्कल्पनिर्मिता शक्तिर्या तत्तत्कार्यगोचरा ।
सात्त्वते शासने सर्वं तत्तदुक्तं महामुने ॥ ५-५९ ॥
अध्यायार्थोपसंहारः
विश्वास-प्रस्तुतिः - ५-६०
इतीयं शुद्धसृष्टिस्ते विष्णोः सङ्कल्पकल्पिता ।
भूत्यंशो लेशतः प्रोक्तः शृणु सृष्टिमथेतराम् ॥ ५-६० ॥
मूलम् - ५-६०
इतीयं शुद्धसृष्टिस्ते विष्णोः सङ्कल्पकल्पिता ।
भूत्यंशो लेशतः प्रोक्तः शृणु सृष्टिमथेतराम् ॥ ५-६० ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकाः ३३०
शुद्धेतरसृष्टिवर्णनं नाम षष्ठोऽध्यायः
शक्तितद्वतोर्भेदवदभेदस्याप्युपपत्तिः
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - ६-१
योऽसौ नारायणो देवः परमात्मा सनातनः ।
अहम्भावात्मिका शक्तिस्तस्य तद्धर्मिणी ॥ ६-१ ॥
मूलम् - ६-१
योऽसौ नारायणो देवः परमात्मा सनातनः ।
अहम्भावात्मिका शक्तिस्तस्य तद्धर्मिणी ॥ ६-१ ॥
विश्वास-प्रस्तुतिः - ६-२
ताविमावेकधैवोक्तौ भेद्यभेदकभावतः ।
पृथक्त्वेन च शास्त्रेषु जगद्धेतुतयोदितौ ॥ ६-२ ॥
मूलम् - ६-२
ताविमावेकधैवोक्तौ भेद्यभेदकभावतः ।
पृथक्त्वेन च शास्त्रेषु जगद्धेतुतयोदितौ ॥ ६-२ ॥
शक्तितद्वतोरपृथक्स्थितिः
विश्वास-प्रस्तुतिः - ६-३
नैव शक्त्या विना कश्चिच्छक्तिमानस्ति कारणम् ।
न च शक्तिमता शक्तिर्विनैका व्यवतिष्ठते ॥ ६-३ ॥
मूलम् - ६-३
नैव शक्त्या विना कश्चिच्छक्तिमानस्ति कारणम् ।
न च शक्तिमता शक्तिर्विनैका व्यवतिष्ठते ॥ ६-३ ॥
भगवतो लक्ष्म्याश्च प्रत्येकं जगत्कारणत्वव्यवहारकथनम्
विश्वास-प्रस्तुतिः - ६-४
तत्तद्गौरवमाश्रित्य तन्त्रवेदान्तपारगैः ।
जगद्धेतुतया देवावेकैकाविव दर्शितौ ॥ ६-४ ॥
मूलम् - ६-४
तत्तद्गौरवमाश्रित्य तन्त्रवेदान्तपारगैः ।
जगद्धेतुतया देवावेकैकाविव दर्शितौ ॥ ६-४ ॥
शुद्धेतरसृष्टिकथनप्रतिज्ञा
इति व्यवस्थिते सृष्टिमुक्तशिष्टामिमां शृणु ।
भूतिशक्तेः स्वसङ्कल्परूपक्रियाशक्तिप्रवर्त्यत्वम्
येयं भूतिमयी स्फूर्तिर्विष्णुशक्तेः पुरोदिता ॥ ६-५ ॥
प्। ५०) तस्याः सङ्कल्पमय्यैव स्फूर्त्या सा बहु नर्त्यते ।
योगालम्बनभूतव्यूहविभवादेः शुद्धिमयस्फूर्तिरूपत्वम्
भूतेः शुद्धिमयी स्फूर्तिः सा व्यूहविभवात्मिका ॥ ६-६ ॥
यामालम्ब्य तरन्तीमं योगिनो भवसागरम् ।
शुद्धेतरसृष्टेः व्यूहविभवमूलकत्वम्
अथ शुद्धेतरा सृष्टिस्तन्मूलैव प्रवर्तते ॥ ६-७ ॥
तस्यास्त्रैविध्यम्
विश्वास-प्रस्तुतिः - ६-८
पुरुषश्चैव कालश्च गुणश्चेति त्रिधोच्यते ।
भूतिः शुद्धेतरा विष्णोः पुरुषो द्विचतुर्मयः ॥ ६-८ ॥
मूलम् - ६-८
पुरुषश्चैव कालश्च गुणश्चेति त्रिधोच्यते ।
भूतिः शुद्धेतरा विष्णोः पुरुषो द्विचतुर्मयः ॥ ६-८ ॥
स मनूनां समाहारो ब्रह्मक्षत्रादिभेदिनाम् ।
प्रद्युम्नात् मिथुनचतुष्टयोत्पत्तिः
ब्राह्मणो ब्राह्मणी चैव मिथुनं तन्मनुद्वयम् ॥ ६-९ ॥
विश्वास-प्रस्तुतिः - ६-१०
प्रद्युम्नस्य मुस्वाज्जातं स्वसङ्कल्पेन चोदितम् ।
उरसः क्षत्रियद्वन्द्वमूरुतश्च विशो द्वयम् ॥ ६-१० ॥
मूलम् - ६-१०
प्रद्युम्नस्य मुस्वाज्जातं स्वसङ्कल्पेन चोदितम् ।
उरसः क्षत्रियद्वन्द्वमूरुतश्च विशो द्वयम् ॥ ६-१० ॥
विश्वास-प्रस्तुतिः - ६-११
पद्भ्यां शूद्रद्वयं चैव प्रद्युम्नस्य समुद्गतम् ।
समष्टिर्या मनूनां सा पुरुषो द्विचतुर्मयः ॥ ६-११ ॥
मूलम् - ६-११
पद्भ्यां शूद्रद्वयं चैव प्रद्युम्नस्य समुद्गतम् ।
समष्टिर्या मनूनां सा पुरुषो द्विचतुर्मयः ॥ ६-११ ॥
प्। ५१) कालप्रकृतिसृष्टिः
विश्वास-प्रस्तुतिः - ६-१२
सूक्ष्मकालगुणावस्था सुदर्शनसमीरिता ।
प्रद्युम्नस्य ललाटाच्च भ्रुवोः कर्णादुदीरिता ॥ ६-१२ ॥
मूलम् - ६-१२
सूक्ष्मकालगुणावस्था सुदर्शनसमीरिता ।
प्रद्युम्नस्य ललाटाच्च भ्रुवोः कर्णादुदीरिता ॥ ६-१२ ॥
अनिरुद्धाय पालनाज्ञादानम्
विश्वास-प्रस्तुतिः - ६-१३
पुरुषः शक्तिरित्येतच्चेतनाचेतनात्मकम् ।
वर्धयेत्यनिरुद्धाय प्रद्युम्नेनोपपाद्यते ॥ ६-१३ ॥
मूलम् - ६-१३
पुरुषः शक्तिरित्येतच्चेतनाचेतनात्मकम् ।
वर्धयेत्यनिरुद्धाय प्रद्युम्नेनोपपाद्यते ॥ ६-१३ ॥
तेन तद्वर्धनम्
विश्वास-प्रस्तुतिः - ६-१४
अन्तःस्थपुरुषां शक्तिं तामादाय स्वमूर्तिगाम् ।
संवर्धयति योगेन ह्यनिरुद्धः स्वतेजसा ॥ ६-१४ ॥
मूलम् - ६-१४
अन्तःस्थपुरुषां शक्तिं तामादाय स्वमूर्तिगाम् ।
संवर्धयति योगेन ह्यनिरुद्धः स्वतेजसा ॥ ६-१४ ॥
नियतिकालयोरुदयः
विश्वास-प्रस्तुतिः - ६-१५
नियतिः काल इत्येवं शक्तिः सङ्कल्पचोदिता ।
द्विधोदेत्यनिरुद्धात् सा यत् तत् कालमयं वपुः ॥ ६-१५ ॥
मूलम् - ६-१५
नियतिः काल इत्येवं शक्तिः सङ्कल्पचोदिता ।
द्विधोदेत्यनिरुद्धात् सा यत् तत् कालमयं वपुः ॥ ६-१५ ॥
गुणमय्याः प्रकृतेस्त्रैविध्यम्
विश्वास-प्रस्तुतिः - ६-१६
यत्तद्गुणमयं रूपं शक्तेस्तस्याः प्रकीर्तितम् ।
सत्त्वं रजस्तम इति त्रिधोदेति क्रमेण तत् ॥ ६-१६ ॥
मूलम् - ६-१६
यत्तद्गुणमयं रूपं शक्तेस्तस्याः प्रकीर्तितम् ।
सत्त्वं रजस्तम इति त्रिधोदेति क्रमेण तत् ॥ ६-१६ ॥
सत्त्वादिभ्यो रज -आद्युत्पत्तिः
सत्त्वाद्रजस्तमस्तमस्तस्मात् तमसो बुद्धिरुद्गता ।
प्। ५२) बुद्धेरहङ्कृतिस्तस्या भूततन्मात्रपञ्चकम् ॥ ६-१७ ॥
विश्वास-प्रस्तुतिः - ६-१८
एकादशकमक्षाणां मात्रेभ्यो भूतपञ्चकम् ।
भूतेभ्यो भौतिकं सर्वमित्ययं सृष्टिसङ्ग्रहः ॥ ६-१८ ॥
मूलम् - ६-१८
एकादशकमक्षाणां मात्रेभ्यो भूतपञ्चकम् ।
भूतेभ्यो भौतिकं सर्वमित्ययं सृष्टिसङ्ग्रहः ॥ ६-१८ ॥
पुनर्विस्तरेण सृष्टिप्रपञ्चनप्रश्नः
नारदः -
विश्वास-प्रस्तुतिः - ६-१९
भगवन् भगनेत्रघ्न तत्त्वविज्ञानवारिधे ।
आख्याहि विस्तरेणाद्य भूतेरुन्मेषमद्भुतम् ॥ ६-१९ ॥
मूलम् - ६-१९
भगवन् भगनेत्रघ्न तत्त्वविज्ञानवारिधे ।
आख्याहि विस्तरेणाद्य भूतेरुन्मेषमद्भुतम् ॥ ६-१९ ॥
तत्प्रपञ्चनम्
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - ६-२०
शृणु नारद तत्त्वेन विष्णोः सङ्कल्पकारिताम् ।
भूतेः परिणतिं चित्रां चिदचिद्वर्गसङ्कुलाम् ॥ ६-२० ॥
मूलम् - ६-२०
शृणु नारद तत्त्वेन विष्णोः सङ्कल्पकारिताम् ।
भूतेः परिणतिं चित्रां चिदचिद्वर्गसङ्कुलाम् ॥ ६-२० ॥
परवासुदेवस्य नित्यविभूतिमत्ताप्रतिपादनम्
विश्वास-प्रस्तुतिः - ६-२१
शुद्धा पूर्वोदिता सृष्टिर्या सा व्यूहादिभेदिनी ।
सुदर्शनाख्यात् सङ्कल्पात् तस्या एव प्रभोज्ज्वला ॥ ६-२१ ॥
मूलम् - ६-२१
शुद्धा पूर्वोदिता सृष्टिर्या सा व्यूहादिभेदिनी ।
सुदर्शनाख्यात् सङ्कल्पात् तस्या एव प्रभोज्ज्वला ॥ ६-२१ ॥
विश्वास-प्रस्तुतिः - ६-२२
ज्ञानानन्दमयी स्त्याना देशभावं व्रजत्युत ।
स देशः परमं व्योम निर्मलं पुरुषात् परम् ॥ ६-२२ ॥
मूलम् - ६-२२
ज्ञानानन्दमयी स्त्याना देशभावं व्रजत्युत ।
स देशः परमं व्योम निर्मलं पुरुषात् परम् ॥ ६-२२ ॥
विश्वास-प्रस्तुतिः - ६-२३
निःसीमसुखसन्तानमनवद्यमनाकुलम् ।
तत्रानन्दमया भोगा लोकाश्चानन्दलक्षणाः ॥ ६-२३ ॥
मूलम् - ६-२३
निःसीमसुखसन्तानमनवद्यमनाकुलम् ।
तत्रानन्दमया भोगा लोकाश्चानन्दलक्षणाः ॥ ६-२३ ॥
प्। ५३) ज्ञानानन्दमया देहा मुक्तानां भावितात्मनाम् ।
श्रियः पत्युर्भगवतो नित्यमुक्तानुभाव्यत्वम्
सदा पश्यन्ति ते देवाः पुरुषं पुष्करेक्षणम् ॥ ६-२४ ॥
विश्वास-प्रस्तुतिः - ६-२५
षाड्गुण्यविग्रहं देवं तादृश्या च श्रिया युतम् ।
सङ्कल्पसाधिताशेषदेहदैहिकविस्तरम् ॥ ६-२५ ॥
मूलम् - ६-२५
षाड्गुण्यविग्रहं देवं तादृश्या च श्रिया युतम् ।
सङ्कल्पसाधिताशेषदेहदैहिकविस्तरम् ॥ ६-२५ ॥
विश्वास-प्रस्तुतिः - ६-२६
ईशानमस्य सर्वस्य जगतस्तस्थुषस्पतिम् ।
सर्वावासमनावासं नारायणमनामयम् ॥ ६-२६ ॥
मूलम् - ६-२६
ईशानमस्य सर्वस्य जगतस्तस्थुषस्पतिम् ।
सर्वावासमनावासं नारायणमनामयम् ॥ ६-२६ ॥
मुक्तानां स्वरूपम्
विश्वास-प्रस्तुतिः - ६-२७
तत् पदं प्राप्य तत्त्वज्ञा मुच्यन्ते वीतकल्मषाः ।
त्रसरेणुप्रमाणास्ते रश्मिकोटिविभूषिताः ॥ ६-२७ ॥
मूलम् - ६-२७
तत् पदं प्राप्य तत्त्वज्ञा मुच्यन्ते वीतकल्मषाः ।
त्रसरेणुप्रमाणास्ते रश्मिकोटिविभूषिताः ॥ ६-२७ ॥
आविर्भावतिरोभावधर्मभेदविवर्जिताः ।
तेषामपुनरावृत्तिः
परमं तेऽध्वनः पारं वैष्णवं पदमाश्रिताः ॥ ६-२८ ॥
विशन्ति नेममध्वानं कालकल्लोलसङ्कुलम् ।
तेषा यथोपासनं फलप्राप्तिः
भक्तास्ते यादृशे रूपे संसारपदमाश्रिताः ॥ ६-२९ ॥
विश्वास-प्रस्तुतिः - ६-३०
तादृशं ते समीक्षन्ते परमव्योमवासिनः ।
विहृत्य सुचिरं कालं कोट्योघप्रतिसञ्चरम् ॥ ६-३० ॥
मूलम् - ६-३०
तादृशं ते समीक्षन्ते परमव्योमवासिनः ।
विहृत्य सुचिरं कालं कोट्योघप्रतिसञ्चरम् ॥ ६-३० ॥
प्। ५४) ततो विशन्ति ते दिव्यं षाड्गुण्यं वैष्णवं यशः ।
परमव्योम्नोऽशक्यवर्णनत्वम्
तदेतत् परमव्योम लेशतस्ते प्रदर्शितम् ॥ ६-३१ ॥
नैव वर्षायुतेनापि वक्तुं शक्योऽस्य विस्तरः ।
जीवसमष्टिपुरुषस्यार्वाचीनस्थानवर्तित्वम्
उक्तः कर्माधिकारो यः पुरुषस्ते चतुर्युगः ॥ ६-३२ ॥
विश्वास-प्रस्तुतिः - ६-३३
अस्मात् स परमव्योम्नस्तिष्ठत्यर्वाचि वै पदे ।
सर्वात्मनां समष्टिर्या कोशोमधुकृतामिव ॥ ६-३३ ॥
मूलम् - ६-३३
अस्मात् स परमव्योम्नस्तिष्ठत्यर्वाचि वै पदे ।
सर्वात्मनां समष्टिर्या कोशोमधुकृतामिव ॥ ६-३३ ॥
विश्वास-प्रस्तुतिः - ६-३४
शुद्ध्यशुद्धिमयो भावो भूतेः स पुरुषः स्मृतः ।
अनादिवासनारेणुकुण्ठितैरात्मभिश्चितः ॥ ६-३४ ॥
मूलम् - ६-३४
शुद्ध्यशुद्धिमयो भावो भूतेः स पुरुषः स्मृतः ।
अनादिवासनारेणुकुण्ठितैरात्मभिश्चितः ॥ ६-३४ ॥
स्वतः शुद्धानामप्यात्मनां भगवच्छक्त्या
स्वरूपतिरोधानम्
विश्वास-प्रस्तुतिः - ६-३५
आत्मनो भूतिभेदास्ते सर्वज्ञाः सर्वतोमुखाः ।
भगवच्छक्तिमय्यैवं मन्दतीव्रादिभावया ॥ ६-३५ ॥
मूलम् - ६-३५
आत्मनो भूतिभेदास्ते सर्वज्ञाः सर्वतोमुखाः ।
भगवच्छक्तिमय्यैवं मन्दतीव्रादिभावया ॥ ६-३५ ॥
विश्वास-प्रस्तुतिः - ६-३६
तत्तत्सुदर्शनोन्मेषनिमेषानुकृतात्मना ।
सर्वतोऽविद्यया विद्धाः क्लेशमय्या वशीकृताः ॥ ६-३६ ॥
मूलम् - ६-३६
तत्तत्सुदर्शनोन्मेषनिमेषानुकृतात्मना ।
सर्वतोऽविद्यया विद्धाः क्लेशमय्या वशीकृताः ॥ ६-३६ ॥
तिरोहितस्वरूपाणां चातूरूप्यम्
विश्वास-प्रस्तुतिः - ६-३७
ब्रह्मक्षत्रादिभावेन चातूरूप्यं व्रजन्ति ते ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदतः ॥ ६-३७ ॥
मूलम् - ६-३७
ब्रह्मक्षत्रादिभावेन चातूरूप्यं व्रजन्ति ते ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदतः ॥ ६-३७ ॥
प्। ५५) आत्मानो जीवसञ्ज्ञास्ते बन्धमोक्षौ व्रजन्ति ते ।
तेषां कर्मपारवश्यात् पृथिव्यामवतरणम्
मनवो नाम कूटस्थास्तेषामुक्ताः समष्टयः ॥ ६-३८ ॥
विश्वास-प्रस्तुतिः - ६-३९
क्लेशाशयापरामृष्टाः सर्वज्ञाः सर्वतोमुखाः ।
नित्यसिद्धा हि भूत्यंशास्ते प्रोक्ता भगवन्मयाः ॥ ६-३९ ॥
मूलम् - ६-३९
क्लेशाशयापरामृष्टाः सर्वज्ञाः सर्वतोमुखाः ।
नित्यसिद्धा हि भूत्यंशास्ते प्रोक्ता भगवन्मयाः ॥ ६-३९ ॥
विश्वास-प्रस्तुतिः - ६-४०
आविर्भावतिरोभावैः स्वस्मिन्नात्मनि नारद ।
आत्मनो वर्तयन्तस्ते वैष्णवा आधिकारिकाः ॥ ६-४० ॥
मूलम् - ६-४०
आविर्भावतिरोभावैः स्वस्मिन्नात्मनि नारद ।
आत्मनो वर्तयन्तस्ते वैष्णवा आधिकारिकाः ॥ ६-४० ॥
विश्वास-प्रस्तुतिः - ६-४१
विष्णोः सङ्कल्परूपेण स्थित्वास्मिन् पौरुषे पदे ।
योगेनावतरन्त्यंशैः स्थानात् स्थानं धरावधि ॥ ६-४१ ॥
मूलम् - ६-४१
विष्णोः सङ्कल्परूपेण स्थित्वास्मिन् पौरुषे पदे ।
योगेनावतरन्त्यंशैः स्थानात् स्थानं धरावधि ॥ ६-४१ ॥
अवतीर्णानां प्रजास्रष्टृत्वम्
विश्वास-प्रस्तुतिः - ६-४२
सृष्टायां कर्मभूमौ ते मिथुनीभूय मानवान् ।
चतुःशतं सृजन्त्येते भूयो मानवमानवान् ॥ ६-४२ ॥
मूलम् - ६-४२
सृष्टायां कर्मभूमौ ते मिथुनीभूय मानवान् ।
चतुःशतं सृजन्त्येते भूयो मानवमानवान् ॥ ६-४२ ॥
ते चापरिमिताः सर्वे विस्तारस्तत्र वक्ष्यते ।
अनिरुद्धात् शक्त्युत्पत्तिः
अर्वाचीने पदे तस्मात् पुरुषाद्धि चतुर्युगात् ॥ ६-४३ ॥
सृष्टानिरुधतः शक्तिस्तत्सुदर्शनचोदितात् ।
शक्तौ कूटस्थमनूनामवतरणम्
सृष्टायामथ शक्तौ तु मनवोऽष्टौ महामुने ॥ ६-४४ ॥
विश्वास-प्रस्तुतिः - ६-४५
प्। ५६) अवतीर्य स्वकात् स्थानाद्विष्णुसङ्कल्पचोदिताः ।
तिष्ठन्ति कललीभूतास्तस्मिञ्शक्तिमये पदे ॥ ६-४५ ॥
मूलम् - ६-४५
प्। ५६) अवतीर्य स्वकात् स्थानाद्विष्णुसङ्कल्पचोदिताः ।
तिष्ठन्ति कललीभूतास्तस्मिञ्शक्तिमये पदे ॥ ६-४५ ॥
कालो नाम गुणो नाम तस्या गर्भस्थितं द्वयम् ।
शक्तितो नियतेरुत्पत्तिः
कालस्य नियतिर्नाम सूक्ष्मः सर्वनियामकः ॥ ६-४६ ॥
उदेति प्रथमं शक्तेर्विष्णुसङ्कल्पचोदितः ।
तत्र मनूनां स्थितिः
मनवोऽवतरन्त्यत्र ते सुदर्शनचोदिताः ॥ ६-४७ ॥
विश्वास-प्रस्तुतिः - ६-४८
यस्य स्याद्यादृशं रूपं यत्करं यत्स्वभावकम् ।
सुदर्शनप्रभावस्थं तत्तन्नियमभावितम् ॥ ६-४८ ॥
मूलम् - ६-४८
यस्य स्याद्यादृशं रूपं यत्करं यत्स्वभावकम् ।
सुदर्शनप्रभावस्थं तत्तन्नियमभावितम् ॥ ६-४८ ॥
नियतितः कालस्योत्पत्तिः
विश्वास-प्रस्तुतिः - ६-४९
कालस्य पावनं रूपं यत्तु तत्कलनात्मकम् ।
उदेति नियतेः सोऽथ कालः सङ्कल्पचोदितः ॥ ६-४९ ॥
मूलम् - ६-४९
कालस्य पावनं रूपं यत्तु तत्कलनात्मकम् ।
उदेति नियतेः सोऽथ कालः सङ्कल्पचोदितः ॥ ६-४९ ॥
तत्र मनूनां स्थितिः
विश्वास-प्रस्तुतिः - ६-५०
नियतेर्मनवोऽप्यत्र काले ह्यवतरन्ति ते ।
कालः स कलयत्येको विष्णुसङ्कल्पचोदितः ॥ ६-५० ॥
मूलम् - ६-५०
नियतेर्मनवोऽप्यत्र काले ह्यवतरन्ति ते ।
कालः स कलयत्येको विष्णुसङ्कल्पचोदितः ॥ ६-५० ॥
कलयत्यखिलं काल्यं नदीकूलं यथा रयः ।
प्। ५७) कालात् क्रमेण गुणमयरूपोत्पत्तिः
यत्तद्गुणमयं रूपं शक्तेः पूर्वं समीरितम् ॥ ६-५१ ॥
सोपानक्रमतः कालात् तद्गौणं व्यज्यते वपुः ।
तत्र प्रथमं सत्त्वोत्पत्तिः
सत्त्वं तत्र लघु स्वच्छं गुणरूपमनामयम् ॥ ६-५२ ॥
प्रथमं व्यज्यते कालान्मनवोऽवतरन्त्यतः ।
आनिरुद्ध्या वैष्णवमूर्त्या तस्याधिष्ठानम्
आनिरुद्धी ततो मूर्तिः स्वसङ्कल्पप्रचोदिता ॥ ६-५३ ॥
अधितिष्ठति तत् सत्त्वं विष्णुनाम्नैव नामभाक् ।
तत एव तस्य सुखरूपत्वं स्वच्छत्वं च । सत्त्वाद्रज-उत्पत्तिः
तदेतत् सकलं स्वच्छं सुखमासीदनाकुलम् ॥ ६-५४ ॥
विश्वास-प्रस्तुतिः - ६-५५
अन्तःस्थमनुकं सत्त्वमन्तःस्थाचिद्गुणं मुने ।
विष्णुनाधिष्ठितं तस्माद्विष्णुसङ्कल्पचोदितात् ॥ ६-५५ ॥
मूलम् - ६-५५
अन्तःस्थमनुकं सत्त्वमन्तःस्थाचिद्गुणं मुने ।
विष्णुनाधिष्ठितं तस्माद्विष्णुसङ्कल्पचोदितात् ॥ ६-५५ ॥
रजो नाम गुणः सत्त्वात् तस्मादाविर्भवत्यलम् ।
तत्र मनूनां स्थितिः
मनवोऽवतरन्त्यत्र सत्त्वात् सङ्कल्पचोदिताः ॥ ६-५६ ॥
तस्यानिरुद्धाधिष्ठितब्रह्मरूपत्वम्
ब्राह्मी मूर्तिर्गुणं तं चाप्यानिरुद्ध्यधितिष्ठति ।
प्। ५८) अतस्तस्य दुःखरूपत्वम्
तदेतत् प्रचलं दुःखं रजः शश्वत्प्रवृत्तिमत् ॥ ६-५७ ॥
लोलीभूतमिदं तच्च विश्वमन्तःस्थितं तदा ।
रजसस्तम उत्पत्तिः
ब्रह्मणाधिष्ठितात् तस्मादन्तःस्थमनुकान्मुने ॥ ६-५८ ॥
सङ्कल्पचोदितं विष्णोस्तमो नाम गुणोऽभवत् ।
तत्र मनूनां स्थितिः
मनवोऽवतरन्त्यत्र ते सुदर्शनचोदिताः ॥ ६-५९ ॥
तस्यानिरुद्धाधिष्ठितरुद्ररूपत्वम्
रुद्रो नाम गुणस्तं चाप्यानिरुद्ध्यधितिष्ठति ।
अतस्तस्य मोहनादिरूपत्वम्
गुरु विष्टम्भनं शश्वन्मोहनं चाप्रवृत्तिमत् ॥ ६-६० ॥
तत् तमो नाम भणितं गुणसागरपारगैः ।
अंशतो गुणत्रयसाम्यापत्तिः
सुदर्शनमयेनैव सङ्कल्पेनात्र वै हरेः ॥ ६-६१ ॥
विश्वास-प्रस्तुतिः - ६-६२
चोद्यमानेऽपि सृष्ट्यर्थं पूर्णं गुणयुगं तदा ।
अंशतः साम्यमायाति विष्णुसङ्कल्पचोदितम् ॥ ६-६२ ॥
मूलम् - ६-६२
चोद्यमानेऽपि सृष्ट्यर्थं पूर्णं गुणयुगं तदा ।
अंशतः साम्यमायाति विष्णुसङ्कल्पचोदितम् ॥ ६-६२ ॥
प्। ५९) तस्यैव प्रकृतित्वम्
त्रैगुण्यं नाम तत्त्वज्ञैस्तत् तमः परिगीयते ।
प्रकृतिपर्यायशब्दाः
विश्वास-प्रस्तुतिः - ६-६३
गुणसाम्यमविद्या च स्वभावो योनिरक्षरम् ।
अयोनिर्गुणयोनिश्चेत्याद्यास्त्रैगुण्यवाचकाः ॥ ६-६३ ॥
मूलम् - ६-६३
गुणसाम्यमविद्या च स्वभावो योनिरक्षरम् ।
अयोनिर्गुणयोनिश्चेत्याद्यास्त्रैगुण्यवाचकाः ॥ ६-६३ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
शुद्धेतरसृष्टिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
आदितः श्लोकाः ३९३
शुद्धेतरसृष्टिवर्णनं नाम सप्तमोऽध्यायः
प्रकृतिपुरुषकालानां समष्टिः
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - ७-१
अन्यूनानतिरिक्तं यद् गुणसाम्यं तमोमयम् ।
तत् साङ्ख्यैर्जगतो मूलं प्रकृतिश्चेति कथ्यते ॥ ७-१ ॥
मूलम् - ७-१
अन्यूनानतिरिक्तं यद् गुणसाम्यं तमोमयम् ।
तत् साङ्ख्यैर्जगतो मूलं प्रकृतिश्चेति कथ्यते ॥ ७-१ ॥
विश्वास-प्रस्तुतिः - ७-२
क्रमावतीर्णो यस्तत्र चतुर्मनुयुगः पुमान् ।
समष्टिः पुरुषो योनिः स कूटस्थ इतीर्यते ॥ ७-२ ॥
मूलम् - ७-२
क्रमावतीर्णो यस्तत्र चतुर्मनुयुगः पुमान् ।
समष्टिः पुरुषो योनिः स कूटस्थ इतीर्यते ॥ ७-२ ॥
विश्वास-प्रस्तुतिः - ७-३
यत् तत् कालमयं तत्त्वं जगतः सम्प्रकालनम् ।
स तयोः कार्यमास्थाय संयोजकविभाजकः ॥ ७-३ ॥
मूलम् - ७-३
यत् तत् कालमयं तत्त्वं जगतः सम्प्रकालनम् ।
स तयोः कार्यमास्थाय संयोजकविभाजकः ॥ ७-३ ॥
भगवत्सङ्कल्पचोदितात् त्रितयादस्मात् महदाद्युत्पत्तिः
विश्वास-प्रस्तुतिः - ७-४
मृत्पिण्डीभूतमेतत्तु कालादित्रितयं मुने ।
विष्णोः सुदर्शनेनैव स्वस्वकार्यप्रचोदितम् ॥ ७-४ ॥
मूलम् - ७-४
मृत्पिण्डीभूतमेतत्तु कालादित्रितयं मुने ।
विष्णोः सुदर्शनेनैव स्वस्वकार्यप्रचोदितम् ॥ ७-४ ॥
महदादिपृथिव्यन्ततत्त्ववर्गोपपादकम् ।
प्रकृतिः स्वरूपतः स्वभावतश्च परिणामिनी
पयोमृदादिवत् तत्र प्रकृतिः परिणामिनी ॥ ७-५ ॥
प्। ६१) पुरुषः स्वरूपतोऽपरिणामी
पुमानपरिणामी सन् सन्निधानेन कारणम् ।
कालस्य प्रकृतिपुरुषपाचकत्वम्
कालः पचति तत्त्वे द्वे प्रकृतिं पुरुषं च ह ॥ ७-६ ॥
प्रकृतेर्महत्तत्त्वोत्पत्तिः
विश्वास-प्रस्तुतिः - ७-७
पुरुषाधिष्ठितात् तस्माद्विष्णुसङ्कल्पचोदितात् ।
कालेन कलिताच्चैव गुणसाम्यान्महामुने ॥ ७-७ ॥
मूलम् - ७-७
पुरुषाधिष्ठितात् तस्माद्विष्णुसङ्कल्पचोदितात् ।
कालेन कलिताच्चैव गुणसाम्यान्महामुने ॥ ७-७ ॥
महान् नाम महत्तत्त्वमव्यक्तादुदितं मुने ।
महत्तत्त्वपर्यायाः
विद्या गौर्यवनी ब्राह्मी वधूर्वृद्धिर्मतिर्मधुः ॥ ७-८ ॥
अख्यातिरीश्वरः प्राज्ञेत्येते तद्वाचका मुने ।
महतस्त्रैविध्यम्
विश्वास-प्रस्तुतिः
कालो बुद्धिस्तथा प्राण
इति त्रेधा स गीयते ॥ ७-९ ॥
तमःसत्त्वरजोभेदात्
तत्-तद्-उन्मेष-सञ्ज्ञया ।
मूलम्
कालो बुद्धिस्तथा प्राण इति त्रेधा स गीयते ॥ ७-९ ॥ तमःसत्त्वरजोभेदात् तत्तदुन्मेषसञ्ज्ञया ।
विश्वास-प्रस्तुतिः - ७-१०
कालस्त्रुटिलवाद्यात्मा बुद्धिरघ्यवसायिनी ॥ ७-१० ॥
प्राणः प्रयतनाकार इत्येता महतो भिदाः ।
मूलम् - ७-१०
कालस्त्रुटिलवाद्यात्मा बुद्धिरघ्यवसायिनी ॥ ७-१० ॥
प्राणः प्रयतनाकार इत्येता महतो भिदाः ।
तत्र सात्त्विकस्य चातुर्विध्यम्
विश्वास-प्रस्तुतिः
धर्मो ज्ञानं विरागश् चाप्य्
ऐश्वर्यम् इति सञ्ज्ञया ॥ ७-११ ॥
महतः सात्त्विकं रूपं
चतुर्धा प्रविभज्यते ।
मूलम्
धर्मो ज्ञानं विरागश्चाप्यैश्वर्यमिति सञ्ज्ञया ॥ ७-११ ॥ महतः सात्त्विकं रूपं चतुर्धा प्रविभज्यते ।
प्। ६२) तामसस्यापि चातुर्विध्यम्
अधर्माज्ञानावैराग्यमनैश्वर्यं च तामसम् ॥ ७-१२ ॥
महत्तत्त्वे मनूनामवस्थितिः
विश्वास-प्रस्तुतिः - ७-१३
विद्याया उदरेऽष्टौ ते सुदर्शनसमीरिताः ।
मनवो गर्भतां यान्ति सर्वज्ञाः सर्वदर्शिनः ॥ ७-१३ ॥
मूलम् - ७-१३
विद्याया उदरेऽष्टौ ते सुदर्शनसमीरिताः ।
मनवो गर्भतां यान्ति सर्वज्ञाः सर्वदर्शिनः ॥ ७-१३ ॥
तत्र बुद्ध्युत्पत्तिः
विश्वास-प्रस्तुतिः - ७-१४
बोधनं नाम वैद्यं तदिन्द्रियं तेषु जायते ।
येनार्थानध्यवस्येयुः सदसत्प्रविभागिनः ॥ ७-१४ ॥
मूलम् - ७-१४
बोधनं नाम वैद्यं तदिन्द्रियं तेषु जायते ।
येनार्थानध्यवस्येयुः सदसत्प्रविभागिनः ॥ ७-१४ ॥
महतोऽहङ्कारोत्पत्तिः
विश्वास-प्रस्तुतिः - ७-१५
विद्याया उदरे तत्राहङ्कृतिर्नाम जायते ।
सङ्कल्पाच्चोदिता विष्णोश्चोदितायाः सुदर्शनात् ॥ ७-१५ ॥
मूलम् - ७-१५
विद्याया उदरे तत्राहङ्कृतिर्नाम जायते ।
सङ्कल्पाच्चोदिता विष्णोश्चोदितायाः सुदर्शनात् ॥ ७-१५ ॥
अहङ्कारपर्यायाः
विश्वास-प्रस्तुतिः - ७-१६
अहङ्कारोऽभिमानश्च प्रजापतिरहङ्कृतिः ।
अभिमन्ता च बोद्धा चेत्यस्याः पर्यायवाचकाः ॥ ७-१६ ॥
मूलम् - ७-१६
अहङ्कारोऽभिमानश्च प्रजापतिरहङ्कृतिः ।
अभिमन्ता च बोद्धा चेत्यस्याः पर्यायवाचकाः ॥ ७-१६ ॥
अहङ्कारस्य त्रैविध्यम्
विश्वास-प्रस्तुतिः - ७-१७
तस्य वैकारिकं नाम रूपं सात्त्विकमुच्यते ।
तैजसं राजसं रूपं भूतादिर्नाम तामसम् ॥ ७-१७ ॥
मूलम् - ७-१७
तस्य वैकारिकं नाम रूपं सात्त्विकमुच्यते ।
तैजसं राजसं रूपं भूतादिर्नाम तामसम् ॥ ७-१७ ॥
प्। ६३) अहङ्कारस्य रूपभेदाः
विश्वास-प्रस्तुतिः - ७-१८
कामः क्रोधश्च लोभश्च मानश्चावमतिस्तृषा ।
इत्यहङ्कृतिरूपाणि दर्शितानि मुने तव ॥ ७-१८ ॥
मूलम् - ७-१८
कामः क्रोधश्च लोभश्च मानश्चावमतिस्तृषा ।
इत्यहङ्कृतिरूपाणि दर्शितानि मुने तव ॥ ७-१८ ॥
अहङ्कारे मनूनामवस्थितिः
विश्वास-प्रस्तुतिः - ७-१९
नानाविभवयुक्तायामुत्पन्नायामहङ्कृतौ ।
तदन्तर्गर्भमायाति मनूनां तच्चतुर्युगम् ॥ ७-१९ ॥
मूलम् - ७-१९
नानाविभवयुक्तायामुत्पन्नायामहङ्कृतौ ।
तदन्तर्गर्भमायाति मनूनां तच्चतुर्युगम् ॥ ७-१९ ॥
अहङ्कारात् मन -उत्पत्तिः
विश्वास-प्रस्तुतिः - ७-२०
सुदर्शनेरितं विष्णोराहङ्कारिकमिन्द्रियम् ।
मनो नाम मनूनां तज्जायते चिन्तनात्मकम् ॥ ७-२० ॥
मूलम् - ७-२०
सुदर्शनेरितं विष्णोराहङ्कारिकमिन्द्रियम् ।
मनो नाम मनूनां तज्जायते चिन्तनात्मकम् ॥ ७-२० ॥
मनस्वी बुद्धिमांश्चापि गर्भो मनुमयस्तथा ।
भूतादेः शब्दतन्मात्रोत्पत्तिः
भूतादेः शब्दतन्मात्रं तामसादथ जायते ॥ ७-२१ ॥
तस्मादाकाशोत्पत्तिः
वियच्च शब्दतन्मात्राज्जायते शब्दलक्षणम् ।
आकाशस्य गुणकर्मणी
शब्दैकगुणमाकाशमवकाशप्रायि च ॥ ७-२२ ॥
आकाशे मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति विष्णुसङ्कल्पचोदिताः ।
प्। ६४) मनवोऽष्टौ महाबुद्धे तदा वैकारिकात् पुनः ॥ ७-२३ ॥
श्रोत्रवाचोरुत्पत्तिः
विश्वास-प्रस्तुतिः - ७-२४
श्रोत्रं वागिति विज्ञानकर्मेन्द्रिययुगं मुने ।
समीक्षयैव देवस्य मनुषु प्रतिजायते ॥ ७-२४ ॥
मूलम् - ७-२४
श्रोत्रं वागिति विज्ञानकर्मेन्द्रिययुगं मुने ।
समीक्षयैव देवस्य मनुषु प्रतिजायते ॥ ७-२४ ॥
मनूनां तद्वैशिष्ट्यम्
श्रोत्रवानथ वाग्मी च गर्भो मनुमयस्तथा ।
अथ स्पर्शतन्मात्रोत्पत्तिः
सुदर्शनेरिताद्विष्णोर्भूतादेः स्पर्शमात्रकम् ॥ ७-२५ ॥
तस्माद्वायूत्पत्तिः
जायते स्पर्शवान् वायुस्तस्मादपि च जायते ।
वायोः क्रियाभेदाः
शोषणं प्रेरणं चेष्टा व्यूहनं च समूहनम् ॥ ७-२६ ॥
क्रियाभेदा इमे तस्माज्जायन्ते वायुतो मुने ।
त्वक्पाण्योरुत्पत्तिः
वैकारिकादहङ्कारात् त्वक्पाणिद्वितयं मुने ॥ ७-२७ ॥
ज्ञानकर्मेन्द्रियद्वन्द्वं सङ्कल्पात् तस्य जायते ।
वायौ मनूनां स्थितिः
तदन्तर्गर्भतां याति तदा मनुमयः पुमान् ॥ ७-२८ ॥
प्। ६५) तेषां त्वक्पाणिवैशिष्ट्यम्
विश्वास-प्रस्तुतिः - ७-२९
चेष्टमानस्तदा गर्भो विष्णुसङ्कल्पचोदितः ।
त्वक्पाणिद्वयवानासीत् स्पर्शादानादिसिद्धये ॥ ७-२९ ॥
मूलम् - ७-२९
चेष्टमानस्तदा गर्भो विष्णुसङ्कल्पचोदितः ।
त्वक्पाणिद्वयवानासीत् स्पर्शादानादिसिद्धये ॥ ७-२९ ॥
रूपतन्मात्रतेजसोरुत्पत्तिः
विश्वास-प्रस्तुतिः - ७-३०
तामसादथ भूतादेः सुदर्शनसमीरितात् ।
जायते रूपमात्रं तु ज्योतिस्तस्माच्च रूपवत् ॥ ७-३० ॥
मूलम् - ७-३०
तामसादथ भूतादेः सुदर्शनसमीरितात् ।
जायते रूपमात्रं तु ज्योतिस्तस्माच्च रूपवत् ॥ ७-३० ॥
तेजसः क्रियाभेदाः
विश्वास-प्रस्तुतिः - ७-३१
रूपं व्यक्तिस्तथा पाकः कान्तिर्दीप्तिरितीदृशाः ।
जायन्ते तैजसा भेदा भेदाद्वैकारिकात् तथा ॥ ७-३१ ॥
मूलम् - ७-३१
रूपं व्यक्तिस्तथा पाकः कान्तिर्दीप्तिरितीदृशाः ।
जायन्ते तैजसा भेदा भेदाद्वैकारिकात् तथा ॥ ७-३१ ॥
चक्षुःपादयोरुत्पत्तिः
सुदर्शनेरिताज्जातं चक्षुःपादयुगं मुने ।
तेजसि मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति ते सुदर्शनचोदिताः ॥ ७-३२ ॥
तेषां चक्षुःपादवैशिष्ट्यम्
विश्वास-प्रस्तुतिः - ७-३३
मनवो रूपवन्तस्ते कान्तिदीप्त्यादिशालिनः ।
चक्षुष्मन्तः पादवन्तो वीक्षणाटनयोगिनः ॥ ७-३३ ॥
मूलम् - ७-३३
मनवो रूपवन्तस्ते कान्तिदीप्त्यादिशालिनः ।
चक्षुष्मन्तः पादवन्तो वीक्षणाटनयोगिनः ॥ ७-३३ ॥
रसतन्मात्राम्भसोरुत्पत्तिः
तामसादथ भूतादेर्विष्णोरीक्षानियोजितात् ।
प्। ६६) जायते रसमात्रं तु जायन्तेऽम्भांसि वै ततः ॥ ७-३४ ॥
तत्क्रियाभेदाः
जायन्तेऽथ गुणास्तेषां रसस्नेहद्रवादयः ।
रसनोपस्थेन्द्रियोत्पत्तिः
अथ वैकारिकात् तस्माद् विष्णुसङ्कल्पचोदितात् ॥ ७-३५ ॥
रसनोपस्थमित्येतज्जायते दृक्क्रियात्मकम् ।
अप्सु मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति विष्णुसङ्कल्पचोदिताः ॥ ७-३६ ॥
मनवस्ते महाबुद्धे विष्णुकर्माधिकारिणः ।
तेषांरसनोपस्थवैशिष्ट्यम्
सरसाः स्नेहवन्तश्च रुधिरादिद्रवान्विताः ॥ ७-३७ ॥
जायन्ते रसनावन्तः पुंस्त्रीव्यञ्जनभेदिताः ।
गन्धतन्मात्रमह्योरुत्पत्तिः
सुदर्शनेरितात् तस्माद्भूतादेस्तदनन्तरम् ॥ ७-३८ ॥
जायते गन्धतन्मात्रं तस्माद्गन्धवती मही ।
पार्थिवगुणभेदाः
काठिन्यं गौरवं स्थैर्यमित्याद्याः पार्थिवा गुणाः ॥ ७-३९ ॥
प्। ६७) घ्राणपाय्वोरुत्पत्तिः
विश्वास-प्रस्तुतिः - ७-४०
वैकारिकादहङ्कारात् सुदर्शनसमीरितात् ।
घ्राणं पायुरिति द्वन्द्वं ज्ञानकर्मात्मकं मुने ॥ ७-४० ॥
मूलम् - ७-४०
वैकारिकादहङ्कारात् सुदर्शनसमीरितात् ।
घ्राणं पायुरिति द्वन्द्वं ज्ञानकर्मात्मकं मुने ॥ ७-४० ॥
पृथिव्यां मनूनां स्थितिः
भुवस्ते गर्भतां यान्ति विष्णुसङ्कल्पचोदिताः ।
तेषां घ्राणपायुवैशिष्ट्यम्
गुरवः स्थिरसङ्घाता अस्थिदन्तादिसंयुताः ॥ ७-४१ ॥
घ्राणवन्तः पायुमन्तः सम्पूर्णावयवा मुने ।
सङ्कल्पाद्युत्पत्तिः
सङ्कल्पश्चैव संरम्भः प्राणाः पञ्चविधास्तथा ॥ ७-४२ ॥
मनसोऽहङ्कृतेर्बुद्धेर्जायन्ते पूर्वमेव तु ।
एवं मनूनां सर्वावयवपूर्णता
एवं सम्पूर्णसर्वाङ्गाः प्राणापानादिसंयुताः ॥ ७-४३ ॥
सर्वेन्द्रिययुतास्तत्र देहिनो मनवो मुने ।
सृष्टिप्रलयकालयोस्तुल्यपरिमाणत्वम्
यो यादृग्वर्णितः पूर्वं कालस्तत्प्रतिसञ्चरे ॥ ७-४४ ॥
विश्वास-प्रस्तुतिः - ७-४५
प्। ६८) सर्गे स एव विज्ञेयो वैष्णवैस्तत्त्वचिन्तकैः ।
विद्याविपरिणामोऽयं सप्तधा वीक्षया हरेः ॥ ७-४५ ॥
मूलम् - ७-४५
प्। ६८) सर्गे स एव विज्ञेयो वैष्णवैस्तत्त्वचिन्तकैः ।
विद्याविपरिणामोऽयं सप्तधा वीक्षया हरेः ॥ ७-४५ ॥
महाभूतानि तान्याहुर्विभागान् सप्तधा मुने ।
मनुविभागः
मनवोऽपि विभज्यन्ते सुदर्शनसमीरिताः ॥ ७-४६ ॥
विश्वास-प्रस्तुतिः - ७-४७
युगशो युगशः पूर्वं पश्चात् पुंस्त्रीविभेदतः ।
स्वयमागतविज्ञानाः सर्वज्ञाः सर्वदर्शिनः ॥ ७-४७ ॥
मूलम् - ७-४७
युगशो युगशः पूर्वं पश्चात् पुंस्त्रीविभेदतः ।
स्वयमागतविज्ञानाः सर्वज्ञाः सर्वदर्शिनः ॥ ७-४७ ॥
आत्मन्यध्यक्षमीशानमनिरुद्धं दधत्यथ ।
मनुभिर्गर्भोत्पादनम्
ततो ह्यध्यक्षवन्तस्ते तत्सङ्कल्पेन चोदिताः ॥ ७-४८ ॥
गर्भानादधते स्त्रीषु मनवस्ते शतं शतम् ।
तेषां ब्राह्मणादिसञ्ज्ञा
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति वतुर्विधाः ॥ ७-४९ ॥
मानवा मनुयोषिद्भ्यो जायन्ते द्वन्द्वलक्षणाः ।
तदुत्पन्नानां मानवमानवादिसञ्ज्ञा
मनुभिः संस्कृतास्ते तु स्वासु पत्नीषु मानवाः ॥ ७-५० ॥
जनयन्ति बहून् पुत्रांस्ते स्युर्मानवमानवाः ।
प्। ६९) तेषां भगवत्कैङ्कर्यकारित्वम्
तेषां गोत्राण्यनेकानि यैरिदं सकलं ततम् ॥ ७-५१ ॥
चातुर्वर्ण्यमया एते भगवत्कर्मकारिणः ।
भागवतकैङ्कर्यकारिणां मोक्षसम्पत्तिः
तेषां ये कर्म कुर्वन्ति साधवः शतवार्षिकम् ॥ ७-५२ ॥
विवेकज्ञानमासाद्य ते विशन्ति हरिं परम् ।
अन्येषां संसारप्राप्तिः
युगादियुगनिर्ह्रासाद्ये कर्मान्तरकारिणः ॥ ७-५३ ॥
फलाभिध्यायिनो यान्ति तत्प्रसूतां गतिं तु ते ।
कर्महेतुकदेवादिसृष्टिः
या सा विद्या पुरा प्रोक्ता मनुगर्भवती मुने ॥ ७-५४ ॥
विश्वास-प्रस्तुतिः - ७-५५
गर्भवत्येव सा देवान् नानागुणविभेदितान् ।
दैत्यदानवरक्षांसि गन्धर्वोरगकिन्नरान् ॥ ७-५५ ॥
मूलम् - ७-५५
गर्भवत्येव सा देवान् नानागुणविभेदितान् ।
दैत्यदानवरक्षांसि गन्धर्वोरगकिन्नरान् ॥ ७-५५ ॥
विश्वास-प्रस्तुतिः - ७-५६
इति नानाविधा योनीर्विष्णोः सङ्कल्पचोदिता ।
स्वसङ्कल्पेन सृजति ते चान्यांस्तेऽपि चापरान् ॥ ७-५६ ॥
मूलम् - ७-५६
इति नानाविधा योनीर्विष्णोः सङ्कल्पचोदिता ।
स्वसङ्कल्पेन सृजति ते चान्यांस्तेऽपि चापरान् ॥ ७-५६ ॥
विश्वास-प्रस्तुतिः - ७-५७
मनुगर्भदशायां तु पितृदेवर्षिमानवाः ।
इति सृष्टास्तया शश्वद्विद्यया ब्रह्मणा स्वयम् ॥ ७-५७ ॥
मूलम् - ७-५७
मनुगर्भदशायां तु पितृदेवर्षिमानवाः ।
इति सृष्टास्तया शश्वद्विद्यया ब्रह्मणा स्वयम् ॥ ७-५७ ॥
प्। ७०) मनूनां देवादीनां च कूटस्थपुरुषव्यष्टिरूपत्वम्
विश्वास-प्रस्तुतिः - ७-५८
कूटस्थो यः पुरा प्रोक्तः पुमान् व्योम्नः परादधः ।
मनवो देवताद्याश्च तद्व्यष्टय इतीरिताः ॥ ७-५८ ॥
मूलम् - ७-५८
कूटस्थो यः पुरा प्रोक्तः पुमान् व्योम्नः परादधः ।
मनवो देवताद्याश्च तद्व्यष्टय इतीरिताः ॥ ७-५८ ॥
जीवानां भगवद्विभूतित्वम्
जीवभेदा मुने सर्वे विष्णुभूत्यंशकल्पिताः ।
महतो मेघात्मना परिणामः
अथ व्यक्तेषु मनुषु प्रजातेषु पुनः पुनः ॥ ७-५९ ॥
विश्वास-प्रस्तुतिः - ७-६०
विद्यैवांशेन केनापि धेनुर्भवति शाश्वती ।
धेनुरित्युच्यते विद्या मेघभावमुपागता ॥ ७-६० ॥
मूलम् - ७-६०
विद्यैवांशेन केनापि धेनुर्भवति शाश्वती ।
धेनुरित्युच्यते विद्या मेघभावमुपागता ॥ ७-६० ॥
पयः क्षरति वर्षाख्यमन्नादिपरिणामवत् ।
जीवानां ज्ञानभ्रंशहेतुकथनम्
तत्तु वैद्यं पयः प्राश्य सर्वे मानवमानवाः ॥ ७-६१ ॥
ज्ञानभ्रंशं प्रपद्यन्ते सर्वज्ञाः स्वत एव ते ।
ततः शास्त्रप्रवृत्तिः
ततः प्रवर्त्यते शास्त्रं मनुभिः पूर्वजैस्तदा ॥ ७-६२ ॥
विश्वास-प्रस्तुतिः - ७-६३
तदादिष्टेन मार्गेण ते यान्ति परमां गतिम् ।
लेशतः सृष्टिरुक्तेयं भूतेः शुद्धेतरा मुने ॥ ७-६३ ॥
मूलम् - ७-६३
तदादिष्टेन मार्गेण ते यान्ति परमां गतिम् ।
लेशतः सृष्टिरुक्तेयं भूतेः शुद्धेतरा मुने ॥ ७-६३ ॥
प्। ७१) सुदर्शनेन या विष्णोरेवम्भावेन भाव्यते ।
अध्यायद्वयार्थसङ्क्षेपः
भूयश्च शृणु सङ्क्षेपमिमं नारद तत्त्वतः ॥ ७-६४ ॥
विश्वास-प्रस्तुतिः - ७-६५
एका शक्तिर्हरेर्विष्णोः सर्वभावानुगामिनी ।
देवी षाड्गुण्यपूर्णा सा ज्ञानानन्दक्रियामयी ॥ ७-६५ ॥
मूलम् - ७-६५
एका शक्तिर्हरेर्विष्णोः सर्वभावानुगामिनी ।
देवी षाड्गुण्यपूर्णा सा ज्ञानानन्दक्रियामयी ॥ ७-६५ ॥
विश्वास-प्रस्तुतिः - ७-६६
भाव्यभावकभेदेन सा द्विधाभावमृच्छति ।
भावकस्तत्र सङ्कल्पः सुदर्शनमयो हरेः ॥ ७-६६ ॥
मूलम् - ७-६६
भाव्यभावकभेदेन सा द्विधाभावमृच्छति ।
भावकस्तत्र सङ्कल्पः सुदर्शनमयो हरेः ॥ ७-६६ ॥
विश्वास-प्रस्तुतिः - ७-६७
अव्याघातस्तु यस्तस्य सा सुदर्शनता मुने ।
ज्ञानमूलक्रियात्मासौ स्वच्छः स्वच्छन्दचिन्मयः ॥ ७-६७ ॥
मूलम् - ७-६७
अव्याघातस्तु यस्तस्य सा सुदर्शनता मुने ।
ज्ञानमूलक्रियात्मासौ स्वच्छः स्वच्छन्दचिन्मयः ॥ ७-६७ ॥
विश्वास-प्रस्तुतिः - ७-६८
भाव्यो नाम परांशो यः सा भूतिरिति गीयते ।
सङ्कर्षणादिभूम्यन्ता शुद्धेतरविभागिनी ॥ ७-६८ ॥
मूलम् - ७-६८
भाव्यो नाम परांशो यः सा भूतिरिति गीयते ।
सङ्कर्षणादिभूम्यन्ता शुद्धेतरविभागिनी ॥ ७-६८ ॥
विश्वास-प्रस्तुतिः - ७-६९
सङ्कर्षणादिव्यूहान्ता शुद्धसर्गमयी स्थिता ।
शक्त्यादिर्भूमिपर्यन्ता शुद्धेतरमयी मुने ॥ ७-६९ ॥
मूलम् - ७-६९
सङ्कर्षणादिव्यूहान्ता शुद्धसर्गमयी स्थिता ।
शक्त्यादिर्भूमिपर्यन्ता शुद्धेतरमयी मुने ॥ ७-६९ ॥
विश्वास-प्रस्तुतिः - ७-७०
अंशयोः पुरुषो मध्ये यः स्थितः स चतुर्युगः ।
शुद्धेतरमयं विद्धि कूटस्थं तं महामुने ॥ ७-७० ॥
मूलम् - ७-७०
अंशयोः पुरुषो मध्ये यः स्थितः स चतुर्युगः ।
शुद्धेतरमयं विद्धि कूटस्थं तं महामुने ॥ ७-७० ॥
विश्वास-प्रस्तुतिः - ७-७१
इतीयं विविधा भूतिर्नानातत्त्वमयी मुने ।
सुदर्शनेन मरुता ज्वालेव बहुधेर्यते ॥ ७-७१ ॥
मूलम् - ७-७१
इतीयं विविधा भूतिर्नानातत्त्वमयी मुने ।
सुदर्शनेन मरुता ज्वालेव बहुधेर्यते ॥ ७-७१ ॥
विश्वास-प्रस्तुतिः - ७-७२
आनुलोम्येन सर्गे तु प्रातिलोम्येन चाप्यये ।
मध्ये च स्थाप्यते तेन कार्यते च तथा तथा ॥ ७-७२ ॥
मूलम् - ७-७२
आनुलोम्येन सर्गे तु प्रातिलोम्येन चाप्यये ।
मध्ये च स्थाप्यते तेन कार्यते च तथा तथा ॥ ७-७२ ॥
प्। ७२) सुदर्शनानधीनस्य वस्तुनस्तुच्छता
विश्वास-प्रस्तुतिः - ७-७३
भूतेरंशः स नैवास्ति स्वल्पाल्पोऽपि महामुने ।
यो न याति स्वजन्मादौ सुदर्शनविधेयताम् ॥ ७-७३ ॥
मूलम् - ७-७३
भूतेरंशः स नैवास्ति स्वल्पाल्पोऽपि महामुने ।
यो न याति स्वजन्मादौ सुदर्शनविधेयताम् ॥ ७-७३ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
शुद्धेतरसृष्टिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
आदितः श्लोकाः ४६६
जगदाधारनिरूपणं नाम अष्टमोऽध्यायः
सृष्टौ वादिनां बहुधा विप्रतिपत्तिः
नारदः -
विश्वास-प्रस्तुतिः - ८-१
भगवन् देवदेवश भगनेत्रविनाशन ।
श्रुतं मयैतदखिलं तव वक्त्राम्बुजस्रुतम् ॥ ८-१ ॥
मूलम् - ८-१
भगवन् देवदेवश भगनेत्रविनाशन ।
श्रुतं मयैतदखिलं तव वक्त्राम्बुजस्रुतम् ॥ ८-१ ॥
विश्वास-प्रस्तुतिः - ८-२
व्याकुलस्त्वन्तरात्मा मे नानाज्ञानविमोहितः ।
केचित् त्रैभूतिकीं सृष्टिं ब्रुवते तत्त्ववादिनः ॥ ८-२ ॥
मूलम् - ८-२
व्याकुलस्त्वन्तरात्मा मे नानाज्ञानविमोहितः ।
केचित् त्रैभूतिकीं सृष्टिं ब्रुवते तत्त्ववादिनः ॥ ८-२ ॥
विश्वास-प्रस्तुतिः - ८-३
चतुर्भूतमयीमन्ये केऽप्यन्ये पाञ्चभौतिकीम् ।
तां षड्धातुमयीमेके सप्तधातुमयीं परे ॥ ८-३ ॥
मूलम् - ८-३
चतुर्भूतमयीमन्ये केऽप्यन्ये पाञ्चभौतिकीम् ।
तां षड्धातुमयीमेके सप्तधातुमयीं परे ॥ ८-३ ॥
विश्वास-प्रस्तुतिः - ८-४
अष्टप्रकृतिकां केचिन्नवप्रकृतिकां परे ।
दशतत्त्वमयीमेके केचिदेकादशात्मिकाम् ॥ ८-४ ॥
मूलम् - ८-४
अष्टप्रकृतिकां केचिन्नवप्रकृतिकां परे ।
दशतत्त्वमयीमेके केचिदेकादशात्मिकाम् ॥ ८-४ ॥
विश्वास-प्रस्तुतिः - ८-५
एवमुच्चावचां सङ्ख्यां तत्त्वप्रकृतिगोचराम् ।
वदन्ति मुनयः सिद्धा देवा वेदास्तथैव च ॥ ८-५ ॥
मूलम् - ८-५
एवमुच्चावचां सङ्ख्यां तत्त्वप्रकृतिगोचराम् ।
वदन्ति मुनयः सिद्धा देवा वेदास्तथैव च ॥ ८-५ ॥
विश्वास-प्रस्तुतिः - ८-६
अण्डजामपरे सृष्टिं पद्मजामपि चापरे ।
पावकीमपरे सृष्टिं केचित् कायान्तरोद्भवाम् ॥ ८-६ ॥
मूलम् - ८-६
अण्डजामपरे सृष्टिं पद्मजामपि चापरे ।
पावकीमपरे सृष्टिं केचित् कायान्तरोद्भवाम् ॥ ८-६ ॥
प्। ७४) विद्यागर्भमयीमेके शून्यरूपामथापरे ।
तत्र तत्त्वजिज्ञासया प्रश्नः
इत्थमुच्चावचार्थास्ते नानाशास्त्रमहोदधौ ॥ ८-७ ॥
विश्वास-प्रस्तुतिः - ८-८
नानादर्शनकल्लोलजातकोलाहलोद्भटे ।
विमुह्यत्यवमग्नेयमप्लवा वुद्धिरद्य मे ॥ ८-८ ॥
मूलम् - ८-८
नानादर्शनकल्लोलजातकोलाहलोद्भटे ।
विमुह्यत्यवमग्नेयमप्लवा वुद्धिरद्य मे ॥ ८-८ ॥
निर्णयप्लवदानेन तामुत्तारय शङ्कर ।
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः -
उचितं तव देवर्षे यदयं प्रश्न ईरितः ॥ ८-९ ॥
विश्वास-प्रस्तुतिः - ८-१०
मुह्यन्त्यत्र महान्तोऽपि शृणु मे तत्त्वनिर्णयम् ।
परमात्मा परो देव एकः षाड्गुण्यमुज्ज्वलम् ॥ ८-१० ॥
मूलम् - ८-१०
मुह्यन्त्यत्र महान्तोऽपि शृणु मे तत्त्वनिर्णयम् ।
परमात्मा परो देव एकः षाड्गुण्यमुज्ज्वलम् ॥ ८-१० ॥
वेदवाचोऽपि कार्त्स्न्येन तत्त्वावगाहनासामर्थ्यम्
विश्वास-प्रस्तुतिः - ८-११
वागनादिरनन्तापि तत्त्वं तन्नावगाहते ।
गुणैस्तटस्थितैस्तैस्तैरजानानेव सा स्थिता ॥ ८-११ ॥
मूलम् - ८-११
वागनादिरनन्तापि तत्त्वं तन्नावगाहते ।
गुणैस्तटस्थितैस्तैस्तैरजानानेव सा स्थिता ॥ ८-११ ॥
विप्रतिपत्तौ हेतुकथनम्
विश्वास-प्रस्तुतिः - ८-१२
यद्गुणे नाम्नि ये श्रान्तास्तत्र तत्त्वविदो मुने ।
मनुभिस्तद्गुणैस्तैस्तैस्ते ते तत्त्वविदां वराः ॥ ८-१२ ॥
मूलम् - ८-१२
यद्गुणे नाम्नि ये श्रान्तास्तत्र तत्त्वविदो मुने ।
मनुभिस्तद्गुणैस्तैस्तैस्ते ते तत्त्वविदां वराः ॥ ८-१२ ॥
विश्वास-प्रस्तुतिः - ८-१३
प्। ७५) निर्दिशन्ति जगद्धेतुण् स्वनिरूढैर्महामुने ।
नानागुणनिमित्तैस्तैर्नानावक्तृसमीरितैः ॥ ८-१३ ॥
मूलम् - ८-१३
प्। ७५) निर्दिशन्ति जगद्धेतुण् स्वनिरूढैर्महामुने ।
नानागुणनिमित्तैस्तैर्नानावक्तृसमीरितैः ॥ ८-१३ ॥
भेदं व्यवस्थिताः शब्दैरपर्यायविदो जनाः ।
एकस्या अपि लक्ष्म्या नानाशब्दगोचरत्वम्
एवं विष्णोः प्रिया भाः सा शक्तिः षाड्गुण्यविग्रहा ॥ ८-१४ ॥
नानानामभिरेकापि तत्त्वविद्भिरुपास्यते ।
तत्त्वविदां स्वस्वदृष्टार्थवादित्वम्
तस्यां प्रवर्तमानायां स्वसङ्कल्पेन सर्जने ॥ ८-१५ ॥
विश्वास-प्रस्तुतिः - ८-१६
तथा निवर्तमानायां स्वसङ्कल्पेन संहृतौ ।
विज्ञानबलवैषम्याद्ये ये तत्त्वविदो मुने ॥ ८-१६ ॥
मूलम् - ८-१६
तथा निवर्तमानायां स्वसङ्कल्पेन संहृतौ ।
विज्ञानबलवैषम्याद्ये ये तत्त्वविदो मुने ॥ ८-१६ ॥
विश्वास-प्रस्तुतिः - ८-१७
न्यूनाधिकविभेदेन यावतीर्ददृशुर्भिदाः ।
तावतीस्तावतीस्ते ते प्रोचुः शिष्याभिचोदिताः ॥ ८-१७ ॥
मूलम् - ८-१७
न्यूनाधिकविभेदेन यावतीर्ददृशुर्भिदाः ।
तावतीस्तावतीस्ते ते प्रोचुः शिष्याभिचोदिताः ॥ ८-१७ ॥
विश्वास-प्रस्तुतिः - ८-१८
अतश्चासर्वदृग्बुद्धिः सङ्ख्यासु प्रविमुह्यति ।
पितामहादयो ये च जगत्कार्याधिकारिणः ॥ ८-१८ ॥
मूलम् - ८-१८
अतश्चासर्वदृग्बुद्धिः सङ्ख्यासु प्रविमुह्यति ।
पितामहादयो ये च जगत्कार्याधिकारिणः ॥ ८-१८ ॥
विश्वास-प्रस्तुतिः - ८-१९
तेषां न्यूनाधिभावोऽपि वक्तृभेदात् प्रकल्पितः ।
स्वातन्त्र्यमनियोज्यं तु विष्णोः षाड्गुण्यरूपिणः ॥ ८-१९ ॥
मूलम् - ८-१९
तेषां न्यूनाधिभावोऽपि वक्तृभेदात् प्रकल्पितः ।
स्वातन्त्र्यमनियोज्यं तु विष्णोः षाड्गुण्यरूपिणः ॥ ८-१९ ॥
विश्वास-प्रस्तुतिः - ८-२०
तद्बुद्धिरुचिवैचित्र्यादण्डपद्मादिसम्भवः ।
नानुयोजनमर्हन्ति परमात्मप्रवृत्तयः ॥ ८-२० ॥
मूलम् - ८-२०
तद्बुद्धिरुचिवैचित्र्यादण्डपद्मादिसम्भवः ।
नानुयोजनमर्हन्ति परमात्मप्रवृत्तयः ॥ ८-२० ॥
प्। ७६) भगवत्प्रकारानन्त्यम्
विश्वास-प्रस्तुतिः - ८-२१
स यथा चेष्टते सृष्टौ स्थितौ संहरणेऽपि वा ।
तथा तथा प्रकारास्ते ह्यनन्ताः कालवैभवात् ॥ ८-२१ ॥
मूलम् - ८-२१
स यथा चेष्टते सृष्टौ स्थितौ संहरणेऽपि वा ।
तथा तथा प्रकारास्ते ह्यनन्ताः कालवैभवात् ॥ ८-२१ ॥
वादिनामेकैकप्रकारवादित्वम्
विश्वास-प्रस्तुतिः - ८-२२
एवं प्रकारनानात्वे देवस्य हरिमेधसः ।
कश्चिदेकं परोऽन्यं तु प्रकारमपरोऽपरम् ॥ ८-२२ ॥
मूलम् - ८-२२
एवं प्रकारनानात्वे देवस्य हरिमेधसः ।
कश्चिदेकं परोऽन्यं तु प्रकारमपरोऽपरम् ॥ ८-२२ ॥
धिया विदित्वा प्रोवाच शिष्याय हितकाम्यया ।
अतः शास्त्रवैविध्यम्
विश्वास-प्रस्तुतिः
चित्रा सिष्ट्यादिशास्त्राणां प्रवृत्तिरत ईदृशी ॥ ८-२३ ॥
मूलम्
चित्रा सिष्ट्यादिशास्त्राणां प्रवृत्तिरत ईदृशी ॥ ८-२३ ॥
विश्वास-प्रस्तुतिः - ८-२४
यथाद्यत्वे मनुष्याणां कर्मवैषम्यसम्भवा ।
अहोरात्रादिभेदेषु सुखदुःखव्यवस्थितिः ॥ ८-२४ ॥
मूलम् - ८-२४
यथाद्यत्वे मनुष्याणां कर्मवैषम्यसम्भवा ।
अहोरात्रादिभेदेषु सुखदुःखव्यवस्थितिः ॥ ८-२४ ॥
तथा ब्राह्मेष्वहःस्विष्टा सुखदुःखव्यवस्थितिः ।
ब्राह्मकल्पानां नानारूपत्वम्
केचिद्वाताकुला घस्रा ब्रह्मणो मुनिसत्तम ॥ ८-२५ ॥
विश्वास-प्रस्तुतिः - ८-२६
तथा वर्षाकुलाः केचित् केचिदातपसङ्कुलाः ।
प्रभूतशत्रवः केचित् केचित् सुस्वमनोहराः ॥ ८-२६ ॥
मूलम् - ८-२६
तथा वर्षाकुलाः केचित् केचिदातपसङ्कुलाः ।
प्रभूतशत्रवः केचित् केचित् सुस्वमनोहराः ॥ ८-२६ ॥
विश्वास-प्रस्तुतिः - ८-२७
अनेन निश्चयेनैव धियमास्थाय शाश्वतीम् ।
संस्तम्भयान्तरात्मानं व्यामोहस्ते विनश्यतु ॥ ८-२७ ॥
मूलम् - ८-२७
अनेन निश्चयेनैव धियमास्थाय शाश्वतीम् ।
संस्तम्भयान्तरात्मानं व्यामोहस्ते विनश्यतु ॥ ८-२७ ॥
विश्वास-प्रस्तुतिः - ८-२८
प्। ७७) इति नानाविधाकारं क्रियाभूतिविभेदितम् ।
निमित्तोत्पादकाकारं कारणं कथितं मुने ॥ ८-२८ ॥
मूलम् - ८-२८
प्। ७७) इति नानाविधाकारं क्रियाभूतिविभेदितम् ।
निमित्तोत्पादकाकारं कारणं कथितं मुने ॥ ८-२८ ॥
श्रुतार्थानुवादः
नारदः -
विश्वास-प्रस्तुतिः - ८-२९
कारणं कथितं देव सर्वज्ञ वृषकेतन ।
या सा शक्तिर्जगद्धातुः कथिता समवायिनी ॥ ८-२९ ॥
मूलम् - ८-२९
कारणं कथितं देव सर्वज्ञ वृषकेतन ।
या सा शक्तिर्जगद्धातुः कथिता समवायिनी ॥ ८-२९ ॥
विश्वास-प्रस्तुतिः - ८-३०
लक्ष्मीर्नाम द्विधा सा तु क्रियाभूतिविभेदिनी ।
या क्रिया नाम सङ्कल्पः स सुदर्शननामवान् ॥ ८-३० ॥
मूलम् - ८-३०
लक्ष्मीर्नाम द्विधा सा तु क्रियाभूतिविभेदिनी ।
या क्रिया नाम सङ्कल्पः स सुदर्शननामवान् ॥ ८-३० ॥
विश्वास-प्रस्तुतिः - ८-३१
भूतिर्नाम जगद्रूपा कालाव्यक्तपुमात्मिका ।
अशुद्धा शुद्धरूपा तु सा व्यूहविभवात्मिका ॥ ८-३१ ॥
मूलम् - ८-३१
भूतिर्नाम जगद्रूपा कालाव्यक्तपुमात्मिका ।
अशुद्धा शुद्धरूपा तु सा व्यूहविभवात्मिका ॥ ८-३१ ॥
विश्वास-प्रस्तुतिः - ८-३२
क्रिया प्रवर्तिका भूतेः सा सुदर्शनरूपिणी ।
इत्येतद्दर्शितं तत्त्वं देवदेवेन मे श्रुतम् ॥ ८-३२ ॥
मूलम् - ८-३२
क्रिया प्रवर्तिका भूतेः सा सुदर्शनरूपिणी ।
इत्येतद्दर्शितं तत्त्वं देवदेवेन मे श्रुतम् ॥ ८-३२ ॥
द्वितीयप्रश्नस्मारणम्
विश्वास-प्रस्तुतिः - ८-३३
अधुना श्रोतुमिच्छामि द्वितीयं प्रश्नमीश्वर ।
आधारो नाम यः प्रोक्तो जगतां वृषभध्बज ॥ ८-३३ ॥
मूलम् - ८-३३
अधुना श्रोतुमिच्छामि द्वितीयं प्रश्नमीश्वर ।
आधारो नाम यः प्रोक्तो जगतां वृषभध्बज ॥ ८-३३ ॥
सुदर्शनस्य जगदाधारत्वम्
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - ८-३४
शृणु नारद तत्त्वेन य आधार उदीर्यते ।
येनेदं ध्रियते विश्वं तन्तुना मणयो यथा ॥ ८-३४ ॥
मूलम् - ८-३४
शृणु नारद तत्त्वेन य आधार उदीर्यते ।
येनेदं ध्रियते विश्वं तन्तुना मणयो यथा ॥ ८-३४ ॥
विश्वास-प्रस्तुतिः - ८-३५
प्। ७८) या सा शक्तिर्हरेराद्या लक्ष्मीर्नाम महामुने ।
या सा सर्वात्मनो विष्णोर्भावाभावानुयायिनी ॥ ८-३५ ॥
मूलम् - ८-३५
प्। ७८) या सा शक्तिर्हरेराद्या लक्ष्मीर्नाम महामुने ।
या सा सर्वात्मनो विष्णोर्भावाभावानुयायिनी ॥ ८-३५ ॥
विश्वास-प्रस्तुतिः - ८-३६
तस्या अल्पायुतांशांशः स्वस्वातन्त्र्यविजृम्भितः ।
क्रियाभूतिविभेदेन समुदेतीति वर्णितम् ॥ ८-३६ ॥
मूलम् - ८-३६
तस्या अल्पायुतांशांशः स्वस्वातन्त्र्यविजृम्भितः ।
क्रियाभूतिविभेदेन समुदेतीति वर्णितम् ॥ ८-३६ ॥
विश्वास-प्रस्तुतिः - ८-३७
सुदर्शनेन क्रियया शङ्कुनेव छदो मुने ।
भूतिः सा ध्रियते शश्वद्विस्तरं तत्र मे शृणु ॥ ८-३७ ॥
मूलम् - ८-३७
सुदर्शनेन क्रियया शङ्कुनेव छदो मुने ।
भूतिः सा ध्रियते शश्वद्विस्तरं तत्र मे शृणु ॥ ८-३७ ॥
तत्र महारात्रिधरचक्रं प्रथनम्
विश्वास-प्रस्तुतिः - ८-३८
संहृताखिलभूतस्य स्तैमित्यं ब्रह्मणो हि यत् ।
अप्ययः सा महारात्रिस्तत्सङ्कल्पेन धार्यते ॥ ८-३८ ॥
मूलम् - ८-३८
संहृताखिलभूतस्य स्तैमित्यं ब्रह्मणो हि यत् ।
अप्ययः सा महारात्रिस्तत्सङ्कल्पेन धार्यते ॥ ८-३८ ॥
विश्वास-प्रस्तुतिः - ८-३९
महारात्रिधरो नाम तदरं वै सुदर्शनम् ।
तदेकारं महच्चक्रमद्यत्वे चिन्त्यते सुरैः ॥ ८-३९ ॥
मूलम् - ८-३९
महारात्रिधरो नाम तदरं वै सुदर्शनम् ।
तदेकारं महच्चक्रमद्यत्वे चिन्त्यते सुरैः ॥ ८-३९ ॥
उषश्चक्रं द्वितीयम्
विश्वास-प्रस्तुतिः - ८-४०
यत् सिसृक्षामयं रूपं ब्रह्मणः शक्तिसम्भवम् ।
ज्वालेव वायुना वह्नेः सङ्कल्पेन तदीर्यते ॥ ८-४० ॥
मूलम् - ८-४०
यत् सिसृक्षामयं रूपं ब्रह्मणः शक्तिसम्भवम् ।
ज्वालेव वायुना वह्नेः सङ्कल्पेन तदीर्यते ॥ ८-४० ॥
विश्वास-प्रस्तुतिः - ८-४१
उषश्चक्रं तदुद्दिष्टमरद्वितयभूषितम् ।
भूतिकामैरजस्रं तद्ब्रह्मणा चैव धार्यते ॥ ८-४१ ॥
मूलम् - ८-४१
उषश्चक्रं तदुद्दिष्टमरद्वितयभूषितम् ।
भूतिकामैरजस्रं तद्ब्रह्मणा चैव धार्यते ॥ ८-४१ ॥
प्। ७९) उदयचक्रं तृतीयम्
विश्वास-प्रस्तुतिः - ८-४२
यः स सङ्कर्षेणोन्मेषो यो धारयति तं सदा ।
साक्षादुदयचक्रं तद्विज्ञानत्रितयात्मकम् ॥ ८-४२ ॥
मूलम् - ८-४२
यः स सङ्कर्षेणोन्मेषो यो धारयति तं सदा ।
साक्षादुदयचक्रं तद्विज्ञानत्रितयात्मकम् ॥ ८-४२ ॥
स सङ्कर्षणसङ्कल्पो ज्ञानकामैर्निषेव्यते ।
ऐश्वर्यचक्रं चतुर्थम्
यः स प्राद्युम्न उन्मेष ऐश्वर्यमय ऊर्जितः ॥ ८-४३ ॥
विश्वास-प्रस्तुतिः - ८-४४
वैष्णवेनैव लाक्ष्मेण स सङ्कल्पेन धार्यते ।
तद्वै प्रद्युम्नसङ्कल्पमैश्वर्यमयमूर्जितम् ॥ ८-४४ ॥
मूलम् - ८-४४
वैष्णवेनैव लाक्ष्मेण स सङ्कल्पेन धार्यते ।
तद्वै प्रद्युम्नसङ्कल्पमैश्वर्यमयमूर्जितम् ॥ ८-४४ ॥
सम्यक् चतुररं चक्रमैश्वर्यस्था उपासते ।
शक्तिमहाचक्रं पञ्चमम्
आनिरुद्धो य उन्मेषः शक्तितेजोविदीपितः ॥ ८-४५ ॥
विश्वास-प्रस्तुतिः - ८-४६
सङ्कल्पो ब्रह्मशक्त्युत्थस्तं धारयति सर्वदा ।
तद्वैशक्तिमहाचक्रं पञ्चारं परिकल्पितम् ॥ ८-४६ ॥
मूलम् - ८-४६
सङ्कल्पो ब्रह्मशक्त्युत्थस्तं धारयति सर्वदा ।
तद्वैशक्तिमहाचक्रं पञ्चारं परिकल्पितम् ॥ ८-४६ ॥
शक्तितेजःसमृद्धयर्थं विश्वे देवा उपासते ।
षडरचक्रं षष्ठम्
व्यूहान्तरसमाख्यातं केशवादिद्विषट्ककम् ॥ ८-४७ ॥
विश्वास-प्रस्तुतिः - ८-४८
सुदर्शनेन ध्रियते येन सङ्कल्परूपिणा ।
षडरं तन्महाचर्कं व्यूहान्तरविभावकम् ॥ ८-४८ ॥
मूलम् - ८-४८
सुदर्शनेन ध्रियते येन सङ्कल्परूपिणा ।
षडरं तन्महाचर्कं व्यूहान्तरविभावकम् ॥ ८-४८ ॥
प्। ८०) ऋत्वरं तत् समाख्यातं व्रतकामा उपासते ।
महासुदर्शनचक्रं सप्तमम्
विभवो यः पुरा प्रोक्तः पद्मनाभादिरूर्जितः ॥ ८-४९ ॥
विश्वास-प्रस्तुतिः - ८-५०
स येन ध्रियते विष्णोः सङ्कल्पेन महामुने ।
महासुदर्शनं नाम द्वादशारं तदुच्यते ॥ ८-५० ॥
मूलम् - ८-५०
स येन ध्रियते विष्णोः सङ्कल्पेन महामुने ।
महासुदर्शनं नाम द्वादशारं तदुच्यते ॥ ८-५० ॥
विश्वास-प्रस्तुतिः - ८-५१
विभवान्तरसञ्ज्ञं तद्यच्छक्त्यावेशसम्भवम् ।
धृतं तद् द्वादशारेण तत्सङ्कल्पेन चक्रिणा ॥ ८-५१ ॥
मूलम् - ८-५१
विभवान्तरसञ्ज्ञं तद्यच्छक्त्यावेशसम्भवम् ।
धृतं तद् द्वादशारेण तत्सङ्कल्पेन चक्रिणा ॥ ८-५१ ॥
सहस्रारचक्रमष्टमम्
विश्वास-प्रस्तुतिः - ८-५२
यत्तु तत् परमं व्योम यद् विष्णोः पदमूर्जितम् ।
सहस्रारेण चक्रेण तत्सङ्कल्पेन धार्यते ॥ ८-५२ ॥
मूलम् - ८-५२
यत्तु तत् परमं व्योम यद् विष्णोः पदमूर्जितम् ।
सहस्रारेण चक्रेण तत्सङ्कल्पेन धार्यते ॥ ८-५२ ॥
विश्वास-प्रस्तुतिः - ८-५३
एते सौदर्शना व्यूहाः समासेन प्रकीर्तिताः ।
आधाराधेयभावेन वर्तन्ते ते स्वयं मुने ॥ ८-५३ ॥
मूलम् - ८-५३
एते सौदर्शना व्यूहाः समासेन प्रकीर्तिताः ।
आधाराधेयभावेन वर्तन्ते ते स्वयं मुने ॥ ८-५३ ॥
विश्वास-प्रस्तुतिः - ८-५४
सङ्कल्पः कोटिकोट्यंशः शक्तेर्भूतिस्तथा द्विधा ।
शक्तिः सा वैष्णवी सत्ता बहुधैवं प्रभासते ॥ ८-५४ ॥
मूलम् - ८-५४
सङ्कल्पः कोटिकोट्यंशः शक्तेर्भूतिस्तथा द्विधा ।
शक्तिः सा वैष्णवी सत्ता बहुधैवं प्रभासते ॥ ८-५४ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
जगदाधारवर्णनं नाम अष्टमोऽध्यायः ॥ ८ ॥
आदितः श्लोकाः ५२०
अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायः
प्रथमं पौरुषचक्रम्
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - ९-१
आधारः कथितः शुद्धः शुद्धा सा येन धार्यते ।
भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते ॥ ९-१ ॥
मूलम् - ९-१
आधारः कथितः शुद्धः शुद्धा सा येन धार्यते ।
भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते ॥ ९-१ ॥
विश्वास-प्रस्तुतिः - ९-२
पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका ।
सा येन धार्यते चक्रं तत्सङ्कल्पमयं शृणु ॥ ९-२ ॥
मूलम् - ९-२
पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका ।
सा येन धार्यते चक्रं तत्सङ्कल्पमयं शृणु ॥ ९-२ ॥
त्र्यरं तत् पौरुषं चक्रं पुरुषो येन धार्यते ।
शक्त्यादिचक्राणि
चक्रं त्रिंशदरं प्रोक्तं शक्तिः सा येन धार्यते ॥ ९-३ ॥
विश्वास-प्रस्तुतिः - ९-४
तादृशं नैयतं चक्रं नियतिर्येन धार्यते ।
षडरं कालचक्रं तत् स कालो येन धार्यते ॥ ९-४ ॥
मूलम् - ९-४
तादृशं नैयतं चक्रं नियतिर्येन धार्यते ।
षडरं कालचक्रं तत् स कालो येन धार्यते ॥ ९-४ ॥
विश्वास-प्रस्तुतिः - ९-५
सत्त्वं रजस्तमश्चैव धार्यन्ते यैर्महामुने ।
तानि त्वाधारचक्राणि त्र्यराणीति विदुर्बुधाः ॥ ९-५ ॥
मूलम् - ९-५
सत्त्वं रजस्तमश्चैव धार्यन्ते यैर्महामुने ।
तानि त्वाधारचक्राणि त्र्यराणीति विदुर्बुधाः ॥ ९-५ ॥
चक्रमेकादशारं तु बुद्धिः सा येन धार्यते ।
प्। ८२) अष्टारं तन्महाचक्रमहङ्कारस्य धारकम् ॥ ९-६ ॥
विश्वास-प्रस्तुतिः - ९-७
एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् ।
त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥ ९-७ ॥
मूलम् - ९-७
एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् ।
त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥ ९-७ ॥
विश्वास-प्रस्तुतिः - ९-८
पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते ।
गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः ॥ ९-८ ॥
मूलम् - ९-८
पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते ।
गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः ॥ ९-८ ॥
विश्वास-प्रस्तुतिः - ९-९
एकादशविधं चक्रमैन्द्रियं द्वियुगारकम् ।
इयमाधारशक्तिस्ते प्रोक्ता प्रतिस्विकी मुने ॥ ९-९ ॥
मूलम् - ९-९
एकादशविधं चक्रमैन्द्रियं द्वियुगारकम् ।
इयमाधारशक्तिस्ते प्रोक्ता प्रतिस्विकी मुने ॥ ९-९ ॥
महाविभूतिचक्रम्
विश्वास-प्रस्तुतिः - ९-१०
एकधारं महच्चक्रं महाभूतिकरं शृणु ।
महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते ॥ ९-१० ॥
मूलम् - ९-१०
एकधारं महच्चक्रं महाभूतिकरं शृणु ।
महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते ॥ ९-१० ॥
विश्वास-प्रस्तुतिः - ९-११
अनिशं पावमानेन पवमानेन वै मुने ।
सङ्कर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा ॥ ९-११ ॥
मूलम् - ९-११
अनिशं पावमानेन पवमानेन वै मुने ।
सङ्कर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा ॥ ९-११ ॥
विश्वास-प्रस्तुतिः - ९-१२
निरालम्बे पटे भूतिः सङ्कल्पेनैव धार्यते ।
तत्सङ्कल्पमयं चक्रमनन्तारं महामुने ॥ ९-१२ ॥
मूलम् - ९-१२
निरालम्बे पटे भूतिः सङ्कल्पेनैव धार्यते ।
तत्सङ्कल्पमयं चक्रमनन्तारं महामुने ॥ ९-१२ ॥
विश्वास-प्रस्तुतिः - ९-१३
दिव्यं महाविभूत्याख्यमवाङ्मनसलङ्घितम् ।
अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् ॥ ९-१३ ॥
मूलम् - ९-१३
दिव्यं महाविभूत्याख्यमवाङ्मनसलङ्घितम् ।
अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् ॥ ९-१३ ॥
विश्वास-प्रस्तुतिः - ९-१४
अनन्तारमपर्यन्तं पर्यन्तकुलसङ्कुलम् ।
ब्रह्माण्डकोटिकोट्योघकोट्यर्बुदविभावितम् ॥ ९-१४ ॥
मूलम् - ९-१४
अनन्तारमपर्यन्तं पर्यन्तकुलसङ्कुलम् ।
ब्रह्माण्डकोटिकोट्योघकोट्यर्बुदविभावितम् ॥ ९-१४ ॥
विश्वास-प्रस्तुतिः - ९-१५
प्। ८३) महाभूतसहस्रौघसहस्रौघविभावनम् ।
ज्योतिरिङ्गणसच्छायैरिन्द्रियैः कोटिकोटिशः ॥ ९-१५ ॥
मूलम् - ९-१५
प्। ८३) महाभूतसहस्रौघसहस्रौघविभावनम् ।
ज्योतिरिङ्गणसच्छायैरिन्द्रियैः कोटिकोटिशः ॥ ९-१५ ॥
विश्वास-प्रस्तुतिः - ९-१६
अङ्कितं क्षुद्रमेघाभैर्ब्रह्माण्डैरनुचित्रितम् ।
महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् ॥ ९-१६ ॥
मूलम् - ९-१६
अङ्कितं क्षुद्रमेघाभैर्ब्रह्माण्डैरनुचित्रितम् ।
महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् ॥ ९-१६ ॥
विश्वास-प्रस्तुतिः - ९-१७
विप्रुङ्भिरिव वर्षाणां विततं वैष्णवं पदम् ।
महाभूतैः क्वचिद्दीप्तं ज्योतिर्भिरयुतायुतैः ॥ ९-१७ ॥
मूलम् - ९-१७
विप्रुङ्भिरिव वर्षाणां विततं वैष्णवं पदम् ।
महाभूतैः क्वचिद्दीप्तं ज्योतिर्भिरयुतायुतैः ॥ ९-१७ ॥
विश्वास-प्रस्तुतिः - ९-१८
वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित् ।
क्षुद्रावकाशसङ्काशैराकाशैः कोटिकोटिशः ॥ ९-१८ ॥
मूलम् - ९-१८
वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित् ।
क्षुद्रावकाशसङ्काशैराकाशैः कोटिकोटिशः ॥ ९-१८ ॥
विश्वास-प्रस्तुतिः - ९-१९
छिद्रितं विविधाकारैरहङ्कारैरहङ्कृतम् ।
अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः ॥ ९-१९ ॥
मूलम् - ९-१९
छिद्रितं विविधाकारैरहङ्कारैरहङ्कृतम् ।
अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः ॥ ९-१९ ॥
विश्वास-प्रस्तुतिः - ९-२०
अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम् ।
क्वचिद्विविधसन्तापचलनैरयुतायुतैः ॥ ९-२० ॥
मूलम् - ९-२०
अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम् ।
क्वचिद्विविधसन्तापचलनैरयुतायुतैः ॥ ९-२० ॥
विश्वास-प्रस्तुतिः - ९-२१
रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित् ।
अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः ॥ ९-२१ ॥
मूलम् - ९-२१
रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित् ।
अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः ॥ ९-२१ ॥
विश्वास-प्रस्तुतिः - ९-२२
त्रिविधैः षट्प्रकारैश्च द्विषट्कप्रविभागिभिः ।
चतुर्विंशतिसम्भेदैस्त्रिंशदर्धद्वयोज्ज्वलैः ॥ ९-२२ ॥
मूलम् - ९-२२
त्रिविधैः षट्प्रकारैश्च द्विषट्कप्रविभागिभिः ।
चतुर्विंशतिसम्भेदैस्त्रिंशदर्धद्वयोज्ज्वलैः ॥ ९-२२ ॥
विश्वास-प्रस्तुतिः - ९-२३
षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः ।
कालैरनेकसाहस्रैरयुतायुतसङ्कुलैः ॥ ९-२३ ॥
मूलम् - ९-२३
षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः ।
कालैरनेकसाहस्रैरयुतायुतसङ्कुलैः ॥ ९-२३ ॥
विश्वास-प्रस्तुतिः - ९-२४
प्। ८४) कीर्णं नियतिरूपेण नानानियमनात्मना ।
कोटिकोटिसहस्रौघकोटिकोटिगुणेन च ॥ ९-२४ ॥
मूलम् - ९-२४
प्। ८४) कीर्णं नियतिरूपेण नानानियमनात्मना ।
कोटिकोटिसहस्रौघकोटिकोटिगुणेन च ॥ ९-२४ ॥
विश्वास-प्रस्तुतिः - ९-२५
शक्त्या नानाविधाकारमधुकोशनिभात्मना ।
निष्यन्दमानतत्त्वौघस्वरूपमधुविप्रुषा ॥ ९-२५ ॥
मूलम् - ९-२५
शक्त्या नानाविधाकारमधुकोशनिभात्मना ।
निष्यन्दमानतत्त्वौघस्वरूपमधुविप्रुषा ॥ ९-२५ ॥
विश्वास-प्रस्तुतिः - ९-२६
कोटिकोटिसहस्रौघनियुतायुतरूपया ।
स्निग्धं क्वचिदिवात्यर्थं पुंसा क्वचिदिवास्थितम् ॥ ९-२६ ॥
मूलम् - ९-२६
कोटिकोटिसहस्रौघनियुतायुतरूपया ।
स्निग्धं क्वचिदिवात्यर्थं पुंसा क्वचिदिवास्थितम् ॥ ९-२६ ॥
विश्वास-प्रस्तुतिः - ९-२७
शुक्लरक्तासिताकारकर्मकल्पितरूपिणा ।
अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना ॥ ९-२७ ॥
मूलम् - ९-२७
शुक्लरक्तासिताकारकर्मकल्पितरूपिणा ।
अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना ॥ ९-२७ ॥
विश्वास-प्रस्तुतिः - ९-२८
नानाजीवविभेदेन नानाफलविधाजुषा ।
शुभाशुभोभयाकारवासनाजटिलात्मना ॥ ९-२८ ॥
मूलम् - ९-२८
नानाजीवविभेदेन नानाफलविधाजुषा ।
शुभाशुभोभयाकारवासनाजटिलात्मना ॥ ९-२८ ॥
विश्वास-प्रस्तुतिः - ९-२९
अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित् ।
निर्मलानन्दसम्बोधमहासत्तामयेन च ॥ ९-२९ ॥
मूलम् - ९-२९
अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित् ।
निर्मलानन्दसम्बोधमहासत्तामयेन च ॥ ९-२९ ॥
विश्वास-प्रस्तुतिः - ९-३०
नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः ।
साक्षात् पश्यद्भिरीशानं नारायणमनामयम् ॥ ९-३० ॥
मूलम् - ९-३०
नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः ।
साक्षात् पश्यद्भिरीशानं नारायणमनामयम् ॥ ९-३० ॥
विश्वास-प्रस्तुतिः - ९-३१
देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया ।
नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् ॥ ९-३१ ॥
मूलम् - ९-३१
देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया ।
नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् ॥ ९-३१ ॥
विश्वास-प्रस्तुतिः - ९-३२
आत्मभिः शोभितेनैवं वरेण नियताङ्कितम् ।
षाड्गुण्यविग्रहैर्व्यूहैः पुरुषैः पुष्करेक्षणैः ॥ ९-३२ ॥
मूलम् - ९-३२
आत्मभिः शोभितेनैवं वरेण नियताङ्कितम् ।
षाड्गुण्यविग्रहैर्व्यूहैः पुरुषैः पुष्करेक्षणैः ॥ ९-३२ ॥
विश्वास-प्रस्तुतिः - ९-३३
प्। ८५) आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः ।
इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् ॥ ९-३३ ॥
मूलम् - ९-३३
प्। ८५) आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः ।
इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् ॥ ९-३३ ॥
विश्वास-प्रस्तुतिः - ९-३४
चित्राम्बरधरां सम्यग्दधदात्मानमात्मना ।
सङ्कल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः ॥ ९-३४ ॥
मूलम् - ९-३४
चित्राम्बरधरां सम्यग्दधदात्मानमात्मना ।
सङ्कल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः ॥ ९-३४ ॥
विश्वास-प्रस्तुतिः - ९-३५
तदनन्तारमव्यक्तं महच्चक्रं सुदर्शनम् ।
भावितं स्मृतिमात्रेण भावयत्यखिला गतीः ॥ ९-३५ ॥
मूलम् - ९-३५
तदनन्तारमव्यक्तं महच्चक्रं सुदर्शनम् ।
भावितं स्मृतिमात्रेण भावयत्यखिला गतीः ॥ ९-३५ ॥
संहृतिचक्रम्
विश्वास-प्रस्तुतिः - ९-३६
यो जिहीर्षामयो नित्यः सङ्कल्पो वैष्णवः परः ।
अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ॥ ९-३६ ॥
मूलम् - ९-३६
यो जिहीर्षामयो नित्यः सङ्कल्पो वैष्णवः परः ।
अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ॥ ९-३६ ॥
विश्वास-प्रस्तुतिः - ९-३७
एक एव तु सङ्कल्पो रूपैर्नानोपगीयते ।
अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ॥ ९-३७ ॥
मूलम् - ९-३७
एक एव तु सङ्कल्पो रूपैर्नानोपगीयते ।
अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ॥ ९-३७ ॥
विश्वास-प्रस्तुतिः - ९-३८
अतरङ्गार्णवाकारमनभ्राम्बरसन्निभम् ।
एकं तत् परमं ब्रह्म षाड्गुण्यस्तिमितं महत् ॥ ९-३८ ॥
मूलम् - ९-३८
अतरङ्गार्णवाकारमनभ्राम्बरसन्निभम् ।
एकं तत् परमं ब्रह्म षाड्गुण्यस्तिमितं महत् ॥ ९-३८ ॥
विश्वास-प्रस्तुतिः - ९-३९
भावाभावमयी तस्य शक्तिरेकानपायिनी ।
तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः ॥ ९-३९ ॥
मूलम् - ९-३९
भावाभावमयी तस्य शक्तिरेकानपायिनी ।
तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः ॥ ९-३९ ॥
विश्वास-प्रस्तुतिः - ९-४०
तस्य सङ्कल्पसङ्कल्पो रूपव्याप्रियमाणता ।
स्तैमित्यस्थितिसङ्कल्पस्तिमितं तत् सुदर्शनम् ॥ ९-४० ॥
मूलम् - ९-४०
तस्य सङ्कल्पसङ्कल्पो रूपव्याप्रियमाणता ।
स्तैमित्यस्थितिसङ्कल्पस्तिमितं तत् सुदर्शनम् ॥ ९-४० ॥
प्। ८६) चलनचक्रम्
विश्वास-प्रस्तुतिः - ९-४१
प्रभवे चाप्यये वापि स्थितौ वापि महामुने ।
चलत्तापूर्वरूपं यः सङ्कल्पस्तत्र वर्तते ॥ ९-४१ ॥
मूलम् - ९-४१
प्रभवे चाप्यये वापि स्थितौ वापि महामुने ।
चलत्तापूर्वरूपं यः सङ्कल्पस्तत्र वर्तते ॥ ९-४१ ॥
चलनं नाम तच्चक्रं सुदर्शनमयं महत् ।
तस्य त्रैविध्यम्
भेदास्त्रयोऽस्य विज्ञेयास्तन्त्रविज्ञानपारगैः ॥ ९-४२ ॥
विश्वास-प्रस्तुतिः - ९-४३
महासृष्टिमयं तत्र समासव्यासलक्षणम् ।
नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा ॥ ९-४३ ॥
मूलम् - ९-४३
महासृष्टिमयं तत्र समासव्यासलक्षणम् ।
नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा ॥ ९-४३ ॥
विश्वास-प्रस्तुतिः - ९-४४
महासंहारचक्रं च समासव्यासलक्षणम् ।
तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा ॥ ९-४४ ॥
मूलम् - ९-४४
महासंहारचक्रं च समासव्यासलक्षणम् ।
तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा ॥ ९-४४ ॥
विश्वास-प्रस्तुतिः - ९-४५
स्थितिचक्रं तु यन्मध्ये समासव्यासलक्षणम् ।
तस्य वक्ष्यामि विस्तारं यत्प्रमाणतया स्थितम् ॥ ९-४५ ॥
मूलम् - ९-४५
स्थितिचक्रं तु यन्मध्ये समासव्यासलक्षणम् ।
तस्य वक्ष्यामि विस्तारं यत्प्रमाणतया स्थितम् ॥ ९-४५ ॥
विश्वास-प्रस्तुतिः - ९-४६
यथा ह्येको नटो भावैर्नानारूपैर्विभज्यते ।
तथा सङ्कल्प एवैकस्तैस्तैर्भेदैर्विभज्यते ॥ ९-४६ ॥
मूलम् - ९-४६
यथा ह्येको नटो भावैर्नानारूपैर्विभज्यते ।
तथा सङ्कल्प एवैकस्तैस्तैर्भेदैर्विभज्यते ॥ ९-४६ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥
आदितः श्लोकाः ५६६
अर्थात्मकप्रमाणनिरूपणं नाम दशमोऽध्यायः
नारदः -
विश्वास-प्रस्तुतिः - १०-१
भगवन् देवदेवेश भवानीजीवितेश्वर ।
लोकनाथ जगन्नाथ देवानामभयप्रद ॥ १०-१ ॥
मूलम् - १०-१
भगवन् देवदेवेश भवानीजीवितेश्वर ।
लोकनाथ जगन्नाथ देवानामभयप्रद ॥ १०-१ ॥
विश्वास-प्रस्तुतिः - १०-२
नमस्ते त्रिपुरघ्नाय तत्त्वविज्ञानसिन्धवे ।
दशाव्ययाय ते नित्यं षडङ्गाय नमो नमः ॥ १०-२ ॥
मूलम् - १०-२
नमस्ते त्रिपुरघ्नाय तत्त्वविज्ञानसिन्धवे ।
दशाव्ययाय ते नित्यं षडङ्गाय नमो नमः ॥ १०-२ ॥
विश्वास-प्रस्तुतिः - १०-३
यदेतदुदितं नित्यं जगत्कारणमव्ययम् ।
यच्चाधारतया प्रोक्तं सङ्कल्पाख्यं सुदर्शनम् ॥ १०-३ ॥
मूलम् - १०-३
यदेतदुदितं नित्यं जगत्कारणमव्ययम् ।
यच्चाधारतया प्रोक्तं सङ्कल्पाख्यं सुदर्शनम् ॥ १०-३ ॥
विश्वास-प्रस्तुतिः - १०-४
तदेतदखिलं देव विष्णुसङ्कल्पजृम्भितम् ।
समासव्यासरूपेण तत्त्वतो मेऽवधारितम् ॥ १०-४ ॥
मूलम् - १०-४
तदेतदखिलं देव विष्णुसङ्कल्पजृम्भितम् ।
समासव्यासरूपेण तत्त्वतो मेऽवधारितम् ॥ १०-४ ॥
विश्वास-प्रस्तुतिः - १०-५
इदानीं श्रोतुमिच्छामि विस्तरेणान्तकान्तक ।
किं तत् प्रमाणमित्युक्तं कीदृशं किंविधं च तत् ॥ १०-५ ॥
मूलम् - १०-५
इदानीं श्रोतुमिच्छामि विस्तरेणान्तकान्तक ।
किं तत् प्रमाणमित्युक्तं कीदृशं किंविधं च तत् ॥ १०-५ ॥
विश्वास-प्रस्तुतिः - १०-६
किमर्थं किम्मयं देव तन्मे विस्तरशो वद ।
वक्ता सर्वस्य गुह्यस्य त्वदन्यो नैव विद्यते ॥ १०-६ ॥
मूलम् - १०-६
किमर्थं किम्मयं देव तन्मे विस्तरशो वद ।
वक्ता सर्वस्य गुह्यस्य त्वदन्यो नैव विद्यते ॥ १०-६ ॥
प्। ८८) प्रमाणनिरूपणप्रतिज्ञा
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - १०-७
शृणु नारद तत्त्वेन प्रमाणस्थितिमव्ययाम् ।
विश्वं यत्रैव विश्रान्तं सदेवासुरमानुषम् ॥ १०-७ ॥
मूलम् - १०-७
शृणु नारद तत्त्वेन प्रमाणस्थितिमव्ययाम् ।
विश्वं यत्रैव विश्रान्तं सदेवासुरमानुषम् ॥ १०-७ ॥
प्रमाणस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - १०-८
मध्यमो यः स सङ्कल्पो विष्णोः सृष्टवतो जगत् ।
शाश्वते तिष्ठति व्यक्तं जगन्मार्ग इतीदृशः ॥ १०-८ ॥
मूलम् - १०-८
मध्यमो यः स सङ्कल्पो विष्णोः सृष्टवतो जगत् ।
शाश्वते तिष्ठति व्यक्तं जगन्मार्ग इतीदृशः ॥ १०-८ ॥
तत् प्रमाणमिति प्रोक्तं स्थितिचक्रं महामुने ।
प्रमाणविभागः
समष्टिव्यष्टिभावेन तद् द्विरूपं विभाव्यते ॥ १०-९ ॥
समष्टिप्रमाणस्वरूपम्
विश्वास-प्रस्तुतिः - १०-१०
ऐकरूप्येण सङ्कल्पो यः सर्वविषये स्थितः ।
महास्थितिमयं चक्रं तदेतत् कीर्तितं मुने ॥ १०-१० ॥
मूलम् - १०-१०
ऐकरूप्येण सङ्कल्पो यः सर्वविषये स्थितः ।
महास्थितिमयं चक्रं तदेतत् कीर्तितं मुने ॥ १०-१० ॥
व्यष्टिप्रमाणस्वरूपम्
विश्वास-प्रस्तुतिः - १०-११
तत्त्वेयत्ता समस्तात्मन् यस्मिन्नायततेऽखिला ।
प्रातिस्विकी व्यवस्था या यस्य सत्त्वस्य यादृशी ॥ १०-११ ॥
मूलम् - १०-११
तत्त्वेयत्ता समस्तात्मन् यस्मिन्नायततेऽखिला ।
प्रातिस्विकी व्यवस्था या यस्य सत्त्वस्य यादृशी ॥ १०-११ ॥
विश्वास-प्रस्तुतिः - १०-१२
प्। ८९) परिणामक्रियासाध्यस्थानरूपादिगोचरा ।
तद्वद्व्यष्टिमये चक्रे प्रमाणे सा व्यवस्थिता ॥ १०-१२ ॥
मूलम् - १०-१२
प्। ८९) परिणामक्रियासाध्यस्थानरूपादिगोचरा ।
तद्वद्व्यष्टिमये चक्रे प्रमाणे सा व्यवस्थिता ॥ १०-१२ ॥
विश्वास-प्रस्तुतिः - १०-१३
एकचेष्टादिको योर्थो यश्च सृष्ट्यादिलक्षणः ।
शास्त्रशास्त्रार्थतत्साध्यव्यवस्थात्मा च यो मुने ॥ १०-१३ ॥
मूलम् - १०-१३
एकचेष्टादिको योर्थो यश्च सृष्ट्यादिलक्षणः ।
शास्त्रशास्त्रार्थतत्साध्यव्यवस्थात्मा च यो मुने ॥ १०-१३ ॥
वासुदेवादिके व्यूहे स्वस्वसङ्कल्पसम्भवः ॥ १०-१४ ॥
प्रमाणं येन तत् सर्वमियत्तां प्रतिपद्यते ।
तस्यैव विस्तरेण प्रतिपादनम्
यच्च तत् परमं व्योम दिव्यसम्भोगलक्षणम् ॥ १०-१५ ॥
विश्वास-प्रस्तुतिः - १०-१६
स्थितिप्रमाणरूपेण तत्सङ्कल्पेन वै हरेः ।
अनियत्तमसङ्कोचमनन्तं व्यवतिष्ठते ॥ १०-१६ ॥
मूलम् - १०-१६
स्थितिप्रमाणरूपेण तत्सङ्कल्पेन वै हरेः ।
अनियत्तमसङ्कोचमनन्तं व्यवतिष्ठते ॥ १०-१६ ॥
विश्वास-प्रस्तुतिः - १०-१७
अचेतनानां तत्त्वानां या सा योनिः परा मुने ।
कालकाल्यमयी शक्तिरियत्ता तत्त्रिधा परा ॥ १०-१७ ॥
मूलम् - १०-१७
अचेतनानां तत्त्वानां या सा योनिः परा मुने ।
कालकाल्यमयी शक्तिरियत्ता तत्त्रिधा परा ॥ १०-१७ ॥
विश्वास-प्रस्तुतिः - १०-१८
स्वरूपकार्यभावादौ सा प्रमाणनिबन्धना ।
नियतिः काल इत्येते द्वे कालस्य भिदे मते ॥ १०-१८ ॥
मूलम् - १०-१८
स्वरूपकार्यभावादौ सा प्रमाणनिबन्धना ।
नियतिः काल इत्येते द्वे कालस्य भिदे मते ॥ १०-१८ ॥
विश्वास-प्रस्तुतिः - १०-१९
शुद्धाशुद्धमये मध्ये यः पुमान् कूटवत् स्थितः ।
नानाजीवमहायोनिस्तस्य या स्थितिरव्यया ॥ १०-१९ ॥
मूलम् - १०-१९
शुद्धाशुद्धमये मध्ये यः पुमान् कूटवत् स्थितः ।
नानाजीवमहायोनिस्तस्य या स्थितिरव्यया ॥ १०-१९ ॥
विश्वास-प्रस्तुतिः - १०-२०
प्। ९०) इयत्ता या च सा चक्रे प्रमाणे व्यवतिष्ठते ।
इयत्ताया भिदा या च कलाकाष्ठादिगोचरा ॥ १०-२० ॥
मूलम् - १०-२०
प्। ९०) इयत्ता या च सा चक्रे प्रमाणे व्यवतिष्ठते ।
इयत्ताया भिदा या च कलाकाष्ठादिगोचरा ॥ १०-२० ॥
विश्वास-प्रस्तुतिः - १०-२१
सा प्रमाणमये चक्रे सर्वाप्यायतते मुने ।
सत्त्वादीनां स्वरूपं यद्या प्रवृत्तिः फलं च यत् ॥ १०-२१ ॥
मूलम् - १०-२१
सा प्रमाणमये चक्रे सर्वाप्यायतते मुने ।
सत्त्वादीनां स्वरूपं यद्या प्रवृत्तिः फलं च यत् ॥ १०-२१ ॥
विश्वास-प्रस्तुतिः - १०-२२
इयत्ता तत्र सर्वत्र सा प्रमाणसुदर्शनात् ।
यद्रूपत्रितयं बुद्धेर्धर्माद्या या च विक्रिया ॥ १०-२२ ॥
मूलम् - १०-२२
इयत्ता तत्र सर्वत्र सा प्रमाणसुदर्शनात् ।
यद्रूपत्रितयं बुद्धेर्धर्माद्या या च विक्रिया ॥ १०-२२ ॥
विश्वास-प्रस्तुतिः - १०-२३
व्यापारस्पन्दनिर्णीतिर्निमेषात्मा च योऽखिलः ।
योऽत्रेयत्तामयो भावः स प्रमाणसुदर्शनात् ॥ १०-२३ ॥
मूलम् - १०-२३
व्यापारस्पन्दनिर्णीतिर्निमेषात्मा च योऽखिलः ।
योऽत्रेयत्तामयो भावः स प्रमाणसुदर्शनात् ॥ १०-२३ ॥
विश्वास-प्रस्तुतिः - १०-२४
अभिमानो द्विधा योऽपि संरम्भो योऽप्यहङ्कृतेः ।
यश्च कामादिको भावस्तत्रेयत्तास्थितिश्च या ॥ १०-२४ ॥
मूलम् - १०-२४
अभिमानो द्विधा योऽपि संरम्भो योऽप्यहङ्कृतेः ।
यश्च कामादिको भावस्तत्रेयत्तास्थितिश्च या ॥ १०-२४ ॥
विश्वास-प्रस्तुतिः - १०-२५
सा प्रमाणमये चक्रे सङ्कल्पेऽस्मिन् सुदर्शनेन ।
पञ्चानां पञ्चकं यच्च सङ्कल्पानामवस्थितम् ॥ १०-२५ ॥
मूलम् - १०-२५
सा प्रमाणमये चक्रे सङ्कल्पेऽस्मिन् सुदर्शनेन ।
पञ्चानां पञ्चकं यच्च सङ्कल्पानामवस्थितम् ॥ १०-२५ ॥
विश्वास-प्रस्तुतिः - १०-२६
तादृशं च विकल्पानां तदेतद् द्वितयं मुने ।
इयत्ता या स्थिता व्याप्य सा प्रमाणसुदर्शनात् ॥ १०-२६ ॥
मूलम् - १०-२६
तादृशं च विकल्पानां तदेतद् द्वितयं मुने ।
इयत्ता या स्थिता व्याप्य सा प्रमाणसुदर्शनात् ॥ १०-२६ ॥
विश्वास-प्रस्तुतिः - १०-२७
तानवं पाटवं यच्च यच्चालोचनपञ्चकम् ।
शान्तघोरादिकं रूपं यच्च धीन्द्रियपञ्चके ॥ १०-२७ ॥
मूलम् - १०-२७
तानवं पाटवं यच्च यच्चालोचनपञ्चकम् ।
शान्तघोरादिकं रूपं यच्च धीन्द्रियपञ्चके ॥ १०-२७ ॥
विश्वास-प्रस्तुतिः - १०-२८
वचनादानविक्रान्तिमोदोत्सर्गमयं च यत् ।
शान्तघोरादिकं रूपं यत्कर्मेन्द्रियपञ्चके ॥ १०-२८ ॥
मूलम् - १०-२८
वचनादानविक्रान्तिमोदोत्सर्गमयं च यत् ।
शान्तघोरादिकं रूपं यत्कर्मेन्द्रियपञ्चके ॥ १०-२८ ॥
विश्वास-प्रस्तुतिः - १०-२९
प्। ९१) तत्रेयत्तामयं रूपम् यच्च स्थितिमयं वपुः ।
प्रमाणे वैष्णवे सर्वं तत्सङ्कल्पसुदर्शने ॥ १०-२९ ॥
मूलम् - १०-२९
प्। ९१) तत्रेयत्तामयं रूपम् यच्च स्थितिमयं वपुः ।
प्रमाणे वैष्णवे सर्वं तत्सङ्कल्पसुदर्शने ॥ १०-२९ ॥
विश्वास-प्रस्तुतिः - १०-३०
व्यूहावकाशलघुताचेष्टाप्रेरणशोषणम् ।
व्यूहावकाशव्यक्तार्द्रस्नेहक्षुद्रत्वमप्युत ॥ १०-३० ॥
मूलम् - १०-३०
व्यूहावकाशलघुताचेष्टाप्रेरणशोषणम् ।
व्यूहावकाशव्यक्तार्द्रस्नेहक्षुद्रत्वमप्युत ॥ १०-३० ॥
विश्वास-प्रस्तुतिः - १०-३१
स्थैर्यपार्थिवकाठिन्यमित्येतद्भौतिकं वपुः ।
एकद्वित्रिचतुःपञ्चगुणव्यूहमयी स्थितिः ॥ १०-३१ ॥
मूलम् - १०-३१
स्थैर्यपार्थिवकाठिन्यमित्येतद्भौतिकं वपुः ।
एकद्वित्रिचतुःपञ्चगुणव्यूहमयी स्थितिः ॥ १०-३१ ॥
विश्वास-प्रस्तुतिः - १०-३२
यैस्तद्व्याप्य स्थितेयत्ता सा प्रमाणसुदर्शनात् ।
तत्त्वे तत्त्वे च मर्यादा या या शश्वदवस्थिता ॥ १०-३२ ॥
मूलम् - १०-३२
यैस्तद्व्याप्य स्थितेयत्ता सा प्रमाणसुदर्शनात् ।
तत्त्वे तत्त्वे च मर्यादा या या शश्वदवस्थिता ॥ १०-३२ ॥
विश्वास-प्रस्तुतिः - १०-३३
सा सा प्रमाणचक्रस्य सङ्कल्पस्य हरेर्गतिः ।
इतीयं स्थितिमर्यादेयत्ता चक्रे प्रकीर्तिता ॥ १०-३३ ॥
मूलम् - १०-३३
सा सा प्रमाणचक्रस्य सङ्कल्पस्य हरेर्गतिः ।
इतीयं स्थितिमर्यादेयत्ता चक्रे प्रकीर्तिता ॥ १०-३३ ॥
विश्वास-प्रस्तुतिः - १०-३४
विष्णुसङ्कल्पसम्भूतां स्थितिमन्यां मुने शृणु ।
प्रतिबन्धनिरासेन या स्वभावगतिर्मुने ॥ १०-३४ ॥
मूलम् - १०-३४
विष्णुसङ्कल्पसम्भूतां स्थितिमन्यां मुने शृणु ।
प्रतिबन्धनिरासेन या स्वभावगतिर्मुने ॥ १०-३४ ॥
विश्वास-प्रस्तुतिः - १०-३५
तत्त्वानां तात्त्विकानां च सा स्थितिः कथ्यते मुने ।
गुणान्तरानुग्रहेण यः सत्त्वोन्मेष ऊर्जितः ॥ १०-३५ ॥
मूलम् - १०-३५
तत्त्वानां तात्त्विकानां च सा स्थितिः कथ्यते मुने ।
गुणान्तरानुग्रहेण यः सत्त्वोन्मेष ऊर्जितः ॥ १०-३५ ॥
विश्वास-प्रस्तुतिः - १०-३६
धर्मज्ञानादिरूपोऽसौ सुदर्शनसमीरितः ।
परिमाणविशेषः स बोध्यस्त्रैलोक्यधारकः ॥ १०-३६ ॥
मूलम् - १०-३६
धर्मज्ञानादिरूपोऽसौ सुदर्शनसमीरितः ।
परिमाणविशेषः स बोध्यस्त्रैलोक्यधारकः ॥ १०-३६ ॥
विश्वास-प्रस्तुतिः - १०-३७
शनैराचर्यमाणोऽसौ सत्त्वोज्ज्वलितबुद्धिभिः ।
बिभर्ति रोदसी शश्वदन्नवृष्ट्यादिदानतः ॥ १०-३७ ॥
मूलम् - १०-३७
शनैराचर्यमाणोऽसौ सत्त्वोज्ज्वलितबुद्धिभिः ।
बिभर्ति रोदसी शश्वदन्नवृष्ट्यादिदानतः ॥ १०-३७ ॥
विश्वास-प्रस्तुतिः - १०-३८
प्। ९२) गुणान्तरानुग्रहेण तमसो यः स उद्यमः ।
अधर्मादिस्वरूपोऽसौ विष्णुसङ्कल्पचोदितः ॥ १०-३८ ॥
मूलम् - १०-३८
प्। ९२) गुणान्तरानुग्रहेण तमसो यः स उद्यमः ।
अधर्मादिस्वरूपोऽसौ विष्णुसङ्कल्पचोदितः ॥ १०-३८ ॥
विश्वास-प्रस्तुतिः - १०-३९
शनैराचर्यमाणोऽसौ तमोमलिनबुद्धिभिः ।
अन्नवृष्ट्यादिनाशेन विनाशयति रोदसी ॥ १०-३९ ॥
मूलम् - १०-३९
शनैराचर्यमाणोऽसौ तमोमलिनबुद्धिभिः ।
अन्नवृष्ट्यादिनाशेन विनाशयति रोदसी ॥ १०-३९ ॥
सत्त्वस्योपद्रवः शश्वदतोऽन्यस्माद्गुणद्वयात् ।
शस्त्रव्यूहप्रतिपादनम्
धर्मसंस्थापनायाथ निरसिष्यन्नधार्मिकान् ॥ १०-४० ॥
विश्वास-प्रस्तुतिः - १०-४१
जनार्दनत्वमीशानो यदा विष्णुः प्रपद्यते ।
तदा देवस्य सङ्कल्पः सुदर्शनसमाह्वयः ॥ १०-४१ ॥
मूलम् - १०-४१
जनार्दनत्वमीशानो यदा विष्णुः प्रपद्यते ।
तदा देवस्य सङ्कल्पः सुदर्शनसमाह्वयः ॥ १०-४१ ॥
विश्वास-प्रस्तुतिः - १०-४२
आयुधादिस्वरूपेणाकारत्वं प्रतिपद्यते ।
चक्रलाङ्गलसौनन्दशङ्खशार्ङ्गशरत्मना ॥ १०-४२ ॥
मूलम् - १०-४२
आयुधादिस्वरूपेणाकारत्वं प्रतिपद्यते ।
चक्रलाङ्गलसौनन्दशङ्खशार्ङ्गशरत्मना ॥ १०-४२ ॥
विश्वास-प्रस्तुतिः - १०-४३
खड्गखेटकरूपेण पाशाङ्कुशपरश्वधैः ।
दण्डकुन्तस्वरूपेण दम्भोलिमुसलात्मना ॥ १०-४३ ॥
मूलम् - १०-४३
खड्गखेटकरूपेण पाशाङ्कुशपरश्वधैः ।
दण्डकुन्तस्वरूपेण दम्भोलिमुसलात्मना ॥ १०-४३ ॥
विश्वास-प्रस्तुतिः - १०-४४
शतवक्राग्निरूपेण कुन्तशक्तिमयात्मना ।
तथा शूलस्वरूपेण खर्वाङ्गाद्यायुधात्मना ॥ १०-४४ ॥
मूलम् - १०-४४
शतवक्राग्निरूपेण कुन्तशक्तिमयात्मना ।
तथा शूलस्वरूपेण खर्वाङ्गाद्यायुधात्मना ॥ १०-४४ ॥
विश्वास-प्रस्तुतिः - १०-४५
एवं नानाविधै रूपैस्तत्सङ्कल्पविकल्पितैः ।
उदेति जगतो वृद्ध्यै नारायणकराश्रयी ॥ १०-४५ ॥
मूलम् - १०-४५
एवं नानाविधै रूपैस्तत्सङ्कल्पविकल्पितैः ।
उदेति जगतो वृद्ध्यै नारायणकराश्रयी ॥ १०-४५ ॥
विश्वास-प्रस्तुतिः - १०-४६
इति शस्त्रमयो व्यूहो लेशतस्ते निदर्शितः ।
अपरोऽस्त्रमयो व्यूहः सौदर्शन उदीर्यते ॥ १०-४६ ॥
मूलम् - १०-४६
इति शस्त्रमयो व्यूहो लेशतस्ते निदर्शितः ।
अपरोऽस्त्रमयो व्यूहः सौदर्शन उदीर्यते ॥ १०-४६ ॥
प्। ९३) अस्त्रव्यूहप्रतिपादनम्
विश्वास-प्रस्तुतिः - १०-४७
रूपमास्थाय दिव्यं तदङ्गप्रत्यङ्गभूषणम् ।
ब्रह्मक्षत्रादिभावेन मुखबाहूरुपादतः ॥ १०-४७ ॥
मूलम् - १०-४७
रूपमास्थाय दिव्यं तदङ्गप्रत्यङ्गभूषणम् ।
ब्रह्मक्षत्रादिभावेन मुखबाहूरुपादतः ॥ १०-४७ ॥
विश्वास-प्रस्तुतिः - १०-४८
ब्रह्मास्त्रादिमयं व्यूहं प्रवर्तकनिवर्तकम् ।
सृजत्यशेषरक्षार्थं षष्टिद्वितयसम्मतम् ॥ १०-४८ ॥
मूलम् - १०-४८
ब्रह्मास्त्रादिमयं व्यूहं प्रवर्तकनिवर्तकम् ।
सृजत्यशेषरक्षार्थं षष्टिद्वितयसम्मतम् ॥ १०-४८ ॥
विश्वास-प्रस्तुतिः - १०-४९
प्रजापतिपितृब्रह्मदेवेभ्यश्च तथा तथा ।
दिव्यो नानाविधाकारः समुदेत्यस्त्ररूपवान् ॥ १०-४९ ॥
मूलम् - १०-४९
प्रजापतिपितृब्रह्मदेवेभ्यश्च तथा तथा ।
दिव्यो नानाविधाकारः समुदेत्यस्त्ररूपवान् ॥ १०-४९ ॥
विश्वास-प्रस्तुतिः - १०-५०
ब्रह्मदेवर्षिराजर्षिष्वपि मन्त्रमयात्मसु ।
अनुव्याहारशापादिरूपेणैवावतिष्ठते ॥ १०-५० ॥
मूलम् - १०-५०
ब्रह्मदेवर्षिराजर्षिष्वपि मन्त्रमयात्मसु ।
अनुव्याहारशापादिरूपेणैवावतिष्ठते ॥ १०-५० ॥
विश्वास-प्रस्तुतिः - १०-५१
न तदस्ति पृथिव्यां वा दिवि वा मुनिसत्तम ।
निग्रहेऽनुग्रहे वापि यत्रायं नैव साधनम् ॥ १०-५१ ॥
मूलम् - १०-५१
न तदस्ति पृथिव्यां वा दिवि वा मुनिसत्तम ।
निग्रहेऽनुग्रहे वापि यत्रायं नैव साधनम् ॥ १०-५१ ॥
विश्वास-प्रस्तुतिः - १०-५२
प्रमाणव्यूह एतावानर्थाकारो निदर्शितः ।
सुदर्शनस्य देवस्य शब्दाकारमथो शृणु ॥ १०-५२ ॥
मूलम् - १०-५२
प्रमाणव्यूह एतावानर्थाकारो निदर्शितः ।
सुदर्शनस्य देवस्य शब्दाकारमथो शृणु ॥ १०-५२ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
अर्थात्मकप्रमाणव्यूहनिरूपणं नाम
दशमोऽध्यायाः ॥ १० ॥
आदितः श्लोकाः ६१८
शब्दात्मकप्रमाणव्यूहनिरूपणं नाम
एकादशोऽध्यायः
नारदः -
विश्वास-प्रस्तुतिः - ११-१
नमः समस्तगीर्वाणसुखसौभाग्यदायिने ।
शङ्कराय गिरीशाय गौरीदयित ते नमः ॥ ११-१ ॥
मूलम् - ११-१
नमः समस्तगीर्वाणसुखसौभाग्यदायिने ।
शङ्कराय गिरीशाय गौरीदयित ते नमः ॥ ११-१ ॥
शब्दात्मकप्रमाणप्रश्नः
विश्वास-प्रस्तुतिः - ११-२
श्रुतः प्रमाणरूपोऽयं व्यूहार्थो यन्मयाखिलः ।
शब्दाकारो य उद्दिष्टस्तं मे वद सुरेश्वर ॥ ११-२ ॥
मूलम् - ११-२
श्रुतः प्रमाणरूपोऽयं व्यूहार्थो यन्मयाखिलः ।
शब्दाकारो य उद्दिष्टस्तं मे वद सुरेश्वर ॥ ११-२ ॥
तत्प्रतिविवक्षयोपोद्धातः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ११-३
आदिसर्गे पुरावृत्ते नानाभावविभूषिते ।
आसीच्छक्तिमतो विष्णोरियं चिन्ता सुखोदया ॥ ११-३ ॥
मूलम् - ११-३
आदिसर्गे पुरावृत्ते नानाभावविभूषिते ।
आसीच्छक्तिमतो विष्णोरियं चिन्ता सुखोदया ॥ ११-३ ॥
आदिसर्गे भगवतश्चिन्ताप्रकारः
विश्वास-प्रस्तुतिः - ११-४
विपुलेयं कृता सृष्टिर्मया सत्त्वगुणोत्तरा ।
प्रत्यक्षसर्वधर्मार्था निराबाधा सुखोत्तरा ॥ ११-४ ॥
मूलम् - ११-४
विपुलेयं कृता सृष्टिर्मया सत्त्वगुणोत्तरा ।
प्रत्यक्षसर्वधर्मार्था निराबाधा सुखोत्तरा ॥ ११-४ ॥
प्रजेयमभिनिर्वृत्ता देवर्षिब्रह्मसङ्कुला ।
सत्त्वविवृद्ध्या परमपुरुषप्राप्तिपूर्वकं स्वरूपाविर्भावः
प्। ९५) तत्त्वज्ञानसमायोगात् सद्धर्मकरणादपि ॥ ११-५ ॥
अचिरेणैव मां प्राप्य स्वीयं भावं भजिष्यते ।
रजस्तमोविवृद्ध्या सत्त्वह्रासः
रजस्तमोगुणोद्रेकः कालेनैव भविष्यति ॥ ११-६ ॥
तदुन्मेषवशेनैव सत्त्वमप्युपचोष्यते ।
तदा दैत्याद्याविर्भावः
तदा प्रादुर्भविष्यन्ति दैत्यदानवराक्षसाः ॥ ११-७ ॥
तैर्वैदिकमर्यादाविलोपनम्
तैरियं सात्त्विकी दिव्या मर्यादा चालयिष्यते ।
ज्ञानप्रमोषात् धर्मतिरोधानम्
रजस्तमोगुणोन्मेषात् सम्यग्ज्ञाने विनाशिते ॥ ११-८ ॥
ज्ञानहेतुः स धर्मोऽपि तिरोधानं गमिष्यति ।
ततः प्रजाक्षोभः
ततश्चेयमनाधारा प्रजाशुद्धा विनङ्क्ष्यति ॥ ११-९ ॥
तदा भगवदवताराणां लब्धावकाशता
तत्र रूपैरनेकैर्मे कृत्यं शश्वद्भविष्यति ।
प्। ९६) तेषूपकरणापेक्षा नानाकारा भविष्यति ॥ ११-१० ॥
धर्मस्थापननिश्चयः
विश्वास-प्रस्तुतिः - ११-११
आविश्याविश्य भूतानि स्वेन रूपेण मायया ।
तैस्तैः साधनसम्भेदैर्निरस्य सुकृतद्विषः ॥ ११-११ ॥
मूलम् - ११-११
आविश्याविश्य भूतानि स्वेन रूपेण मायया ।
तैस्तैः साधनसम्भेदैर्निरस्य सुकृतद्विषः ॥ ११-११ ॥
सुकरा धर्ममर्यादा तत्र तत्र भविष्यति ।
अधर्मनिराससाधनद्वैविध्यम्
साधनं च द्विधा कार्यं धर्मद्वेषिनिराकृतौ ॥ ११-१२ ॥
शस्त्रास्त्रव्यूहरूपेण शास्त्ररूपेण चैव हि ।
भगवत्सङ्कल्पात् तदुभयोत्पत्तिः
इत्युक्त्वार्थत्वरूपं हि शस्त्रास्त्रौघसमाकुलम् ॥ ११-१३ ॥
विश्वास-प्रस्तुतिः - ११-१४
व्यूहं ससर्ज सङ्कल्प्य स्वेन सङ्कल्पतेजसा ।
स च सौदर्शनो व्यूहो मर्यादाधारणक्षमः ॥ ११-१४ ॥
मूलम् - ११-१४
व्यूहं ससर्ज सङ्कल्प्य स्वेन सङ्कल्पतेजसा ।
स च सौदर्शनो व्यूहो मर्यादाधारणक्षमः ॥ ११-१४ ॥
विश्वास-प्रस्तुतिः - ११-१५
प्रमाणरूप उद्दिष्टो वक्ष्यते च तथा तथा ।
प्रमाणरूपशास्त्रार्थः सङ्कल्पो वैष्णवो हि यः ॥ ११-१५ ॥
मूलम् - ११-१५
प्रमाणरूप उद्दिष्टो वक्ष्यते च तथा तथा ।
प्रमाणरूपशास्त्रार्थः सङ्कल्पो वैष्णवो हि यः ॥ ११-१५ ॥
उदितो ब्रह्मणस्तस्माद्यथा तदवधारय ।
आदिशास्त्रस्वरूपवर्णनम्
सङ्कल्पमयमेवैकं सकलान्तस्तमोनुदम् ॥ ११-१६ ॥
विश्वास-प्रस्तुतिः - ११-१७
प्। ९७) निर्घातशब्दवद्व्योम्नः शास्त्रमेकमभूत् तदा ।
वर्णार्थैः सम्भृतैर्वर्नैश्चिदानन्दमहोर्मिभिः ॥ ११-१७ ॥
मूलम् - ११-१७
प्। ९७) निर्घातशब्दवद्व्योम्नः शास्त्रमेकमभूत् तदा ।
वर्णार्थैः सम्भृतैर्वर्नैश्चिदानन्दमहोर्मिभिः ॥ ११-१७ ॥
विश्वास-प्रस्तुतिः - ११-१८
विष्णुशक्तिसमुद्रोत्थैर्मणिभिमाक्तिकैरिव ।
प्रोतं सौदर्शनं रूपं विष्णोः सङ्कल्पकल्पितम् ॥ ११-१८ ॥
मूलम् - ११-१८
विष्णुशक्तिसमुद्रोत्थैर्मणिभिमाक्तिकैरिव ।
प्रोतं सौदर्शनं रूपं विष्णोः सङ्कल्पकल्पितम् ॥ ११-१८ ॥
विश्वास-प्रस्तुतिः - ११-१९
तद्विज्ञानमयं शास्त्रं सद्धर्मप्रतिपादकम् ।
नियुताध्यायि यत् प्रोक्तं कामपालेन शाश्वतम् ॥ ११-१९ ॥
मूलम् - ११-१९
तद्विज्ञानमयं शास्त्रं सद्धर्मप्रतिपादकम् ।
नियुताध्यायि यत् प्रोक्तं कामपालेन शाश्वतम् ॥ ११-१९ ॥
तस्य सर्वशास्त्रार्थगर्भितत्वम्
विश्वास-प्रस्तुतिः - ११-२०
पुरुषार्थैश्चतुर्भिस्तदन्वितं हेतुसङ्कुलम् ।
ऋग्यजुःसामभिर्जुष्टमङ्गिरोभिरथर्वभिः ॥ ११-२० ॥
मूलम् - ११-२०
पुरुषार्थैश्चतुर्भिस्तदन्वितं हेतुसङ्कुलम् ।
ऋग्यजुःसामभिर्जुष्टमङ्गिरोभिरथर्वभिः ॥ ११-२० ॥
विश्वास-प्रस्तुतिः - ११-२१
पदवाक्यप्रमाणार्थैर्विकल्पैर्बहुभिश्चितम् ।
अलङ्कृतं शुभैस्तैस्तैः समयैर्दिव्यमानुषैः ॥ ११-२१ ॥
मूलम् - ११-२१
पदवाक्यप्रमाणार्थैर्विकल्पैर्बहुभिश्चितम् ।
अलङ्कृतं शुभैस्तैस्तैः समयैर्दिव्यमानुषैः ॥ ११-२१ ॥
विश्वास-प्रस्तुतिः - ११-२२
तस्तैर्विकल्पितैः कल्पैश्छन्दोभिर्विविधैर्वृतम् ।
कालोपग्रहसङ्ख्याभिः प्रकृतिप्रत्ययैः स्वरैः ॥ ११-२२ ॥
मूलम् - ११-२२
तस्तैर्विकल्पितैः कल्पैश्छन्दोभिर्विविधैर्वृतम् ।
कालोपग्रहसङ्ख्याभिः प्रकृतिप्रत्ययैः स्वरैः ॥ ११-२२ ॥
विश्वास-प्रस्तुतिः - ११-२३
विभक्तिकारकैर्लिङ्गैः स्वैरैः प्रकृतिसन्धिभिः ।
सञ्ज्ञाभिः साधिकाराभिर्भूषितं परिभाषया ॥ ११-२३ ॥
मूलम् - ११-२३
विभक्तिकारकैर्लिङ्गैः स्वैरैः प्रकृतिसन्धिभिः ।
सञ्ज्ञाभिः साधिकाराभिर्भूषितं परिभाषया ॥ ११-२३ ॥
विश्वास-प्रस्तुतिः - ११-२४
आदेशैरागमैर्लोपैर्विकारैश्चाप्युपाघिभिः ।
वृत्तिभिर्विविधाभिश्च वाक्यैरुपपदैरपि ॥ ११-२४ ॥
मूलम् - ११-२४
आदेशैरागमैर्लोपैर्विकारैश्चाप्युपाघिभिः ।
वृत्तिभिर्विविधाभिश्च वाक्यैरुपपदैरपि ॥ ११-२४ ॥
विश्वास-प्रस्तुतिः - ११-२५
प्। ९८) अव्ययैरुपसर्गैश्च नामाख्यातनिपातकैः ।
मात्रावृत्तिस्वरबलैरभिनिष्टानसामभिः ॥ ११-२५ ॥
मूलम् - ११-२५
प्। ९८) अव्ययैरुपसर्गैश्च नामाख्यातनिपातकैः ।
मात्रावृत्तिस्वरबलैरभिनिष्टानसामभिः ॥ ११-२५ ॥
विश्वास-प्रस्तुतिः - ११-२६
यमरङ्गविभागैश्च भूषितं पदभङ्गिभिः ।
वर्णागमविकल्पैश्च तथा वर्णविपर्ययैः ॥ ११-२६ ॥
मूलम् - ११-२६
यमरङ्गविभागैश्च भूषितं पदभङ्गिभिः ।
वर्णागमविकल्पैश्च तथा वर्णविपर्ययैः ॥ ११-२६ ॥
विश्वास-प्रस्तुतिः - ११-२७
कल्पनाभिश्च लघ्वीभिर्विकृतेः प्रकृतेरपि ।
निरुक्तकल्पैर्विविधैर्नानानिगमनैरपि ॥ ११-२७ ॥
मूलम् - ११-२७
कल्पनाभिश्च लघ्वीभिर्विकृतेः प्रकृतेरपि ।
निरुक्तकल्पैर्विविधैर्नानानिगमनैरपि ॥ ११-२७ ॥
विश्वास-प्रस्तुतिः - ११-२८
ग्रहनक्षत्रराशिस्थैर्विकल्पैर्गणनोत्थितैः ।
होरास्कन्धविकल्पैश्च विधानैः फलकल्पितैः ॥ ११-२८ ॥
मूलम् - ११-२८
ग्रहनक्षत्रराशिस्थैर्विकल्पैर्गणनोत्थितैः ।
होरास्कन्धविकल्पैश्च विधानैः फलकल्पितैः ॥ ११-२८ ॥
विश्वास-प्रस्तुतिः - ११-२९
विध्यर्थवादमन्त्रोत्थैर्विचारैः कर्मकल्पनैः ।
अङ्गयुक्तिक्रमोहैश्च तन्त्रवापातिदेशनैः ॥ ११-२९ ॥
मूलम् - ११-२९
विध्यर्थवादमन्त्रोत्थैर्विचारैः कर्मकल्पनैः ।
अङ्गयुक्तिक्रमोहैश्च तन्त्रवापातिदेशनैः ॥ ११-२९ ॥
विश्वास-प्रस्तुतिः - ११-३०
अधिकारैरनेकैश्च विचारैर्वाक्यगोचरैः ।
प्रमाणकल्पितैर्न्यायैर्निग्रहच्छलजातिभिः ॥ ११-३० ॥
मूलम् - ११-३०
अधिकारैरनेकैश्च विचारैर्वाक्यगोचरैः ।
प्रमाणकल्पितैर्न्यायैर्निग्रहच्छलजातिभिः ॥ ११-३० ॥
विश्वास-प्रस्तुतिः - ११-३१
द्रव्यकर्मविकल्पैश्च गुणसामान्यकल्पनैः ।
चातुर्होत्रविकल्पैश्च चातुर्वैद्यविजृम्भितैः ॥ ११-३१ ॥
मूलम् - ११-३१
द्रव्यकर्मविकल्पैश्च गुणसामान्यकल्पनैः ।
चातुर्होत्रविकल्पैश्च चातुर्वैद्यविजृम्भितैः ॥ ११-३१ ॥
विश्वास-प्रस्तुतिः - ११-३२
चातुराश्रम्यकल्पैश्च चातुर्वर्ण्यविकल्पितैः ।
संस्कारकल्पैर्विविधैर्नित्यकाम्यक्रियाक्रमैः ॥ ११-३२ ॥
मूलम् - ११-३२
चातुराश्रम्यकल्पैश्च चातुर्वर्ण्यविकल्पितैः ।
संस्कारकल्पैर्विविधैर्नित्यकाम्यक्रियाक्रमैः ॥ ११-३२ ॥
विश्वास-प्रस्तुतिः - ११-३३
इतिहासपुराणाभ्यां विविधाभ्यां समन्वितम् ।
विविधैश्च प्रसङ्ख्यानैः स्वप्रकृत्यादिकल्पितैः ॥ ११-३३ ॥
मूलम् - ११-३३
इतिहासपुराणाभ्यां विविधाभ्यां समन्वितम् ।
विविधैश्च प्रसङ्ख्यानैः स्वप्रकृत्यादिकल्पितैः ॥ ११-३३ ॥
विश्वास-प्रस्तुतिः - ११-३४
प्। ९९) पुमीश्वरविकल्पैश्च परिणामविकल्पितैः ।
अवस्थालक्षणव्याख्याधर्मकॢप्तिविचित्रितम् ॥ ११-३४ ॥
मूलम् - ११-३४
प्। ९९) पुमीश्वरविकल्पैश्च परिणामविकल्पितैः ।
अवस्थालक्षणव्याख्याधर्मकॢप्तिविचित्रितम् ॥ ११-३४ ॥
विश्वास-प्रस्तुतिः - ११-३५
प्रमाणानां ससर्गाणां नानाकल्पनयान्वितम् ।
लेपालेपविचारैश्च पुरुषाव्यक्तगोचरैः ॥ ११-३५ ॥
मूलम् - ११-३५
प्रमाणानां ससर्गाणां नानाकल्पनयान्वितम् ।
लेपालेपविचारैश्च पुरुषाव्यक्तगोचरैः ॥ ११-३५ ॥
विश्वास-प्रस्तुतिः - ११-३६
तत्त्वतात्त्विककल्पैश्च नानागतिविचिन्तनैः ।
मुक्तिक्रमविचारैश्च ख्यातिकल्पैरनेकशः ॥ ११-३६ ॥
मूलम् - ११-३६
तत्त्वतात्त्विककल्पैश्च नानागतिविचिन्तनैः ।
मुक्तिक्रमविचारैश्च ख्यातिकल्पैरनेकशः ॥ ११-३६ ॥
विश्वास-प्रस्तुतिः - ११-३७
ज्ञानाज्ञानसमाख्यातगुणदोषविचारणैः ।
गुणत्रयविकल्पैश्च सर्गसंयोगचिन्तनैः ॥ ११-३७ ॥
मूलम् - ११-३७
ज्ञानाज्ञानसमाख्यातगुणदोषविचारणैः ।
गुणत्रयविकल्पैश्च सर्गसंयोगचिन्तनैः ॥ ११-३७ ॥
विश्वास-प्रस्तुतिः - ११-३८
आन्वितं विविधैः साङ्ख्यैः प्रसङ्ख्यानकृतक्रमैः ।
योगप्रकारकल्पैश्च वृत्तीनां कल्पनैरपि ॥ ११-३८ ॥
मूलम् - ११-३८
आन्वितं विविधैः साङ्ख्यैः प्रसङ्ख्यानकृतक्रमैः ।
योगप्रकारकल्पैश्च वृत्तीनां कल्पनैरपि ॥ ११-३८ ॥
विश्वास-प्रस्तुतिः - ११-३९
अभ्यासकल्पैर्विविधैश्चातुर्वैराग्यकल्पनैः ।
अन्तरङ्गबहिर्भूतयोगाङ्गपरिचिन्तनैः ॥ ११-३९ ॥
मूलम् - ११-३९
अभ्यासकल्पैर्विविधैश्चातुर्वैराग्यकल्पनैः ।
अन्तरङ्गबहिर्भूतयोगाङ्गपरिचिन्तनैः ॥ ११-३९ ॥
विश्वास-प्रस्तुतिः - ११-४०
क्लेशकर्मविपाकानामाशयानां च वर्णनैः ।
तापसंस्कारचिन्ताभिर्दुःखभेदविचिन्तनैः ॥ ११-४० ॥
मूलम् - ११-४०
क्लेशकर्मविपाकानामाशयानां च वर्णनैः ।
तापसंस्कारचिन्ताभिर्दुःखभेदविचिन्तनैः ॥ ११-४० ॥
विश्वास-प्रस्तुतिः - ११-४१
तैस्तैश्चतुरधिष्ठानकल्पनैः कल्पितं पृथक् ।
उपादेयस्य हेयस्य हानोपादानयोरपि ॥ ११-४१ ॥
मूलम् - ११-४१
तैस्तैश्चतुरधिष्ठानकल्पनैः कल्पितं पृथक् ।
उपादेयस्य हेयस्य हानोपादानयोरपि ॥ ११-४१ ॥
स्वरूपचिन्तानैश्चित्रैर्भोगकामविकल्पनैः ।
प्। १००) क्रियायोगैरनेकैश्च चित्तसंस्कारसाधनैः ॥ ११-४२ ॥
विश्वास-प्रस्तुतिः - ११-४३
सिद्धिभिश्च विचित्राभिश्चित्तस्थाभिरलङ्कृतम् ।
पतिपाशपशुव्याख्याविकल्पैर्हेतुचित्रितैः ॥ ११-४३ ॥
मूलम् - ११-४३
सिद्धिभिश्च विचित्राभिश्चित्तस्थाभिरलङ्कृतम् ।
पतिपाशपशुव्याख्याविकल्पैर्हेतुचित्रितैः ॥ ११-४३ ॥
विश्वास-प्रस्तुतिः - ११-४४
शुद्धाध्वकल्पनाभिश्च क्रियाज्ञानविभेदतः ।
अर्थपञ्चकचिन्ताभिरनेकाभिरलङ्कृतम् ॥ ११-४४ ॥
मूलम् - ११-४४
शुद्धाध्वकल्पनाभिश्च क्रियाज्ञानविभेदतः ।
अर्थपञ्चकचिन्ताभिरनेकाभिरलङ्कृतम् ॥ ११-४४ ॥
विश्वास-प्रस्तुतिः - ११-४५
शक्तिपञ्चकचिन्ताभिर्मलत्रयविचारणैः ।
भोगोपकरणाख्यानैः पुंसां रूपविकल्पनैः ॥ ११-४५ ॥
मूलम् - ११-४५
शक्तिपञ्चकचिन्ताभिर्मलत्रयविचारणैः ।
भोगोपकरणाख्यानैः पुंसां रूपविकल्पनैः ॥ ११-४५ ॥
विश्वास-प्रस्तुतिः - ११-४६
दीक्षाप्रतिष्ठाकल्पैश्च धर्मैः पाशुपतैरपि ।
इति नानाविधाकारबुद्धिकल्पविचित्रया ॥ ११-४६ ॥
मूलम् - ११-४६
दीक्षाप्रतिष्ठाकल्पैश्च धर्मैः पाशुपतैरपि ।
इति नानाविधाकारबुद्धिकल्पविचित्रया ॥ ११-४६ ॥
विश्वास-प्रस्तुतिः - ११-४७
युक्तं कल्पनया शश्वत् कॢप्तनानाधिकारया ।
अधिकारेण सद्धर्मान् व्याचक्षाणमनेकधा ॥ ११-४७ ॥
मूलम् - ११-४७
युक्तं कल्पनया शश्वत् कॢप्तनानाधिकारया ।
अधिकारेण सद्धर्मान् व्याचक्षाणमनेकधा ॥ ११-४७ ॥
विश्वास-प्रस्तुतिः - ११-४८
नियुताध्यायकं पूर्वमासीत् सङ्कर्षणोदितम् ।
सङ्कल्पमयमाद्यस्य विष्णोः सङ्कल्पजात् किल ॥ ११-४८ ॥
मूलम् - ११-४८
नियुताध्यायकं पूर्वमासीत् सङ्कर्षणोदितम् ।
सङ्कल्पमयमाद्यस्य विष्णोः सङ्कल्पजात् किल ॥ ११-४८ ॥
तस्य शास्त्रस्य भगवत्प्रीतिहेतुत्वम्
विश्वास-प्रस्तुतिः - ११-४९
तेन शास्त्रेण ते दिव्या मनवो मानवाश्च ते ।
ये प्रोक्ता आदिसर्गे ते तथा मानवमानवाः ॥ ११-४९ ॥
मूलम् - ११-४९
तेन शास्त्रेण ते दिव्या मनवो मानवाश्च ते ।
ये प्रोक्ता आदिसर्गे ते तथा मानवमानवाः ॥ ११-४९ ॥
सत्क्रियाभिरनल्पाभिर्नारायणमतोषयन् ।
तस्य शास्त्रस्य मन्दप्रचारता
अथ कालविपर्यासाद्युगभेदसमुद्भवे ॥ ११-५० ॥
विश्वास-प्रस्तुतिः - ११-५१
प्। १०१) त्रेतादौ सत्त्वसङ्कोचाद्रजसि प्रविजृम्भिते ।
कामं कामयमानेषु ब्राह्मणेषु महात्मसु ॥ ११-५१ ॥
मूलम् - ११-५१
प्। १०१) त्रेतादौ सत्त्वसङ्कोचाद्रजसि प्रविजृम्भिते ।
कामं कामयमानेषु ब्राह्मणेषु महात्मसु ॥ ११-५१ ॥
मन्दप्रचारमासीत् तच्छासनं यत् सुदर्शनम् ।
वाच्यायनादिभिस्तच्छास्त्रविभजनम्
ततो मोहाकुले लोके लोकतन्त्रविधायिनः ॥ ११-५२ ॥
विश्वास-प्रस्तुतिः - ११-५३
सम्भूय लोककर्तारः कर्तव्यं समचिन्तयन् ।
अपान्तरतपा नाम मुनिर्वाक्सम्भवो हरेः ॥ ११-५३ ॥
मूलम् - ११-५३
सम्भूय लोककर्तारः कर्तव्यं समचिन्तयन् ।
अपान्तरतपा नाम मुनिर्वाक्सम्भवो हरेः ॥ ११-५३ ॥
विश्वास-प्रस्तुतिः - ११-५४
कपिलश्च पुराणर्षिरादिदेवसमुद्भवः ।
हिरण्यगर्भो लोकादिरहं पशुपतिः शिवः ॥ ११-५४ ॥
मूलम् - ११-५४
कपिलश्च पुराणर्षिरादिदेवसमुद्भवः ।
हिरण्यगर्भो लोकादिरहं पशुपतिः शिवः ॥ ११-५४ ॥
विश्वास-प्रस्तुतिः - ११-५५
एते तप्त्वा तपस्तीव्रं वर्षाणामयुतं शतम् ।
आदिदेवमनुज्ञाप्य देवदेवेन चोदिताः ॥ ११-५५ ॥
मूलम् - ११-५५
एते तप्त्वा तपस्तीव्रं वर्षाणामयुतं शतम् ।
आदिदेवमनुज्ञाप्य देवदेवेन चोदिताः ॥ ११-५५ ॥
विश्वास-प्रस्तुतिः - ११-५६
सुदर्शनस्य लेशेन तत्सङ्कल्पेन संयुताः ।
विज्ञानबलमासाद्य धर्माद्देवप्रसादजात् ॥ ११-५६ ॥
मूलम् - ११-५६
सुदर्शनस्य लेशेन तत्सङ्कल्पेन संयुताः ।
विज्ञानबलमासाद्य धर्माद्देवप्रसादजात् ॥ ११-५६ ॥
आविर्भूतं तु तच्छास्त्रमंशतस्ते ततक्षिम ।
तत्र वाच्यायनेन वेदविभजनम्
ततक्ष भगवान्पूर्वमपान्तरतपा मुनिः ॥ ११-५७ ॥
विश्वास-प्रस्तुतिः - ११-५८
हरेर्वाच्यायनः पुत्रो यावदात्तं च वै ततः ।
उदभूत् तत्र धीरूपमृग्यजुःसामसङ्कुलम् ॥ ११-५८ ॥
मूलम् - ११-५८
हरेर्वाच्यायनः पुत्रो यावदात्तं च वै ततः ।
उदभूत् तत्र धीरूपमृग्यजुःसामसङ्कुलम् ॥ ११-५८ ॥
विष्णुसङ्कल्पसम्भूतमेतद्वाच्यायनेरितम् ।
प्। १०२) कपिलेन साङ्ख्यविभजनम्
ततक्ष कपिलः शास्त्राद्यावदंशमुदारधीः ॥ ११-५९ ॥
तत् साङ्ख्यमभवच्छास्त्रं प्रसङ्ख्यानपरायणम् ।
हिरण्यगर्भेण योगशास्त्रविभजनम्
हिरण्यगर्भो लोकादिर्यत् ततक्षादिशासनात् ॥ ११-६० ॥
यमाद्यङ्गमभूदेतद् दिव्यं योगानुशासनम् ।
शिवेन पाशुपतविभजनम्
अहं ततक्ष यच्छास्त्रादंशान्नानाव्रताकुलात् ॥ ११-६१ ॥
अभूत् पाशुपताख्यं तत् पशुपाशविमोचनम् ।
भगवता पाञ्चरात्रविभजनम्
सदागममयात् तस्मात् केवलाद् दिव्यशासनात् ॥ ११-६२ ॥
विश्वास-प्रस्तुतिः - ११-६३
निर्ममे सारमुद्धृत्य स्वयं विष्णुरसङ्कुलम् ।
तत् परव्यूहविभवस्वभावादिनिरूपणम् ॥ ११-६३ ॥
मूलम् - ११-६३
निर्ममे सारमुद्धृत्य स्वयं विष्णुरसङ्कुलम् ।
तत् परव्यूहविभवस्वभावादिनिरूपणम् ॥ ११-६३ ॥
विश्वास-प्रस्तुतिः - ११-६४
पञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम् ।
सुदर्शनाह्वयो योऽसौ सङ्कल्पो वैष्णवः परः ॥ ११-६४ ॥
मूलम् - ११-६४
पञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम् ।
सुदर्शनाह्वयो योऽसौ सङ्कल्पो वैष्णवः परः ॥ ११-६४ ॥
स स्वयं बिभिदे तेन पञ्चधा पञ्चवक्त्रगः ।
अध्यायार्थनिगमनम्
विष्णुसङ्कल्परूपोऽयं प्रमाणव्यूह ईरितः ।
प्। १०३) शस्त्रशास्त्रविभेदेन किं भूयः श्रोतुमिच्छसि ॥ ११-६५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
शब्दात्मकप्रमाणव्यूहनिरूपणं
नामैकादशोऽध्यायः ॥ ११ ॥
आदितः श्लोकाः ६८३
शब्दात्मकप्रमाणव्यूहविशेषस्वरूपनिरूपणं
नाम द्वादशोऽध्यायः
वृत्तानुवादः
नारदः -
विश्वास-प्रस्तुतिः - १२-१
सुरासुरगणाराध्य नमस्ते पार्वतीप्रिय ।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥ १२-१ ॥
मूलम् - १२-१
सुरासुरगणाराध्य नमस्ते पार्वतीप्रिय ।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥ १२-१ ॥
विश्वास-प्रस्तुतिः - १२-२
यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः ।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥ १२-२ ॥
मूलम् - १२-२
यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः ।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥ १२-२ ॥
त्रय्यादिस्वरूपप्रश्नः
विश्वास-प्रस्तुतिः - १२-३
त्रयी साङ्ख्यं तथा योगशास्त्रं पाशुपतं तथा ।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥ १२-३ ॥
मूलम् - १२-३
त्रयी साङ्ख्यं तथा योगशास्त्रं पाशुपतं तथा ।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥ १२-३ ॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - १२-४
शृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक् ।
सङ्कल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥ १२-४ ॥
मूलम् - १२-४
शृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक् ।
सङ्कल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥ १२-४ ॥
प्। १०५) त्रयीस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - १२-५
तत्र त्रयीमयं रूपमाद्यं सर्वार्थदशनम् ।
ऋग्यजुःसामरूपत्वात् त्रयी सा परिकीर्तिता ॥ १२-५ ॥
मूलम् - १२-५
तत्र त्रयीमयं रूपमाद्यं सर्वार्थदशनम् ।
ऋग्यजुःसामरूपत्वात् त्रयी सा परिकीर्तिता ॥ १२-५ ॥
विश्वास-प्रस्तुतिः - १२-६
कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता ।
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ॥ १२-६ ॥
मूलम् - १२-६
कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता ।
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ॥ १२-६ ॥
चातुर्होत्रप्रधानत्वादृगादित्रितयं त्रयी ।
अथर्वणां पृथक्करणे हेतुः
अथर्वाङ्गिरसां रूपं सर्वमृग्यजुषात्मकम् ॥ १२-७ ॥
तथापि शान्त्याभिचारप्राधान्यात् ते पृथक् कृताः ।
ऋगादीनां शाखासङ्ख्या
एकविंशतिशाखावानृग्वेदः परिगीयते ॥ १२-८ ॥
विश्वास-प्रस्तुतिः - १२-
शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम् ।
साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् ॥ १२-
मूलम् - १२-
शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम् ।
साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् ॥ १२-
इयतामेव वेदानां प्रत्यक्षत्वम्
विश्वास-प्रस्तुतिः - १२-१०
इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः ।
स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् ॥ १२-१० ॥
मूलम् - १२-१०
इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः ।
स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् ॥ १२-१० ॥
एषां नैयमिका धर्माः स्वरूपाम्नायगोचराः ।
कल्पादीनि षडङ्गानि
कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषां गतिः ॥ १२-११ ॥
प्। १०६) छन्दसां विचयश्चेति षडङ्गानि विदुर्बुधाः ।
मीमासा न्यायश्चोपाङ्गम्
उपाङ्गद्वितयं चैतन्मीमांसा न्यायविस्तरः ॥ १२-१२ ॥
विश्वास-प्रस्तुतिः - १२-१३
धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा ।
निबद्धा चानिबद्धा च संस्काराचारसन्ततिः ॥ १२-१३ ॥
मूलम् - १२-१३
धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा ।
निबद्धा चानिबद्धा च संस्काराचारसन्ततिः ॥ १२-१३ ॥
धर्मशास्त्रं महर्षीणामन्तःकरणसम्भृतम् ।
उपवेदादिकम्
इतिहासपुरणाख्य उपवेदः प्रकीर्तितः ॥ १२-१४ ॥
विश्वास-प्रस्तुतिः - १२-१५
वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने ।
आयुर्वेदश्च पञ्चैत उपवेदाः प्रकीर्तिताः ॥ १२-१५ ॥
मूलम् - १२-१५
वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने ।
आयुर्वेदश्च पञ्चैत उपवेदाः प्रकीर्तिताः ॥ १२-१५ ॥
विश्वास-प्रस्तुतिः - १२-१६
दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम् ।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥ १२-१६ ॥
मूलम् - १२-१६
दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम् ।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥ १२-१६ ॥
विश्वास-प्रस्तुतिः - १२-१७
वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात् ।
त्रयीरूपेण सङ्कल्प इयद्भेदो विजृम्भितः ॥ १२-१७ ॥
मूलम् - १२-१७
वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात् ।
त्रयीरूपेण सङ्कल्प इयद्भेदो विजृम्भितः ॥ १२-१७ ॥
साङ्ख्यस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - १२-१८
साङ्ख्यरूपेण सङ्कल्पो वैष्णवः कपिलादृषेः ।
उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् ॥ १२-१८ ॥
मूलम् - १२-१८
साङ्ख्यरूपेण सङ्कल्पो वैष्णवः कपिलादृषेः ।
उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् ॥ १२-१८ ॥
षष्टिभेदं स्मृतं तन्त्रं साङ्ख्यं नाम महामुने ।
प्। १०७) प्राकृतं वैकृतं चेति मण्डले द्वे समासतः ॥ १२-१९ ॥
प्राकृतमण्डलवर्णनम्
विश्वास-प्रस्तुतिः - १२-२०
प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते ।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥ १२-२० ॥
मूलम् - १२-२०
प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते ।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥ १२-२० ॥
विश्वास-प्रस्तुतिः - १२-२१
त्रीणि तन्त्राण्यथान्यानि शक्तेर्नियतिकालयोः ।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥ १२-२१ ॥
मूलम् - १२-२१
त्रीणि तन्त्राण्यथान्यानि शक्तेर्नियतिकालयोः ।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥ १२-२१ ॥
विश्वास-प्रस्तुतिः - १२-२२
प्राणतन्त्रमथान्यत्तु कर्तृतन्त्रमथेतरत् ।
सामितन्त्रमथान्यत्तु ज्ञानतन्त्राणि पञ्च च ॥ १२-२२ ॥
मूलम् - १२-२२
प्राणतन्त्रमथान्यत्तु कर्तृतन्त्रमथेतरत् ।
सामितन्त्रमथान्यत्तु ज्ञानतन्त्राणि पञ्च च ॥ १२-२२ ॥
विश्वास-प्रस्तुतिः - १२-२३
क्रियातन्त्राणि प्रञ्चाथ मात्रातन्त्राणि पञ्च च ।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥ १२-२३ ॥
मूलम् - १२-२३
क्रियातन्त्राणि प्रञ्चाथ मात्रातन्त्राणि पञ्च च ।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥ १२-२३ ॥
प्राकृतं मण्डलं प्रोक्तं वैकृतं मण्डलं शृणु ।
वैकृतमण्डलवर्णनम्
अष्टाविंशति भेदं तन्मण्डलं वैकृतं स्मृतम् ॥ १२-२४ ॥
विश्वास-प्रस्तुतिः - १२-२५
कृत्यकाण्डानि पञ्चादौ भोगकाण्डं तथाऽपरम् ।
वृत्तकाण्डं तथैकं तु क्लेशकाण्डानि पञ्च च ॥ १२-२५ ॥
मूलम् - १२-२५
कृत्यकाण्डानि पञ्चादौ भोगकाण्डं तथाऽपरम् ।
वृत्तकाण्डं तथैकं तु क्लेशकाण्डानि पञ्च च ॥ १२-२५ ॥
विश्वास-प्रस्तुतिः - १२-२६
त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम् ।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥ १२-२६ ॥
मूलम् - १२-२६
त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम् ।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥ १२-२६ ॥
विश्वास-प्रस्तुतिः - १२-२७
प्। १०८) अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम् ।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥ १२-२७ ॥
मूलम् - १२-२७
प्। १०८) अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम् ।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥ १२-२७ ॥
विश्वास-प्रस्तुतिः - १२-२८
आनुश्रविककाण्डं च दुःखकाण्डमतः परम् ।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम् ॥ १२-२८ ॥
मूलम् - १२-२८
आनुश्रविककाण्डं च दुःखकाण्डमतः परम् ।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम् ॥ १२-२८ ॥
विश्वास-प्रस्तुतिः - १२-२९
तथा समयकाण्डं च मोक्षकाण्डमतः परम् ।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥ १२-२९ ॥
मूलम् - १२-२९
तथा समयकाण्डं च मोक्षकाण्डमतः परम् ।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥ १२-२९ ॥
विश्वास-प्रस्तुतिः - १२-३०
षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने ।
षष्टितन्त्रमिदं साङ्ख्यं सुदर्शनमयं हरेः ॥ १२-३० ॥
मूलम् - १२-३०
षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने ।
षष्टितन्त्रमिदं साङ्ख्यं सुदर्शनमयं हरेः ॥ १२-३० ॥
आविर्बभूव सर्वज्ञात् परमर्षेर्महामुने ।
योगशास्त्रस्वरूपवर्णनम्
विष्णुसङ्कल्परूपं च महद्योगानुशासनम् ॥ १२-३१ ॥
हिरण्यगर्भादुद्भूतं तस्य भेदानिमाञ्शृणु ।
योगे संहिताद्वयम्
आदौ हिरण्यगर्भेण द्वे प्रोक्ते योगसंहिते ॥ १२-३२ ॥
एका निरोधयोगाख्या कर्मयोगाह्वया परा ।
निरोधसंहिताया द्वादशविधत्वम्
संहिता तु निरोधाख्या तत्र द्वादशधा स्मृता ॥ १२-३३ ॥
अङ्गतन्त्रमथाद्यं तु दोषतन्त्रमतः परम् ।
प्। १०९) उपसर्गाभिधं तन्त्रं तथाधिष्ठानकं परम् ॥ १२-३४ ॥
विश्वास-प्रस्तुतिः - १२-३५
आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत् ।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥ १२-३५ ॥
मूलम् - १२-३५
आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत् ।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥ १२-३५ ॥
विश्वास-प्रस्तुतिः - १२-३६
सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम् ।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥ १२-३६ ॥
मूलम् - १२-३६
सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम् ।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥ १२-३६ ॥
कर्मसंहितायाश्चातुर्विध्यम्
विश्वास-प्रस्तुतिः - १२-३७
ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः ।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥ १२-३७ ॥
मूलम् - १२-३७
ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः ।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥ १२-३७ ॥
विश्वास-प्रस्तुतिः - १२-३८
बाह्याभ्यन्तररूपेण द्वे अपि द्विविधे स्मृते ।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥ १२-३८ ॥
मूलम् - १२-३८
बाह्याभ्यन्तररूपेण द्वे अपि द्विविधे स्मृते ।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥ १२-३८ ॥
सुदर्शनमयं विष्णोरुदितं तत् प्रजापतेः ।
पशुपतस्वरूपवर्णनम्
तन्त्रं पाशुपतं नाम पशुपाशप्रमोचनम् ॥ १२-३९ ॥
मद्वक्त्रान्निःसृतं विष्णोः सङ्कल्पप्रविजृम्भितम् ।
पाशुपतस्याष्टकाण्डत्वम्
अष्टकाण्डमिदं प्रोक्तं मया तन्त्रमनुत्तमम् ॥ १२-४० ॥
विश्वास-प्रस्तुतिः - १२-४१
पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम् ।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥ १२-४१ ॥
मूलम् - १२-४१
पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम् ।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥ १२-४१ ॥
विश्वास-प्रस्तुतिः - १२-४२
प्। ११०) शुद्धचर्या च मिश्रा च काण्डे द्वे परिकीर्तिते ।
देवकाण्डमथो षष्ठं दीक्षाकाण्डमतः परम् ॥ १२-४२ ॥
मूलम् - १२-४२
प्। ११०) शुद्धचर्या च मिश्रा च काण्डे द्वे परिकीर्तिते ।
देवकाण्डमथो षष्ठं दीक्षाकाण्डमतः परम् ॥ १२-४२ ॥
विश्वास-प्रस्तुतिः - १२-४३
सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत् ।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥ १२-४३ ॥
मूलम् - १२-४३
सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत् ।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥ १२-४३ ॥
दिव्यं पाशुपतं शास्त्रं मयैवोक्तं महामुने ।
पाञ्चरात्रस्वरूपवर्णनम्
यत् तत् सौदर्शनं विष्णोः सात्त्वतं नाम जृम्भितम् ॥ १२-४४ ॥
विश्वास-प्रस्तुतिः - १२-४५
भेदो दशविधस्तस्य सङ्क्षेपेण प्रकीर्तितः ।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥ १२-४५ ॥
मूलम् - १२-४५
भेदो दशविधस्तस्य सङ्क्षेपेण प्रकीर्तितः ।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥ १२-४५ ॥
विश्वास-प्रस्तुतिः - १२-४६
विद्यामयी तृतीया च चतुर्थी कालसंहिता ।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥ १२-४६ ॥
मूलम् - १२-४६
विद्यामयी तृतीया च चतुर्थी कालसंहिता ।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥ १२-४६ ॥
विश्वास-प्रस्तुतिः - १२-४७
सप्तमी गदिता तत्र पूज्या संयमसंहिता ।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥ १२-४७ ॥
मूलम् - १२-४७
सप्तमी गदिता तत्र पूज्या संयमसंहिता ।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥ १२-४७ ॥
विश्वास-प्रस्तुतिः - १२-४८
सात्त्वती गीयते शुद्धा दशमी मोक्षसंहिता ।
एतावत् सात्त्वतं शास्त्रमाविरासीत् सनातनात् ॥ १२-४८ ॥
मूलम् - १२-४८
सात्त्वती गीयते शुद्धा दशमी मोक्षसंहिता ।
एतावत् सात्त्वतं शास्त्रमाविरासीत् सनातनात् ॥ १२-४८ ॥
विश्वास-प्रस्तुतिः - १२-४९
एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने ।
युगे युगे विभज्यन्ते विष्णुसङ्कल्पचोदितैः ॥ १२-४९ ॥
मूलम् - १२-४९
एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने ।
युगे युगे विभज्यन्ते विष्णुसङ्कल्पचोदितैः ॥ १२-४९ ॥
तत्तत्कर्तृसमाख्यातास्तास्तास्त्रय्यादिसंहिताः ।
प्। १११) प्रादेशिक्यो निवर्तन्ते ह्रासकालानुकालतः ॥ १२-५० ॥
शास्त्राभासप्रवृत्तौ कारणम्
विश्वास-प्रस्तुतिः - १२-५१
हिंस्राणां मोहनार्थाय सङ्कल्पा एव वैष्णवाः ।
शास्त्राभासाः प्रवर्तन्ते देवब्रह्मर्षिवक्त्रतः ॥ १२-५१ ॥
मूलम् - १२-५१
हिंस्राणां मोहनार्थाय सङ्कल्पा एव वैष्णवाः ।
शास्त्राभासाः प्रवर्तन्ते देवब्रह्मर्षिवक्त्रतः ॥ १२-५१ ॥
उक्तार्थनिगमनम्
विश्वास-प्रस्तुतिः - १२-५२
एष प्रमाणयोर्व्यूहो दिव्यः सौदर्शनः परः ।
शब्दार्थप्रविभागेन गदितस्ते मया मुने ॥ १२-५२ ॥
मूलम् - १२-५२
एष प्रमाणयोर्व्यूहो दिव्यः सौदर्शनः परः ।
शब्दार्थप्रविभागेन गदितस्ते मया मुने ॥ १२-५२ ॥
सुदर्शनपर्यायशब्दाः
विश्वास-प्रस्तुतिः - १२-५३
प्राणो माया क्रिया शक्तिर्भाव उन्मेष उद्यमः ।
सुदर्शनं च सङ्कल्पः शब्दाः पर्यायवाचकाः ॥ १२-५३ ॥
मूलम् - १२-५३
प्राणो माया क्रिया शक्तिर्भाव उन्मेष उद्यमः ।
सुदर्शनं च सङ्कल्पः शब्दाः पर्यायवाचकाः ॥ १२-५३ ॥
पञ्चानामपि शास्त्राणां भगवति निष्ठा
विश्वास-प्रस्तुतिः - १२-५४
निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम् ।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥ १२-५४ ॥
मूलम् - १२-५४
निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम् ।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥ १२-५४ ॥
विश्वास-प्रस्तुतिः - १२-५५
प्रमाणमय उद्दिष्टो लेशतोऽयं महामुने ।
व्यूहः सौदर्शनो विष्णोः किं भूयः श्रोतुमिच्छसि ॥ १२-५५ ॥
मूलम् - १२-५५
प्रमाणमय उद्दिष्टो लेशतोऽयं महामुने ।
व्यूहः सौदर्शनो विष्णोः किं भूयः श्रोतुमिच्छसि ॥ १२-५५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
शब्दात्मकप्रमाणव्यूहविशेषस्वरूपनिरूपणं नाम
द्वादशोऽध्यायः ॥ १२ ॥
आदितः श्लोकाः ७३८
प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः
प्रमाणार्थविषयकः प्रश्नः
नारदः -
विश्वास-प्रस्तुतिः - १३-१
नमस्ते देवदेवेश नमस्ते मरुतां पते ।
भवानीपतये तुभ्यं नमस्ते वृषकेतन ॥ १३-१ ॥
मूलम् - १३-१
नमस्ते देवदेवेश नमस्ते मरुतां पते ।
भवानीपतये तुभ्यं नमस्ते वृषकेतन ॥ १३-१ ॥
विश्वास-प्रस्तुतिः - १३-२
त्वद्वक्त्रकमलोद्भूता अर्था अवधृता मया ।
यत् कारणं च जगतामाधारो जगतां च यः ॥ १३-२ ॥
मूलम् - १३-२
त्वद्वक्त्रकमलोद्भूता अर्था अवधृता मया ।
यत् कारणं च जगतामाधारो जगतां च यः ॥ १३-२ ॥
विश्वास-प्रस्तुतिः - १३-३
जगतां यत् प्रमाणं च त्रयं तदवधारितम् ।
प्रमाणार्थमिदानीं मे वक्तुमर्हसि शङ्कर ॥ १३-३ ॥
मूलम् - १३-३
जगतां यत् प्रमाणं च त्रयं तदवधारितम् ।
प्रमाणार्थमिदानीं मे वक्तुमर्हसि शङ्कर ॥ १३-३ ॥
यश्च यादृक् च यावांश्च प्रमाणास्यार्थ इष्यते ।
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः -
शृणु नारद तत्त्वेन प्रमाणस्यार्थमुत्तमम् ॥ १३-४ ॥
विष्णुसङ्कल्पमूलो यो बहुधा प्रविजृम्भते ।
प्रमाणशब्दनिर्वचनम्
मितिर्मा गदिता सद्भिः प्रकृष्टा मा प्रमा स्मृता ॥ १३-५ ॥
विश्वास-प्रस्तुतिः - १३-६
प्। ११३) प्रकर्षश्च मितेः सोऽयं यद्यथार्थावधारणम् ।
धीसाधकतमं यत् तत् प्रमाणमिति शब्द्यते ॥ १३-६ ॥
मूलम् - १३-६
प्। ११३) प्रकर्षश्च मितेः सोऽयं यद्यथार्थावधारणम् ।
धीसाधकतमं यत् तत् प्रमाणमिति शब्द्यते ॥ १३-६ ॥
प्रमाणार्थस्वरूपम्
विश्वास-प्रस्तुतिः - १३-७
प्रमाणेनार्थ्यते यद्धि स प्रमाणार्थ उच्यते ।
यत् पुंसो हितमत्यन्तं सर्वदेशेषु सर्वदा ॥ १३-७ ॥
मूलम् - १३-७
प्रमाणेनार्थ्यते यद्धि स प्रमाणार्थ उच्यते ।
यत् पुंसो हितमत्यन्तं सर्वदेशेषु सर्वदा ॥ १३-७ ॥
स प्रमाणार्थ इष्टोऽत्र स द्वेधा व्यवतिष्ठते ।
तस्य द्वैविध्यम्
हितं च साधनं चेति तयोस्तत्त्वमिदं शृणु ॥ १३-८ ॥
हितस्वरूपम्
विश्वास-प्रस्तुतिः - १३-९
आत्यन्तिकी निवृत्तिस्तु पुंसो या दुःखसन्ततेः ।
तयोपलक्षितं नित्यं सुखं यत् तद्धितं स्मृतम् ॥ १३-९ ॥
मूलम् - १३-९
आत्यन्तिकी निवृत्तिस्तु पुंसो या दुःखसन्ततेः ।
तयोपलक्षितं नित्यं सुखं यत् तद्धितं स्मृतम् ॥ १३-९ ॥
साधनस्वरूपम्
विश्वास-प्रस्तुतिः - १३-१०
तस्य योऽव्यभिचारेण साधनत्वं प्रपद्यते ।
हितसाधनमित्युक्तः सोऽर्थो वेदान्तपारगैः ॥ १३-१० ॥
मूलम् - १३-१०
तस्य योऽव्यभिचारेण साधनत्वं प्रपद्यते ।
हितसाधनमित्युक्तः सोऽर्थो वेदान्तपारगैः ॥ १३-१० ॥
हितस्वरूपयाथात्म्यम्
विश्वास-प्रस्तुतिः - १३-११
स्वरूपभूतं यत् पुंस्रो हितं सुखमुदीरितम् ।
भगवन्मयता सास्य भगवत्तापराह्वया ॥ १३-११ ॥
मूलम् - १३-११
स्वरूपभूतं यत् पुंस्रो हितं सुखमुदीरितम् ।
भगवन्मयता सास्य भगवत्तापराह्वया ॥ १३-११ ॥
प्। ११४) साधनद्वैविध्यम्
विश्वास-प्रस्तुतिः - १३-१२
अत्यन्तसाधनं तस्य यत् तद् द्वेधा व्यवस्थितम् ।
विधा ज्ञानमिति त्वेका धर्म इत्यपरा विधा ॥ १३-१२ ॥
मूलम् - १३-१२
अत्यन्तसाधनं तस्य यत् तद् द्वेधा व्यवस्थितम् ।
विधा ज्ञानमिति त्वेका धर्म इत्यपरा विधा ॥ १३-१२ ॥
तयोर्हेतुहेतुमद्भावः
हेतुमद्धेतुभावस्तु विधयोरनयोः स्मृतः ।
ज्ञानद्वैविध्यम्
ज्ञानं तु हेतुमत् तत्र तच्च द्वेधा व्यवस्थितम् ॥ १३-१३ ॥
साक्षात्कारमयं चैकं परोक्षं परमीर्यते ।
तयोरपि हेतुहेतुमद्भावः
हेतुमद्धेतुभावोऽयं द्वयोरपि निरूप्यते ॥ १३-१४ ॥
हेतुमत्त्वपरोक्षं यत् परोक्षं हेतुरुच्यते ।
कर्मणां ज्ञानहेतुत्वम्
अनयोर्ज्ञानयोर्धर्मः स हेतुरिति गीयते ॥ १३-१५ ॥
साक्षात् परोक्षे तत्साध्ये हेतुस्तन्मुखतो ह्यसौ ।
कर्मणां द्वैराश्यम्
अस्यापि द्वे विधे दृष्टे तत्त्वशास्त्राब्धिपारगैः ॥ १३-१६ ॥
प्। ११५) साक्षादाराधनात्मैकः परस्तु व्यवधानतः ।
व्यवहितकर्मस्वरूपम्
अपारं तत् परं ब्रह्म शक्तिमत् परमेश्वरः ॥ १३-१७ ॥
विश्वास-प्रस्तुतिः - १३-१८
नारायणसमाख्यातं नित्यं षाड्गुण्यमव्ययम् ।
विभूतयस्तु तस्येमे ब्रह्माद्याः स्थावरान्तिमाः ॥ १३-१८ ॥
मूलम् - १३-१८
नारायणसमाख्यातं नित्यं षाड्गुण्यमव्ययम् ।
विभूतयस्तु तस्येमे ब्रह्माद्याः स्थावरान्तिमाः ॥ १३-१८ ॥
विश्वास-प्रस्तुतिः - १३-१९
भावनात्रयसम्मिश्रास्तत्सुदर्शनजृम्भिताः ।
या सा भूतिः पुरा शक्तेः कोट्यंशेनोदिता मया ॥ १३-१९ ॥
मूलम् - १३-१९
भावनात्रयसम्मिश्रास्तत्सुदर्शनजृम्भिताः ।
या सा भूतिः पुरा शक्तेः कोट्यंशेनोदिता मया ॥ १३-१९ ॥
विश्वास-प्रस्तुतिः - १३-२०
तदंशलेशाद् ब्रह्माद्या विष्णुसङ्कल्पजृम्भिताः ।
एतद्विभूतिमुखतो यो ह्यकामहतैर्नरैः ॥ १३-२० ॥
मूलम् - १३-२०
तदंशलेशाद् ब्रह्माद्या विष्णुसङ्कल्पजृम्भिताः ।
एतद्विभूतिमुखतो यो ह्यकामहतैर्नरैः ॥ १३-२० ॥
ब्रह्मार्पणेन क्रियते स धर्मो व्यवधानवान् ।
अव्यवहितधर्मस्वरूपम्
विभूतिमत् परं ब्रह्म तदेवाव्यवधानतः ॥ १३-२१ ॥
येन प्रीणयते योगी स साक्षाद्धर्म इष्यते ।
पाञ्चरात्रस्याव्यवहितधर्मपरत्वम्
सात्त्वतं शासनं सर्वं तस्यैतस्यावबोधकम् ॥ १३-२२ ॥
सशिरस्कस्य वेदस्य व्यवहितधर्मपरत्वम्
विश्वास-प्रस्तुतिः - १३-२३
यस्तु पूर्वस्त्रयीभागः परभागार्थतां गतः ।
अपरस्य स धर्मस्य निष्कामानां निरूपकः ॥ १३-२३ ॥
मूलम् - १३-२३
यस्तु पूर्वस्त्रयीभागः परभागार्थतां गतः ।
अपरस्य स धर्मस्य निष्कामानां निरूपकः ॥ १३-२३ ॥
प्। ११६) पाशुपतस्यैकविभूतिविषयकधर्मपरत्वम्
विश्वास-प्रस्तुतिः - १३-२४
धर्म एकविभूतिस्थो मया पाशुपते स्मृतः ।
उग्रव्रतैर्नरैः शश्वद् ब्रह्मप्रीत्यै स साध्यते ॥ १३-२४ ॥
मूलम् - १३-२४
धर्म एकविभूतिस्थो मया पाशुपते स्मृतः ।
उग्रव्रतैर्नरैः शश्वद् ब्रह्मप्रीत्यै स साध्यते ॥ १३-२४ ॥
साङ्ख्यस्य परोक्षज्ञानफलकत्वम्
विश्वास-प्रस्तुतिः - १३-२५
साक्षाच्च व्यवधानाच्च यत् तन्मोक्षस्य साधनम् ।
परोक्षं तत् प्रसङ्ख्यानं ज्ञानं साङ्ख्येन चिन्त्यते ॥ १३-२५ ॥
मूलम् - १३-२५
साक्षाच्च व्यवधानाच्च यत् तन्मोक्षस्य साधनम् ।
परोक्षं तत् प्रसङ्ख्यानं ज्ञानं साङ्ख्येन चिन्त्यते ॥ १३-२५ ॥
वेदान्तानामपरोक्षज्ञानफलकत्वम्
विश्वास-प्रस्तुतिः - १३-२६
अन्तरङ्गशमाद्यङ्गभक्तिश्रद्धापुरःसरम् ।
त्रय्यन्तैर्ब्रह्मविज्ञानमपरोक्षं विभाव्यते ॥ १३-२६ ॥
मूलम् - १३-२६
अन्तरङ्गशमाद्यङ्गभक्तिश्रद्धापुरःसरम् ।
त्रय्यन्तैर्ब्रह्मविज्ञानमपरोक्षं विभाव्यते ॥ १३-२६ ॥
योगस्यापरोक्षज्ञानाङ्गयमादिपरत्वम्
विश्वास-प्रस्तुतिः - १३-२७
बहिरङ्गान्तरङ्गाख्ययमाद्यङ्गकलापवान् ।
चित्तवृत्त्तिनिरोधात्मा योगो योगानुशासने ॥ १३-२७ ॥
मूलम् - १३-२७
बहिरङ्गान्तरङ्गाख्ययमाद्यङ्गकलापवान् ।
चित्तवृत्त्तिनिरोधात्मा योगो योगानुशासने ॥ १३-२७ ॥
विश्वास-प्रस्तुतिः - १३-२८
शश्वदभ्यासवैराग्यपरेशप्रणिधानतः ।
साक्षात्कारावभासाख्यसिद्धशुद्धापवर्गदः ॥ १३-२८ ॥
मूलम् - १३-२८
शश्वदभ्यासवैराग्यपरेशप्रणिधानतः ।
साक्षात्कारावभासाख्यसिद्धशुद्धापवर्गदः ॥ १३-२८ ॥
गुणप्रधानभावेन सर्वत्र सर्वोपदेशः
विश्वास-प्रस्तुतिः - १३-२९
यथोक्ततत्त्वविज्ञानं नानाहेतुविधान्वितम् ।
धर्मो बहुविधश्चेति सर्वं सर्वैर्निरूप्यते ॥ १३-२९ ॥
मूलम् - १३-२९
यथोक्ततत्त्वविज्ञानं नानाहेतुविधान्वितम् ।
धर्मो बहुविधश्चेति सर्वं सर्वैर्निरूप्यते ॥ १३-२९ ॥
शास्त्रेषु
विविधफलान्तरसाधनान्तरोपदेशस्याभिप्रायकथनम्
विश्वास-प्रस्तुतिः - १३-३०
प्। ११७) हितप्रवृत्तेर्लोकानां तनूकाराय पाप्मनाम् ।
रागद्वेषप्रयुक्तानामायुर्वेदोपदेशवत् ॥ १३-३० ॥
मूलम् - १३-३०
प्। ११७) हितप्रवृत्तेर्लोकानां तनूकाराय पाप्मनाम् ।
रागद्वेषप्रयुक्तानामायुर्वेदोपदेशवत् ॥ १३-३० ॥
विश्वास-प्रस्तुतिः - १३-३१
नानारूपफलावाप्त्यै नानानियमभेदिताः ।
शास्त्रैर्धर्मा विधीयन्ते नानारूपा धियस्तथा ॥ १३-३१ ॥
मूलम् - १३-३१
नानारूपफलावाप्त्यै नानानियमभेदिताः ।
शास्त्रैर्धर्मा विधीयन्ते नानारूपा धियस्तथा ॥ १३-३१ ॥
लौकिकपुरुषार्थद्वयोपक्षेपः
विश्वास-प्रस्तुतिः - १३-३२
तदित्थं सविशेषं ते पुमर्थद्वयमीरितम् ।
अथान्यल्लौकिकं शास्त्रैः पुमर्थद्वयमीरितम् ॥ १३-३२ ॥
मूलम् - १३-३२
तदित्थं सविशेषं ते पुमर्थद्वयमीरितम् ।
अथान्यल्लौकिकं शास्त्रैः पुमर्थद्वयमीरितम् ॥ १३-३२ ॥
विश्वास-प्रस्तुतिः - १३-३३
अर्थकामौ तयोः कामः स्मृतो वैषयिकेरितः ।
अर्थो गोभूहिरण्यादिप्रेक्षोत्थानफलात्मकः ॥ १३-३३ ॥
मूलम् - १३-३३
अर्थकामौ तयोः कामः स्मृतो वैषयिकेरितः ।
अर्थो गोभूहिरण्यादिप्रेक्षोत्थानफलात्मकः ॥ १३-३३ ॥
त्रिवर्गस्य मिथः साध्यसाधनभावविवेकः
विश्वास-प्रस्तुतिः - १३-३४
अर्थो धर्मस्य कामस्य तथार्थस्यापि साधनम् ।
धर्मो धर्मस्य कामस्य तथार्थस्यापि साधनम् ॥ १३-३४ ॥
मूलम् - १३-३४
अर्थो धर्मस्य कामस्य तथार्थस्यापि साधनम् ।
धर्मो धर्मस्य कामस्य तथार्थस्यापि साधनम् ॥ १३-३४ ॥
विश्वास-प्रस्तुतिः - १३-३५
कामो धर्मस्य कामस्य तथार्थस्यापि साधनम् ।
अर्थः कामश्च सर्वत्र व्यभिचारेण साधनम् ॥ १३-३५ ॥
मूलम् - १३-३५
कामो धर्मस्य कामस्य तथार्थस्यापि साधनम् ।
अर्थः कामश्च सर्वत्र व्यभिचारेण साधनम् ॥ १३-३५ ॥
विश्वास-प्रस्तुतिः - १३-३६
धर्मः सर्वस्य साध्यस्य नियमेनैव साधनम् ।
तदेतत् त्रितयं प्रोक्तं त्रिवर्ग इति पण्डितैः ॥ १३-३६ ॥
मूलम् - १३-३६
धर्मः सर्वस्य साध्यस्य नियमेनैव साधनम् ।
तदेतत् त्रितयं प्रोक्तं त्रिवर्ग इति पण्डितैः ॥ १३-३६ ॥
प्। ११८) मोक्षस्य सर्वदा साध्यत्वमेव
मोक्षश्च साध्य एवेति पुरुषार्थचतुष्टयम् ।
अर्थकामयोः प्रमाणनिरूपणम्
दण्डनीतिः सवार्ता सा सोपवेदचतुष्टया ॥ १३-३७ ॥
प्रमाणत्वेन निर्दिष्टा पण्डितैरर्थकामयोः ।
इतिहासादेस्तत्त्वज्ञानसहकारित्वम्
इतिहासपुराणाख्य उपवेदो हि यः स्मृतः ॥ १३-३८ ॥
विश्वास-प्रस्तुतिः - १३-३९
सहायभावं शास्त्राणां तत्त्वज्ञाने व्रजत्यसौ ।
इति ते लेशतः प्रोक्ता पुरुषार्थचतुष्टयी ॥ १३-३९ ॥
मूलम् - १३-३९
सहायभावं शास्त्राणां तत्त्वज्ञाने व्रजत्यसौ ।
इति ते लेशतः प्रोक्ता पुरुषार्थचतुष्टयी ॥ १३-३९ ॥
धर्मादीनामन्तरङ्गसाधनानि
विश्वास-प्रस्तुतिः - १३-४०
अन्तरङ्गममुष्यास्तु साधनं शृणु नारद ।
निर्व्याजा निरुपस्कारा दया धर्मस्य साधनम् ॥ १३-४० ॥
मूलम् - १३-४०
अन्तरङ्गममुष्यास्तु साधनं शृणु नारद ।
निर्व्याजा निरुपस्कारा दया धर्मस्य साधनम् ॥ १३-४० ॥
विश्वास-प्रस्तुतिः - १३-४१
हेतुरुत्थानमर्थस्य देशकालोपपादितम् ।
हेतुः कामस्य सङ्कल्पो निर्व्याजो निरुपस्कृतः ॥ १३-४१ ॥
मूलम् - १३-४१
हेतुरुत्थानमर्थस्य देशकालोपपादितम् ।
हेतुः कामस्य सङ्कल्पो निर्व्याजो निरुपस्कृतः ॥ १३-४१ ॥
हेतुस्तु सर्वसन्न्यासो मोक्षे ज्ञानपुरस्कृतः ।
तेषामेव बहिःसाधनानि
न्याय्यं धर्मादि धर्मस्य बहिःसाधनमुच्यते ॥ १३-४२ ॥
बहिःसाधनमर्थस्य तन्त्रावापादिचिन्तनम् ।
प्। ११९) कामे पाणिग्रहाद्युक्तं बहिरङ्गं विचक्षणैः ॥ १३-४३ ॥
विश्वास-प्रस्तुतिः - १३-४४
निष्कामधर्मकृत्यादि बहिर्मोक्षस्य साधनम् ।
विजृम्भितमिदं भूतेः पुरुषार्थचतुष्टयम् ॥ १३-४४ ॥
मूलम् - १३-४४
निष्कामधर्मकृत्यादि बहिर्मोक्षस्य साधनम् ।
विजृम्भितमिदं भूतेः पुरुषार्थचतुष्टयम् ॥ १३-४४ ॥
सङ्कल्पो वैष्णवस्तस्य विजृम्भाहेतुरुच्यते ।
अध्यायार्थोपसंहारः
विश्वास-प्रस्तुतिः - १३-४५
इति ते सकला प्रोक्ता प्रमाणार्थगतिः परा ।
ससाधना सप्रकारा किं भूयः श्रोतुमिच्छसि ॥ १३-४५ ॥
मूलम् - १३-४५
इति ते सकला प्रोक्ता प्रमाणार्थगतिः परा ।
ससाधना सप्रकारा किं भूयः श्रोतुमिच्छसि ॥ १३-४५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
आदितः श्लोकाः ७८३
जीवस्य संसारहेतुतदुद्धरणप्रकारवर्णनं नाम
चतुर्दशोऽध्यायः
तत्रादौ मुक्तिविषयः पुनः प्रश्नः
नारदः -
विश्वास-प्रस्तुतिः - १४-१
अज्ञानतिमिरप्लोषिललाटनयनत्विषे ।
नमस्ते त्रिपुराराते नमस्तेऽन्तकविद्विषे ॥ १४-१ ॥
मूलम् - १४-१
अज्ञानतिमिरप्लोषिललाटनयनत्विषे ।
नमस्ते त्रिपुराराते नमस्तेऽन्तकविद्विषे ॥ १४-१ ॥
विश्वास-प्रस्तुतिः - १४-२
पुरुषार्थाः श्रुताः सर्वे मुख्यगौणविकल्पिताः ।
पुरुषार्थः श्रुतो मुख्यस्तत्र मुक्त्यभिसञ्ज्ञितः ॥ १४-२ ॥
मूलम् - १४-२
पुरुषार्थाः श्रुताः सर्वे मुख्यगौणविकल्पिताः ।
पुरुषार्थः श्रुतो मुख्यस्तत्र मुक्त्यभिसञ्ज्ञितः ॥ १४-२ ॥
विश्वास-प्रस्तुतिः - १४-३
भगवत्तामयी प्रोक्ता मुक्तिश्च त्रिपुरद्विषा ।
तस्याश्च साधनं साक्षात् तत्त्वज्ञानं द्विधा स्थितम् ॥ १४-३ ॥
मूलम् - १४-३
भगवत्तामयी प्रोक्ता मुक्तिश्च त्रिपुरद्विषा ।
तस्याश्च साधनं साक्षात् तत्त्वज्ञानं द्विधा स्थितम् ॥ १४-३ ॥
विश्वास-प्रस्तुतिः - १४-४
साधनं तस्य च प्रोक्तो धर्मो निरभिसन्धिकः ।
भूयो विस्तरतः शंस मुक्तिं तां चन्द्रशेखर ॥ १४-४ ॥
मूलम् - १४-४
साधनं तस्य च प्रोक्तो धर्मो निरभिसन्धिकः ।
भूयो विस्तरतः शंस मुक्तिं तां चन्द्रशेखर ॥ १४-४ ॥
विश्वास-प्रस्तुतिः - १४-५
यतो यस्य च या मुक्तिस्तच्च मे द्वितयं वद ।
न ह्यन्यं प्रष्टुमर्हामि त्वामृते सर्ववेदिनम् ॥ १४-५ ॥
मूलम् - १४-५
यतो यस्य च या मुक्तिस्तच्च मे द्वितयं वद ।
न ह्यन्यं प्रष्टुमर्हामि त्वामृते सर्ववेदिनम् ॥ १४-५ ॥
जीवस्वरूपसङ्क्षेपः
अहिर्बुध्न्यः -
अनादिरपरिच्छेद्यश्चिदानन्दमयः पुमान् ।
प्। १२१) भगवन्मय एवायं भगवद्भावितः सदा ॥ १४-६ ॥
जीवस्य भगवच्छक्त्यंशलेशत्वम्
विश्वास-प्रस्तुतिः - १४-७
या सा शक्तिर्महासत्ता विष्णोस्तद्धर्मधर्मिणी ।
तस्याः कुट्यर्बुदांशेन शक्ती द्वे कथिते तव ॥ १४-७ ॥
मूलम् - १४-७
या सा शक्तिर्महासत्ता विष्णोस्तद्धर्मधर्मिणी ।
तस्याः कुट्यर्बुदांशेन शक्ती द्वे कथिते तव ॥ १४-७ ॥
विश्वास-प्रस्तुतिः - १४-८
भूतिश्चेति क्रिया चेति भाव्यभावकसञ्ज्ञिते ।
भूतिः सा क्रियया ज्वाला मरुतेव प्रणर्त्यते ॥ १४-८ ॥
मूलम् - १४-८
भूतिश्चेति क्रिया चेति भाव्यभावकसञ्ज्ञिते ।
भूतिः सा क्रियया ज्वाला मरुतेव प्रणर्त्यते ॥ १४-८ ॥
विश्वास-प्रस्तुतिः - १४-९
नानाभेदवती भूतेर्विभूतिः कथिता पुरा ।
शुद्ध्यशुद्धिवशाद् द्वेधा शुद्धा सा बहुधोदिता ॥ १४-९ ॥
मूलम् - १४-९
नानाभेदवती भूतेर्विभूतिः कथिता पुरा ।
शुद्ध्यशुद्धिवशाद् द्वेधा शुद्धा सा बहुधोदिता ॥ १४-९ ॥
पुंशक्तिः कालमय्यन्या पुमान् सोऽयमुदीरितः ।
तस्य कालवश्यत्वात् संसारप्राप्तिः
कालशक्तिविकारस्थः सोऽयं संसरति ध्रुवम् ॥ १४-१० ॥
साधननिष्पत्त्या स्वरूपाविर्भावः
सोऽयं शास्त्रीयमासाद्य मार्गं स्वेनाभिजायते ।
तत्र पुनः प्रश्नः
नारदः -
भगवन् देवदेवेश त्रिपुरान्तक शङ्कर ॥ १४-११ ॥
कालशक्तिविकारस्थः कथं संसरति ध्रुवम् ।
प्। १२२) कथं वोपायमासाद्य पुमान् स्वेनाभिजायते ॥ १४-१२ ॥
भगवत्स्वातन्त्र्यस्यापर्यनुयोज्यत्वम्
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - १४-१३
सर्वैरननुयोज्यं तत् स्वातन्त्र्यं दिव्यमीशितुः ।
अवाप्तविश्वकामोऽपि क्रीडते राजवद्वशी ॥ १४-१३ ॥
मूलम् - १४-१३
सर्वैरननुयोज्यं तत् स्वातन्त्र्यं दिव्यमीशितुः ।
अवाप्तविश्वकामोऽपि क्रीडते राजवद्वशी ॥ १४-१३ ॥
भगवत्सङ्कल्पस्य पञ्चधा विभागः
विश्वास-प्रस्तुतिः - १४-१४
सङ्कल्पो नाम यस्तस्य सुदर्शनसमाह्वयः ।
सत्यप्यनन्तरूपत्वे पञ्चधा स विजृम्भते ॥ १४-१४ ॥
मूलम् - १४-१४
सङ्कल्पो नाम यस्तस्य सुदर्शनसमाह्वयः ।
सत्यप्यनन्तरूपत्वे पञ्चधा स विजृम्भते ॥ १४-१४ ॥
सृष्टिस्थित्यन्तकारेण निग्रहानुग्रहात्मना ।
निग्रहशक्त्या जीवस्याकारादितिरोधानम्
तिरोधानकरी शक्तिः सा निग्रहसमाह्वया ॥ १४-१५ ॥
विश्वास-प्रस्तुतिः - १४-१६
पुमांसं जीवसञ्ज्ञं सा तिरोभावयति स्वयम् ।
आकारैश्वर्यविज्ञानतिरोभावनकर्मणा ॥ १४-१६ ॥
मूलम् - १४-१६
पुमांसं जीवसञ्ज्ञं सा तिरोभावयति स्वयम् ।
आकारैश्वर्यविज्ञानतिरोभावनकर्मणा ॥ १४-१६ ॥
तिरोधायकपर्यायशब्दाः
विश्वास-प्रस्तुतिः - १४-१७
मायाविद्या महामोहो महातामिस्रमित्यपि ।
तमो बन्धोऽथ हृद्ग्रन्थिरिति पर्यायवाचकाः ॥ १४-१७ ॥
मूलम् - १४-१७
मायाविद्या महामोहो महातामिस्रमित्यपि ।
तमो बन्धोऽथ हृद्ग्रन्थिरिति पर्यायवाचकाः ॥ १४-१७ ॥
जीवाणुत्वादि
आकारस्य तिरोधानादणुत्वं पुंस इष्यते ।
प्। १२३) ऐश्वर्यस्य तिरोभावादकिञ्चित्करता स्मृता ॥ १४-१८ ॥
विश्वास-प्रस्तुतिः - १४-१९
पुंसो विज्ञानसङ्कोचादज्ञत्वं समुदाहृतम् ।
तिरोहितः पुमाञ्छक्त्या विष्णुसङ्कल्परूपया ॥ १४-१९ ॥
मूलम् - १४-१९
पुंसो विज्ञानसङ्कोचादज्ञत्वं समुदाहृतम् ।
तिरोहितः पुमाञ्छक्त्या विष्णुसङ्कल्परूपया ॥ १४-१९ ॥
अणुः किञ्चित्करश्चेति किञ्चिज्ज्ञश्चेति कथ्यते ।
अणुत्वादेर्मलत्वं बन्धत्वं च
मलत्रयमिदं प्रोक्तं बन्धत्रयमिदं बुधैः ॥ १४-२० ॥
अविद्यादिभिर्मलविवृद्धिः
विश्वास-प्रस्तुतिः - १४-२१
तिरोभावनशक्त्यैवं वैष्णव्या बन्धमेयुषः ।
अविद्यास्मित्वरागाद्या मलं समुपचिन्वते ॥ १४-२१ ॥
मूलम् - १४-२१
तिरोभावनशक्त्यैवं वैष्णव्या बन्धमेयुषः ।
अविद्यास्मित्वरागाद्या मलं समुपचिन्वते ॥ १४-२१ ॥
इष्टानिष्टप्राप्तिपरिहारेच्छा
विश्वास-प्रस्तुतिः - १४-२२
क्लिश्यद्भिः क्लेशितः क्लेशैरविद्यादिभिरीद्दृशैः ।
नुन्नः प्रेप्साजिहासाभ्यामागमाननुसम्पतन् ॥ १४-२२ ॥
मूलम् - १४-२२
क्लिश्यद्भिः क्लेशितः क्लेशैरविद्यादिभिरीद्दृशैः ।
नुन्नः प्रेप्साजिहासाभ्यामागमाननुसम्पतन् ॥ १४-२२ ॥
विश्वास-प्रस्तुतिः - १४-२३
इष्टार्थप्राप्तयेऽनिष्टविघाताय च लालसः ।
कर्म तत् कुरुते कामी शुभाशुभफलोदयम् ॥ १४-२३ ॥
मूलम् - १४-२३
इष्टार्थप्राप्तयेऽनिष्टविघाताय च लालसः ।
कर्म तत् कुरुते कामी शुभाशुभफलोदयम् ॥ १४-२३ ॥
कर्मवशात् जात्यायुर्भोगप्राप्तिः
विश्वास-प्रस्तुतिः - १४-२४
ततः कर्मविपाकस्थः शुभाशुभविमिश्रितान् ।
जात्यायुरनुबन्धान् स प्राप्नोति विधिचोदितः ॥ १४-२४ ॥
मूलम् - १४-२४
ततः कर्मविपाकस्थः शुभाशुभविमिश्रितान् ।
जात्यायुरनुबन्धान् स प्राप्नोति विधिचोदितः ॥ १४-२४ ॥
विश्वास-प्रस्तुतिः - १४-२५
प्। १२४) सुखादिवासनास्तास्ताः सञ्चिनोति शनैः शनैः ।
एषा निग्रहशक्तेस्तु तिरोधानपरम्परा ॥ १४-२५ ॥
मूलम् - १४-२५
प्। १२४) सुखादिवासनास्तास्ताः सञ्चिनोति शनैः शनैः ।
एषा निग्रहशक्तेस्तु तिरोधानपरम्परा ॥ १४-२५ ॥
तिरोधाने सहकारिकारणम्
विश्वास-प्रस्तुतिः - १४-२६
अंशौ यौ कालशक्त्याख्यौ भूतेः समनुवर्तिनौ ।
ताभ्यां पुंसस्तिरोभावं तनुते निग्रहात्मिका ॥ १४-२६ ॥
मूलम् - १४-२६
अंशौ यौ कालशक्त्याख्यौ भूतेः समनुवर्तिनौ ।
ताभ्यां पुंसस्तिरोभावं तनुते निग्रहात्मिका ॥ १४-२६ ॥
सृष्ट्यादीनां सञ्चितकर्ममूलकत्वम्
विश्वास-प्रस्तुतिः - १४-२७
अजस्य त्वनया शक्त्या तिस्रः सृष्ट्यादिशक्तयः ।
सञ्चितैः सम्प्रवर्तन्ते तैस्तैः कर्मभिरूर्जितैः ॥ १४-२७ ॥
मूलम् - १४-२७
अजस्य त्वनया शक्त्या तिस्रः सृष्ट्यादिशक्तयः ।
सञ्चितैः सम्प्रवर्तन्ते तैस्तैः कर्मभिरूर्जितैः ॥ १४-२७ ॥
सहेतुकस्य बन्धस्यानादित्वम्
बन्धोऽनादिरयं प्रोक्तो बन्धहेतुश्च नादिमान् ।
बद्धजीवे भगवत्कृपाविर्भावः
एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः ॥ १४-२८ ॥
जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ।
कृपाया अनुग्रहशक्तिपातरूपत्वम्
या ह्युक्ता पञ्चमी शक्तिर्विष्णुसङ्कल्परूपिणी ॥ १४-२९ ॥
विश्वास-प्रस्तुतिः - १४-३०
अनुग्रहात्मिका शक्तिः सा कृपा वैष्णवी परा ।
शक्तिपातः स वै विष्णोरागमस्थैर्निगद्यते ॥ १४-३० ॥
मूलम् - १४-३०
अनुग्रहात्मिका शक्तिः सा कृपा वैष्णवी परा ।
शक्तिपातः स वै विष्णोरागमस्थैर्निगद्यते ॥ १४-३० ॥
प्। १२५) कृपाविषयस्य जीवस्य कर्मसाम्यप्राप्तिः
विश्वास-प्रस्तुतिः - १४-३१
अनुग्रहात्मना शक्त्या सुदर्शनमयात्मना ।
स्वीकृतो हि यदा विष्णोः करुणावर्षरूपया ॥ १४-३१ ॥
मूलम् - १४-३१
अनुग्रहात्मना शक्त्या सुदर्शनमयात्मना ।
स्वीकृतो हि यदा विष्णोः करुणावर्षरूपया ॥ १४-३१ ॥
विश्वास-प्रस्तुतिः - १४-३२
समीक्षितस्तदा सोऽयं करुणावर्षरूपया ।
कर्मसाम्यं भजत्येव जीवो विष्णुसमीक्षितः ॥ १४-३२ ॥
मूलम् - १४-३२
समीक्षितस्तदा सोऽयं करुणावर्षरूपया ।
कर्मसाम्यं भजत्येव जीवो विष्णुसमीक्षितः ॥ १४-३२ ॥
विश्वास-प्रस्तुतिः - १४-३३
शक्तिपातः स वै जीवमुत्तारयति संसृतेः ।
कर्मणी च समे तत्र तूष्णीं भावमुपागते ॥ १४-३३ ॥
मूलम् - १४-३३
शक्तिपातः स वै जीवमुत्तारयति संसृतेः ।
कर्मणी च समे तत्र तूष्णीं भावमुपागते ॥ १४-३३ ॥
सदृष्टान्तं कर्मणामुदासितृत्वोपपादनम्
विश्वास-प्रस्तुतिः - १४-३४
यथा हि मोषकाः पान्थे परिबर्हमुपेयुषि ।
निवृत्तमोषणोद्योगाः समाः सन्तः उदासते ॥ १४-३४ ॥
मूलम् - १४-३४
यथा हि मोषकाः पान्थे परिबर्हमुपेयुषि ।
निवृत्तमोषणोद्योगाः समाः सन्तः उदासते ॥ १४-३४ ॥
विश्वास-प्रस्तुतिः - १४-३५
अनुग्रहात्मिकायास्तु शक्तेः पातक्षणे तथा ।
उदासाते समीभूय कर्मणी ते शुभाशुभे ॥ १४-३५ ॥
मूलम् - १४-३५
अनुग्रहात्मिकायास्तु शक्तेः पातक्षणे तथा ।
उदासाते समीभूय कर्मणी ते शुभाशुभे ॥ १४-३५ ॥
मुमुक्षोर्मोक्षोपायप्राप्तिप्रकारः
विश्वास-प्रस्तुतिः - १४-३६
तत्पातानन्तरं जन्तुर्युक्तो मोक्षसमीक्षया ।
प्रवर्तमानवैराग्यो विवेकेऽभिनिवेशवान् ॥ १४-३६ ॥
मूलम् - १४-३६
तत्पातानन्तरं जन्तुर्युक्तो मोक्षसमीक्षया ।
प्रवर्तमानवैराग्यो विवेकेऽभिनिवेशवान् ॥ १४-३६ ॥
विश्वास-प्रस्तुतिः - १४-३७
आगमाननुसञ्चिन्त्य गुरूनप्युपसद्य च ।
लब्धसत्त्वप्रकारैस्तैः प्रबुद्धो बोधपालनः ॥ १४-३७ ॥
मूलम् - १४-३७
आगमाननुसञ्चिन्त्य गुरूनप्युपसद्य च ।
लब्धसत्त्वप्रकारैस्तैः प्रबुद्धो बोधपालनः ॥ १४-३७ ॥
विश्वास-प्रस्तुतिः - १४-३८
प्। १२६) अक्षिण्वन् गुरुसम्बोधं क्षिण्वन् क्लेशादिकानपि ।
विचिन्वन् सर्वतः सारमुपचिन्वन् परां धियम् ॥ १४-३८ ॥
मूलम् - १४-३८
प्। १२६) अक्षिण्वन् गुरुसम्बोधं क्षिण्वन् क्लेशादिकानपि ।
विचिन्वन् सर्वतः सारमुपचिन्वन् परां धियम् ॥ १४-३८ ॥
विश्वास-प्रस्तुतिः - १४-३९
साङ्ख्ययोगसमावेशी सत्कर्मनिरतः स्वयम् ।
उग्रव्रतधरो ज्ञानी वेदान्तज्ञाननिश्चलः ॥ १४-३९ ॥
मूलम् - १४-३९
साङ्ख्ययोगसमावेशी सत्कर्मनिरतः स्वयम् ।
उग्रव्रतधरो ज्ञानी वेदान्तज्ञाननिश्चलः ॥ १४-३९ ॥
विश्वास-प्रस्तुतिः - १४-४०
संहतैर्विगृहीतैश्च मार्गैरेभिः सुनिश्चयैः ।
क्लेशेन महता स्थानं वैष्णवं प्रतिपद्यते ॥ १४-४० ॥
मूलम् - १४-४०
संहतैर्विगृहीतैश्च मार्गैरेभिः सुनिश्चयैः ।
क्लेशेन महता स्थानं वैष्णवं प्रतिपद्यते ॥ १४-४० ॥
लब्धज्ञानस्य मोक्षप्राप्तिः
विश्वास-प्रस्तुतिः - १४-४१
सम्प्राप्य ज्ञानभूयस्त्वं निर्मलीकृतचेतनः ।
अनाविलमसङ्क्लेशं वैष्णवं तद्विशेत् पदम् ॥ १४-४१ ॥
मूलम् - १४-४१
सम्प्राप्य ज्ञानभूयस्त्वं निर्मलीकृतचेतनः ।
अनाविलमसङ्क्लेशं वैष्णवं तद्विशेत् पदम् ॥ १४-४१ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जीवस्य
संसारहेतुतदुद्धरणप्रकारवर्णनं नाम
चतुर्दशोऽध्यायः ॥ १४ ॥
आदितः श्लोकाः ८२४
अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः
ध्यातो धृतात्मभिश्चक्रमध्यस्थो मधुसूदनः ।
पायादपायात् संसाररूपकूपात्तु नः परः ॥
अधिकारिविषयः प्रश्नः
नारदः -
विश्वास-प्रस्तुतिः - १५-१
देवदेव नमस्तेऽस्तु वृषकेतन शङ्कर ।
त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं ज्ञानमुत्तमम् ॥ १५-१ ॥
मूलम् - १५-१
देवदेव नमस्तेऽस्तु वृषकेतन शङ्कर ।
त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं ज्ञानमुत्तमम् ॥ १५-१ ॥
विश्वास-प्रस्तुतिः - १५-२
प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा ।
पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः ॥ १५-२ ॥
मूलम् - १५-२
प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा ।
पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः ॥ १५-२ ॥
के हि तानधिकुर्वन्ति तन्मे विस्तरतो वद ।
तत्प्रतिवचने प्रथमं सात्त्विकरीतिप्रतिपादनम्
अहिर्बुध्न्यः -
ये हि ते मनवो नाम विद्यागर्भाः पुरोदिताः ॥ १५-३ ॥
विश्वास-प्रस्तुतिः - १५-४
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः ।
मानवास्तत्प्रसूता ये तथा मानवमानवाः ॥ १५-४ ॥
मूलम् - १५-४
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः ।
मानवास्तत्प्रसूता ये तथा मानवमानवाः ॥ १५-४ ॥
विश्वास-प्रस्तुतिः - १५-५
प्। १२८) मुखबाहूरूपादेभ्यो ब्राह्मणाद्याः समुत्थिताः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः ॥ १५-५ ॥
मूलम् - १५-५
प्। १२८) मुखबाहूरूपादेभ्यो ब्राह्मणाद्याः समुत्थिताः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः ॥ १५-५ ॥
द्वितये ते यथायोगमधिकुर्वन्ति तानिमान् ।
मनुसन्ततिजानां पाञ्चरात्राधिकारः
ये पुरा कथिताः पञ्च सिद्धान्ताः सर्वसम्मताः ॥ १५-६ ॥
मनुसन्ततिजास्तत्र सात्त्वतं त्वधिकुर्वते ।
तेषां तन्निष्ठया भगवत्प्राप्तिः
त्रयोदशविधं कर्म गुणैः सांयमिकैर्युतम् ॥ १५-७ ॥
कुर्वाणाः पञ्चकालस्थास्ते यान्ति पुरुषोत्तमम् ।
तेषु त्रैवर्णिकानां चातुराश्रम्यम्
विहितं चातुराश्रम्यं त्रयाणां तत्र नारद ॥ १५-८ ॥
ब्रह्मचारी गृहस्थो वा वनस्थो भिक्षुरित्यपि ।
तेषां शुश्रूषया शूद्रस्य भगवत्प्राप्तिः
शूद्रः शुश्रूषया तेषां भगवत्कर्मसाधनात् ॥ १५-९ ॥
अरागरोषलोभः सञ्छनैर्याति हरेः पदम् ।
अन्यतमाश्रमस्थानामपि तेषां मोक्षसिद्धिः
सद्ब्रह्मयाजिनस्ते वै शुद्धाः स्वाध्यायतत्पराः ॥ १५-१० ॥
विश्वास-प्रस्तुतिः - १५-११
प्। १२९) अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः ।
मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः ॥ १५-११ ॥
मूलम् - १५-११
प्। १२९) अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः ।
मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः ॥ १५-११ ॥
विश्वास-प्रस्तुतिः - १५-१२
आचार्यनयसम्पन्नास्ते शुश्रूषणतत्पराः ।
सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः ॥ १५-१२ ॥
मूलम् - १५-१२
आचार्यनयसम्पन्नास्ते शुश्रूषणतत्पराः ।
सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः ॥ १५-१२ ॥
विश्वास-प्रस्तुतिः - १५-१३
प्रकृतिज्ञानसम्पन्नाः प्रमादपरिवर्जिताः ।
त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः ॥ १५-१३ ॥
मूलम् - १५-१३
प्रकृतिज्ञानसम्पन्नाः प्रमादपरिवर्जिताः ।
त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः ॥ १५-१३ ॥
विश्वास-प्रस्तुतिः - १५-१४
सिद्धा नाम महाभागाः समाप्तज्ञाननिश्चयाः ।
धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः ॥ १५-१४ ॥
मूलम् - १५-१४
सिद्धा नाम महाभागाः समाप्तज्ञाननिश्चयाः ।
धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः ॥ १५-१४ ॥
विश्वास-प्रस्तुतिः - १५-१५
आसमाप्तेः समास्थाय चतुर्णामेकमाश्रमम् ।
पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् ॥ १५-१५ ॥
मूलम् - १५-१५
आसमाप्तेः समास्थाय चतुर्णामेकमाश्रमम् ।
पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् ॥ १५-१५ ॥
विश्वास-प्रस्तुतिः - १५-१६
विवेकजां परां प्राप्य कर्मणोऽन्ते शुभां धियम् ।
प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः ॥ १५-१६ ॥
मूलम् - १५-१६
विवेकजां परां प्राप्य कर्मणोऽन्ते शुभां धियम् ।
प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः ॥ १५-१६ ॥
विश्वास-प्रस्तुतिः - १५-१७
सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम् ।
क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते ॥ १५-१७ ॥
मूलम् - १५-१७
सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम् ।
क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते ॥ १५-१७ ॥
गार्हस्थ्यस्याश्रमान्तरोपजीव्यत्वम्
विश्वास-प्रस्तुतिः - १५-१८
अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः ।
व्रतादिनिरताः शुद्धास्तत्रयोऽन्येऽनग्नयः स्मृताः ॥ १५-१८ ॥
मूलम् - १५-१८
अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः ।
व्रतादिनिरताः शुद्धास्तत्रयोऽन्येऽनग्नयः स्मृताः ॥ १५-१८ ॥
कौटुम्बमुपजीवन्ति ते त्रयो ह्यूर्ध्वरेतसः ।
प्। १३०) सात्त्विकरीतिनिगमनम्
गदिता सात्त्विकी रीतिरिति ते लेशतो मुने ॥ १५-१९ ॥
अथ त्रय्यादिरीतिकथनारम्भः
एवं विस्तरतो मेऽद्य रीतिमन्यां निशामय ।
मुखबाहूरूपज्जानां त्रय्याद्यधिकारः
ये हि ब्रह्ममुखादिभ्यो वर्णाश्चत्वार उद्गताः ॥ १५-२० ॥
ते सम्यगधिकुर्वन्ति त्रय्यादीनां चतुष्टयम् ।
त्रयीनिष्ठानां फलसिद्धिः साङ्ख्यादिनिष्ठानां क्रमात्
पञ्चरात्रारोहणं च
त्रयीस्था एव सिध्यन्ति साङ्ख्यादिष्वपि च त्रिषु ॥ १५-२१ ॥
आरोहन्तीच्छया तेऽपि सात्त्वतं शासनं परम् ।
पाशुपतनिष्ठानां त्रयीधर्माननुष्ठातृत्वम्
प्राप्ताः पाशुपतं ये हि धर्मं ब्रह्मणपूर्वकाः ॥ १५-२२ ॥
विश्वास-प्रस्तुतिः - १५-२३
न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने ।
पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते ॥ १५-२३ ॥
मूलम् - १५-२३
न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने ।
पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते ॥ १५-२३ ॥
साङ्ख्यानां नैष्कर्म्यम्
निष्कर्माणः स्मृताः साङ्ख्याः प्रसङ्ख्यानैकतत्पराः ।
योगनिष्ठानां वैदिकर्मानुष्ठातृत्वम्
नित्यनैमित्तिकैर्युक्तो योगी योगाङ्गवाञ्छया ॥ १५-२४ ॥
विश्वास-प्रस्तुतिः - १५-२५
प्। १३१) कुर्यादलब्धलाभाय लब्धवृद्धय एव च ।
ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा ॥ १५-२५ ॥
मूलम् - १५-२५
प्। १३१) कुर्यादलब्धलाभाय लब्धवृद्धय एव च ।
ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा ॥ १५-२५ ॥
त्रय्यादिमार्गगा रीतिर्नारदैषा प्रदर्शिता ।
वर्णाश्रमतद्धर्माणां निरूपणम्
वर्णाश्रमविभागं मे धर्मैः सह निशामय ॥ १५-२६ ॥
चत्वारो वर्णाः
वर्णाश्चत्वार उद्दिष्टा ब्राह्मणादिक्रमेण ये ।
आद्यानां त्रयाणां वेदाध्ययनं द्विजातित्वं च
अधीयीरंस्त्रयो वर्णाः पूर्वे भूत्वा द्विजातयः ॥ १५-२७ ॥
श्रूद्रस्य द्विजशुश्रूषा एकजातित्वं च
चतुर्थ एकजातिस्ताञ्छुश्रूषेतानहं कृतः ।
याजनाध्यापनप्रतिग्रहा ब्राह्मणस्यैव
ब्राहणो नाम यो वर्ण आद्यो ब्रह्ममुखोद्गतः ॥ १५-२८ ॥
विश्वास-प्रस्तुतिः - १५-२९
स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात् ।
याजयेच्च यथाकामं वृत्त्यर्थमनसूयया ॥ १५-२९ ॥
मूलम् - १५-२९
स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात् ।
याजयेच्च यथाकामं वृत्त्यर्थमनसूयया ॥ १५-२९ ॥
त्रिभ्यश्च प्रतिगृह्णीयादेष वैशेषिको विधिः ।
शस्त्रधारणादिकं क्षत्रियस्य
शास्त्राणां धारणं नित्यं क्षत्रजातेर्विशेषणम् ॥ १५-३० ॥
प्। १३२) क्षतत्राणं यथाशास्त्रं प्रजानां परिपालनम् ।
कृष्यादिकं वैश्यस्य
विशो वैशेषिकी वृत्तिः कृषिगोरक्षवाणिजम् ॥ १५-३१ ॥
इज्याध्ययनदानानि त्रयाणां तुलानि
विश्वास-प्रस्तुतिः - १५-३२
इज्याध्ययनदानं तु द्विजातीनामिदं समम् ।
नित्यं धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् ॥ १५-३२ ॥
मूलम् - १५-३२
इज्याध्ययनदानं तु द्विजातीनामिदं समम् ।
नित्यं धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् ॥ १५-३२ ॥
शुश्रूषा शूद्रस्य धर्मो वृत्त्यर्था च
विश्वास-प्रस्तुतिः - १५-३३
शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च ।
श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते ॥ १५-३३ ॥
मूलम् - १५-३३
शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च ।
श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते ॥ १५-३३ ॥
चतुर्णां सामान्यधर्माः
विश्वास-प्रस्तुतिः - १५-३४
अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया ।
चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते ॥ १५-३४ ॥
मूलम् - १५-३४
अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया ।
चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते ॥ १५-३४ ॥
ब्राह्मणोत्तमक्षत्रिययोश्चातुराश्रम्यम्
ब्रह्मणश्चातुराश्रम्यं क्षत्रस्य तु कथञ्चन ।
क्षत्रियवैश्ययोराद्यमाश्रमत्रयम्
त्रयं चाद्यं क्षत्रविशोर्नियतं धर्मलक्षणम् ॥ १५-३५ ॥
प्। १३३) त्रैवर्णिकानां प्रागुपनयनात् कामचारः
आचार्यजन्मनः पूर्वमव्रतास्ते द्विजातयः ।
उपनयने द्वितीयं जन्म
आचार्याज्जन्म सावित्र्यां द्वितीयं दिव्यमिष्यते ॥ १५-३६ ॥
यज्ञदीक्षायां तृतीयम्
ते त्रयो यज्ञदीक्षायां जन्म प्राप्य तृतीयकम् ।
तेषा स्वाध्यायनिष्ठानां देवतुल्यत्वम्
ब्राह्मणाः सवनस्थार्याः सवनान्ते यथाक्रमम् ॥ १५-३७ ॥
स्वाध्याये वर्तमानास्ते देवाः सर्वेऽपि ते त्रयः ।
आश्रमधर्माः
इति ते कथिता वर्णा आश्रमानपि मे शृणु ॥ १५-३८ ॥
उपकुर्वाणब्रह्मचारिधर्माः
विश्वास-प्रस्तुतिः - १५-३९
आचार्याज्जन्म सम्प्राप्य तदन्ते नियतं वसन् ।
तद्धर्मकारी तन्निष्ठस्तद्भक्तस्तत्परायणः ॥ १५-३९ ॥
मूलम् - १५-३९
आचार्याज्जन्म सम्प्राप्य तदन्ते नियतं वसन् ।
तद्धर्मकारी तन्निष्ठस्तद्भक्तस्तत्परायणः ॥ १५-३९ ॥
विश्वास-प्रस्तुतिः - १५-४०
तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः ।
कर्मशेषेण चाचार्यादिच्छन् स्वाध्यायमत्वरः ॥ १५-४० ॥
मूलम् - १५-४०
तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः ।
कर्मशेषेण चाचार्यादिच्छन् स्वाध्यायमत्वरः ॥ १५-४० ॥
विश्वास-प्रस्तुतिः - १५-४१
प्। १३४) उपासीत बहिः सन्ध्ये नित्यस्नाय्यनसूयकः ।
कुर्वन्निन्द्रियसंरोधं भूतानामनुकम्पकः ॥ १५-४१ ॥
मूलम् - १५-४१
प्। १३४) उपासीत बहिः सन्ध्ये नित्यस्नाय्यनसूयकः ।
कुर्वन्निन्द्रियसंरोधं भूतानामनुकम्पकः ॥ १५-४१ ॥
विश्वास-प्रस्तुतिः - १५-४२
वह्निं समिद्भिरिन्धान उभे सन्ध्ये समाहितः ।
धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् ॥ १५-४२ ॥
मूलम् - १५-४२
वह्निं समिद्भिरिन्धान उभे सन्ध्ये समाहितः ।
धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् ॥ १५-४२ ॥
उपकुर्वाणको नाम स्वाध्याये सिध्यति द्विजः ।
समाप्तब्रह्मचर्यस्येच्छया आश्रमान्तरप्राप्तिः
वेदस्नायी व्रतस्नायी गुरवे दक्षिणां ददत् ॥ १५-४३ ॥
प्राप्यानुज्ञां गुरोरिच्छेच्चतुर्णामेकमाश्रमम् ।
नैष्ठिकब्रह्मचारिधर्माः
यदीच्छेद् ब्रह्मचर्यं स ब्रह्मचारी स्वमाश्रमम् ॥ १५-४४ ॥
विश्वास-प्रस्तुतिः - १५-४५
आचार्यमेव सेवेत युक्त आ देहपातनात् ।
जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् ॥ १५-४५ ॥
मूलम् - १५-४५
आचार्यमेव सेवेत युक्त आ देहपातनात् ।
जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् ॥ १५-४५ ॥
अन्यथा पुण्यलोपः स्यादिति वेदानुशासनम् ।
गृहस्थधर्माः
अथ चेद्रोचयेत् कर्तुं गार्हस्थ्यं धर्ममुत्तमम् ॥ १५-४६ ॥
विश्वास-प्रस्तुतिः - १५-४७
लब्धानुज्ञो गुरोः स्नात्वा सम्प्राप्य विधिवत् स्त्रियम् ।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ॥ १५-४७ ॥
मूलम् - १५-४७
लब्धानुज्ञो गुरोः स्नात्वा सम्प्राप्य विधिवत् स्त्रियम् ।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ॥ १५-४७ ॥
श्राद्धकृत् सत्यवादी च नित्यं चैवातिथिप्रियः ।
प्। १३५) सङ्कोचिनीं चरन् वृत्तिमनसूयुरलोलुपः ॥ १५-४८ ॥
स्नातकव्रतशाली च पञ्चयज्ञपरायणः ।
गृहस्थस्यापि पाञ्चरात्रधर्मावश्यकता
पञ्चकालरतो नित्यं दयाक्षान्तिधृतिस्थितिः ॥ १५-४९ ॥
विश्वास-प्रस्तुतिः - १५-५०
अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः ।
अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः ॥ १५-५० ॥
मूलम् - १५-५०
अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः ।
अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः ॥ १५-५० ॥
मनसा कर्मणा वापि यज्ञान् सर्वान् समाचरेत् ।
निष्कामकर्मिणो गृहस्थस्यापि मोक्षप्राप्तिः
अकामहतया बुद्ध्या त्यक्ताहङ्कारलोभया ॥ १५-५१ ॥
विश्वास-प्रस्तुतिः - १५-५२
सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसम्भवम् ।
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ॥ १५-५२ ॥
मूलम् - १५-५२
सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसम्भवम् ।
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ॥ १५-५२ ॥
विश्वास-प्रस्तुतिः - १५-५३
ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम् ।
प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् ॥ १५-५३ ॥
मूलम् - १५-५३
ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम् ।
प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् ॥ १५-५३ ॥
सकामस्य गृहस्थस्य ब्रह्मलोकप्राप्तिः
केवलो धर्मनित्योऽसौ ब्रह्मलोके महीयते ।
वानप्रस्थधर्माः
गार्हस्थ्यादथवा पूर्वं वानप्रस्थ्यं श्रयेत् पदम् ॥ १५-५४ ॥
विश्वास-प्रस्तुतिः - १५-५५
प्। १३६) गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः ।
अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् ॥ १५-५५ ॥
मूलम् - १५-५५
प्। १३६) गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः ।
अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् ॥ १५-५५ ॥
विश्वास-प्रस्तुतिः - १५-५६
ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान् ।
बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः ॥ १५-५६ ॥
मूलम् - १५-५६
ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान् ।
बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः ॥ १५-५६ ॥
वत्सरे वत्सरे त्रीणि तपांसि विधिवच्चरेत् ।
वानप्रस्थस्यापि निष्कामकर्णिणो मोक्षप्राप्तिः
कुर्वन् वनस्थः शास्त्रार्थानकामहतया धिया ॥ १५-५७ ॥
विश्वास-प्रस्तुतिः - १५-५८
सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः ।
वृत्तिसङ्कोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः ॥ १५-५८ ॥
मूलम् - १५-५८
सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः ।
वृत्तिसङ्कोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः ॥ १५-५८ ॥
सम्प्राप्य तत्त्वविज्ञानं वैष्णवं श्रयते पदम् ।
सकामस्य तस्य ब्रह्मलोकप्राप्तिः
केवलो धर्मनित्यश्च महाप्रस्थानमाचरन् ॥ १५-५९ ॥
वीतशोकभयो वन्यो ब्रह्मलोके महीयते ।
सन्न्यासिधर्माः
काषायवसनं प्राप्य द्वाभ्यामादित एव वा ॥ १५-६० ॥
विश्वास-प्रस्तुतिः - १५-६१
द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत् ।
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥ १५-६१ ॥
मूलम् - १५-६१
द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत् ।
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥ १५-६१ ॥
विश्वास-प्रस्तुतिः - १५-६२
प्। १३७) लब्धानुज्ञो गुरोर्वाथ कर्मश्रान्तो महाव्रती ।
समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत् ॥ १५-६२ ॥
मूलम् - १५-६२
प्। १३७) लब्धानुज्ञो गुरोर्वाथ कर्मश्रान्तो महाव्रती ।
समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत् ॥ १५-६२ ॥
विश्वास-प्रस्तुतिः - १५-६३
विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च ।
उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः ॥ १५-६३ ॥
मूलम् - १५-६३
विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च ।
उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः ॥ १५-६३ ॥
विश्वास-प्रस्तुतिः - १५-६४
अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना ।
प्रसङ्ख्यानपरो नित्यं वेदान्तज्ञानतत्परः ॥ १५-६४ ॥
मूलम् - १५-६४
अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना ।
प्रसङ्ख्यानपरो नित्यं वेदान्तज्ञानतत्परः ॥ १५-६४ ॥
विश्वास-प्रस्तुतिः - १५-६५
समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा ।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥ १५-६५ ॥
मूलम् - १५-६५
समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा ।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥ १५-६५ ॥
विश्वास-प्रस्तुतिः - १५-६६
विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन् ।
वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः ॥ १५-६६ ॥
मूलम् - १५-६६
विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन् ।
वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः ॥ १५-६६ ॥
विश्वास-प्रस्तुतिः - १५-६७
वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा ।
गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः ॥ १५-६७ ॥
मूलम् - १५-६७
वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा ।
गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः ॥ १५-६७ ॥
विश्वास-प्रस्तुतिः - १५-६८
धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः ।
धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया ॥ १५-६८ ॥
मूलम् - १५-६८
धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः ।
धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया ॥ १५-६८ ॥
विश्वास-प्रस्तुतिः - १५-६९
दत्तसर्वाभयो योगी सर्वैर्दत्ताभयस्तथा ।
स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत् ॥ १५-६९ ॥
मूलम् - १५-६९
दत्तसर्वाभयो योगी सर्वैर्दत्ताभयस्तथा ।
स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत् ॥ १५-६९ ॥
विश्वास-प्रस्तुतिः - १५-७०
अब्रुवन् केनचित् किञ्चित् प्राप्ते कालेऽप्यविब्रुवन् ।
समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा ॥ १५-७० ॥
मूलम् - १५-७०
अब्रुवन् केनचित् किञ्चित् प्राप्ते कालेऽप्यविब्रुवन् ।
समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा ॥ १५-७० ॥
आत्मज्योतिरात्मरतिः प्रसीदन्नात्मनि स्वयम् ।
प्। १३८) प्रज्ञाप्रासादमारूढो विमुक्तः सर्वतो जनैः ॥ १५-७१ ॥
विश्वास-प्रस्तुतिः - १५-७२
भूमिष्ठानिव शैलस्थः पश्यन् सर्वानवस्थितान् ।
कैश्चिन्मूक इति प्रोक्तः कैश्चिद्धीर इतीप्सितः ॥ १५-७२ ॥
मूलम् - १५-७२
भूमिष्ठानिव शैलस्थः पश्यन् सर्वानवस्थितान् ।
कैश्चिन्मूक इति प्रोक्तः कैश्चिद्धीर इतीप्सितः ॥ १५-७२ ॥
विश्वास-प्रस्तुतिः - १५-७३
कैश्चित् कः स्विदिति प्रोक्तः कैश्चिद् घोर इतीरितः ।
उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा ॥ १५-७३ ॥
मूलम् - १५-७३
कैश्चित् कः स्विदिति प्रोक्तः कैश्चिद् घोर इतीरितः ।
उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा ॥ १५-७३ ॥
विश्वास-प्रस्तुतिः - १५-७४
विवेकबोधसन्तोषैर्नित्यं परिजनैर्वृतः ।
भैक्षाशी तुष्टिसम्पूर्णो धर्मैरीदृग्गुणैर्युतः ॥ १५-७४ ॥
मूलम् - १५-७४
विवेकबोधसन्तोषैर्नित्यं परिजनैर्वृतः ।
भैक्षाशी तुष्टिसम्पूर्णो धर्मैरीदृग्गुणैर्युतः ॥ १५-७४ ॥
सन्न्यासिनः परमपुरुषोपासनान्मोक्षप्राप्तिः
विश्वास-प्रस्तुतिः - १५-७५
प्रदीप इव शान्तार्चिः परिव्राड् ध्यानमास्थितः ।
देहसंस्कारनाशेन वैष्णवं श्रयते पदम् ॥ १५-७५ ॥
मूलम् - १५-७५
प्रदीप इव शान्तार्चिः परिव्राड् ध्यानमास्थितः ।
देहसंस्कारनाशेन वैष्णवं श्रयते पदम् ॥ १५-७५ ॥
अध्यायार्थनिगमनम्
विश्वास-प्रस्तुतिः - १५-७६
इति वर्णाश्रमा ये ते तुल्यवैशेषिकैर्युताः ।
धर्मास्ते लेशतः प्रोक्ताः किं भूयः श्रोतुमिच्छसि ॥ १५-७६ ॥
मूलम् - १५-७६
इति वर्णाश्रमा ये ते तुल्यवैशेषिकैर्युताः ।
धर्मास्ते लेशतः प्रोक्ताः किं भूयः श्रोतुमिच्छसि ॥ १५-७६ ॥
इति पाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
आदितः ९००
वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायः
रक्षातदधिकारिविषयः प्रश्नः
नारदः -
विश्वास-प्रस्तुतिः - १६-१
भगवंस्त्रिदशारिघ्न सर्वज्ञ वृषकेतन ।
प्रमाणार्थः श्रुतोऽस्माभिः सहेतुः सविपर्ययः ॥ १६-१ ॥
मूलम् - १६-१
भगवंस्त्रिदशारिघ्न सर्वज्ञ वृषकेतन ।
प्रमाणार्थः श्रुतोऽस्माभिः सहेतुः सविपर्ययः ॥ १६-१ ॥
विश्वास-प्रस्तुतिः - १६-२
सर्वस्यास्य च का रक्षा कश्च रक्षाधिकारवान् ।
सप्रकारमिदं द्वन्द्वं भगवन् वक्तुमर्हसि ॥ १६-२ ॥
मूलम् - १६-२
सर्वस्यास्य च का रक्षा कश्च रक्षाधिकारवान् ।
सप्रकारमिदं द्वन्द्वं भगवन् वक्तुमर्हसि ॥ १६-२ ॥
तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - १६-३
सुदर्शनमयी रक्षा देवस्य हरिमेधसः ।
स्वमृते विष्णुसङ्कल्पं रक्षान्या न विधीयते ॥ १६-३ ॥
मूलम् - १६-३
सुदर्शनमयी रक्षा देवस्य हरिमेधसः ।
स्वमृते विष्णुसङ्कल्पं रक्षान्या न विधीयते ॥ १६-३ ॥
वस्तुनिष्ठसामर्थ्यस्य सुदर्शनात्मकत्वम्
विश्वास-प्रस्तुतिः - १६-४
या सा दिव्या क्रियाशक्तिर्विष्णुशक्त्यंशसम्भवा ।
सुदर्शनाह्वया देवी सर्वकृत्यकरी विभोः ॥ १६-४ ॥
मूलम् - १६-४
या सा दिव्या क्रियाशक्तिर्विष्णुशक्त्यंशसम्भवा ।
सुदर्शनाह्वया देवी सर्वकृत्यकरी विभोः ॥ १६-४ ॥
विश्वास-प्रस्तुतिः - १६-५
तन्मयं विद्धि सामर्थ्यं सर्वं सर्वपदार्थजम् ।
तत्त्वानां तात्त्विकानां च चेतनाचेतनात्मनाम् ॥ १६-५ ॥
मूलम् - १६-५
तन्मयं विद्धि सामर्थ्यं सर्वं सर्वपदार्थजम् ।
तत्त्वानां तात्त्विकानां च चेतनाचेतनात्मनाम् ॥ १६-५ ॥
विश्वास-प्रस्तुतिः - १६-६
प्। १४०) प्रमाणानां विचित्राणां भावाभावयुगस्य च ।
धर्मस्यार्थस्य कामस्य मुक्तेर्बन्धत्रयस्य ॥ १६-६ ॥
मूलम् - १६-६
प्। १४०) प्रमाणानां विचित्राणां भावाभावयुगस्य च ।
धर्मस्यार्थस्य कामस्य मुक्तेर्बन्धत्रयस्य ॥ १६-६ ॥
यद्यत् स्वकार्यसामर्थ्यं तत्तत् सौदर्शनं वपुः ।
शास्त्रास्त्रव्यूहस्य रक्षासाधनत्वम्
उक्ता शास्त्रास्त्ररूपा ते विष्णुसङ्कल्पविक्रिया ॥ १६-७ ॥
विश्वास-प्रस्तुतिः - १६-८
यया देवो जगन्नाथः काले काले जनार्दनः ।
अवतीर्याथवाविश्य भूतानि लघयेद्भुवम् ॥ १६-८ ॥
मूलम् - १६-८
यया देवो जगन्नाथः काले काले जनार्दनः ।
अवतीर्याथवाविश्य भूतानि लघयेद्भुवम् ॥ १६-८ ॥
मन्त्रग्राम्स्यापि रक्षासाधनत्वम्
विश्वास-प्रस्तुतिः - १६-९
नानामन्त्रमयी चान्या यन्त्रकोशविचित्रिता ।
वेदतन्त्रोभयोद्भूता नानाप्रसवशालिनी ॥ १६-९ ॥
मूलम् - १६-९
नानामन्त्रमयी चान्या यन्त्रकोशविचित्रिता ।
वेदतन्त्रोभयोद्भूता नानाप्रसवशालिनी ॥ १६-९ ॥
साक्षाद्विष्णोः क्रियाशक्तिः शुद्धसंविन्मयी परा ।
मन्त्रमयरक्षायां ब्राह्मणस्यैवाधिकारः
सर्वतत्त्वार्थपारज्ञः सर्वविद्याविशारदः ॥ १६-१० ॥
विश्वास-प्रस्तुतिः - १६-११
अस्कन्ननित्यनैमित्तः शुद्धाभिजनसंअतः ।
त्रिशुक्लो निस्त्रिसन्देहः षट्कर्मविधिपारगः ॥ १६-११ ॥
मूलम् - १६-११
अस्कन्ननित्यनैमित्तः शुद्धाभिजनसंअतः ।
त्रिशुक्लो निस्त्रिसन्देहः षट्कर्मविधिपारगः ॥ १६-११ ॥
विश्वास-प्रस्तुतिः - १६-१२
ब्राह्मणो ब्रह्मयोनिस्थः स्वदारनिरतः शुचिः ।
अधिकुर्यात् क्रियाशक्तिं विष्णोर्मन्त्रमयीं पराम् ॥ १६-१२ ॥
मूलम् - १६-१२
ब्राह्मणो ब्रह्मयोनिस्थः स्वदारनिरतः शुचिः ।
अधिकुर्यात् क्रियाशक्तिं विष्णोर्मन्त्रमयीं पराम् ॥ १६-१२ ॥
प्। १४१) ब्राह्मणस्यापि राजानवष्टब्धस्य रक्षायामसामर्थ्यम्
विश्वास-प्रस्तुतिः - १६-१३
ब्राह्मणो नानवष्टब्धस्तया कार्यमिहार्हति ।
अवष्टम्ब्य तु राजानं जगतोऽर्थे तया चरेत् ॥ १६-१३ ॥
मूलम् - १६-१३
ब्राह्मणो नानवष्टब्धस्तया कार्यमिहार्हति ।
अवष्टम्ब्य तु राजानं जगतोऽर्थे तया चरेत् ॥ १६-१३ ॥
राजप्रशंसा
विश्वास-प्रस्तुतिः - १६-१४
राजा हि परमं भूतं सर्वदेवमयो विभुः ।
क्रियाशक्तेरधिष्ठानं वैष्णव्या भगवन्मयः ॥ १६-१४ ॥
मूलम् - १६-१४
राजा हि परमं भूतं सर्वदेवमयो विभुः ।
क्रियाशक्तेरधिष्ठानं वैष्णव्या भगवन्मयः ॥ १६-१४ ॥
विश्वास-प्रस्तुतिः - १६-१५
मूर्धतो हि पुरा देवो राजानमसृजत् प्रभुः ।
मूर्धाभिषिक्तस्तेनासौ सर्वभूतोपरि स्थितः ॥ १६-१५ ॥
मूलम् - १६-१५
मूर्धतो हि पुरा देवो राजानमसृजत् प्रभुः ।
मूर्धाभिषिक्तस्तेनासौ सर्वभूतोपरि स्थितः ॥ १६-१५ ॥
द्विगुणो ब्राह्मणो राजा वेदशास्त्रेषु गीयते ।
राजद्विषां दृष्टादृष्टयोः प्रत्यवायः
यस्तु तं द्वेष्टि सम्मोहात् स हरिं द्वेष्टि दुर्मतिः ॥ १६-१६ ॥
विश्वास-प्रस्तुतिः - १६-१७
यो हरिं द्वेष्टि सम्मोहात् स लक्ष्मीं द्वेष्टि मानवः ।
लक्ष्म्या द्वेष्टा तु दुर्मेधाः सर्वधर्मेषु हीयते ॥ १६-१७ ॥
मूलम् - १६-१७
यो हरिं द्वेष्टि सम्मोहात् स लक्ष्मीं द्वेष्टि मानवः ।
लक्ष्म्या द्वेष्टा तु दुर्मेधाः सर्वधर्मेषु हीयते ॥ १६-१७ ॥
विश्वास-प्रस्तुतिः - १६-१८
स भ्रष्टः सर्वलोकेभ्यः सर्वदेवबहिष्कृतः ।
अप्रतिष्ठे तमस्यन्धे समास्तिष्ठति शाश्वतीः ॥ १६-१८ ॥
मूलम् - १६-१८
स भ्रष्टः सर्वलोकेभ्यः सर्वदेवबहिष्कृतः ।
अप्रतिष्ठे तमस्यन्धे समास्तिष्ठति शाश्वतीः ॥ १६-१८ ॥
अतो राजा अवश्यं बहु मन्तव्यः
विश्वास-प्रस्तुतिः - १६-१९
ऐहिकामुष्मिकीं लक्ष्मीमतः प्रेप्सुरुदारधीः ।
राजानं बहु मन्येत सर्वलोकाधिदैवतम् ॥ १६-१९ ॥
मूलम् - १६-१९
ऐहिकामुष्मिकीं लक्ष्मीमतः प्रेप्सुरुदारधीः ।
राजानं बहु मन्येत सर्वलोकाधिदैवतम् ॥ १६-१९ ॥
प्। १४२) केवलयोर्ब्राह्मणनृपयोर्लक्ष्म्या अस्थिरत्वम्
विश्वास-प्रस्तुतिः - १६-२०
ब्राह्मणे केवले लक्ष्मीर्न वसत्यतिमार्दवात् ।
अत्यौग्र्याद् बिभ्यती क्षत्रे केवले नेच्छति स्थितिम् ॥ १६-२० ॥
मूलम् - १६-२०
ब्राह्मणे केवले लक्ष्मीर्न वसत्यतिमार्दवात् ।
अत्यौग्र्याद् बिभ्यती क्षत्रे केवले नेच्छति स्थितिम् ॥ १६-२० ॥
संसृष्टयोस्तयोर्लक्ष्म्याः स्थैर्यम्
विश्वास-प्रस्तुतिः - १६-२१
ब्रह्मक्षत्रे तु सम्पृक्ते ह्यग्नीषोममयात्मनि ।
निवसत्यतिसम्प्रीता ग्रीष्मे शीत इव ह्रदे ॥ १६-२१ ॥
मूलम् - १६-२१
ब्रह्मक्षत्रे तु सम्पृक्ते ह्यग्नीषोममयात्मनि ।
निवसत्यतिसम्प्रीता ग्रीष्मे शीत इव ह्रदे ॥ १६-२१ ॥
तत्र हेतुः
विश्वास-प्रस्तुतिः - १६-२२
द्वे हि ते बिभृतो लोकस्थितिं सम्भूय तेजसी ।
तयोर्हि सकला शक्तिः स्थिता विष्णोः क्रियात्मिका ॥ १६-२२ ॥
मूलम् - १६-२२
द्वे हि ते बिभृतो लोकस्थितिं सम्भूय तेजसी ।
तयोर्हि सकला शक्तिः स्थिता विष्णोः क्रियात्मिका ॥ १६-२२ ॥
अन्वयव्यतिरेकाभ्यां तत्र दृष्टान्तकथनम्
विश्वास-प्रस्तुतिः - १६-२३
महत्या हि यथा नद्याः कुसरो न धृतेः क्षमम् ।
एवं लघुर्नरो नैव क्रियाशक्तेर्धृतौ क्षमः ॥ १६-२३ ॥
मूलम् - १६-२३
महत्या हि यथा नद्याः कुसरो न धृतेः क्षमम् ।
एवं लघुर्नरो नैव क्रियाशक्तेर्धृतौ क्षमः ॥ १६-२३ ॥
विश्वास-प्रस्तुतिः - १६-२४
पारावारो यथा धीरो महतीं तां प्रतीच्छति ।
ब्रह्मपृक्तं तथा क्षत्रं क्रियाशक्तिं प्रतीच्छति ॥ १६-२४ ॥
मूलम् - १६-२४
पारावारो यथा धीरो महतीं तां प्रतीच्छति ।
ब्रह्मपृक्तं तथा क्षत्रं क्रियाशक्तिं प्रतीच्छति ॥ १६-२४ ॥
विश्वास-प्रस्तुतिः - १६-२५
पूर्यमाणं महानद्या कुतटाकं विदीर्यते ।
रक्ष्यमाणस्तथाप्येको नैव पर्याप्यते तया ॥ १६-२५ ॥
मूलम् - १६-२५
पूर्यमाणं महानद्या कुतटाकं विदीर्यते ।
रक्ष्यमाणस्तथाप्येको नैव पर्याप्यते तया ॥ १६-२५ ॥
राजार्थं प्रयुक्ताया अपि क्रियाशक्तेः
सर्वप्रजोपकारकत्वकथनम्
यथा समुद्रगामिन्यां महत्यां सरिति ध्रुवम् ।
प्। १४३) उपस्नेहेन पूर्यन्ते सरांस्यन्यानि भूयसा ॥ १६-२६ ॥
विश्वास-प्रस्तुतिः - १६-२७
प्रयुक्तायां क्रियाशक्तौ चक्रे वै चक्रवर्तिनः ।
चक्रस्था हि प्रजाः सर्वाः समेधन्ते तथा श्रिया ॥ १६-२७ ॥
मूलम् - १६-२७
प्रयुक्तायां क्रियाशक्तौ चक्रे वै चक्रवर्तिनः ।
चक्रस्था हि प्रजाः सर्वाः समेधन्ते तथा श्रिया ॥ १६-२७ ॥
चक्रवर्त्यादीनां क्रियाशक्तावधिकारतारतम्यम्
विश्वास-प्रस्तुतिः - १६-२८
चक्रवर्ती नृपः पूर्वां द्वितीयां मण्डलेश्वरः ।
अधिकुर्यात् क्रियाशक्तिं तृतीयां विषयेश्वरः ॥ १६-२८ ॥
मूलम् - १६-२८
चक्रवर्ती नृपः पूर्वां द्वितीयां मण्डलेश्वरः ।
अधिकुर्यात् क्रियाशक्तिं तृतीयां विषयेश्वरः ॥ १६-२८ ॥
विश्वास-प्रस्तुतिः - १६-२९
महामात्रो द्विजातिर्वा यो वह्वी रक्षति प्रजाः ।
इमां नैको नरः कुर्यादेकस्मै मानवाय तु ॥ १६-२९ ॥
मूलम् - १६-२९
महामात्रो द्विजातिर्वा यो वह्वी रक्षति प्रजाः ।
इमां नैको नरः कुर्यादेकस्मै मानवाय तु ॥ १६-२९ ॥
क्रियाशक्तिस्वरूपकथनारम्भः
विश्वास-प्रस्तुतिः - १६-३०
अधिकारः क्रियायाश्च शक्तेस्ते सम्प्रदर्शितः ।
रूपमस्या यथावन्मे गदतस्तन्निशामय ॥ १६-३० ॥
मूलम् - १६-३०
अधिकारः क्रियायाश्च शक्तेस्ते सम्प्रदर्शितः ।
रूपमस्या यथावन्मे गदतस्तन्निशामय ॥ १६-३० ॥
सामान्यतः शक्तेर्द्वैविध्यम्
विश्वास-प्रस्तुतिः - १६-३१
उन्मेषः परमः शक्तेर्विष्णोः कोट्यंशकोटितः ।
भाव्यभावकभेदेन स द्विधा व्यवतिष्ठते ॥ १६-३१ ॥
मूलम् - १६-३१
उन्मेषः परमः शक्तेर्विष्णोः कोट्यंशकोटितः ।
भाव्यभावकभेदेन स द्विधा व्यवतिष्ठते ॥ १६-३१ ॥
भावको विष्णुसङ्कल्पः सुदर्शनपराह्वयः ।
शक्तेः पर्यायशब्दाः
सैषा देवी क्रियाशक्तिः सामर्थ्यं योग इत्यपि ॥ १६-३२ ॥
विश्वास-प्रस्तुतिः - १६-३३
प्। १४४) पारमेष्ठ्यं महातेजो मायायोग इतीदृशैः ।
शब्दैः प्रकारसामर्थ्यः सङ्कल्पः सोऽभिधीयते ॥ १६-३३ ॥
मूलम् - १६-३३
प्। १४४) पारमेष्ठ्यं महातेजो मायायोग इतीदृशैः ।
शब्दैः प्रकारसामर्थ्यः सङ्कल्पः सोऽभिधीयते ॥ १६-३३ ॥
भावकस्य भूत्यंशप्रवर्तकत्वम्
विश्वास-प्रस्तुतिः - १६-३४
भाव्यो नाम य उन्मेषः सा भूतिरिति गीयते ।
शुद्ध्यशुद्धिमयी सेति पूर्वमेव निदर्शितम् ॥ १६-३४ ॥
मूलम् - १६-३४
भाव्यो नाम य उन्मेषः सा भूतिरिति गीयते ।
शुद्ध्यशुद्धिमयी सेति पूर्वमेव निदर्शितम् ॥ १६-३४ ॥
विश्वास-प्रस्तुतिः - १६-३५
ज्वलनस्येव सा ज्वाला सङ्कल्पेन प्रतन्यते ।
एको नारायणो देवस्तस्य भावानुगामिनी ॥ १६-३५ ॥
मूलम् - १६-३५
ज्वलनस्येव सा ज्वाला सङ्कल्पेन प्रतन्यते ।
एको नारायणो देवस्तस्य भावानुगामिनी ॥ १६-३५ ॥
तस्या देव्याः क्रियाशक्तेः स्थितिं मन्त्रमयीं शृणु ।
क्रियाशक्तेर्नादात्मकत्वम्
उद्यती सा क्रियाशक्तिर्भजते नादरूपताम् ॥ १६-३६ ॥
नादस्य दीर्घघण्टाध्वनिसाम्यम्
तं नादं परमं विद्धि दीर्घघण्टानदोपमम् ।
तस्य योगिमात्रप्रत्यक्षविषयत्वम्
परमैर्योगिभिः स्वान्ते स साक्षात् क्रियते स्वयम् ॥ १६-३७ ॥
क्वचिदुन्मेषात् तस्य बिन्दुरूपत्वम्
विश्वास-प्रस्तुतिः - १६-३८
स बुद्बुदवदम्भोधौ क्वचिदुन्मेषमृच्छति ।
अनुद्रुतगतैः सोऽथ योगिभिर्बिन्दुरुच्यते ॥ १६-३८ ॥
मूलम् - १६-३८
स बुद्बुदवदम्भोधौ क्वचिदुन्मेषमृच्छति ।
अनुद्रुतगतैः सोऽथ योगिभिर्बिन्दुरुच्यते ॥ १६-३८ ॥
प्। १४५) बिन्दोर्नामनामिरूपेण द्वैविध्यम्
नामनामिस्वरूपेण स बिन्दुर्भिद्यते द्विधा ।
नाम्नः शब्दब्रह्मत्वम्
तत्र नामोदयं प्राप्य शब्दब्रह्म प्रवर्तते ॥ १६-३९ ॥
नामिनो भूतिरूपत्वम्
प्राप्य नाम्युदयं भूतिः पूर्वोद्दिष्टा प्रवर्तते ।
वर्णोत्पत्तिकथनारम्भः
नामोदयमिदानीं मे मन्त्राध्वानं मुने शृणु ॥ १६-४० ॥
विश्वास-प्रस्तुतिः - १६-४१
सा हि बिन्दुमयी शक्तिः स्वेच्छया नामतां गता ।
अवर्णोऽप्येकधा पूर्वमनुत्तरमयात्मना ॥ १६-४१ ॥
मूलम् - १६-४१
सा हि बिन्दुमयी शक्तिः स्वेच्छया नामतां गता ।
अवर्णोऽप्येकधा पूर्वमनुत्तरमयात्मना ॥ १६-४१ ॥
बिन्दोर्द्वैविध्यम्
विश्वास-प्रस्तुतिः - १६-४२
स्वरव्यञ्जनभेदेन स द्विधा व्यवतिष्ठते ।
बिन्दुशक्तेरमुष्यास्तु भूयोऽपि शृणु विस्तरम् ॥ १६-४२ ॥
मूलम् - १६-४२
स्वरव्यञ्जनभेदेन स द्विधा व्यवतिष्ठते ।
बिन्दुशक्तेरमुष्यास्तु भूयोऽपि शृणु विस्तरम् ॥ १६-४२ ॥
विश्वास-प्रस्तुतिः - १६-४३
उदेत्येषा विसृष्टाख्या शब्दसर्गमयी परा ।
एकानेकविचित्रार्था नानावर्णविकारिणी ॥ १६-४३ ॥
मूलम् - १६-४३
उदेत्येषा विसृष्टाख्या शब्दसर्गमयी परा ।
एकानेकविचित्रार्था नानावर्णविकारिणी ॥ १६-४३ ॥
विश्वास-प्रस्तुतिः - १६-४४
साक्षात् सोमस्वरूपा सा लक्ष्म्याः शब्दमयी तनुः ।
स्वरव्यञ्जनरूपेण सा विवर्तं प्रपद्यते ॥ १६-४४ ॥
मूलम् - १६-४४
साक्षात् सोमस्वरूपा सा लक्ष्म्याः शब्दमयी तनुः ।
स्वरव्यञ्जनरूपेण सा विवर्तं प्रपद्यते ॥ १६-४४ ॥
प्। १४६) अकारात्मना तस्य स्मुन्मेषः
अ इत्यादिसमुन्मेषः सोऽनुत्तर उदीर्यते ।
अकारस्य सर्ववाग्रूपत्वम्
सर्वा वागयमेवैकस्तत्तदाकारभेदवान् ॥ १६-४५ ॥
बिन्दोरिकारोकारात्मना समुन्मेषः
स इच्छन्निरिति व्यक्त उन्मिषन्नुरिति स्मृतः ।
यथोक्तवर्णत्रयस्य सर्वस्वरविभावकत्वम्
एत एव त्रयो वर्णाः सर्वस्वरविभावनाः ॥ १६-४६ ॥
तेषां दीर्घतापत्तिः
विश्वास-प्रस्तुतिः - १६-४७
अनुत्तरः स आनन्द आभावं प्रतिपद्यते ।
इरिच्छया स ईशान ईभावं प्रतिपद्यते ॥ १६-४७ ॥
मूलम् - १६-४७
अनुत्तरः स आनन्द आभावं प्रतिपद्यते ।
इरिच्छया स ईशान ईभावं प्रतिपद्यते ॥ १६-४७ ॥
उरुन्मिषन्नूनरूप ऊभावं प्रतिपद्यते ।
एचामुत्पत्तिः
अनुत्तरेच्छासन्धानादेकारो नाम जायते ॥ १६-४८ ॥
विश्वास-प्रस्तुतिः - १६-४९
अनुत्तराद्भवन् भूय ऐभावं प्रतिपद्यते ।
दिव्यादनुत्तरोन्मेषादोकारो नाम जायते ॥ १६-४९ ॥
मूलम् - १६-४९
अनुत्तराद्भवन् भूय ऐभावं प्रतिपद्यते ।
दिव्यादनुत्तरोन्मेषादोकारो नाम जायते ॥ १६-४९ ॥
अनुत्तराद्भवन् भूय औभावं प्रतिपद्यते ।
प्। १४७) तेषां सन्ध्यक्षरत्वम्
सन्ध्यात्मान इमे कूटाश्चत्वारः समुदाहृताः ॥ १६-५० ॥
तेषामवयवार्थाविष्करणम्
विश्वास-प्रस्तुतिः - १६-५१
अनुत्तरेच्छायोगेन ह्येधमानः स ए स्मृतः ।
भूयोऽनुत्तरसंयोगादै चाप्यैश्वर्यवान् स्मृतः ॥ १६-५१ ॥
मूलम् - १६-५१
अनुत्तरेच्छायोगेन ह्येधमानः स ए स्मृतः ।
भूयोऽनुत्तरसंयोगादै चाप्यैश्वर्यवान् स्मृतः ॥ १६-५१ ॥
विश्वास-प्रस्तुतिः - १६-५२
दिव्यादनुत्तरोन्मेषादोतः सर्वत्र ओ स्मृतः ।
अनुत्तरात् स सम्भूय और्जित्यादौगतिं गतः ॥ १६-५२ ॥
मूलम् - १६-५२
दिव्यादनुत्तरोन्मेषादोतः सर्वत्र ओ स्मृतः ।
अनुत्तरात् स सम्भूय और्जित्यादौगतिं गतः ॥ १६-५२ ॥
ऋऌवर्णोत्पत्तिः
विश्वास-प्रस्तुतिः - १६-५३
एकत्रिभागयो ऋद्ध्या अरयो ऋ स्मृतो बुधैः ।
अलयोश्च तथा ऌत्वमाकारः स्यादनुत्तरः ॥ १६-५३ ॥
मूलम् - १६-५३
एकत्रिभागयो ऋद्ध्या अरयो ऋ स्मृतो बुधैः ।
अलयोश्च तथा ऌत्वमाकारः स्यादनुत्तरः ॥ १६-५३ ॥
विश्वास-प्रस्तुतिः - १६-५४
भूयोऽप्यनुत्तरोद्योगात् प्लवमानस्तथा स्मृतः ।
एवं चतुर्दशोद्योगान्नानाकारविभाविनी ॥ १६-५४ ॥
मूलम् - १६-५४
भूयोऽप्यनुत्तरोद्योगात् प्लवमानस्तथा स्मृतः ।
एवं चतुर्दशोद्योगान्नानाकारविभाविनी ॥ १६-५४ ॥
विश्वास-प्रस्तुतिः - १६-५५
नटीव कुण्डलीशक्तिराद्या विष्णोर्विजृम्भते ।
अस्य रूपद्वयं सूक्ष्मं सृष्टिसंहारकारणम् ॥ १६-५५ ॥
मूलम् - १६-५५
नटीव कुण्डलीशक्तिराद्या विष्णोर्विजृम्भते ।
अस्य रूपद्वयं सूक्ष्मं सृष्टिसंहारकारणम् ॥ १६-५५ ॥
विश्वास-प्रस्तुतिः - १६-५६
अनाख्येया महासत्ता क्रियाशक्तिः क्रमेण सा ।
शब्दात्मना विवर्त्स्यन्ती सा पुरा याति सृष्टिताम् ॥ १६-५६ ॥
मूलम् - १६-५६
अनाख्येया महासत्ता क्रियाशक्तिः क्रमेण सा ।
शब्दात्मना विवर्त्स्यन्ती सा पुरा याति सृष्टिताम् ॥ १६-५६ ॥
प्। १४८) सृष्टिः सर्गो विसर्गश्च विसर्जनमितीदृशैः ।
नाभौ कुण्डल्याः पश्यन्तीत्वम्
मूलाधारात् समुद्यन्ती सा शान्ता सा निरञ्जना ॥ १६-५७ ॥
विश्वास-प्रस्तुतिः - १६-५८
अङ्क्ष्यन्ती साञ्जनैस्तैस्तैः संस्कारैः समनुत्तरम् ।
दृष्टिदृश्यात्मतां प्राप्य शब्दार्थत्वविवर्तिनी ॥ १६-५८ ॥
मूलम् - १६-५८
अङ्क्ष्यन्ती साञ्जनैस्तैस्तैः संस्कारैः समनुत्तरम् ।
दृष्टिदृश्यात्मतां प्राप्य शब्दार्थत्वविवर्तिनी ॥ १६-५८ ॥
विश्वास-प्रस्तुतिः - १६-५९
पश्यन्ती नाम नाभौ सा योगदृश्योदयं गता ।
शक्तिः सा वैष्णवी सत्ता मन्त्रमाता समञ्जना ॥ १६-५९ ॥
मूलम् - १६-५९
पश्यन्ती नाम नाभौ सा योगदृश्योदयं गता ।
शक्तिः सा वैष्णवी सत्ता मन्त्रमाता समञ्जना ॥ १६-५९ ॥
अधिकारक्षयं यान्ति योगिनस्तां गता धिया ।
तस्या हृदब्जे विस्तारः
विजृम्भणोन्मुखी लक्ष्मीः पश्यन्ती सा क्रियामयी ॥ १६-६० ॥
विश्वास-प्रस्तुतिः - १६-६१
भावं संस्कृत्य संस्कारैः समर्थाख्यां विवर्तनाम् ।
भृङ्गीव निनदन्ती सा हृदब्जे याति विस्तृतिम् ॥ १६-६१ ॥
मूलम् - १६-६१
भावं संस्कृत्य संस्कारैः समर्थाख्यां विवर्तनाम् ।
भृङ्गीव निनदन्ती सा हृदब्जे याति विस्तृतिम् ॥ १६-६१ ॥
विश्वास-प्रस्तुतिः - १६-६२
वाच्यवाचकभावेन लोलीभूता क्रियामयी ।
तदा संस्कृतयः सर्वाः स्मृतीः पुष्यन्ति वाच्यगाः ॥ १६-६२ ॥
मूलम् - १६-६२
वाच्यवाचकभावेन लोलीभूता क्रियामयी ।
तदा संस्कृतयः सर्वाः स्मृतीः पुष्यन्ति वाच्यगाः ॥ १६-६२ ॥
तस्याः कण्ठदेशे विसर्गात्मना परिणामः
विश्वास-प्रस्तुतिः - १६-६३
एवंविधा क्रियाशक्तिस्तत्तद्वाच्यविवक्षया ।
शब्दरूपं समास्थाय कूटस्थं व्यक्तिवर्जितम् ॥ १६-६३ ॥
मूलम् - १६-६३
एवंविधा क्रियाशक्तिस्तत्तद्वाच्यविवक्षया ।
शब्दरूपं समास्थाय कूटस्थं व्यक्तिवर्जितम् ॥ १६-६३ ॥
विश्वास-प्रस्तुतिः - १६-६४
प्। १४९) सा यात्यनुत्तरस्पृष्टा कण्ठं शक्तिर्विसर्गिणी ।
पुनः सानुत्तरे स्थित्वा चतुर्दशविभाविनी ॥ १६-६४ ॥
मूलम् - १६-६४
प्। १४९) सा यात्यनुत्तरस्पृष्टा कण्ठं शक्तिर्विसर्गिणी ।
पुनः सानुत्तरे स्थित्वा चतुर्दशविभाविनी ॥ १६-६४ ॥
विश्वास-प्रस्तुतिः - १६-६५
अनुत्तरोत्तरा याति कण्ठे हेति विजृम्भणम् ।
ततः सादिमयी भूत्वा कान्तव्यञ्जनशालिनी ॥ १६-६५ ॥
मूलम् - १६-६५
अनुत्तरोत्तरा याति कण्ठे हेति विजृम्भणम् ।
ततः सादिमयी भूत्वा कान्तव्यञ्जनशालिनी ॥ १६-६५ ॥
विश्वास-प्रस्तुतिः - १६-६६
अनुत्तरमयी भूयो बिन्दौ सम्प्रतितिष्ठति ।
बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते ॥ १६-६६ ॥
मूलम् - १६-६६
अनुत्तरमयी भूयो बिन्दौ सम्प्रतितिष्ठति ।
बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते ॥ १६-६६ ॥
विश्वास-प्रस्तुतिः - १६-६७
इमौ द्वौ सृष्टिसंहारौ लेशतस्ते निदर्शितौ ।
मत्तः शृणु मुने भूयः स्वराणां विविधां ततिम् ॥ १६-६७ ॥
मूलम् - १६-६७
इमौ द्वौ सृष्टिसंहारौ लेशतस्ते निदर्शितौ ।
मत्तः शृणु मुने भूयः स्वराणां विविधां ततिम् ॥ १६-६७ ॥
स्वराणामवान्तरभेदनिरूपणम्
विश्वास-प्रस्तुतिः - १६-६८
यदादित्रितयं पूर्वं स्वरकूटस्थमीरितम् ।
अष्टादशविधं तत्तु प्रत्येकं योगिनां मतम् ॥ १६-६८ ॥
मूलम् - १६-६८
यदादित्रितयं पूर्वं स्वरकूटस्थमीरितम् ।
अष्टादशविधं तत्तु प्रत्येकं योगिनां मतम् ॥ १६-६८ ॥
विश्वास-प्रस्तुतिः - १६-६९
स्वरव्यञ्जनकूटौ यौ ऋ ऌ इत्युदितौ पुरा ।
आद्योऽष्टादशधान्त्यस्तु तयोर्द्वादशभेदवान् ॥ १६-६९ ॥
मूलम् - १६-६९
स्वरव्यञ्जनकूटौ यौ ऋ ऌ इत्युदितौ पुरा ।
आद्योऽष्टादशधान्त्यस्तु तयोर्द्वादशभेदवान् ॥ १६-६९ ॥
विश्वास-प्रस्तुतिः - १६-७०
इति स्वराणां पञ्चानामशीतिश्चतुरुत्तरा ।
स्वरकूटास्तु चत्वारो ये तेषामीदृशी भिदा ॥ १६-७० ॥
मूलम् - १६-७०
इति स्वराणां पञ्चानामशीतिश्चतुरुत्तरा ।
स्वरकूटास्तु चत्वारो ये तेषामीदृशी भिदा ॥ १६-७० ॥
विश्वास-प्रस्तुतिः - १६-७१
शतानि त्रिण्यथैकारा विंशतिश्चतुरुत्तरा ।
एवं पञ्च सहस्राणि शतान्यष्टावनुष्टुभाम् ॥ १६-७१ ॥
मूलम् - १६-७१
शतानि त्रिण्यथैकारा विंशतिश्चतुरुत्तरा ।
एवं पञ्च सहस्राणि शतान्यष्टावनुष्टुभाम् ॥ १६-७१ ॥
विश्वास-प्रस्तुतिः - १६-७२
प्। १५०) ऐकारः कथितः सम्यक् शिक्षातत्त्वविशारदैः ।
ओकारश्च तथौकार इयद्भेदौ प्रकीर्तितौ ॥ १६-७२ ॥
मूलम् - १६-७२
प्। १५०) ऐकारः कथितः सम्यक् शिक्षातत्त्वविशारदैः ।
ओकारश्च तथौकार इयद्भेदौ प्रकीर्तितौ ॥ १६-७२ ॥
विश्वास-प्रस्तुतिः - १६-७३
रम्यौ गौरौ यमित्येव सङ्ख्या सम्भूय सन्धिगा ।
योगिनस्तां प्रपश्यन्ति मन्यन्ते मनसा नराः ॥ १६-७३ ॥
मूलम् - १६-७३
रम्यौ गौरौ यमित्येव सङ्ख्या सम्भूय सन्धिगा ।
योगिनस्तां प्रपश्यन्ति मन्यन्ते मनसा नराः ॥ १६-७३ ॥
विश्वास-प्रस्तुतिः - १६-७४
सम्भूय स्वरसङ्ख्या तु स्तब्धौ गौरो यमित्यसौ ।
द्विस्तावन्तः स्वरा ज्ञेयाः सृष्टिसंहारभेदिताः ॥ १६-७४ ॥
मूलम् - १६-७४
सम्भूय स्वरसङ्ख्या तु स्तब्धौ गौरो यमित्यसौ ।
द्विस्तावन्तः स्वरा ज्ञेयाः सृष्टिसंहारभेदिताः ॥ १६-७४ ॥
विश्वास-प्रस्तुतिः - १६-७५
सर्गयुक्ता बिन्दुयुक्ताः केवला इति ये त्रिधा ।
देहोऽर्थः सङ्ग इत्येव ते सम्भूय चतुर्दश ॥ १६-७५ ॥
मूलम् - १६-७५
सर्गयुक्ता बिन्दुयुक्ताः केवला इति ये त्रिधा ।
देहोऽर्थः सङ्ग इत्येव ते सम्भूय चतुर्दश ॥ १६-७५ ॥
सृष्टिः सोमः समाख्याता बिन्दुः सूर्य उदीर्यते ।
स्वराणां सूर्यचन्द्रकिरणात्मता
पूर्वे सप्त स्वराः सूर्यकिरणाः परिकीर्तिताः ॥ १६-७६ ॥
सोमस्य किरणा ज्ञेया आकारादय उत्तरे ।
तयोरहोरात्रप्रवर्तकत्वम्
अहर्नयति सूर्यस्तु स्वरैः पिङ्गलया चरन् ॥ १६-७७ ॥
रात्रिं सृजति सोमस्तु स्वरैः स्वैरिडया चरन् ।
परशक्तेः सुषुम्नासञ्चारित्वम्
स्वराणां या परा विष्णोः कूटस्था शक्तिरुज्ज्वला ॥ १६-७८ ॥
विश्वास-प्रस्तुतिः - १६-७९
प्। १५१) सुषुम्नया सञ्चरते शब्दब्रह्म वितन्वती ।
इति ते लेशतः प्रोक्ता स्वराणां गतिरुत्तमा ॥ १६-७९ ॥
मूलम् - १६-७९
प्। १५१) सुषुम्नया सञ्चरते शब्दब्रह्म वितन्वती ।
इति ते लेशतः प्रोक्ता स्वराणां गतिरुत्तमा ॥ १६-७९ ॥
व्यञ्जनसृष्टिकथनारम्भः
अथ व्यञ्जनसृष्टिं ते कथयामि मुने शृणु ।
विसर्गस्य वासुदेवमूर्तित्वम्
अनुत्तरोत्तरा सृष्टिर्या सा हेति पुरोदिता ॥ १६-८० ॥
विश्वास-प्रस्तुतिः - १६-८१
आदिव्यूहस्य देवस्य वासुदेवस्य सा तनुः ।
अच्युतो बिन्दुयुक्तोऽसौ रुन्धन्नाधारमादिमम् ॥ १६-८१ ॥
मूलम् - १६-८१
आदिव्यूहस्य देवस्य वासुदेवस्य सा तनुः ।
अच्युतो बिन्दुयुक्तोऽसौ रुन्धन्नाधारमादिमम् ॥ १६-८१ ॥
विश्वास-प्रस्तुतिः - १६-८२
साग्निं दीपयते नादं योगारम्भे तु योगिनाम् ।
अच्युतः सृष्टियुक्तोऽसावूर्ध्वसृष्टिं करोति च ॥ १६-८२ ॥
मूलम् - १६-८२
साग्निं दीपयते नादं योगारम्भे तु योगिनाम् ।
अच्युतः सृष्टियुक्तोऽसावूर्ध्वसृष्टिं करोति च ॥ १६-८२ ॥
अच्युतः सृष्टियुक्तस्तु बहिःसृष्टिं करोत्ययम् ।
तस्मादूष्मणामुत्पत्तिस्तेषां चातुरात्म्यं च
हात् सात् षात् शात्ततः शश्वच्छक्त्यूष्माण उदीरिताः ॥ १६-८३ ॥
चातुरात्म्यमिदं प्रोक्तं चतुर्ब्रह्मेति शब्दितम् ।
क्षकारसहितानां तेषां ब्रह्मशब्दवाच्यत्वम्
क्षेण कूटेन संयोगात् पञ्चब्रह्मेति शब्दितम् ॥ १६-८४ ॥
क्षस्तु सत्यस्य बीजं तु प्रोक्तः सात्त्वतशासने ।
प्। १५२) कषकूटमुशन्त्यन्ये नित्यं तत्प्रतिरूपकम् ॥ १६-८५ ॥
अन्तःस्थानामुत्पत्तिस्तेषां सञ्ज्ञात्रयं च
विश्वास-प्रस्तुतिः - १६-८६
शाद्वस्तस्माल्ल उद्दिष्टो लाद्रो राद्यः प्रजायते ।
धारणा नाम विज्ञेया याद्या विश्वस्य धारणात् ॥ १६-८६ ॥
मूलम् - १६-८६
शाद्वस्तस्माल्ल उद्दिष्टो लाद्रो राद्यः प्रजायते ।
धारणा नाम विज्ञेया याद्या विश्वस्य धारणात् ॥ १६-८६ ॥
विश्वास-प्रस्तुतिः - १६-८७
अन्तःस्था इति च प्रोक्ता अन्तःस्थपुरुषेशयाः ।
अवस्था इति च प्रोक्ता ईशावतरणक्रमे ॥ १६-८७ ॥
मूलम् - १६-८७
अन्तःस्था इति च प्रोक्ता अन्तःस्थपुरुषेशयाः ।
अवस्था इति च प्रोक्ता ईशावतरणक्रमे ॥ १६-८७ ॥
मकारोत्पत्तिः
विश्वास-प्रस्तुतिः - १६-८८
यकारादीशशक्तिस्थान्मकारो नाम जायते ।
अनुत्तरोत्तरो बिन्दुर्म इति प्रतिशब्द्यते ॥ १६-८८ ॥
मूलम् - १६-८८
यकारादीशशक्तिस्थान्मकारो नाम जायते ।
अनुत्तरोत्तरो बिन्दुर्म इति प्रतिशब्द्यते ॥ १६-८८ ॥
तस्य सर्वचेतनसमष्टिरूपत्वं जीववाचित्वं च
विश्वास-प्रस्तुतिः - १६-८९
चेतनानां तु सर्वेषां समष्टिः सा निगद्यते ।
अस्मदर्थोऽयमुद्दिष्ट सोऽयमुत्तमपूरुषः ॥ १६-८९ ॥
मूलम् - १६-८९
चेतनानां तु सर्वेषां समष्टिः सा निगद्यते ।
अस्मदर्थोऽयमुद्दिष्ट सोऽयमुत्तमपूरुषः ॥ १६-८९ ॥
भकारोत्पत्तिस्तस्य च प्रकृतिवाचित्वम्
विश्वास-प्रस्तुतिः - १६-९०
सूक्ष्मेक्षयानुवृद्धौ सा प्रकृत्या भोग्यरूपया ।
भ इत्येव मकारात् सा पुनः स्थूला विविच्यते ॥ १६-९० ॥
मूलम् - १६-९०
सूक्ष्मेक्षयानुवृद्धौ सा प्रकृत्या भोग्यरूपया ।
भ इत्येव मकारात् सा पुनः स्थूला विविच्यते ॥ १६-९० ॥
प्। १५३) बादिटान्तत्रयोदशवर्णोत्पत्तिः
विश्वास-प्रस्तुतिः - १६-९१
भोगोपकरणाकारा बहिरन्तर्व्यवस्थया ।
त्रयोदशात्मना व्यक्ता बाद्या टान्ता महामुने ॥ १६-९१ ॥
मूलम् - १६-९१
भोगोपकरणाकारा बहिरन्तर्व्यवस्थया ।
त्रयोदशात्मना व्यक्ता बाद्या टान्ता महामुने ॥ १६-९१ ॥
बादित्रयस्य महदहङ्कारमनोवाचित्वम् तवर्गस्य
ज्ञानेन्द्रियवाचित्वम्
विश्वास-प्रस्तुतिः - १६-९२
बुद्धिश्चाहङ्कृतिश्चैव मनश्चेति मनीषिभिः ।
वादित्रितयमुद्दिष्टं नादि तान्तं तु धीन्द्रियम् ॥ १६-९२ ॥
मूलम् - १६-९२
बुद्धिश्चाहङ्कृतिश्चैव मनश्चेति मनीषिभिः ।
वादित्रितयमुद्दिष्टं नादि तान्तं तु धीन्द्रियम् ॥ १६-९२ ॥
टवर्गस्य कर्मेन्द्रियवाचकत्वम्
णादि टान्तं तु कर्माख्यमथ भोग्योद्भवो द्विधा ।
चवर्गोत्पत्तिः तस्य तन्मात्रवाचित्वम्
ञादि चान्तं तु तन्मात्रपञ्चकं प्रविजृम्भते ॥ १६-९३ ॥
कवर्गोत्पत्तिः तस्य महाभूतवाचित्वम्
विश्वास-प्रस्तुतिः - १६-९४
ङादिः पञ्चमहाभूता कान्तान्या वर्णसन्ततिः ।
यस्माद्यस्योद्भवो वर्णात् तत्त्वसृष्ट्यां तु तत् स्मरेत् ॥ १६-९४ ॥
मूलम् - १६-९४
ङादिः पञ्चमहाभूता कान्तान्या वर्णसन्ततिः ।
यस्माद्यस्योद्भवो वर्णात् तत्त्वसृष्ट्यां तु तत् स्मरेत् ॥ १६-९४ ॥
लकारोत्पत्तिः
लस्यैव करणान्यत्वे लकारो नाम जायते ।
व्यञ्जनानां वैविध्यम्
चतुस्त्रिंशदिति प्रोक्ता वर्णास्ते व्यञ्जनात्मकाः ॥ १६-९५ ॥
विश्वास-प्रस्तुतिः - १६-९६
प्। १५४) एवमेकैकशो योगाद्भेदाः स्युर्बहवः स्वरैः ।
चतुःपञ्चाशदुद्दिष्टाः ककारास्तत्र वै मुने ॥ १६-९६ ॥
मूलम् - १६-९६
प्। १५४) एवमेकैकशो योगाद्भेदाः स्युर्बहवः स्वरैः ।
चतुःपञ्चाशदुद्दिष्टाः ककारास्तत्र वै मुने ॥ १६-९६ ॥
विश्वास-प्रस्तुतिः - १६-९७
किकाराश्च कुकाराश्च कृकाराश्च तथाविधाः ।
कॢकारास्तत्र षट्त्रिंशत् केकारा रसधीर्मुने ॥ १६-९७ ॥
मूलम् - १६-९७
किकाराश्च कुकाराश्च कृकाराश्च तथाविधाः ।
कॢकारास्तत्र षट्त्रिंशत् केकारा रसधीर्मुने ॥ १६-९७ ॥
विश्वास-प्रस्तुतिः - १६-९८
तथाविधाश्च कोकारा योगिभिः सङ्ख्यया स्मृताः ।
स्तब्धस्वार्थोऽयमित्येवं कैकारो योगिभिः स्मृतः ॥ १६-९८ ॥
मूलम् - १६-९८
तथाविधाश्च कोकारा योगिभिः सङ्ख्यया स्मृताः ।
स्तब्धस्वार्थोऽयमित्येवं कैकारो योगिभिः स्मृतः ॥ १६-९८ ॥
विश्वास-प्रस्तुतिः - १६-९९
कौकाराश्च तथासङ्ख्याः सप्त संहत्य ते पुनः ।
देहोऽर्थः सङ्ग इत्येवं सङ्ख्याताः परमर्षिभिः ॥ १६-९९ ॥
मूलम् - १६-९९
कौकाराश्च तथासङ्ख्याः सप्त संहत्य ते पुनः ।
देहोऽर्थः सङ्ग इत्येवं सङ्ख्याताः परमर्षिभिः ॥ १६-९९ ॥
विश्वास-प्रस्तुतिः - १६-१००
वेगव्यञ्जनसङ्ख्यैव देहोऽर्थः साङ्गभेदिताः ।
नीतिमत्प्रतिभा हेति सङ्ख्यया जायते मुने ॥ १६-१०० ॥
मूलम् - १६-१००
वेगव्यञ्जनसङ्ख्यैव देहोऽर्थः साङ्गभेदिताः ।
नीतिमत्प्रतिभा हेति सङ्ख्यया जायते मुने ॥ १६-१०० ॥
विश्वास-प्रस्तुतिः - १६-१०१
स्वरव्यञ्जनसंयोगादियं सङ्ख्या समीरिता ।
एकद्वित्र्यादिसंयोगैर्व्यञ्जनानां क्रमात् क्रमात् ॥ १६-१०१ ॥
मूलम् - १६-१०१
स्वरव्यञ्जनसंयोगादियं सङ्ख्या समीरिता ।
एकद्वित्र्यादिसंयोगैर्व्यञ्जनानां क्रमात् क्रमात् ॥ १६-१०१ ॥
केवलानां सस्वराणां ततः सङ्ख्याविधिः स्मृतः ।
वर्णमातृकाया भगवच्छक्तिप्रोतत्वम्
पदवाक्यप्रमाणादिनानाकोरकशालिनी ॥ १६-१०२ ॥
विश्वास-प्रस्तुतिः - १६-१०३
वर्णस्तम्बा ज्ञानमूला शब्दशक्तिर्हि वैष्णवी ।
विष्णुना देवदेवेन तेन शक्तिमता स्वयम् ॥ १६-१०३ ॥
मूलम् - १६-१०३
वर्णस्तम्बा ज्ञानमूला शब्दशक्तिर्हि वैष्णवी ।
विष्णुना देवदेवेन तेन शक्तिमता स्वयम् ॥ १६-१०३ ॥
स्थूलसूक्ष्मपरत्वेन प्रोतेयं वर्णसन्ततिः ।
प्। १५५) भगवदाज्ञया रुद्रांशस्यापि
वर्णमातृकाधिष्ठातृत्वम्
विश्वास-प्रस्तुतिः - १६-१०४
तदाज्ञयास्मदंशैश्च रुद्रैर्नानाविधैरियम् ।
मन्त्रयोनिरियं देवी मातृकाधिष्ठिता सदा ॥ १६-१०४ ॥
मूलम् - १६-१०४
तदाज्ञयास्मदंशैश्च रुद्रैर्नानाविधैरियम् ।
मन्त्रयोनिरियं देवी मातृकाधिष्ठिता सदा ॥ १६-१०४ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥
आदितः श्लोकाः १००४
वर्णसञ्ज्ञानिरूपणं नाम सप्तदशोऽध्यायः
ध्यायिनां सुखदं नित्यं ज्वालाजटिलकुन्तलम् ।
सुदर्शनाख्यं तद्दिव्यं महः किमपि धीमहि ॥
वर्णमातृकाधिष्ठातृरूपप्रश्नः
नारदः -
विश्वास-प्रस्तुतिः - १७-१
नमस्ते शर्व सर्वज्ञ सर्वासुरनिबर्हण ।
स्थूलसूक्ष्मपरैर्भावैर्यथा वर्णा अधिष्ठिताः ॥ १७-१ ॥
मूलम् - १७-१
नमस्ते शर्व सर्वज्ञ सर्वासुरनिबर्हण ।
स्थूलसूक्ष्मपरैर्भावैर्यथा वर्णा अधिष्ठिताः ॥ १७-१ ॥
विश्वास-प्रस्तुतिः - १७-२
विष्णुना देवदेवेन रुद्रैश्च भवदंशकैः ।
तथा तं मे परं भावं वक्तुमर्हसि शङ्कर ॥ १७-२ ॥
मूलम् - १७-२
विष्णुना देवदेवेन रुद्रैश्च भवदंशकैः ।
तथा तं मे परं भावं वक्तुमर्हसि शङ्कर ॥ १७-२ ॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः -
विश्वास-प्रस्तुतिः - १७-३
विष्णुशक्तिमया वर्णा विष्णुसङ्कल्पजृम्भिताः ।
अधिष्ठिता यथा भावैस्तथा तन्मे निशामय ॥ १७-३ ॥
मूलम् - १७-३
विष्णुशक्तिमया वर्णा विष्णुसङ्कल्पजृम्भिताः ।
अधिष्ठिता यथा भावैस्तथा तन्मे निशामय ॥ १७-३ ॥
वर्णाधिष्ठातृवैष्णवरूपाणि
विश्वास-प्रस्तुतिः - १७-४
प्रथमश्चाप्रमेयश्च व्यापकोऽकार उच्यते ।
आनन्द आदिदेवश्च गोपनश्चाः स्मृतो बुधैः ॥ १७-४ ॥
मूलम् - १७-४
प्रथमश्चाप्रमेयश्च व्यापकोऽकार उच्यते ।
आनन्द आदिदेवश्च गोपनश्चाः स्मृतो बुधैः ॥ १७-४ ॥
विश्वास-प्रस्तुतिः - १७-५
प्। १५७) इष्ट इद्धश्च रामश्च इकारः परिपठ्यते ।
विष्णुश्च पञ्चबिन्दुश्च माया ईकार उच्यते ॥ १७-५ ॥
मूलम् - १७-५
प्। १५७) इष्ट इद्धश्च रामश्च इकारः परिपठ्यते ।
विष्णुश्च पञ्चबिन्दुश्च माया ईकार उच्यते ॥ १७-५ ॥
विश्वास-प्रस्तुतिः - १७-६
उकार उदयश्चापि ह्युद्दामो भुवनाह्वयः ।
प्रज्ञाधारश्च लोकेश ऊर्ज ऊकार उच्यते ॥ १७-६ ॥
मूलम् - १७-६
उकार उदयश्चापि ह्युद्दामो भुवनाह्वयः ।
प्रज्ञाधारश्च लोकेश ऊर्ज ऊकार उच्यते ॥ १७-६ ॥
विश्वास-प्रस्तुतिः - १७-७
ऋकार ऋतधामा च सत्यश्चाङ्कुश एव च ।
ज्वाला प्रसरणश्चैव ऋकारो विष्टराह्वयः ॥ १७-७ ॥
मूलम् - १७-७
ऋकार ऋतधामा च सत्यश्चाङ्कुश एव च ।
ज्वाला प्रसरणश्चैव ऋकारो विष्टराह्वयः ॥ १७-७ ॥
विश्वास-प्रस्तुतिः - १७-८
ऌकारस्तारकः प्रोक्तो लिङ्गात्मा भगवानिति ।
ॡकारो दीर्घघोणश्च देवदत्तस्तथा विराट् ॥ १७-८ ॥
मूलम् - १७-८
ऌकारस्तारकः प्रोक्तो लिङ्गात्मा भगवानिति ।
ॡकारो दीर्घघोणश्च देवदत्तस्तथा विराट् ॥ १७-८ ॥
विश्वास-प्रस्तुतिः - १७-९
एकारस्तु जगद्योनिस्त्र्यश्रो विग्रह एव च ।
ऐकारश्च तथैश्वर्यं योगी ह्यैरावणस्तथा ॥ १७-९ ॥
मूलम् - १७-९
एकारस्तु जगद्योनिस्त्र्यश्रो विग्रह एव च ।
ऐकारश्च तथैश्वर्यं योगी ह्यैरावणस्तथा ॥ १७-९ ॥
विश्वास-प्रस्तुतिः - १७-१०
ओदनश्चौतदेवश्च विक्रम्योकार उच्यते ।
और्वो भूधरसञ्ज्ञश्चाप्यौः स्मृतो ह्यौषधात्मकः ॥ १७-१० ॥
मूलम् - १७-१०
ओदनश्चौतदेवश्च विक्रम्योकार उच्यते ।
और्वो भूधरसञ्ज्ञश्चाप्यौः स्मृतो ह्यौषधात्मकः ॥ १७-१० ॥
विश्वास-प्रस्तुतिः - १७-११
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशौङ्कार एव च ।
अङ्कारः सृष्टिकृत् प्रोक्तो विसर्गः परमेश्वरः ॥ १७-११ ॥
मूलम् - १७-११
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशौङ्कार एव च ।
अङ्कारः सृष्टिकृत् प्रोक्तो विसर्गः परमेश्वरः ॥ १७-११ ॥
विश्वास-प्रस्तुतिः - १७-१२
ककारः कमलश्चैव करालः प्रकृतिः परा ।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥ १७-१२ ॥
मूलम् - १७-१२
ककारः कमलश्चैव करालः प्रकृतिः परा ।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥ १७-१२ ॥
गकारस्तु गदध्वंसी गोविन्दश्च गदाधरः ।
प्। १५८) घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा ॥ १७-१३ ॥
विश्वास-प्रस्तुतिः - १७-१४
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः ।
चद्रांशुश्चञ्चलश्चक्री चकारः परिकीर्त्यते ॥ १७-१४ ॥
मूलम् - १७-१४
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः ।
चद्रांशुश्चञ्चलश्चक्री चकारः परिकीर्त्यते ॥ १७-१४ ॥
विश्वास-प्रस्तुतिः - १७-१५
छन्दःपतिश्छलध्वंसी छकार छन्द एव च ।
अजितो जन्महन्ता च जकारः शाश्वतः स्मृतः ॥ १७-१५ ॥
मूलम् - १७-१५
छन्दःपतिश्छलध्वंसी छकार छन्द एव च ।
अजितो जन्महन्ता च जकारः शाश्वतः स्मृतः ॥ १७-१५ ॥
विश्वास-प्रस्तुतिः - १७-१६
झकारो झषसञ्ज्ञस्तु सामगः सामपाठकः ।
ञकार उत्तमाख्यश्च ईश्वरस्तत्त्वधारकः ॥ १७-१६ ॥
मूलम् - १७-१६
झकारो झषसञ्ज्ञस्तु सामगः सामपाठकः ।
ञकार उत्तमाख्यश्च ईश्वरस्तत्त्वधारकः ॥ १७-१६ ॥
विश्वास-प्रस्तुतिः - १७-१७
विश्वाप्यायकरश्चन्द्री ट आह्लाद उदीरितः ।
धाराधरो नेमिसञ्ज्ञष्ठकारः कौस्तुभो मतः ॥ १७-१७ ॥
मूलम् - १७-१७
विश्वाप्यायकरश्चन्द्री ट आह्लाद उदीरितः ।
धाराधरो नेमिसञ्ज्ञष्ठकारः कौस्तुभो मतः ॥ १७-१७ ॥
विश्वास-प्रस्तुतिः - १७-१८
मौसलो दण्डधारश्च डकारोऽखण्डविक्रमः ।
ढकारो विश्वरूपश्च दृढकर्मा प्रतर्दनः ॥ १७-१८ ॥
मूलम् - १७-१८
मौसलो दण्डधारश्च डकारोऽखण्डविक्रमः ।
ढकारो विश्वरूपश्च दृढकर्मा प्रतर्दनः ॥ १७-१८ ॥
विश्वास-प्रस्तुतिः - १७-१९
णकारोऽभयदः शास्ता वैकुण्ठः परिकीर्तितः ।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरस्तथा ॥ १७-१९ ॥
मूलम् - १७-१९
णकारोऽभयदः शास्ता वैकुण्ठः परिकीर्तितः ।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरस्तथा ॥ १७-१९ ॥
विश्वास-प्रस्तुतिः - १७-२०
धन्वी भुवनपालश्च थकारः सर्वधारकः ।
दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः ॥ १७-२० ॥
मूलम् - १७-२०
धन्वी भुवनपालश्च थकारः सर्वधारकः ।
दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः ॥ १७-२० ॥
विश्वास-प्रस्तुतिः - १७-२१
धकारः शार्ङ्गधृग्धामा माधवश्च प्रकीर्तितः ।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ १७-२१ ॥
मूलम् - १७-२१
धकारः शार्ङ्गधृग्धामा माधवश्च प्रकीर्तितः ।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ १७-२१ ॥
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः ।
प्। १५९) फकारः फुल्लनयनो लाङ्गली श्वेतसञ्ज्ञितः ॥ १७-२२ ॥
विश्वास-प्रस्तुतिः - १७-२३
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते ।
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ १७-२३ ॥
मूलम् - १७-२३
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते ।
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ १७-२३ ॥
विश्वास-प्रस्तुतिः - १७-२४
मकारो मर्दनः कालः प्रधानः परिपठ्यते ।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ १७-२४ ॥
मूलम् - १७-२४
मकारो मर्दनः कालः प्रधानः परिपठ्यते ।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ १७-२४ ॥
विश्वास-प्रस्तुतिः - १७-२५
अशेषभुवनाधारो रोऽनलः कालपावकः ।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ १७-२५ ॥
मूलम् - १७-२५
अशेषभुवनाधारो रोऽनलः कालपावकः ।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ १७-२५ ॥
विश्वास-प्रस्तुतिः - १७-२६
वराहश्चामृताधारो वकारो वरुणः स्मृतः ।
शकारः शङ्करः शान्तः पुण्डरीकः प्रकीर्तितः ॥ १७-२६ ॥
मूलम् - १७-२६
वराहश्चामृताधारो वकारो वरुणः स्मृतः ।
शकारः शङ्करः शान्तः पुण्डरीकः प्रकीर्तितः ॥ १७-२६ ॥
विश्वास-प्रस्तुतिः - १७-२७
नृसिंहश्चाग्निरूपश्च षकारो भास्करस्तथा ।
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः ॥ १७-२७ ॥
मूलम् - १७-२७
नृसिंहश्चाग्निरूपश्च षकारो भास्करस्तथा ।
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः ॥ १७-२७ ॥
विश्वास-प्रस्तुतिः - १७-२८
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः ।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडः स्मृतः ॥ १७-२८ ॥
मूलम् - १७-२८
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः ।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडः स्मृतः ॥ १७-२८ ॥
विश्वास-प्रस्तुतिः - १७-२९
बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते ।
विष्णुशक्तिमया एते स्थूलसूक्ष्मपरात्मकाः ॥ १७-२९ ॥
मूलम् - १७-२९
बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते ।
विष्णुशक्तिमया एते स्थूलसूक्ष्मपरात्मकाः ॥ १७-२९ ॥
अप्रमेयादयो भावाः शतं सार्धमुदीरिताः ।
वर्णाधिष्ठातृरौद्ररूपाणि
वर्णास्तेऽधिष्ठिता यैस्तैर्मदंशै रुद्रसञ्ज्ञितैः ॥ १७-३० ॥
विश्वास-प्रस्तुतिः - १७-३१
प्। १६०) तान्निबोध महाभागानक्षरस्थान् महामुने ।
श्रीकण्ठानन्दसूक्ष्मेशास्त्रिमूर्तिरमेश्वरः ॥ १७-३१ ॥
मूलम् - १७-३१
प्। १६०) तान्निबोध महाभागानक्षरस्थान् महामुने ।
श्रीकण्ठानन्दसूक्ष्मेशास्त्रिमूर्तिरमेश्वरः ॥ १७-३१ ॥
विश्वास-प्रस्तुतिः - १७-३२
अङ्घ्रीऽसो भारभूतिश्च तिथिः स्थाणुर्भवाह्वयः ।
चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ॥ १७-३२ ॥
मूलम् - १७-३२
अङ्घ्रीऽसो भारभूतिश्च तिथिः स्थाणुर्भवाह्वयः ।
चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ॥ १७-३२ ॥
विश्वास-प्रस्तुतिः - १७-३३
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ।
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ॥ १७-३३ ॥
मूलम् - १७-३३
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ।
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ॥ १७-३३ ॥
विश्वास-प्रस्तुतिः - १७-३४
तथैकरुद्रः कूर्मैकनेत्राह्वचतुराननाः ।
अजेशः सर्वसोमेशौ लाङ्गली दारिकस्तथा ॥ १७-३४ ॥
मूलम् - १७-३४
तथैकरुद्रः कूर्मैकनेत्राह्वचतुराननाः ।
अजेशः सर्वसोमेशौ लाङ्गली दारिकस्तथा ॥ १७-३४ ॥
विश्वास-प्रस्तुतिः - १७-३५
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ ।
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ॥ १७-३५ ॥
मूलम् - १७-३५
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ ।
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ॥ १७-३५ ॥
विश्वास-प्रस्तुतिः - १७-३६
चलगण्डद्विगण्डौ च समहाकालवालिनौ ।
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ॥ १७-३६ ॥
मूलम् - १७-३६
चलगण्डद्विगण्डौ च समहाकालवालिनौ ।
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ॥ १७-३६ ॥
विश्वास-प्रस्तुतिः - १७-३७
श्वेतो भृगुर्वकुलीशः संवर्तक इतीरितः ।
रुद्रमूर्तय उद्दिष्टा मदीया वर्णपालिकाः ॥ १७-३७ ॥
मूलम् - १७-३७
श्वेतो भृगुर्वकुलीशः संवर्तक इतीरितः ।
रुद्रमूर्तय उद्दिष्टा मदीया वर्णपालिकाः ॥ १७-३७ ॥
वर्णचक्रपद्मनिरूपणम्
विश्वास-प्रस्तुतिः - १७-३८
तथा वर्णमयं चक्रं पद्मं चापि निबोध मे ।
प्रणवोऽक्षः समुद्दिष्टः शक्तिर्नाभिरुदीरिता ॥ १७-३८ ॥
मूलम् - १७-३८
तथा वर्णमयं चक्रं पद्मं चापि निबोध मे ।
प्रणवोऽक्षः समुद्दिष्टः शक्तिर्नाभिरुदीरिता ॥ १७-३८ ॥
विश्वास-प्रस्तुतिः - १७-३९
प्। १६१) अकचाष्टतपाश्चैव सवर्ग्या अरपद्धतिः ।
यादयो नेमिरुद्दिष्टा गरुडः प्रधिरुच्यते ॥ १७-३९ ॥
मूलम् - १७-३९
प्। १६१) अकचाष्टतपाश्चैव सवर्ग्या अरपद्धतिः ।
यादयो नेमिरुद्दिष्टा गरुडः प्रधिरुच्यते ॥ १७-३९ ॥
विश्वास-प्रस्तुतिः - १७-४०
प्रणवः कर्णिका प्रोक्ता शक्तिः केसरपद्धतिः ।
स्वरद्विरष्टकं वर्गा अन्तःस्था ऊष्मभिः सह ॥ १७-४० ॥
मूलम् - १७-४०
प्रणवः कर्णिका प्रोक्ता शक्तिः केसरपद्धतिः ।
स्वरद्विरष्टकं वर्गा अन्तःस्था ऊष्मभिः सह ॥ १७-४० ॥
विश्वास-प्रस्तुतिः - १७-४१
पत्राष्टकमिदं प्रोक्तं गरुडो दीप्तिरुच्यते ।
इति चक्राब्जमध्यस्था मातृकावर्णमालिनी ॥ १७-४१ ॥
मूलम् - १७-४१
पत्राष्टकमिदं प्रोक्तं गरुडो दीप्तिरुच्यते ।
इति चक्राब्जमध्यस्था मातृकावर्णमालिनी ॥ १७-४१ ॥
मन्त्रयोनिर्महादेवी वैष्णवी षड्गुणात्मिका ।
वर्णमातृकात्मकवैष्णवशक्तिस्वरूपवर्णनम्
आदिवर्णप्रकॢप्ताङ्गा वर्गाभरणभूषिता ॥ १७-४२ ॥
विश्वास-प्रस्तुतिः - १७-४३
पद्मगर्भप्रतीकाशा शङ्खपङ्कजधारिणी ।
प्रणवेनाथ शक्त्या च श्रिया सङ्कॢप्तदेहिका ॥ १७-४३ ॥
मूलम् - १७-४३
पद्मगर्भप्रतीकाशा शङ्खपङ्कजधारिणी ।
प्रणवेनाथ शक्त्या च श्रिया सङ्कॢप्तदेहिका ॥ १७-४३ ॥
विश्वास-प्रस्तुतिः - १७-४४
स्वरसम्पूर्णवदना कचकॢप्तकरद्वया ।
टतकॢप्तपदद्वन्द्वा पादिकॢप्तोदरा शुभा ॥ १७-४४ ॥
मूलम् - १७-४४
स्वरसम्पूर्णवदना कचकॢप्तकरद्वया ।
टतकॢप्तपदद्वन्द्वा पादिकॢप्तोदरा शुभा ॥ १७-४४ ॥
विश्वास-प्रस्तुतिः - १७-४५
यरप्राणोष्मका देवी लकारवरहारिणी ।
वकारकाञ्चीसुभगा शषकुण्डलधारिणी ॥ १७-४५ ॥
मूलम् - १७-४५
यरप्राणोष्मका देवी लकारवरहारिणी ।
वकारकाञ्चीसुभगा शषकुण्डलधारिणी ॥ १७-४५ ॥
विश्वास-प्रस्तुतिः - १७-४६
सहृत्का हान्तरात्मा च क्षप्रभा वर्णमालिनी ।
पाशाङ्कुशकराग्रा च वाणी ध्येया विपश्चिता ॥ १७-४६ ॥
मूलम् - १७-४६
सहृत्का हान्तरात्मा च क्षप्रभा वर्णमालिनी ।
पाशाङ्कुशकराग्रा च वाणी ध्येया विपश्चिता ॥ १७-४६ ॥
प्रथमं वैष्णवशक्त्याराधनम्
वक्ष्यमाणेन मन्त्रेण पुरैवाराधयेद्गिरम् ।
ततो मन्त्रोद्धारः
प्। १६२) लब्धानुज्ञस्ततो देव्या गुरुपङ्क्तिं समर्च्य च ॥ १७-४७ ॥
गणेशमभिपूज्याथ मन्त्रानिष्टान् समुद्धरेत् ।
वैष्णवरूपैरेव वैष्णवमन्त्रोद्धरणम्
अप्रमेयादिभिर्भावैर्वैष्णवानुद्धरेत् सुधीः ॥ १७-४८ ॥
रौद्रमन्त्राणा रौद्ररूपैरुद्धरणम् शक्तिमन्त्राणां
शक्तिरूपैः
विश्वास-प्रस्तुतिः - १७-४९
रौद्रान् रुद्रैस्ततः शाक्तान् भारत्यंशैः समुद्धरेत् ।
यद्यपि व्यापका मन्त्रा नित्यं सिद्धा महामुने ॥ १७-४९ ॥
मूलम् - १७-४९
रौद्रान् रुद्रैस्ततः शाक्तान् भारत्यंशैः समुद्धरेत् ।
यद्यपि व्यापका मन्त्रा नित्यं सिद्धा महामुने ॥ १७-४९ ॥
स्युः शक्तिशालिनो मन्त्रा एवं सृष्टिविचिन्तनात् ।
उक्तक्रमोल्लङ्घने प्रत्यवायः
उज्झित्वोक्तक्रमं यो हि मन्दात्मा मन्त्रमुद्धरेत् ॥ १७-५० ॥
भवन्ति शापदा मन्त्रास्तस्य शास्त्रातिवर्तिनः ।
अनुल्लङ्घनेऽभ्युदयः
विश्वास-प्रस्तुतिः - १७-५१
अनुज्झित्वा क्रमं सर्वं यः सुधीर्मन्त्रमुद्धरेत् ।
तस्याध्ययनमात्रेण मन्त्रः सिद्धिं प्रयच्छति ॥ १७-५१ ॥
मूलम् - १७-५१
अनुज्झित्वा क्रमं सर्वं यः सुधीर्मन्त्रमुद्धरेत् ।
तस्याध्ययनमात्रेण मन्त्रः सिद्धिं प्रयच्छति ॥ १७-५१ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
वर्णसञ्ज्ञानिरूपणं नाम सप्तदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकाः १०५५
मन्त्रोद्धारो नाम अष्टादशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
शक्तिमन्त्रोद्धारः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - १८-१
शक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम् ।
विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः ॥ १८-१ ॥
मूलम् - १८-१
शक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम् ।
विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः ॥ १८-१ ॥
विश्वास-प्रस्तुतिः - १८-२
वानीहृदयमादाय योजयेदन्तरात्मना ।
हृदा पुनः समायोज्य योजयेदूष्मणो द्वयम् ॥ १८-२ ॥
मूलम् - १८-२
वानीहृदयमादाय योजयेदन्तरात्मना ।
हृदा पुनः समायोज्य योजयेदूष्मणो द्वयम् ॥ १८-२ ॥
विश्वास-प्रस्तुतिः - १८-३
पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम् ।
व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः ॥ १८-३ ॥
मूलम् - १८-३
पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम् ।
व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः ॥ १८-३ ॥
सङ्क्षेपतस्तत्प्रभावः
विश्वास-प्रस्तुतिः - १८-४
इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा ।
माया नाम तनुर्विष्णोस्त्रैलोक्यैश्वर्यदोज्ज्वला ॥ १८-४ ॥
मूलम् - १८-४
इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा ।
माया नाम तनुर्विष्णोस्त्रैलोक्यैश्वर्यदोज्ज्वला ॥ १८-४ ॥
विश्वास-प्रस्तुतिः - १८-५
स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता ।
सौदर्शनानां मन्त्राणामियं योनिर्महामुने ॥ १८-५ ॥
मूलम् - १८-५
स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता ।
सौदर्शनानां मन्त्राणामियं योनिर्महामुने ॥ १८-५ ॥
विश्वास-प्रस्तुतिः - १८-६
प्। १६४) विष्णुसङ्कल्परूपाणां ये चान्ये वैष्णवा भुवि ।
इयम् सा परमा शक्तिरहन्तेयं हरेः परा ॥ १८-६ ॥
मूलम् - १८-६
प्। १६४) विष्णुसङ्कल्परूपाणां ये चान्ये वैष्णवा भुवि ।
इयम् सा परमा शक्तिरहन्तेयं हरेः परा ॥ १८-६ ॥
विश्वास-प्रस्तुतिः - १८-७
विचित्रानेकशब्दार्थतत्तत्सङ्कल्पकोरका ।
युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः ॥ १८-७ ॥
मूलम् - १८-७
विचित्रानेकशब्दार्थतत्तत्सङ्कल्पकोरका ।
युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः ॥ १८-७ ॥
अङ्गकॢप्तिः समुद्दिष्टा शक्त्या मेलितया स्वया ।
सुदर्शनदशाक्षरमन्त्रोद्धारः
मनसाभ्यस्य तां शक्तिं सन्तोषावधि वैष्णवीम् ॥ १८-८ ॥
विश्वास-प्रस्तुतिः - १८-९
समुद्धरेन्महामन्त्रं सौदर्शनमनन्यधीः ।
अमृतं शक्तिहृद्भूतमप्रमेयेन वर्णयेत् ॥ १८-९ ॥
मूलम् - १८-९
समुद्धरेन्महामन्त्रं सौदर्शनमनन्यधीः ।
अमृतं शक्तिहृद्भूतमप्रमेयेन वर्णयेत् ॥ १८-९ ॥
विश्वास-प्रस्तुतिः - १८-१०
दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा ।
योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् ॥ १८-१० ॥
मूलम् - १८-१०
दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा ।
योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् ॥ १८-१० ॥
विश्वास-प्रस्तुतिः - १८-११
केवलं तत्स्थितं सोमं तत्स्थितं च स्मरेत् सुधीः ।
अशेषभुवनाधारं तत्स्थमानन्दमेव च ॥ १८-११ ॥
मूलम् - १८-११
केवलं तत्स्थितं सोमं तत्स्थितं च स्मरेत् सुधीः ।
अशेषभुवनाधारं तत्स्थमानन्दमेव च ॥ १८-११ ॥
विश्वास-प्रस्तुतिः - १८-१२
कालपावकमादाय दुष्टपापेन्धनानलम् ।
योजयेद् व्यापकेनैव नानाविधविभाविना ॥ १८-१२ ॥
मूलम् - १८-१२
कालपावकमादाय दुष्टपापेन्धनानलम् ।
योजयेद् व्यापकेनैव नानाविधविभाविना ॥ १८-१२ ॥
सङ्क्षेपतस्तत्प्रभाववर्णनम्
विश्वास-प्रस्तुतिः - १८-१३
दशाक्षरी महाविद्या शक्तिः सौदर्शनी त्वियम् ।
स्थूलसूक्ष्मपराकारा विष्णुसङ्कल्परूपिणी ॥ १८-१३ ॥
मूलम् - १८-१३
दशाक्षरी महाविद्या शक्तिः सौदर्शनी त्वियम् ।
स्थूलसूक्ष्मपराकारा विष्णुसङ्कल्परूपिणी ॥ १८-१३ ॥
विश्वास-प्रस्तुतिः - १८-१४
प्। १६५) तत्तद्विचित्रसङ्कल्पसदसद्भावभाविनी ।
सर्वभावानुगा विष्णो परा सौदर्शनी स्थितिः ॥ १८-१४ ॥
मूलम् - १८-१४
प्। १६५) तत्तद्विचित्रसङ्कल्पसदसद्भावभाविनी ।
सर्वभावानुगा विष्णो परा सौदर्शनी स्थितिः ॥ १८-१४ ॥
विश्वास-प्रस्तुतिः - १८-१५
आकाशादिपृथिव्यन्तभूतिभेदानुयायिनी ।
सूक्ष्मा सौदर्शनी शक्तिः कारणादिविभागिनी ॥ १८-१५ ॥
मूलम् - १८-१५
आकाशादिपृथिव्यन्तभूतिभेदानुयायिनी ।
सूक्ष्मा सौदर्शनी शक्तिः कारणादिविभागिनी ॥ १८-१५ ॥
विश्वास-प्रस्तुतिः - १८-१६
तत्तद्दुरितदैत्यौघतमोविध्वंसनात्मिका ।
स्थूलचक्रस्वरूपाढ्या विष्णोः साङ्कल्पिकी स्थितिः ॥ १८-१६ ॥
मूलम् - १८-१६
तत्तद्दुरितदैत्यौघतमोविध्वंसनात्मिका ।
स्थूलचक्रस्वरूपाढ्या विष्णोः साङ्कल्पिकी स्थितिः ॥ १८-१६ ॥
विश्वास-प्रस्तुतिः - १८-१७
स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी ।
निदानं सर्वसिद्धीनामपदं लाभनाशयोः ॥ १८-१७ ॥
मूलम् - १८-१७
स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी ।
निदानं सर्वसिद्धीनामपदं लाभनाशयोः ॥ १८-१७ ॥
विश्वास-प्रस्तुतिः - १८-१८
कूटे त्र्यर्णमये त्वस्याः परतः प्रायशः स्थितेः ।
याभ्यां षडक्षरी सैषा विद्या भुवनकारिका ॥ १८-१८ ॥
मूलम् - १८-१८
कूटे त्र्यर्णमये त्वस्याः परतः प्रायशः स्थितेः ।
याभ्यां षडक्षरी सैषा विद्या भुवनकारिका ॥ १८-१८ ॥
त्रेधा पञ्चमबीजकथनम्
विश्वास-प्रस्तुतिः - १८-१९
परमात्मानमादाय योजयेदुदयेन तु ।
प्रधानं संस्पृशेद्भूयः परं बीजं तु पञ्चमम् ॥ १८-१९ ॥
मूलम् - १८-१९
परमात्मानमादाय योजयेदुदयेन तु ।
प्रधानं संस्पृशेद्भूयः परं बीजं तु पञ्चमम् ॥ १८-१९ ॥
विश्वास-प्रस्तुतिः - १८-२०
सूर्यमुद्दामकालाढ्यं सूक्ष्मं तद्बीजमुच्यते ।
सप्राणं भुवनाधारं रक्षोदुरितमर्दनम् ॥ १८-२० ॥
मूलम् - १८-२०
सूर्यमुद्दामकालाढ्यं सूक्ष्मं तद्बीजमुच्यते ।
सप्राणं भुवनाधारं रक्षोदुरितमर्दनम् ॥ १८-२० ॥
स्थूलं तु पञ्चमं बीजं सौदर्शनमनुत्तमम् ।
त्रेधा षष्ठबीजकथनम्
प्। १६६) यत्तत् साङ्कर्षणं घोरं लाङ्गलं परमायुधम् ॥ १८-
२१ ॥
विश्वास-प्रस्तुतिः - १८-२२
योजयेदप्रमेयेण चन्द्रिकाकेवलेन च ।
परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने ॥ १८-२२ ॥
मूलम् - १८-२२
योजयेदप्रमेयेण चन्द्रिकाकेवलेन च ।
परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने ॥ १८-२२ ॥
विश्वास-प्रस्तुतिः - १८-२३
सर्वशास्त्रार्थकूटस्थमिति तेजोऽप्रमेयकम् ।
षष्ठे परा स्थितिर्बीजे सेयं नारद दर्शिता ॥ १८-२३ ॥
मूलम् - १८-२३
सर्वशास्त्रार्थकूटस्थमिति तेजोऽप्रमेयकम् ।
षष्ठे परा स्थितिर्बीजे सेयं नारद दर्शिता ॥ १८-२३ ॥
विश्वास-प्रस्तुतिः - १८-२४
तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम् ।
प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् ॥ १८-२४ ॥
मूलम् - १८-२४
तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम् ।
प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् ॥ १८-२४ ॥
विश्वास-प्रस्तुतिः - १८-२५
सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम् ।
यस्मान्नयति सन्मार्गं छित्त्वाघं बाह्यमान्तरम् ॥ १८-२५ ॥
मूलम् - १८-२५
सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम् ।
यस्मान्नयति सन्मार्गं छित्त्वाघं बाह्यमान्तरम् ॥ १८-२५ ॥
विश्वास-प्रस्तुतिः - १८-२६
प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि ।
इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता ॥ १८-२६ ॥
मूलम् - १८-२६
प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि ।
इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता ॥ १८-२६ ॥
विश्वास-प्रस्तुतिः - १८-२७
श्वेताख्या व्यापकाक्रान्ता आह्लादेन तु केवलम् ।
षष्ठी स्थूला समुद्दिष्टा विधा नारद ते मुने ॥ १८-२७ ॥
मूलम् - १८-२७
श्वेताख्या व्यापकाक्रान्ता आह्लादेन तु केवलम् ।
षष्ठी स्थूला समुद्दिष्टा विधा नारद ते मुने ॥ १८-२७ ॥
विश्वास-प्रस्तुतिः - १८-२८
स्थाणुं छित्त्वा यथा दग्ध्वा पूर्वं केदारकारकः ।
फलप्रापणबीजानि प्रथयित्वा च वारिणा ॥ १८-२८ ॥
मूलम् - १८-२८
स्थाणुं छित्त्वा यथा दग्ध्वा पूर्वं केदारकारकः ।
फलप्रापणबीजानि प्रथयित्वा च वारिणा ॥ १८-२८ ॥
विश्वास-प्रस्तुतिः - १८-२९
आप्याय्य शान्तसन्तापो व्याप्नुवन् विविधं फलम् ।
आह्लादं लभतेऽतीव सेयं षष्ठी परा मुने ॥ १८-२९ ॥
मूलम् - १८-२९
आप्याय्य शान्तसन्तापो व्याप्नुवन् विविधं फलम् ।
आह्लादं लभतेऽतीव सेयं षष्ठी परा मुने ॥ १८-२९ ॥
प्। १६७) इति ते दर्शिता शश्वच्छक्तिः सा षोडशाक्षरी ।
सुदर्शनगायत्री
स्वशक्त्या तु समाक्रान्ता गायत्री सेयमीरिता ॥ १८-३० ॥
पुनः शक्तिमन्त्रवैभवः
विश्वास-प्रस्तुतिः - १८-३१
एषा सौदर्शनी शक्तिर्भवबीजक्षयङ्करी ।
जप्तार्चिता हुता ध्याता तारयत्येव साधकम् ॥ १८-३१ ॥
मूलम् - १८-३१
एषा सौदर्शनी शक्तिर्भवबीजक्षयङ्करी ।
जप्तार्चिता हुता ध्याता तारयत्येव साधकम् ॥ १८-३१ ॥
विश्वास-प्रस्तुतिः - १८-३२
अस्याः प्रातिस्विकं बीजं चतुर्थं कूटमुत्तमम् ।
स्मृता प्रातिस्विकी शक्तिस्तृप्तिः सोमामृतात्मिका ॥ १८-३२ ॥
मूलम् - १८-३२
अस्याः प्रातिस्विकं बीजं चतुर्थं कूटमुत्तमम् ।
स्मृता प्रातिस्विकी शक्तिस्तृप्तिः सोमामृतात्मिका ॥ १८-३२ ॥
शक्तिमन्त्रस्य प्रथमद्वितीयाक्षराभ्यां
पुरुषसूक्तश्रीसूक्तयोराविर्भावः
विश्वास-प्रस्तुतिः - १८-३३
अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम् ।
द्वितीयाक्षरसम्भूतं श्रीसूक्तं नाम यन्मुने ॥ १८-३३ ॥
मूलम् - १८-३३
अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम् ।
द्वितीयाक्षरसम्भूतं श्रीसूक्तं नाम यन्मुने ॥ १८-३३ ॥
सङ्क्षेपतो मन्त्रार्थवर्णनम्
विश्वास-प्रस्तुतिः - १८-३४
सहयोर्यत् स्मृतं ज्ञानं तत् सहस्रारमुच्यते ।
सहो बलं समाख्यातं तत् स्रवत्यखिलेन यत् ॥ १८-३४ ॥
मूलम् - १८-३४
सहयोर्यत् स्मृतं ज्ञानं तत् सहस्रारमुच्यते ।
सहो बलं समाख्यातं तत् स्रवत्यखिलेन यत् ॥ १८-३४ ॥
विश्वास-प्रस्तुतिः - १८-३५
तत् सहस्रं समाख्यातमनन्तं प्राणनं च तत् ।
अरं ज्ञानं समाख्यातं नित्यशुद्धं निरञ्जनम् ॥ १८-३५ ॥
मूलम् - १८-३५
तत् सहस्रं समाख्यातमनन्तं प्राणनं च तत् ।
अरं ज्ञानं समाख्यातं नित्यशुद्धं निरञ्जनम् ॥ १८-३५ ॥
विश्वास-प्रस्तुतिः - १८-३६
प्। १६८) ज्ञानक्रियात्मिका शक्तिरिति सौदर्शनी कला ।
सम्प्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् ॥ १८-३६ ॥
मूलम् - १८-३६
प्। १६८) ज्ञानक्रियात्मिका शक्तिरिति सौदर्शनी कला ।
सम्प्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् ॥ १८-३६ ॥
विश्वास-प्रस्तुतिः - १८-३७
प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी ।
निहत्य दुरितं शश्वद्विश्वमाप्याययन्त्यपि ॥ १८-३७ ॥
मूलम् - १८-३७
प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी ।
निहत्य दुरितं शश्वद्विश्वमाप्याययन्त्यपि ॥ १८-३७ ॥
विश्वास-प्रस्तुतिः - १८-३८
श्वेता प्रसन्नभूयिष्ठा स्वयमानन्दते मुहुः ।
संहृतैर्विगृहीतैश्च वाक्यैर्वर्णैः पदैरपि ॥ १८-३८ ॥
मूलम् - १८-३८
श्वेता प्रसन्नभूयिष्ठा स्वयमानन्दते मुहुः ।
संहृतैर्विगृहीतैश्च वाक्यैर्वर्णैः पदैरपि ॥ १८-३८ ॥
लेशतोऽर्थगतिः प्रोक्ता विस्तृत्या नैव शक्यते ।
सुदर्शनसप्ताक्षरी
प्रणवेन समाक्रान्ता सेयं सप्ताक्षरी स्मृता ॥ १८-३९ ॥
सुदर्शनाष्टाक्षरी
स्वशक्त्या च समाक्रान्ता सेयमष्टाक्षरी स्मृता ।
सुदर्शननवाक्षरी
श्रिया समेता भूयोऽपि स्मृता सैषा नवाक्षरी ॥ १८-४० ॥
अथाङ्गसिद्ध्यर्थाङ्गमन्त्रः
विश्वास-प्रस्तुतिः - १८-४१
अथास्या अङ्गसिद्ध्यर्थमेकमङ्गं निशामय ।
चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण भूषयेत् ॥ १८-४१ ॥
मूलम् - १८-४१
अथास्या अङ्गसिद्ध्यर्थमेकमङ्गं निशामय ।
चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण भूषयेत् ॥ १८-४१ ॥
विश्वास-प्रस्तुतिः - १८-४२
प्। १६९) अशेषभुवनाधारं परप्रकृतिसंयुतम् ।
आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् ॥ १८-४२ ॥
मूलम् - १८-४२
प्। १६९) अशेषभुवनाधारं परप्रकृतिसंयुतम् ।
आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् ॥ १८-४२ ॥
विश्वास-प्रस्तुतिः - १८-४३
चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत् ।
ततोऽमृतमुपादायाप्यमृताधारभूषितम् ॥ १८-४३ ॥
मूलम् - १८-४३
चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत् ।
ततोऽमृतमुपादायाप्यमृताधारभूषितम् ॥ १८-४३ ॥
विश्वास-प्रस्तुतिः - १८-४४
आनन्दयोजितं पश्चात् परमात्मानमुद्धरेत् ।
आनन्दपूरितः सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् ॥ १८-४४ ॥
मूलम् - १८-४४
आनन्दयोजितं पश्चात् परमात्मानमुद्धरेत् ।
आनन्दपूरितः सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् ॥ १८-४४ ॥
विश्वास-प्रस्तुतिः - १८-४५
अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसन्निभः ।
सूर्यानलसहस्राभ आदिदेवसमद्युतिः ॥ १८-४५ ॥
मूलम् - १८-४५
अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसन्निभः ।
सूर्यानलसहस्राभ आदिदेवसमद्युतिः ॥ १८-४५ ॥
विश्वास-प्रस्तुतिः - १८-४६
नित्यतृप्तश्च मन्त्रात्मा सूक्ष्मावस्थ उदाहृतः ।
करालाकारवर्णाभा स्फुरच्चक्रायुतान्विता ॥ १८-४६ ॥
मूलम् - १८-४६
नित्यतृप्तश्च मन्त्रात्मा सूक्ष्मावस्थ उदाहृतः ।
करालाकारवर्णाभा स्फुरच्चक्रायुतान्विता ॥ १८-४६ ॥
विश्वास-प्रस्तुतिः - १८-४७
निहत्य दुरितं सर्वं प्राणेन स्वेन तेजसा ।
सोमसूर्यात्मिका भूत्वा गोपायति जगत्त्रयम् ॥ १८-४७ ॥
मूलम् - १८-४७
निहत्य दुरितं सर्वं प्राणेन स्वेन तेजसा ।
सोमसूर्यात्मिका भूत्वा गोपायति जगत्त्रयम् ॥ १८-४७ ॥
इति स्थूला गतिर्दिव्या चक्रमन्त्रस्य दर्शिता ।
विश्वास-प्रस्तुतिः - १८-४८
इदं नानाविधैर्बीजैर्हृदयाद्यङ्गसन्ततौ ।
योजयेच्चक्रमन्त्रं तु यथा तन्मे निशामय ॥ १८-४८ ॥
मूलम् - १८-४८
इदं नानाविधैर्बीजैर्हृदयाद्यङ्गसन्ततौ ।
योजयेच्चक्रमन्त्रं तु यथा तन्मे निशामय ॥ १८-४८ ॥
इति श्रीपाञ्चरात्रे तत्ररहस्ये अहिर्बुध्न्यसंहितायां
मन्त्रोद्धारो नाम अष्टादशोऽध्यायः ॥ १८ ॥
आदितः श्लोकाः ११०३
अङ्गोपाङ्गमन्त्रोद्धारो नाम एकोनविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
हृदयमन्त्रः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - १९-१
यत्तज्ज्ञानमयं दिव्यं गुणानां प्रकृतिः परा ।
पञ्चानां तु बलादीनां नित्यशुद्धं निरञ्जनम् ॥ १९-१ ॥
मूलम् - १९-१
यत्तज्ज्ञानमयं दिव्यं गुणानां प्रकृतिः परा ।
पञ्चानां तु बलादीनां नित्यशुद्धं निरञ्जनम् ॥ १९-१ ॥
विश्वास-प्रस्तुतिः - १९-२
तन्नाम हृदयं मन्त्रं स षाड्गुण्यमयो यतः ।
तस्य वाचकमाकारमुद्धरेन्मनसा सुधीः ॥ १९-२ ॥
मूलम् - १९-२
तन्नाम हृदयं मन्त्रं स षाड्गुण्यमयो यतः ।
तस्य वाचकमाकारमुद्धरेन्मनसा सुधीः ॥ १९-२ ॥
विश्वास-प्रस्तुतिः - १९-३
ज्ञानत्वादप्रमेयश्च प्रथमो व्यापकः स्मृतः ।
आनन्द आदिदेवश्च गोपनश्चेति षड्विधाः ॥ १९-३ ॥
मूलम् - १९-३
ज्ञानत्वादप्रमेयश्च प्रथमो व्यापकः स्मृतः ।
आनन्द आदिदेवश्च गोपनश्चेति षड्विधाः ॥ १९-३ ॥
विश्वास-प्रस्तुतिः - १९-४
क्रमात् संहृत्य तज्ज्ञानं साङ्कर्षणमनुत्तम् ।
तत्तद्विशेषसंयोगाद्विशेष्यस्तन्मयः सदा ॥ १९-४ ॥
मूलम् - १९-४
क्रमात् संहृत्य तज्ज्ञानं साङ्कर्षणमनुत्तम् ।
तत्तद्विशेषसंयोगाद्विशेष्यस्तन्मयः सदा ॥ १९-४ ॥
विश्वास-प्रस्तुतिः - १९-५
इत्याभावसमायोगाज्ज्ञानात्मा मन्त्रराट् स्वयम् ।
हृदयाय नमः पश्चाद्व्यक्त्यर्थं सम्प्रयोजयेत् ॥ १९-५ ॥
मूलम् - १९-५
इत्याभावसमायोगाज्ज्ञानात्मा मन्त्रराट् स्वयम् ।
हृदयाय नमः पश्चाद्व्यक्त्यर्थं सम्प्रयोजयेत् ॥ १९-५ ॥
शिरोमन्त्रः
विश्वास-प्रस्तुतिः - १९-६
प्। १७१) रमणीया समिद्धा च येच्छा देवस्य शाश्वती ।
सर्वत्राप्रतिघा दिव्या ह्यमृताधारभेदिता ॥ १९-६ ॥
मूलम् - १९-६
प्। १७१) रमणीया समिद्धा च येच्छा देवस्य शाश्वती ।
सर्वत्राप्रतिघा दिव्या ह्यमृताधारभेदिता ॥ १९-६ ॥
विश्वास-प्रस्तुतिः - १९-७
वीति बीजेन निर्दिष्टा तच्चैश्वर्यं महद्धरेः ।
ऐश्वर्यं च शिरःस्थाने यत्तत् सर्वोपरि स्थितम् ॥ १९-७ ॥
मूलम् - १९-७
वीति बीजेन निर्दिष्टा तच्चैश्वर्यं महद्धरेः ।
ऐश्वर्यं च शिरःस्थाने यत्तत् सर्वोपरि स्थितम् ॥ १९-७ ॥
विश्वास-प्रस्तुतिः - १९-८
अविघातात्मकं यत्तदिच्छाया रूपमुत्तमम् ।
समिद्धं रमणीयं तदमृतस्याश्रयः परः ॥ १९-८ ॥
मूलम् - १९-८
अविघातात्मकं यत्तदिच्छाया रूपमुत्तमम् ।
समिद्धं रमणीयं तदमृतस्याश्रयः परः ॥ १९-८ ॥
विश्वास-प्रस्तुतिः - १९-९
वीति तद्द्योतकं बीजं तेन संयोजयेच्छिरः ।
तेन संयोजितश्चक्रमन्त्र ऐश्वर्यबृंहितः ॥ १९-९ ॥
मूलम् - १९-९
वीति तद्द्योतकं बीजं तेन संयोजयेच्छिरः ।
तेन संयोजितश्चक्रमन्त्र ऐश्वर्यबृंहितः ॥ १९-९ ॥
विश्वास-प्रस्तुतिः - १९-१०
इच्छामिन्धान एवास्य मन्त्रिणः सम्प्रकाशते ।
ततस्तच्छिरसे स्वाहा व्यक्त्यर्थं सम्प्रयोजयेत् ॥ १९-१० ॥
मूलम् - १९-१०
इच्छामिन्धान एवास्य मन्त्रिणः सम्प्रकाशते ।
ततस्तच्छिरसे स्वाहा व्यक्त्यर्थं सम्प्रयोजयेत् ॥ १९-१० ॥
शिखामन्त्रः
विश्वास-प्रस्तुतिः - १९-११
अमृता सोमरूपा च या सा तृप्तिमयी परा ।
जगत्प्रकृतिरीशाना विष्णुशक्तिः परावरा ॥ १९-११ ॥
मूलम् - १९-११
अमृता सोमरूपा च या सा तृप्तिमयी परा ।
जगत्प्रकृतिरीशाना विष्णुशक्तिः परावरा ॥ १९-११ ॥
विश्वास-प्रस्तुतिः - १९-१२
तस्या यो भुवनाकार उद्दाम उदयोऽमलः ।
सु इत्येवं समाख्याता शक्तिस्तेनोदिता सती ॥ १९-१२ ॥
मूलम् - १९-१२
तस्या यो भुवनाकार उद्दाम उदयोऽमलः ।
सु इत्येवं समाख्याता शक्तिस्तेनोदिता सती ॥ १९-१२ ॥
विश्वास-प्रस्तुतिः - १९-१३
विशेषयति रूपेण चक्रमन्त्रं सनातनम् ।
तया स भेदितः शक्त्या शक्त्यात्मा सम्प्रकाशते ॥ १९-१३ ॥
मूलम् - १९-१३
विशेषयति रूपेण चक्रमन्त्रं सनातनम् ।
तया स भेदितः शक्त्या शक्त्यात्मा सम्प्रकाशते ॥ १९-१३ ॥
या सा कुण्डलिनी शक्तिर्हृदयस्था समीरिता ।
प्। १७२) योगिभिर्या शिखा तस्या दिव्या दीपाकृतिः परा ॥ १९-१४ ॥
विश्वास-प्रस्तुतिः - १९-१५
प्रसरत्यूर्ध्वभागे तु शिखास्थाने विराजते ।
अतः शक्तेः शिखास्थाने न्यासस्तस्यास्ततः स्मृतः ॥ १९-१५ ॥
मूलम् - १९-१५
प्रसरत्यूर्ध्वभागे तु शिखास्थाने विराजते ।
अतः शक्तेः शिखास्थाने न्यासस्तस्यास्ततः स्मृतः ॥ १९-१५ ॥
शिखायै वषडित्येवं व्यक्त्यर्थं सम्प्रयोजयेत् ।
कवचमन्त्रः
ऊर्जो नाम समुद्दिष्टो बलं विष्णोः स्वमूर्जितम् ॥ १९-१६ ॥
विश्वास-प्रस्तुतिः - १९-१७
प्रज्ञाधारणसामर्थ्यं नित्यतृप्तिमयं परम् ।
सर्वकार्यैः समुद्युक्तः श्रमाभावे हि तृप्यति ॥ १९-१७ ॥
मूलम् - १९-१७
प्रज्ञाधारणसामर्थ्यं नित्यतृप्तिमयं परम् ।
सर्वकार्यैः समुद्युक्तः श्रमाभावे हि तृप्यति ॥ १९-१७ ॥
विश्वास-प्रस्तुतिः - १९-१८
अशेषभुवनाधारस्तद्बलं परिगीयते ।
बले बलं धारणेद्धा बिभर्ति सकलं जगत् ॥ १९-१८ ॥
मूलम् - १९-१८
अशेषभुवनाधारस्तद्बलं परिगीयते ।
बले बलं धारणेद्धा बिभर्ति सकलं जगत् ॥ १९-१८ ॥
विश्वास-प्रस्तुतिः - १९-१९
चतुर्गतिमयं यत्तत् प्राणानां परिगीयते ।
व्यानापानादिका सा च प्रोक्ता गतिचतुष्टयी ॥ १९-१९ ॥
मूलम् - १९-१९
चतुर्गतिमयं यत्तत् प्राणानां परिगीयते ।
व्यानापानादिका सा च प्रोक्ता गतिचतुष्टयी ॥ १९-१९ ॥
विश्वास-प्रस्तुतिः - १९-२०
चतुर्गतिमयः प्राणो बलं तत् परिगीयते ।
अजितो भगवान् येन जयत्यखिलमच्युतः ॥ १९-२० ॥
मूलम् - १९-२०
चतुर्गतिमयः प्राणो बलं तत् परिगीयते ।
अजितो भगवान् येन जयत्यखिलमच्युतः ॥ १९-२० ॥
विश्वास-प्रस्तुतिः - १९-२१
एतैर्गुणैः समायुक्तं बलं तद्वैष्णवं महत् ।
अप्रमेयमनाद्यं तत् सूर्यशब्देन गीयते ॥ १९-२१ ॥
मूलम् - १९-२१
एतैर्गुणैः समायुक्तं बलं तद्वैष्णवं महत् ।
अप्रमेयमनाद्यं तत् सूर्यशब्देन गीयते ॥ १९-२१ ॥
विश्वास-प्रस्तुतिः - १९-२२
बलेन भेदितो मन्त्रो बलात्मा व्यवतिष्ठते ।
बलं चाखिलगात्रेषु मूर्छितं विपुलं महत् ॥ १९-२२ ॥
मूलम् - १९-२२
बलेन भेदितो मन्त्रो बलात्मा व्यवतिष्ठते ।
बलं चाखिलगात्रेषु मूर्छितं विपुलं महत् ॥ १९-२२ ॥
विश्वास-प्रस्तुतिः - १९-२३
अंसयोस्तदभिव्यक्तिरतस्तत्रैव विन्यसेत् ।
प्। १७३) कवचाय हुमित्येव व्यक्त्यर्थं सम्प्रयोजयेत् ॥ १९-२३ ॥
मूलम् - १९-२३
अंसयोस्तदभिव्यक्तिरतस्तत्रैव विन्यसेत् ।
प्। १७३) कवचाय हुमित्येव व्यक्त्यर्थं सम्प्रयोजयेत् ॥ १९-२३ ॥
अस्त्रमन्त्रः
विश्वास-प्रस्तुतिः - १९-२४
महत्ता न्यूनताभावः स च स्यादविकारिता ।
अव्याहतस्वसङ्कल्पः सुशब्दार्थो निरूपितः ॥ १९-२४ ॥
मूलम् - १९-२४
महत्ता न्यूनताभावः स च स्यादविकारिता ।
अव्याहतस्वसङ्कल्पः सुशब्दार्थो निरूपितः ॥ १९-२४ ॥
विश्वास-प्रस्तुतिः - १९-२५
चेतनाचेतनं विश्वं स्वसङ्कल्पेन भावयन् ।
यः स्यादविकृतः सोऽस्य भावो महासुदर्शनः ॥ १९-२५ ॥
मूलम् - १९-२५
चेतनाचेतनं विश्वं स्वसङ्कल्पेन भावयन् ।
यः स्यादविकृतः सोऽस्य भावो महासुदर्शनः ॥ १९-२५ ॥
विश्वास-प्रस्तुतिः - १९-२६
तद्वीर्यं तच्च शास्त्रोक्तं यद् दुष्टदमनात्मकम् ।
शान्तिदं सर्वपापानां शङ्करं जगतामपि ॥ १९-२६ ॥
मूलम् - १९-२६
तद्वीर्यं तच्च शास्त्रोक्तं यद् दुष्टदमनात्मकम् ।
शान्तिदं सर्वपापानां शङ्करं जगतामपि ॥ १९-२६ ॥
विश्वास-प्रस्तुतिः - १९-२७
विकारविरहो दैत्यमर्दिनः परमात्मनः ।
महासुदर्शनेत्येवं तद्विर्यं बहुधोच्यते ॥ १९-२७ ॥
मूलम् - १९-२७
विकारविरहो दैत्यमर्दिनः परमात्मनः ।
महासुदर्शनेत्येवं तद्विर्यं बहुधोच्यते ॥ १९-२७ ॥
विश्वास-प्रस्तुतिः - १९-२८
वीर्येण भेदितो मन्त्रो वीर्यात्मा व्यवतिष्ठते ।
तस्य हस्ततले स्थाने ततस्तत् तत्र विन्यसेत् ॥ १९-२८ ॥
मूलम् - १९-२८
वीर्येण भेदितो मन्त्रो वीर्यात्मा व्यवतिष्ठते ।
तस्य हस्ततले स्थाने ततस्तत् तत्र विन्यसेत् ॥ १९-२८ ॥
ततोऽस्त्राय फडित्येवं व्यक्त्यर्थं सम्प्रयोजयेत् ।
नेत्रमन्त्रः
अन्तर्बोधस्वरूपो यः प्राकृतध्वान्तनाशनः ॥ १९-२९ ॥
विश्वास-प्रस्तुतिः - १९-३०
सूर्यवत् तपतस्तस्य या ज्वालाप्यूर्ध्वगामिनी ।
पुरुषाणामशेषाणामैश्वर्यान्निरपेक्षता ॥ १९-३० ॥
मूलम् - १९-३०
सूर्यवत् तपतस्तस्य या ज्वालाप्यूर्ध्वगामिनी ।
पुरुषाणामशेषाणामैश्वर्यान्निरपेक्षता ॥ १९-३० ॥
विश्वास-प्रस्तुतिः - १९-३१
अमृताधाररूपत्वमनिशं जन्मघातकम् ।
प्। १७४) नैरपेक्ष्येण यत् तस्य तत् तेजः समुदाहृतम् ॥ १९-३१ ॥
मूलम् - १९-३१
अमृताधाररूपत्वमनिशं जन्मघातकम् ।
प्। १७४) नैरपेक्ष्येण यत् तस्य तत् तेजः समुदाहृतम् ॥ १९-३१ ॥
विश्वास-प्रस्तुतिः - १९-३२
ज्वालाशब्देन तत् तेजो वैष्णवं बहुधेर्यते ।
तेजसा भेदितो मन्त्रस्तेजोरूपोऽवतिष्ठते ॥ १९-३२ ॥
मूलम् - १९-३२
ज्वालाशब्देन तत् तेजो वैष्णवं बहुधेर्यते ।
तेजसा भेदितो मन्त्रस्तेजोरूपोऽवतिष्ठते ॥ १९-३२ ॥
विश्वास-प्रस्तुतिः - १९-३३
तेजसो नयनं स्थानमतस्तत् तत्र विन्यसेत् ।
वौषण्नेत्रत्रयायेति व्यत्यासाद् व्यक्तये पठेत् ॥ १९-३३ ॥
मूलम् - १९-३३
तेजसो नयनं स्थानमतस्तत् तत्र विन्यसेत् ।
वौषण्नेत्रत्रयायेति व्यत्यासाद् व्यक्तये पठेत् ॥ १९-३३ ॥
विश्वास-प्रस्तुतिः - १९-३४
इति षाड्गुण्यरूपेयं दर्शिता तेऽङ्गसन्ततिः ।
उपाङ्गसन्ततिश्चैव न्यसनीया विपश्चिता ॥ १९-३४ ॥
मूलम् - १९-३४
इति षाड्गुण्यरूपेयं दर्शिता तेऽङ्गसन्ततिः ।
उपाङ्गसन्ततिश्चैव न्यसनीया विपश्चिता ॥ १९-३४ ॥
उपाङ्गमन्त्रः
विश्वास-प्रस्तुतिः - १९-३५
कुक्षिपृष्ठांसयुग्मोरुजानुपादयुगेषु च ।
शाद्यर्णान् व्यापिसंयुक्तान् ज्ञानाद्यैर्नमसा सह ॥ १९-३५ ॥
मूलम् - १९-३५
कुक्षिपृष्ठांसयुग्मोरुजानुपादयुगेषु च ।
शाद्यर्णान् व्यापिसंयुक्तान् ज्ञानाद्यैर्नमसा सह ॥ १९-३५ ॥
विश्वास-प्रस्तुतिः - १९-३६
विन्यसेत् षड्गुणात्मैव मन्त्रिदेहः प्रजायते ।
अप्रमेयो गदध्वंसी पन्थाः स्वर्गापवर्गयोः ॥ १९-३६ ॥
मूलम् - १९-३६
विन्यसेत् षड्गुणात्मैव मन्त्रिदेहः प्रजायते ।
अप्रमेयो गदध्वंसी पन्थाः स्वर्गापवर्गयोः ॥ १९-३६ ॥
विश्वास-प्रस्तुतिः - १९-३७
इच्छामयो हि यो भावो विष्णुसङ्कल्पजृम्भितः ।
अशेषदुरितप्लोषात् सोऽग्निरित्युच्यते बुधैः ॥ १९-३७ ॥
मूलम् - १९-३७
इच्छामयो हि यो भावो विष्णुसङ्कल्पजृम्भितः ।
अशेषदुरितप्लोषात् सोऽग्निरित्युच्यते बुधैः ॥ १९-३७ ॥
विश्वास-प्रस्तुतिः - १९-३८
अग्निना भेदितो मन्त्रस्त्वग्न्यात्मा व्यवतिष्ठते ।
प्राकारं कल्पयेत् तेन परितः पावकाकृतिम् ॥ १९-३८ ॥
मूलम् - १९-३८
अग्निना भेदितो मन्त्रस्त्वग्न्यात्मा व्यवतिष्ठते ।
प्राकारं कल्पयेत् तेन परितः पावकाकृतिम् ॥ १९-३८ ॥
विश्वास-प्रस्तुतिः - १९-३९
अग्निप्राकारमध्यस्थो दुर्निरीक्षोऽभिजायते ।
संस्मरंश्चक्रगायत्रीं परितश्चक्रमुद्रया ॥ १९-३९ ॥
मूलम् - १९-३९
अग्निप्राकारमध्यस्थो दुर्निरीक्षोऽभिजायते ।
संस्मरंश्चक्रगायत्रीं परितश्चक्रमुद्रया ॥ १९-३९ ॥
विश्वास-प्रस्तुतिः - १९-४०
ऊर्ध्वाधस्तिर्यगाकारं मुद्रयेदात्मनो बहिः ।
अग्निप्राकारतः पूर्वं चक्रमुद्राथवा भवेत् ॥ १९-४० ॥
मूलम् - १९-४०
ऊर्ध्वाधस्तिर्यगाकारं मुद्रयेदात्मनो बहिः ।
अग्निप्राकारतः पूर्वं चक्रमुद्राथवा भवेत् ॥ १९-४० ॥
चक्रगायत्री
विश्वास-प्रस्तुतिः - १९-४१
हृदयं चाथ चक्राय विद्महेपदमादिमम् ।
मन्त्रनाथस्य नेत्रादिपदं सूक्ष्मोऽथ धीमहि ॥ १९-४१ ॥
मूलम् - १९-४१
हृदयं चाथ चक्राय विद्महेपदमादिमम् ।
मन्त्रनाथस्य नेत्रादिपदं सूक्ष्मोऽथ धीमहि ॥ १९-४१ ॥
विश्वास-प्रस्तुतिः - १९-४२
गायत्र्या आद्यनवमे ततश्चैवानिवारितः ।
ततः समस्तरूपं तु गायत्र्या दशमं पदम् ॥ १९-४२ ॥
मूलम् - १९-४२
गायत्र्या आद्यनवमे ततश्चैवानिवारितः ।
ततः समस्तरूपं तु गायत्र्या दशमं पदम् ॥ १९-४२ ॥
विश्वास-प्रस्तुतिः - १९-४३
उदिता चक्रगायत्री सप्तविंशतिकीर्तिता ।
अथ सौदर्शनास्त्राणां मन्त्रानेतान् निबोध मे ॥ १९-४३ ॥
मूलम् - १९-४३
उदिता चक्रगायत्री सप्तविंशतिकीर्तिता ।
अथ सौदर्शनास्त्राणां मन्त्रानेतान् निबोध मे ॥ १९-४३ ॥
चक्राद्यस्त्रमन्त्राः
विश्वास-प्रस्तुतिः - १९-४४
ॐ नमो भगवन् विष्णो सर्वेषामादिमं समम् ।
चक्रमूर्तिधरेत्येवं गदामूर्तिधरेति च ॥ १९-४४ ॥
मूलम् - १९-४४
ॐ नमो भगवन् विष्णो सर्वेषामादिमं समम् ।
चक्रमूर्तिधरेत्येवं गदामूर्तिधरेति च ॥ १९-४४ ॥
विश्वास-प्रस्तुतिः - १९-४५
शार्ङ्गमूर्तिधरेत्येवं खड्गमूर्तिधरेति च ।
चक्राद्यस्त्रचतुष्कं तु ततः सेनापतेपदम् ॥ १९-४५ ॥
मूलम् - १९-४५
शार्ङ्गमूर्तिधरेत्येवं खड्गमूर्तिधरेति च ।
चक्राद्यस्त्रचतुष्कं तु ततः सेनापतेपदम् ॥ १९-४५ ॥
विश्वास-प्रस्तुतिः - १९-४६
सर्वत्र सममुच्चार्य वदेत् प्रातिस्विकं ततः ।
मन्त्रनाथो भवेच्चक्रे षड्वर्नोऽथ गदादिषु ॥ १९-४६ ॥
मूलम् - १९-४६
सर्वत्र सममुच्चार्य वदेत् प्रातिस्विकं ततः ।
मन्त्रनाथो भवेच्चक्रे षड्वर्नोऽथ गदादिषु ॥ १९-४६ ॥
विश्वास-प्रस्तुतिः - १९-४७
कौमोदकि महाशर्ङ्ग महाखड्गेत्युदीरयेत् ।
वर्मास्त्रे च ततो युञ्ज्यादेष मौनविधिक्रमः ॥ १९-४७ ॥
मूलम् - १९-४७
कौमोदकि महाशर्ङ्ग महाखड्गेत्युदीरयेत् ।
वर्मास्त्रे च ततो युञ्ज्यादेष मौनविधिक्रमः ॥ १९-४७ ॥
विश्वास-प्रस्तुतिः - १९-४८
इमाश्चतस्रो गायत्र्यश्चक्रादीनामुदीरिताः ।
शङ्खादीनां चतुर्णां तु मन्त्रानेतान्निबोध मे ॥ १९-४८ ॥
मूलम् - १९-४८
इमाश्चतस्रो गायत्र्यश्चक्रादीनामुदीरिताः ।
शङ्खादीनां चतुर्णां तु मन्त्रानेतान्निबोध मे ॥ १९-४८ ॥
शङ्खादिमन्त्राः
विश्वास-प्रस्तुतिः - १९-४९
प्। १७६) ॐ नमो भगवन् विष्णो सर्वेषामादितः समम् ।
शङ्खमूर्तिधरेत्येवं हलमूर्तिधरेति च ॥ १९-४९ ॥
मूलम् - १९-४९
प्। १७६) ॐ नमो भगवन् विष्णो सर्वेषामादितः समम् ।
शङ्खमूर्तिधरेत्येवं हलमूर्तिधरेति च ॥ १९-४९ ॥
विश्वास-प्रस्तुतिः - १९-५०
मुसलमूर्तिधरेत्येवं शूलमूर्तिधरेति च ।
सेनापतेपदं पश्चात् सर्वेषां तुल्यमुच्चरेत् ॥ १९-५० ॥
मूलम् - १९-५०
मुसलमूर्तिधरेत्येवं शूलमूर्तिधरेति च ।
सेनापतेपदं पश्चात् सर्वेषां तुल्यमुच्चरेत् ॥ १९-५० ॥
विश्वास-प्रस्तुतिः - १९-५१
महाथ पाञ्चजन्याय स्वाहेत्येकाधिको मनुः ।
महाहलाय स्वाहेति मन्त्रोऽप्येकाधिकः स्मृतः ॥ १९-५१ ॥
मूलम् - १९-५१
महाथ पाञ्चजन्याय स्वाहेत्येकाधिको मनुः ।
महाहलाय स्वाहेति मन्त्रोऽप्येकाधिकः स्मृतः ॥ १९-५१ ॥
विश्वास-प्रस्तुतिः - १९-५२
महा च मुसलायाथ स्वाहेत्यभ्यधिको मनुः ।
महाशूलाय स्वाहेति स चाप्यभ्यधिको मनुः ॥ १९-५२ ॥
मूलम् - १९-५२
महा च मुसलायाथ स्वाहेत्यभ्यधिको मनुः ।
महाशूलाय स्वाहेति स चाप्यभ्यधिको मनुः ॥ १९-५२ ॥
विश्वास-प्रस्तुतिः - १९-५३
इमाश्चतस्रो गायत्र्यः शङ्खादीनां प्रदर्शिताः ।
दण्डादीनामथाष्टानामिमान् मन्त्रान् निबोध मे ॥ १९-५३ ॥
मूलम् - १९-५३
इमाश्चतस्रो गायत्र्यः शङ्खादीनां प्रदर्शिताः ।
दण्डादीनामथाष्टानामिमान् मन्त्रान् निबोध मे ॥ १९-५३ ॥
दण्डाद्यस्त्रमन्त्राः
विश्वास-प्रस्तुतिः - १९-५४
ॐ नमो भगवन् विष्णो सर्वेषामादितः समम् ।
दण्डमूर्तिधरेत्येवं कुन्तमूर्तिधरेति च ॥ १९-५४ ॥
मूलम् - १९-५४
ॐ नमो भगवन् विष्णो सर्वेषामादितः समम् ।
दण्डमूर्तिधरेत्येवं कुन्तमूर्तिधरेति च ॥ १९-५४ ॥
विश्वास-प्रस्तुतिः - १९-५५
शक्तिमूर्तिधरेत्येवं पाशमूर्तिधरेति च ।
अङ्कुशमूर्तिधराय कुलिशमूर्तिधरेति च ॥ १९-५५ ॥
मूलम् - १९-५५
शक्तिमूर्तिधरेत्येवं पाशमूर्तिधरेति च ।
अङ्कुशमूर्तिधराय कुलिशमूर्तिधरेति च ॥ १९-५५ ॥
विश्वास-प्रस्तुतिः - १९-५६
परशुमूर्तिधरायाथ ततः शतमुखेति च ।
अनलमूर्तिधरेत्येवं प्रातिस्विकपदक्रमः ॥ १९-५६ ॥
मूलम् - १९-५६
परशुमूर्तिधरायाथ ततः शतमुखेति च ।
अनलमूर्तिधरेत्येवं प्रातिस्विकपदक्रमः ॥ १९-५६ ॥
विश्वास-प्रस्तुतिः - १९-५७
सेनापतेपदं पश्चात् सर्वेषा सममुच्चरेत् ।
प्। १७७) महादण्डायाथ नमो मन्त्र एवाधिकः स्मृतः ॥ १९-५७ ॥
मूलम् - १९-५७
सेनापतेपदं पश्चात् सर्वेषा सममुच्चरेत् ।
प्। १७७) महादण्डायाथ नमो मन्त्र एवाधिकः स्मृतः ॥ १९-५७ ॥
विश्वास-प्रस्तुतिः - १९-५८
महाकुन्तायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः ।
महाशक्तये च नमो मन्त्रोऽप्येकोऽधिकः स्मृतः ॥ १९-५८ ॥
मूलम् - १९-५८
महाकुन्तायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः ।
महाशक्तये च नमो मन्त्रोऽप्येकोऽधिकः स्मृतः ॥ १९-५८ ॥
विश्वास-प्रस्तुतिः - १९-५९
महापाशायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः ।
महाङ्कुशाय नम इत्येषोऽप्यधिक उच्यते ॥ १९-५९ ॥
मूलम् - १९-५९
महापाशायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः ।
महाङ्कुशाय नम इत्येषोऽप्यधिक उच्यते ॥ १९-५९ ॥
विश्वास-प्रस्तुतिः - १९-६०
महा च कुलिशायाथ नम इत्यपि तादृशः ।
महापरशवे चाथ नम इत्यपि तादृशः ॥ १९-६० ॥
मूलम् - १९-६०
महा च कुलिशायाथ नम इत्यपि तादृशः ।
महापरशवे चाथ नम इत्यपि तादृशः ॥ १९-६० ॥
विश्वास-प्रस्तुतिः - १९-६१
महाशतमुखेत्येवमनलाय ततो नमः ।
अयं मन्त्रस्त्रयस्त्रिंशद्वर्णो वह्न्ययुतप्रभः ॥ १९-६१ ॥
मूलम् - १९-६१
महाशतमुखेत्येवमनलाय ततो नमः ।
अयं मन्त्रस्त्रयस्त्रिंशद्वर्णो वह्न्ययुतप्रभः ॥ १९-६१ ॥
इत्यस्त्राणामिमे मन्त्रा रूपतस्ते निदर्शिताः ।
अत्रानुक्तस्य संहितान्तरात् ग्रहणम्
आधाराद्यासनाकारो द्वारपर्यन्तपूजनम् ॥ १९-६२ ॥
विश्वास-प्रस्तुतिः - १९-६३
मुद्रा च विविधाकारा यस्य यस्य च यादृशी ।
अभिषेकविधिश्चैव दीक्षानियम एव च ॥ १९-६३ ॥
मूलम् - १९-६३
मुद्रा च विविधाकारा यस्य यस्य च यादृशी ।
अभिषेकविधिश्चैव दीक्षानियम एव च ॥ १९-६३ ॥
विश्वास-प्रस्तुतिः - १९-६४
भूतशुद्धिविधिश्चैव ध्यानानि विविधानि च ।
सर्वं जयाश्रुतं कार्यं तत्तद्वैशेषिकं विना ॥ १९-६४ ॥
मूलम् - १९-६४
भूतशुद्धिविधिश्चैव ध्यानानि विविधानि च ।
सर्वं जयाश्रुतं कार्यं तत्तद्वैशेषिकं विना ॥ १९-६४ ॥
विश्वास-प्रस्तुतिः - १९-६५
अमुद्राणामिहास्त्राणां दण्डादीनां महामुने ।
कार्या समन्विता दिव्या शक्तिमुद्रास्त्रमुद्रया ॥ १९-६५ ॥
मूलम् - १९-६५
अमुद्राणामिहास्त्राणां दण्डादीनां महामुने ।
कार्या समन्विता दिव्या शक्तिमुद्रास्त्रमुद्रया ॥ १९-६५ ॥
विश्वास-प्रस्तुतिः - १९-६६
प्। ७८) इति ते लेशतः प्रोक्तः सौदर्शनविधिक्रमः ।
ग्रहणादिप्रकारोऽयं वक्ष्यते शृणु तं मुने ॥ १९-६६ ॥
मूलम् - १९-६६
प्। ७८) इति ते लेशतः प्रोक्तः सौदर्शनविधिक्रमः ।
ग्रहणादिप्रकारोऽयं वक्ष्यते शृणु तं मुने ॥ १९-६६ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
अङ्गोपाङ्गमन्त्रोद्धारो नाम एकोनविंशोऽध्यायः ॥ १९ ॥
आदितः श्लोकाः ११६९
मन्त्रग्रहणादिदीक्षाविधानं नाम विंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
आचार्यलक्षणम्
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २०-१
वेदवेदान्ततत्त्वज्ञो विद्यास्थानविचक्षणः ।
ऊहापोहविधानज्ञो दैवपित्र्यक्रियापरः ॥ २०-१ ॥
मूलम् - २०-१
वेदवेदान्ततत्त्वज्ञो विद्यास्थानविचक्षणः ।
ऊहापोहविधानज्ञो दैवपित्र्यक्रियापरः ॥ २०-१ ॥
विश्वास-प्रस्तुतिः - २०-२
अवक्ता चापवादानामकर्ता पापकर्मणाम् ।
अमत्सरी परोत्कर्षे परदुःखे घृणापरः ॥ २०-२ ॥
मूलम् - २०-२
अवक्ता चापवादानामकर्ता पापकर्मणाम् ।
अमत्सरी परोत्कर्षे परदुःखे घृणापरः ॥ २०-२ ॥
विश्वास-प्रस्तुतिः - २०-३
दयावान् सर्वभूतेषु हृष्टः परसुखोदये ।
पुण्येषु मुदितायुक्त उपेक्षावान् कुबुद्धिषु ॥ २०-३ ॥
मूलम् - २०-३
दयावान् सर्वभूतेषु हृष्टः परसुखोदये ।
पुण्येषु मुदितायुक्त उपेक्षावान् कुबुद्धिषु ॥ २०-३ ॥
विश्वास-प्रस्तुतिः - २०-४
तपःअसन्तोषशौचाढ्यो योगस्वाध्यायतत्परः ।
पाञ्चरात्रविधानज्ञस्तन्त्रान्तरविचक्षणः ॥ २०-४ ॥
मूलम् - २०-४
तपःअसन्तोषशौचाढ्यो योगस्वाध्यायतत्परः ।
पाञ्चरात्रविधानज्ञस्तन्त्रान्तरविचक्षणः ॥ २०-४ ॥
विश्वास-प्रस्तुतिः - २०-५
तन्त्राणामन्तरज्ञश्च मन्त्राणां कृत्यतत्त्ववित् ।
पदवाक्यप्रमाणज्ञो हेतुवादविचक्षणः ॥ २०-५ ॥
मूलम् - २०-५
तन्त्राणामन्तरज्ञश्च मन्त्राणां कृत्यतत्त्ववित् ।
पदवाक्यप्रमाणज्ञो हेतुवादविचक्षणः ॥ २०-५ ॥
विश्वास-प्रस्तुतिः - २०-६
प्। १८०) सामान्यस्यापवादस्य वेत्ता यन्त्रविचक्षणः ।
कुण्डमण्डलभेदज्ञः क्रियाकारविचक्षणः ॥ २०-६ ॥
मूलम् - २०-६
प्। १८०) सामान्यस्यापवादस्य वेत्ता यन्त्रविचक्षणः ।
कुण्डमण्डलभेदज्ञः क्रियाकारविचक्षणः ॥ २०-६ ॥
विश्वास-प्रस्तुतिः - २०-७
अध्यात्मज्ञानकुशलः शान्तो दान्तो जितेन्द्रियः ।
सदन्ववायसम्भूत आचार्यो नाम वैष्णवः ॥ २०-७ ॥
मूलम् - २०-७
अध्यात्मज्ञानकुशलः शान्तो दान्तो जितेन्द्रियः ।
सदन्ववायसम्भूत आचार्यो नाम वैष्णवः ॥ २०-७ ॥
शिष्यलक्षणम्
विश्वास-प्रस्तुतिः - २०-८
आचार्यमाश्रयेच्छिष्यः श्रेयोऽर्थी सुसमाहितः ।
विनयव्रतशाली च द्विजातिः संस्कृतः शुचिः ॥ २०-८ ॥
मूलम् - २०-८
आचार्यमाश्रयेच्छिष्यः श्रेयोऽर्थी सुसमाहितः ।
विनयव्रतशाली च द्विजातिः संस्कृतः शुचिः ॥ २०-८ ॥
विश्वास-प्रस्तुतिः - २०-९
ब्रह्मचर्यपरो धीमान् स्वदारनिरतोऽथवा ।
अच्छलेन यथावत् स्वकृताकृतनिवेदकः ॥ २०-९ ॥
मूलम् - २०-९
ब्रह्मचर्यपरो धीमान् स्वदारनिरतोऽथवा ।
अच्छलेन यथावत् स्वकृताकृतनिवेदकः ॥ २०-९ ॥
विश्वास-प्रस्तुतिः - २०-१०
संसाराङ्गारमध्यस्थः पच्यमानः स्वकर्मभिः ।
भवन्तं शरणं प्राप्त उपसन्नोऽस्म्यधीहि भोः ॥ २०-१० ॥
मूलम् - २०-१०
संसाराङ्गारमध्यस्थः पच्यमानः स्वकर्मभिः ।
भवन्तं शरणं प्राप्त उपसन्नोऽस्म्यधीहि भोः ॥ २०-१० ॥
इत्येवं प्रतिपद्येत शिष्य आचार्यसत्तमम् ।
दीक्षाक्रमः
इत्येवं सम्प्रपन्नाय शिष्यायाच्छलवादिने ॥ २०-११ ॥
विश्वास-प्रस्तुतिः - २०-१२
प्रत्यक्षाभिः परोक्षाभिरुपाधिभिरनेकधा ।
शोधितायैकरूपाय रहस्याम्नायगोपिने ॥ २०-१२ ॥
मूलम् - २०-१२
प्रत्यक्षाभिः परोक्षाभिरुपाधिभिरनेकधा ।
शोधितायैकरूपाय रहस्याम्नायगोपिने ॥ २०-१२ ॥
विश्वास-प्रस्तुतिः - २०-१३
अशठायानसूयाय लोभमोहाद्यसेविने ।
संवत्सरं परीक्ष्यैवं परितः परितो धिया ॥ २०-१३ ॥
मूलम् - २०-१३
अशठायानसूयाय लोभमोहाद्यसेविने ।
संवत्सरं परीक्ष्यैवं परितः परितो धिया ॥ २०-१३ ॥
प्। १८१) निष्कम्पाय वदेद्विद्यां यावती यादृशी च सा ।
अङ्गन्यासकरन्यासौ
मातृकामादितो देवीं विन्यसेद्वपुषि स्वके ॥ २०-१४ ॥
विश्वास-प्रस्तुतिः - २०-१५
अङ्गन्यासकरन्यासौ मन्त्रवर्णैः समाचरेत् ।
मृजेत् प्रकोष्ठमेकैकं त्रिर्मन्त्रेण त्रिरूपिणा ॥ २०-१५ ॥
मूलम् - २०-१५
अङ्गन्यासकरन्यासौ मन्त्रवर्णैः समाचरेत् ।
मृजेत् प्रकोष्ठमेकैकं त्रिर्मन्त्रेण त्रिरूपिणा ॥ २०-१५ ॥
विश्वास-प्रस्तुतिः - २०-१६
एवं पाणितलद्वन्द्वमङ्गुलीष्वथ विन्यसेत् ।
उभाभ्यां मध्यमाग्राभ्यामुभयस्मिंस्तलद्वये ॥ २०-१६ ॥
मूलम् - २०-१६
एवं पाणितलद्वन्द्वमङ्गुलीष्वथ विन्यसेत् ।
उभाभ्यां मध्यमाग्राभ्यामुभयस्मिंस्तलद्वये ॥ २०-१६ ॥
विश्वास-प्रस्तुतिः - २०-१७
तारकं तारिकां लक्ष्मीं प्रणवाद्यन्तगां न्यसेत् ।
प्रणवाद्यन्तगं सोमं मध्यमेऽङ्गुष्ठपर्वणि ॥ २०-१७ ॥
मूलम् - २०-१७
तारकं तारिकां लक्ष्मीं प्रणवाद्यन्तगां न्यसेत् ।
प्रणवाद्यन्तगं सोमं मध्यमेऽङ्गुष्ठपर्वणि ॥ २०-१७ ॥
विश्वास-प्रस्तुतिः - २०-१८
सबिन्दुं विन्यसेत् प्राणमेव तर्जनिपर्वणि ।
न्यसेद्वर्णांस्तृतीयादीनङ्गुल्यन्तरपर्वसु ॥ २०-१८ ॥
मूलम् - २०-१८
सबिन्दुं विन्यसेत् प्राणमेव तर्जनिपर्वणि ।
न्यसेद्वर्णांस्तृतीयादीनङ्गुल्यन्तरपर्वसु ॥ २०-१८ ॥
लाङ्गलं परमास्त्रं तु न्यसेदूर्ध्वाङ्गुलीष्वथ ।
ऋष्यादीनां स्थानभेदः
ऋषिं शिरसि विन्यस्येच्छन्दो वदनगोचरम् ॥ २०-१९ ॥
नारायणमनाद्यन्तं देवतां हृदये स्मरेत् ।
परसूक्ष्मस्थूलमन्त्राणामृषयः
पराकारस्य मन्त्रस्य परमात्मा ऋषिः स्मृतः ॥ २०-२० ॥
सङ्कर्षणस्तु सूक्ष्मस्य स्थूलस्याहमृषिः स्मृतः ।
सुदर्शनमन्त्रस्याथर्वणवेदसारतमत्वम्
प्। १८२) अथर्वाङ्गिरसो नाम पञ्च शाखा महामुने ॥ २०-२१ ॥
तासु त्वन्तर्हितो दिव्यः कृतान्तो मन्त्रराट् स्वयम् ।
सङ्कर्षणाज्ञया अहिर्बुध्न्येन तदुद्धरणम्
मया त्रेतायुगादौ तु तप्त्वा वर्षायुतं तपः ॥ २०-२२ ॥
विश्वास-प्रस्तुतिः - २०-२३
दिव्यात् सङ्कर्षणादेशात् परमेण समाधिना ।
सर्व आथर्वणो वेदो मथितस्तु शनैः शनैः ॥ २०-२३ ॥
मूलम् - २०-२३
दिव्यात् सङ्कर्षणादेशात् परमेण समाधिना ।
सर्व आथर्वणो वेदो मथितस्तु शनैः शनैः ॥ २०-२३ ॥
विश्वास-प्रस्तुतिः - २०-२४
मथ्यमानात् ततस्तस्माद् दध्नो घृतमिवोद्धृतः ।
मन्त्रोऽयं सपरीवारः साङ्गोपाङ्गः सनातनः ॥ २०-२४ ॥
मूलम् - २०-२४
मथ्यमानात् ततस्तस्माद् दध्नो घृतमिवोद्धृतः ।
मन्त्रोऽयं सपरीवारः साङ्गोपाङ्गः सनातनः ॥ २०-२४ ॥
विश्वास-प्रस्तुतिः - २०-२५
स्थूलस्य मन्त्रनाथस्य ततो मामृषिमूचिरे ।
दैवी ब्राह्मी तथार्षी च गायत्री छन्द उच्यते ॥ २०-२५ ॥
मूलम् - २०-२५
स्थूलस्य मन्त्रनाथस्य ततो मामृषिमूचिरे ।
दैवी ब्राह्मी तथार्षी च गायत्री छन्द उच्यते ॥ २०-२५ ॥
परः सूक्ष्मस्तथा स्थूलः परमात्मा च देवता ।
देहे संहारन्यासक्रमः
विन्यसेदथ गात्रेषु मन्त्रनाथं सनातनम् ॥ २०-२६ ॥
विश्वास-प्रस्तुतिः - २०-२७
परसूक्ष्मादिभावेन सोमार्कानलदीधितिम् ।
प्रणवादित्रयं मूर्ध्नि ललाटे सोममेव च ॥ २०-२७ ॥
मूलम् - २०-२७
परसूक्ष्मादिभावेन सोमार्कानलदीधितिम् ।
प्रणवादित्रयं मूर्ध्नि ललाटे सोममेव च ॥ २०-२७ ॥
विश्वास-प्रस्तुतिः - २०-२८
आस्ये सूर्यं गले स्रां च हृदि रं नाभिगं तु हुम् ।
मूलाधारे तु फट्कारं तारादित्रितयं हृदि ॥ २०-२८ ॥
मूलम् - २०-२८
आस्ये सूर्यं गले स्रां च हृदि रं नाभिगं तु हुम् ।
मूलाधारे तु फट्कारं तारादित्रितयं हृदि ॥ २०-२८ ॥
विश्वास-प्रस्तुतिः - २०-२९
प्। १८३) नाभौ समूलगं हं च पादयोः स्रां च रं हृदि ।
हुं वक्त्रे फट् शिरोदेशे ततः सर्वात्मना क्रिया ॥ २०-२९ ॥
मूलम् - २०-२९
प्। १८३) नाभौ समूलगं हं च पादयोः स्रां च रं हृदि ।
हुं वक्त्रे फट् शिरोदेशे ततः सर्वात्मना क्रिया ॥ २०-२९ ॥
अङ्गोपाङ्गन्यासः
विश्वास-प्रस्तुतिः - २०-३०
हृदयादीन्यथाङ्गानि स्वेषु स्थानेषु विन्यसेत् ।
उपाङ्गेषु तथा न्यासं मान्त्रैर्वर्णैः समाचरेत् ॥ २०-३० ॥
मूलम् - २०-३०
हृदयादीन्यथाङ्गानि स्वेषु स्थानेषु विन्यसेत् ।
उपाङ्गेषु तथा न्यासं मान्त्रैर्वर्णैः समाचरेत् ॥ २०-३० ॥
देहस्य त्रेधा विभावनम्
विश्वास-प्रस्तुतिः - २०-३१
स्थूलसूक्ष्मपरत्वेन देहं विद्यात् ततस्त्रिधा ।
अङ्गप्रत्यङ्गकोशाढ्यं प्रत्यक्षं स्थूलमुच्यते ॥ २०-३१ ॥
मूलम् - २०-३१
स्थूलसूक्ष्मपरत्वेन देहं विद्यात् ततस्त्रिधा ।
अङ्गप्रत्यङ्गकोशाढ्यं प्रत्यक्षं स्थूलमुच्यते ॥ २०-३१ ॥
विश्वास-प्रस्तुतिः - २०-३२
पुर्यष्टकं तु सूक्ष्माख्यं परमाणव उच्यते ।
वह्न्यर्ककोटिसङ्काशज्वालाकोलाहलाकुले ॥ २०-३२ ॥
मूलम् - २०-३२
पुर्यष्टकं तु सूक्ष्माख्यं परमाणव उच्यते ।
वह्न्यर्ककोटिसङ्काशज्वालाकोलाहलाकुले ॥ २०-३२ ॥
विश्वास-प्रस्तुतिः - २०-३३
त्रिविधे मन्त्रनाथेऽस्मिंस्त्रिविधं भावयेद्वपुः ।
तेजो दिव्यं महच्छुभ्रं मनःस्थं हृत्स्थमव्ययम् ॥ २०-३३ ॥
मूलम् - २०-३३
त्रिविधे मन्त्रनाथेऽस्मिंस्त्रिविधं भावयेद्वपुः ।
तेजो दिव्यं महच्छुभ्रं मनःस्थं हृत्स्थमव्ययम् ॥ २०-३३ ॥
विश्वास-प्रस्तुतिः - २०-३४
नारायणमयं ध्यायेदात्मानं ज्योतिषां पतिम् ।
ततस्तच्चक्रमध्याक्षसोमसूर्यानलात्मनि ॥ २०-३४ ॥
मूलम् - २०-३४
नारायणमयं ध्यायेदात्मानं ज्योतिषां पतिम् ।
ततस्तच्चक्रमध्याक्षसोमसूर्यानलात्मनि ॥ २०-३४ ॥
मज्जयित्वा स्वमात्मानं निर्वासनमथोद्धरेत् ।
सृष्टिन्यासः
ततः परादिभावस्थान् मन्त्रनाथान् सनातनान् ॥ २०-३५ ॥
विश्वास-प्रस्तुतिः - २०-३६
प्। १८४) तेनैव क्रमयोगेन तनूस्ता विसृजेत् पुनः ।
तासु प्रवेश्य चात्मानं पुनर्न्यासं समाचरेत् ॥ २०-३६ ॥
मूलम् - २०-३६
प्। १८४) तेनैव क्रमयोगेन तनूस्ता विसृजेत् पुनः ।
तासु प्रवेश्य चात्मानं पुनर्न्यासं समाचरेत् ॥ २०-३६ ॥
हस्तदेहादिगो न्यासो यावत् पूर्वमुदाहृतः ।
शिष्यावेक्षणम्
अथ मन्त्रतनुर्दिव्यो मन्त्रात्मा मन्त्रसारथिः ॥ २०-३७ ॥
विश्वास-प्रस्तुतिः - २०-३८
विष्णुसङ्कल्पजं रूपं वहन् सौदर्शनं वपुः ।
नेत्रैः शिष्यमवेक्षेत वह्न्यर्केन्दुमयैः क्रमात् ॥ २०-३८ ॥
मूलम् - २०-३८
विष्णुसङ्कल्पजं रूपं वहन् सौदर्शनं वपुः ।
नेत्रैः शिष्यमवेक्षेत वह्न्यर्केन्दुमयैः क्रमात् ॥ २०-३८ ॥
शिष्यस्य संहारन्यासः
विश्वास-प्रस्तुतिः - २०-३९
अथ स्थूलादिभावेन दहेन्मन्त्रेण तद्धिया ।
पूर्वोक्तक्रमयोगेन शिष्यात्मानं परात्मनि ॥ २०-३९ ॥
मूलम् - २०-३९
अथ स्थूलादिभावेन दहेन्मन्त्रेण तद्धिया ।
पूर्वोक्तक्रमयोगेन शिष्यात्मानं परात्मनि ॥ २०-३९ ॥
सृष्टिन्यासः
विश्वास-प्रस्तुतिः - २०-४०
निमज्जयित्वेत्याद्यं तु क्रमं सर्वं समाचरेत् ।
मनसा शुष्कदग्धोत्थे शिष्यदेहे तथा तथा ॥ २०-४० ॥
मूलम् - २०-४०
निमज्जयित्वेत्याद्यं तु क्रमं सर्वं समाचरेत् ।
मनसा शुष्कदग्धोत्थे शिष्यदेहे तथा तथा ॥ २०-४० ॥
विन्यसेत् क्रमयोगेन मन्त्रन्यासं धिया ततः ।
मन्त्रोपदेशः
अथ तस्योपदेष्टव्यः सहाङ्गो मन्त्रनायकः ॥ २०-४१ ॥
सार्थः सप्रतिपत्तिश्च यो यो भावः पुरोदितः ।
प्। १८५) एवं गृहीतमात्रे तु मन्त्रनाथे सनातने ॥ २०-४२ ॥
उत्पद्यते स्वयं चित्ते प्रत्ययो देवनिर्मितः ।
शिष्यकृत्यम्
सम्यगित्थं गृहीतेन मन्त्रेणानेन मन्त्रवित् ॥ २०-४३ ॥
विश्वास-प्रस्तुतिः - २०-४४
कृतार्थं मन्यमानः स्वं गुरवेऽथ निवेदयेत् ।
आत्मानमथ चात्मीयं यत् किञ्चिदुत विद्यते ॥ २०-४४ ॥
मूलम् - २०-४४
कृतार्थं मन्यमानः स्वं गुरवेऽथ निवेदयेत् ।
आत्मानमथ चात्मीयं यत् किञ्चिदुत विद्यते ॥ २०-४४ ॥
विश्वास-प्रस्तुतिः - २०-४५
विना पापमनिष्टं च सर्वं तस्मै निवेदयेत् ।
एवं निवेद्य मन्वीत कृतार्थोऽहमिति स्वयम् ॥ २०-४५ ॥
मूलम् - २०-४५
विना पापमनिष्टं च सर्वं तस्मै निवेदयेत् ।
एवं निवेद्य मन्वीत कृतार्थोऽहमिति स्वयम् ॥ २०-४५ ॥
विश्वास-प्रस्तुतिः - २०-४६
एवन्धियो ह्यच्छलेन मन्त्रः स्वेन प्रकाशते ।
भावस्य तारतम्येन तत्तद्दीक्षादिसाधनम् ॥ २०-४६ ॥
मूलम् - २०-४६
एवन्धियो ह्यच्छलेन मन्त्रः स्वेन प्रकाशते ।
भावस्य तारतम्येन तत्तद्दीक्षादिसाधनम् ॥ २०-४६ ॥
विश्वास-प्रस्तुतिः - २०-४७
दीक्षया दीक्षयित्वाथ पात्रयित्वाथवा धिया ।
संस्कारेणाथर्वणेन यद्वा संस्कृत्य मन्त्रतः ॥ २०-४७ ॥
मूलम् - २०-४७
दीक्षया दीक्षयित्वाथ पात्रयित्वाथवा धिया ।
संस्कारेणाथर्वणेन यद्वा संस्कृत्य मन्त्रतः ॥ २०-४७ ॥
विश्वास-प्रस्तुतिः - २०-४८
मन्त्रोऽयमुपदेष्टव्यो गुरुणा गुरुसेविनः ।
इत्थं ग्रहणसिद्धेन साधनेनाथ वाग्यतः ॥ २०-४८ ॥
मूलम् - २०-४८
मन्त्रोऽयमुपदेष्टव्यो गुरुणा गुरुसेविनः ।
इत्थं ग्रहणसिद्धेन साधनेनाथ वाग्यतः ॥ २०-४८ ॥
मन्त्रेणानेन सिद्धेन कुर्याल्लोकहितं सुधीः ।
क्षुद्रार्थं मन्त्रो न प्रयोज्यः
न जातु यस्य कस्यापि क्षुद्रस्यात्मन एव वा ॥ २०-४९ ॥
प्। १८६) लौकिकेऽर्थे विधिः कार्यः क्षुद्रकृत्यं हि तत् स्मृतम् ।
मन्त्रप्रयोगविषयाः
त्रैलोक्यस्याथ रक्षायै भुवश्चक्रस्य वा कृते ॥ २०-५० ॥
विश्वास-प्रस्तुतिः - २०-५१
राष्ट्रस्य वाथ राज्ञो वा राजमात्रस्य वा कृते ।
भावायैव विधिः कार्यो नैवाभावाय कर्हिचित् ॥ २०-५१ ॥
मूलम् - २०-५१
राष्ट्रस्य वाथ राज्ञो वा राजमात्रस्य वा कृते ।
भावायैव विधिः कार्यो नैवाभावाय कर्हिचित् ॥ २०-५१ ॥
पुरश्चरणार्थप्रदेशविधिः
विश्वास-प्रस्तुतिः - २०-५२
पर्वताग्रे नदीतीरे विष्णोरायतनेऽपि वा ।
ऋषीणामाश्रमे वापि सिद्धानामालयेऽपि वा ॥ २०-५२ ॥
मूलम् - २०-५२
पर्वताग्रे नदीतीरे विष्णोरायतनेऽपि वा ।
ऋषीणामाश्रमे वापि सिद्धानामालयेऽपि वा ॥ २०-५२ ॥
गवामायतने वापि वह्न्यायतन एव वा ।
कृच्छ्रादिभिः शरीरशोधनम्
त्रिभिः कृच्छ्रैर्विशोध्य स्वं गायत्रीनियुतेन वा ॥ २०-५३ ॥
त्रिभिर्वा ब्रह्मकूर्चोत्थैः स्नानैः सात्त्वतचोदितैः ।
पुरश्चरणाङ्गनियमाः
अहरेकं हरेर्बिम्बमापादमवलोकयेत् ॥ २०-५४ ॥
विश्वास-प्रस्तुतिः - २०-५५
ततो भैक्षहविष्याशी यावकेनोत वर्तयेत् ।
पयोव्रतो हविष्याशी यथा वा शक्नुयान्नरः ॥ २०-५५ ॥
मूलम् - २०-५५
ततो भैक्षहविष्याशी यावकेनोत वर्तयेत् ।
पयोव्रतो हविष्याशी यथा वा शक्नुयान्नरः ॥ २०-५५ ॥
मन्त्रजपादिसङ्ख्या
विश्वास-प्रस्तुतिः - २०-५६
प्। १८७) जपेल्लक्षाणि षण्मन्त्री जुहुयाच्चायुतानि षट् ।
तावच्च तर्पयेत् तोयैर्ब्राह्मणानथ तर्पयेत् ॥ २०-५६ ॥
मूलम् - २०-५६
प्। १८७) जपेल्लक्षाणि षण्मन्त्री जुहुयाच्चायुतानि षट् ।
तावच्च तर्पयेत् तोयैर्ब्राह्मणानथ तर्पयेत् ॥ २०-५६ ॥
मन्त्रसिद्धिः
अच्छलेनेतिवृत्तस्य मन्त्रनाथः प्रसीदति ।
तेन लोकसंरक्षा
प्रसन्नेनाथ मन्त्रेण रक्षा लोकानुकम्पया ॥ २०-५७ ॥
राजार्थितेन वै कार्या नार्थकार्पण्यतः क्वचित् ।
इति ते दर्शितः सम्यङ् मन्त्रनाथस्य विस्तरः ।
मन्त्रानधिकारिणः
नादान्तैः श्रावणीयोऽयं नैव यादृशतादृशैः ॥ २०-५८ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
मन्त्रग्रहणादिदीक्षाविधानं नाम विंशोऽध्यायः ॥ २० ॥
आदितः श्लोकाः १२२७
ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
रक्षाप्रकारप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - २१-१
नमो निखिलगीर्वाणगणश्रेयोविधायिने ।
नमस्ते त्रिपुराराते भूयो गौरीगुरो नमः ॥ २१-१ ॥
मूलम् - २१-१
नमो निखिलगीर्वाणगणश्रेयोविधायिने ।
नमस्ते त्रिपुराराते भूयो गौरीगुरो नमः ॥ २१-१ ॥
विश्वास-प्रस्तुतिः - २१-२
अत्यद्भुतमिदं दिव्यं वेदान्तेष्वपि दुर्लभम् ।
श्रुतं भगवतो वाक्यं कृतार्थोऽहमनेन वै ॥ २१-२ ॥
मूलम् - २१-२
अत्यद्भुतमिदं दिव्यं वेदान्तेष्वपि दुर्लभम् ।
श्रुतं भगवतो वाक्यं कृतार्थोऽहमनेन वै ॥ २१-२ ॥
विश्वास-प्रस्तुतिः - २१-३
भूयोऽहं श्रोतुमिच्छामि त्वद्वाक्यामृतमुत्तमम् ।
का रक्षा कीदृशी चैव कार्या मन्त्रेण मन्त्रिणा ॥ २१-३ ॥
मूलम् - २१-३
भूयोऽहं श्रोतुमिच्छामि त्वद्वाक्यामृतमुत्तमम् ।
का रक्षा कीदृशी चैव कार्या मन्त्रेण मन्त्रिणा ॥ २१-३ ॥
रक्षाया द्वैविध्यम्
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २१-४
रक्षा तु द्विविधा मान्त्री मन्त्रनित्येन धीमता ।
कार्या ज्योतिर्मयी पूर्वं पश्चात् तत्र च वाङ्मयी ॥ २१-४ ॥
मूलम् - २१-४
रक्षा तु द्विविधा मान्त्री मन्त्रनित्येन धीमता ।
कार्या ज्योतिर्मयी पूर्वं पश्चात् तत्र च वाङ्मयी ॥ २१-४ ॥
अक्षकल्पनम्
यत् तद् दिव्यं महज्ज्योतिरक्षरं ब्रह्म शाश्वतम् ।
प्। १८९) सूर्यस्य यः परः सूर्यश्चन्द्रश्चन्द्रस्य यः परः ॥ २१-५
॥
विश्वास-प्रस्तुतिः - २१-६
अग्नेरग्निः परो दीप्तेस्तेजस्तत्तेजसामपि ।
नित्यतृप्तं सदानन्दमुदयास्तमयोज्झितम् ॥ २१-६ ॥
मूलम् - २१-६
अग्नेरग्निः परो दीप्तेस्तेजस्तत्तेजसामपि ।
नित्यतृप्तं सदानन्दमुदयास्तमयोज्झितम् ॥ २१-६ ॥
तदक्षं कल्पयेद् दिव्यमथ नाभिं स्मरेद् बुधः ।
नाभिकल्पनम्
तद्धर्मधर्मिणीं शक्तिं ब्रह्मणोऽनपगामिनीम् ॥ २१-७ ॥
अनाकारामनौपम्यां लक्षयन्तीं सदा जगत् ।
शक्तेः श्रीशब्दवाच्यत्वं तन्निर्वचनं च
श्रयन्तीं श्रीयमाणां च शृणन्तीं शृण्वतीमपि ॥ २१-८ ॥
महानन्दां महाभासां निर्विकारां निरेषणाम् ।
श्रियः षाड्गुण्यपूर्णता
ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभावतीम् ॥ २१-९ ॥
विश्वास-प्रस्तुतिः - २१-१०
अनन्तानन्तरूपां तामभेद्यां सर्वभेदिनीम् ।
नन्दां भद्रां जयां पूर्णां रिक्तां चैवामृतां हराम् ॥
२१-१० ॥
मूलम् - २१-१०
अनन्तानन्तरूपां तामभेद्यां सर्वभेदिनीम् ।
नन्दां भद्रां जयां पूर्णां रिक्तां चैवामृतां हराम् ॥
२१-१० ॥
विश्वास-प्रस्तुतिः - २१-११
त्रिरूपामत्रिरूपां च सर्वप्रत्यक्षसम्मताम् ।
निषेधैरनिषेध्यां तामविधेयां विधिक्रमैः ॥ २१-११ ॥
मूलम् - २१-११
त्रिरूपामत्रिरूपां च सर्वप्रत्यक्षसम्मताम् ।
निषेधैरनिषेध्यां तामविधेयां विधिक्रमैः ॥ २१-११ ॥
अवाच्यां वाचिकां नित्यां गौरीं लक्ष्मीं सरस्वतीम् ।
अरकल्पनम्
अराणि पञ्च कृत्यानि शक्तेस्तस्याः प्रकल्पयेत् ॥ २१-१२ ॥
प्। १९०) तिरोभावं सृजिं चैव स्थितिं संहृत्यनुग्रहौ ।
नेमिकल्पनम्
व्यूहं व्यूहान्तरं चैव नेमिभावं प्रकल्पयेत् ॥ २१-१३ ॥
विश्वास-प्रस्तुतिः - २१-१४
सच्चिदानन्दसन्दोहमस्पन्दस्पन्दलक्षणम् ।
सर्वक्रियास्पदं शुद्धमक्रियास्पदसेवितम् ॥ २१-१४ ॥
मूलम् - २१-१४
सच्चिदानन्दसन्दोहमस्पन्दस्पन्दलक्षणम् ।
सर्वक्रियास्पदं शुद्धमक्रियास्पदसेवितम् ॥ २१-१४ ॥
विश्वास-प्रस्तुतिः - २१-१५
उदयास्तमयस्थं तदुदयास्तमयोज्झितम् ।
अवस्थाविधुरं नित्यं शश्वच्चतुरवस्थितम् ॥ २१-१५ ॥
मूलम् - २१-१५
उदयास्तमयस्थं तदुदयास्तमयोज्झितम् ।
अवस्थाविधुरं नित्यं शश्वच्चतुरवस्थितम् ॥ २१-१५ ॥
विश्वास-प्रस्तुतिः - २१-१६
अपदं चाक्रमं चैव क्रमास्थितचतुष्पदम् ।
अनायुधमसंरम्भं सर्वायुधसमन्वितम् ॥ २१-१६ ॥
मूलम् - २१-१६
अपदं चाक्रमं चैव क्रमास्थितचतुष्पदम् ।
अनायुधमसंरम्भं सर्वायुधसमन्वितम् ॥ २१-१६ ॥
विश्वास-प्रस्तुतिः - २१-१७
शास्त्रशास्त्रार्थतद्भेदं फलकॢप्तिविचक्षणम् ।
चन्द्रार्काग्निसहस्रौघकोटिकोट्यर्बुदोपमैः ॥ २१-१७ ॥
मूलम् - २१-१७
शास्त्रशास्त्रार्थतद्भेदं फलकॢप्तिविचक्षणम् ।
चन्द्रार्काग्निसहस्रौघकोटिकोट्यर्बुदोपमैः ॥ २१-१७ ॥
स्वभासां निचयैर्ध्वस्तसमस्तदुरितोदयम् ।
विभवेशादीनां नेमिबाह्यस्थानकल्पनम्
नेमिबाह्यस्थितान् ज्वालान् विभवेशाननुस्मरेत् ॥ २१-१८ ॥
विश्वास-प्रस्तुतिः - २१-१९
चन्द्रार्काग्निसहस्राभान् संविदानन्दलक्षणान् ।
सर्वाकारान् निराकारान् सर्वाभीष्टफलप्रदान् ॥ २१-१९ ॥
मूलम् - २१-१९
चन्द्रार्काग्निसहस्राभान् संविदानन्दलक्षणान् ।
सर्वाकारान् निराकारान् सर्वाभीष्टफलप्रदान् ॥ २१-१९ ॥
विश्वास-प्रस्तुतिः - २१-२०
कान्तिज्वालाकुलालीढरक्षोदैत्येन्द्रदानवान् ।
धूम्रां ज्वालाकुलोत्थां च सृष्टिं शुद्धेतरां स्मरेत् ॥ २१-२०
॥
मूलम् - २१-२०
कान्तिज्वालाकुलालीढरक्षोदैत्येन्द्रदानवान् ।
धूम्रां ज्वालाकुलोत्थां च सृष्टिं शुद्धेतरां स्मरेत् ॥ २१-२०
॥
त्रैलोक्यं धरणीं चक्रं मण्डलं वा तदीश्वरम् ।
प्। १९१) अक्षस्थं कल्पयेत् तस्य यदीच्छेद्रक्षितुं धिया ॥ २१-२१ ॥
एवं ध्यायिन आनुषङ्गिकं फलम्
विश्वास-प्रस्तुतिः - २१-२२
इत्थं विचिन्तयेद् यत्र मन्त्री मन्त्रार्थतत्परः ।
तत्र नश्यति पाप्मान आधयो व्याधयोऽपि वा ॥ २१-२२ ॥
मूलम् - २१-२२
इत्थं विचिन्तयेद् यत्र मन्त्री मन्त्रार्थतत्परः ।
तत्र नश्यति पाप्मान आधयो व्याधयोऽपि वा ॥ २१-२२ ॥
विश्वास-प्रस्तुतिः - २१-२३
ईतयोऽरातयश्चैव न क्लेशा दधते पदम् ।
राजा विजयते नित्यं शश्वत् स्निह्यन्ति मन्त्रिणः ॥ २१-२३ ॥
मूलम् - २१-२३
ईतयोऽरातयश्चैव न क्लेशा दधते पदम् ।
राजा विजयते नित्यं शश्वत् स्निह्यन्ति मन्त्रिणः ॥ २१-२३ ॥
विश्वास-प्रस्तुतिः - २१-२४
नित्यं माद्यन्ति मित्राणि सुख्यन्ति सुहृदस्तथा ।
बध्नन्ति बान्धवाः प्रीतिं सन्तः सन्ति च सन्ततम् ॥ २१-२४ ॥
मूलम् - २१-२४
नित्यं माद्यन्ति मित्राणि सुख्यन्ति सुहृदस्तथा ।
बध्नन्ति बान्धवाः प्रीतिं सन्तः सन्ति च सन्ततम् ॥ २१-२४ ॥
विश्वास-प्रस्तुतिः - २१-२५
पोष्याः पुष्यन्ति चार्थानां श्रयन्ति श्रिय एव च ।
ऋध्नुवन्ति प्रजा नित्यं प्रसीदन्त्यः परस्परम् ॥ २१-२५ ॥
मूलम् - २१-२५
पोष्याः पुष्यन्ति चार्थानां श्रयन्ति श्रिय एव च ।
ऋध्नुवन्ति प्रजा नित्यं प्रसीदन्त्यः परस्परम् ॥ २१-२५ ॥
विश्वास-प्रस्तुतिः - २१-२६
कामैर्धमान् निबन्ध्नन्ति धर्मैरर्थाननेकशः ।
अर्थैः कामान् निबध्नन्ति तथा धर्मानशेषतः ॥ २१-२६ ॥
मूलम् - २१-२६
कामैर्धमान् निबन्ध्नन्ति धर्मैरर्थाननेकशः ।
अर्थैः कामान् निबध्नन्ति तथा धर्मानशेषतः ॥ २१-२६ ॥
विश्वास-प्रस्तुतिः - २१-
धर्मैरर्थान् निबध्नन्ति तथा कामानशेषतः ।
धर्मार्थाभ्यां तथा कामं कामार्थाभ्यां तथेतरम् ॥ २१-
मूलम् - २१-
धर्मैरर्थान् निबध्नन्ति तथा कामानशेषतः ।
धर्मार्थाभ्यां तथा कामं कामार्थाभ्यां तथेतरम् ॥ २१-
अर्थं च धर्मकामाभ्यां सञ्चिन्वन्ति सदा नराः ।
मुख्यफलकथनम्
सर्वे स्वधर्मनिरतास्तथा कल्याणभागिनः ॥ २१-२८ ॥
सम्प्राप्य भगवज्ज्ञानं प्राप्नुवन्ति परं पदम् ।
प्। १९२) अध्यायार्थनिगमनम्
विश्वास-प्रस्तुतिः - २१-२९
इति ज्योतिर्मयी रक्षा लेशतस्ते निदर्शिता ।
रक्षां तु वाङ्मयीं प्रोक्तां गृणतो मे निशामय ॥ २१-२९ ॥
मूलम् - २१-२९
इति ज्योतिर्मयी रक्षा लेशतस्ते निदर्शिता ।
रक्षां तु वाङ्मयीं प्रोक्तां गृणतो मे निशामय ॥ २१-२९ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः ॥ २१ ॥
आदितः श्लोकाः १२५६
मन्त्रमयरक्षानिरूपणं नाम द्वाविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
तत्रादौ चतुररब्रह्मचक्रम्
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २२-१
शृणु मन्त्रमयीं रक्षां वाङ्मयी या निगद्यते ।
यस्मिन् विश्वमिदं प्रोतं सदेवासुरमानुषम् ॥ २२-१ ॥
मूलम् - २२-१
शृणु मन्त्रमयीं रक्षां वाङ्मयी या निगद्यते ।
यस्मिन् विश्वमिदं प्रोतं सदेवासुरमानुषम् ॥ २२-१ ॥
विश्वास-प्रस्तुतिः - २२-२
मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः ।
कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः ॥ २२-२ ॥
मूलम् - २२-२
मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः ।
कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः ॥ २२-२ ॥
विश्वास-प्रस्तुतिः - २२-३
तं तारशक्तिश्रीबीजैर्ग्रथितं कल्पयेन्मनुम् ।
तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया ॥ २२-३ ॥
मूलम् - २२-३
तं तारशक्तिश्रीबीजैर्ग्रथितं कल्पयेन्मनुम् ।
तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया ॥ २२-३ ॥
विश्वास-प्रस्तुतिः - २२-४
विलिखेत् परितो भूयः सहग्रथितमातृकम् ।
परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् ॥ २२-४ ॥
मूलम् - २२-४
विलिखेत् परितो भूयः सहग्रथितमातृकम् ।
परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् ॥ २२-४ ॥
विश्वास-प्रस्तुतिः - २२-५
मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो लिखेत् ।
अक्षकॢप्तिरियं दिव्या देवैरपि सुदुर्लभा ॥ २२-५ ॥
मूलम् - २२-५
मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो लिखेत् ।
अक्षकॢप्तिरियं दिव्या देवैरपि सुदुर्लभा ॥ २२-५ ॥
विश्वास-प्रस्तुतिः - २२-६
प्। १९३) स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम् ।
स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् ॥ २२-६ ॥
मूलम् - २२-६
प्। १९३) स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम् ।
स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् ॥ २२-६ ॥
विश्वास-प्रस्तुतिः - २२-७
शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् ।
अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः ॥ २२-७ ॥
मूलम् - २२-७
शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् ।
अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः ॥ २२-७ ॥
विश्वास-प्रस्तुतिः - २२-८
व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत् ।
अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् ॥ २२-८ ॥
मूलम् - २२-८
व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत् ।
अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् ॥ २२-८ ॥
विश्वास-प्रस्तुतिः - २२-९
उद्दामादिक्रमेणैव दक्षिणं चारमालिखेत् ।
प्रासादादिक्रमेणैव प्रश्चिमं चारमालिखेत् ॥ २२-९ ॥
मूलम् - २२-९
उद्दामादिक्रमेणैव दक्षिणं चारमालिखेत् ।
प्रासादादिक्रमेणैव प्रश्चिमं चारमालिखेत् ॥ २२-९ ॥
विश्वास-प्रस्तुतिः - २२-१०
व्योमेशादिक्रमेणैवमुत्तरं चारमालिखेत् ।
इयं चतुररी दिव्या सुरैरपि सुपूजिता ॥ २२-१० ॥
मूलम् - २२-१०
व्योमेशादिक्रमेणैवमुत्तरं चारमालिखेत् ।
इयं चतुररी दिव्या सुरैरपि सुपूजिता ॥ २२-१० ॥
विश्वास-प्रस्तुतिः - २२-११
आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत् ।
कालानलसमज्योतिर्भवेदरचतुष्टयम् ॥ २२-११ ॥
मूलम् - २२-११
आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत् ।
कालानलसमज्योतिर्भवेदरचतुष्टयम् ॥ २२-११ ॥
विश्वास-प्रस्तुतिः - २२-१२
परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम् ।
शक्तिताररमाबीजैर्ग्रथितं वर्मवेष्टितम् ॥ २२-१२ ॥
मूलम् - २२-१२
परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम् ।
शक्तिताररमाबीजैर्ग्रथितं वर्मवेष्टितम् ॥ २२-१२ ॥
विश्वास-प्रस्तुतिः - २२-१३
शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत् ।
फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः ॥ २२-१३ ॥
मूलम् - २२-१३
शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत् ।
फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः ॥ २२-१३ ॥
प्रधिभूमौ लिखेच्चक्रमेतच्चतुररं स्मृतम् ।
षडरविष्णुचक्रम्
तारकात्मकमेतत्तु चक्रमक्षं प्रकल्पयेत् ॥ २२-१४ ॥
विश्वास-प्रस्तुतिः - २२-१५
प्। १९५) तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम् ।
परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत् ॥ २२-१५ ॥
मूलम् - २२-१५
प्। १९५) तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम् ।
परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत् ॥ २२-१५ ॥
विश्वास-प्रस्तुतिः - २२-१६
नामवर्णान् लिखेद् बाह्ये तारादित्रयदर्भितान् ।
वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् ॥ २२-१६ ॥
मूलम् - २२-१६
नामवर्णान् लिखेद् बाह्ये तारादित्रयदर्भितान् ।
वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् ॥ २२-१६ ॥
विश्वास-प्रस्तुतिः - २२-१७
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् ।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ २२-१७ ॥
मूलम् - २२-१७
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् ।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ २२-१७ ॥
विश्वास-प्रस्तुतिः - २२-१८
वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारां परमाद्भुतम् ॥ २२-१८ ॥
मूलम् - २२-१८
वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारां परमाद्भुतम् ॥ २२-१८ ॥
विश्वास-प्रस्तुतिः - २२-१९
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च ॥ २२-१९ ॥
मूलम् - २२-१९
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च ॥ २२-१९ ॥
विश्वास-प्रस्तुतिः - २२-२०
रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने ।
रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् ॥ २२-२० ॥
मूलम् - २२-२०
रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने ।
रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् ॥ २२-२० ॥
विश्वास-प्रस्तुतिः - २२-२१
प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत् ।
रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च ॥ २२-२१ ॥
मूलम् - २२-२१
प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत् ।
रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च ॥ २२-२१ ॥
विश्वास-प्रस्तुतिः - २२-२२
विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत् ।
रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च ॥ २२-२२
॥
मूलम् - २२-२२
विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत् ।
रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च ॥ २२-२२
॥
विश्वास-प्रस्तुतिः - २२-२३
ष्णं [श्रियं रेफमित्येवं नैर्-ऋतं चाप्यरं लिखेत् ।
रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च ॥ २२-२३ ॥
मूलम् - २२-२३
ष्णं [श्रियं रेफमित्येवं नैर्-ऋतं चाप्यरं लिखेत् ।
रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च ॥ २२-२३ ॥
वें श्रियं] रेफमित्येवं वारुणं चाप्यरं लिखेत् ।
प्। १९६) रेफं नं प्रणवं रेफं नं शक्तिं रेफमेव च ॥ २२-
२४ ॥
विश्वास-प्रस्तुतिः - २२-२५
नं श्रियं रेफमित्येवं वायव्यं चारमालिखेत् ।
रेफं मों प्रणवं रेफं मों शक्तिं रेफमेव च ॥ २२-२५ ॥
मूलम् - २२-२५
नं श्रियं रेफमित्येवं वायव्यं चारमालिखेत् ।
रेफं मों प्रणवं रेफं मों शक्तिं रेफमेव च ॥ २२-२५ ॥
विश्वास-प्रस्तुतिः - २२-२६
मों श्रियं रेफमित्येवमैशानं चाप्यरं लिखेत् ।
तत्तदक्षरसन्दिष्टं मन्त्रं तत्पार्श्वयोर्लिखेत् ॥ २२-२६ ॥
मूलम् - २२-२६
मों श्रियं रेफमित्येवमैशानं चाप्यरं लिखेत् ।
तत्तदक्षरसन्दिष्टं मन्त्रं तत्पार्श्वयोर्लिखेत् ॥ २२-२६ ॥
विश्वास-प्रस्तुतिः - २२-२७
दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु ।
इयं हि षडरी दिव्या देवैरपि सुपूजिता ॥ २२-२७ ॥
मूलम् - २२-२७
दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु ।
इयं हि षडरी दिव्या देवैरपि सुपूजिता ॥ २२-२७ ॥
विश्वास-प्रस्तुतिः - २२-२८
परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः ।
हङ्कारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् ॥ २२-२८ ॥
मूलम् - २२-२८
परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः ।
हङ्कारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् ॥ २२-२८ ॥
विश्वास-प्रस्तुतिः - २२-२९
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ २२-२९ ॥
मूलम् - २२-२९
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ २२-२९ ॥
एतत्तु षडरं चक्रं षड्विंशार्णविनिर्मितम् ।
अष्टारनारायणचक्रम्
षडरं कल्पयेच्चक्रमक्षमेतन्महाद्युति ॥ २२-३० ॥
विश्वास-प्रस्तुतिः - २२-३१
अष्टाक्षरेण मन्त्रेण चक्रमष्टारमालिखेत् ।
महाबलं महाभीमं कालानलसमद्युति ॥ २२-३१ ॥
मूलम् - २२-३१
अष्टाक्षरेण मन्त्रेण चक्रमष्टारमालिखेत् ।
महाबलं महाभीमं कालानलसमद्युति ॥ २२-३१ ॥
विश्वास-प्रस्तुतिः - २२-३२
विधानमस्य चक्रस्य यथावदवधारय ।
विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् ॥ २२-३२ ॥
मूलम् - २२-३२
विधानमस्य चक्रस्य यथावदवधारय ।
विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् ॥ २२-३२ ॥
विश्वास-प्रस्तुतिः - २२-३३
प्। १९७) नामवर्णान् लिखेद्बाह्ये तारादित्रयलोलितान् ।
अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् ॥ २२-३३ ॥
मूलम् - २२-३३
प्। १९७) नामवर्णान् लिखेद्बाह्ये तारादित्रयलोलितान् ।
अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् ॥ २२-३३ ॥
विश्वास-प्रस्तुतिः - २२-३४
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् ।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ २२-३४ ॥
मूलम् - २२-३४
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् ।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ २२-३४ ॥
विश्वास-प्रस्तुतिः - २२-३५
अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २२-३५ ॥
मूलम् - २२-३५
अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २२-३५ ॥
विश्वास-प्रस्तुतिः - २२-३६
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् ॥ २२-३६ ॥
मूलम् - २२-३६
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् ॥ २२-३६ ॥
विश्वास-प्रस्तुतिः - २२-३७
रेफं च प्रणवं तारं रेफं तारं च तारिकाम् ।
रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् ॥ २२-३७ ॥
मूलम् - २२-३७
रेफं च प्रणवं तारं रेफं तारं च तारिकाम् ।
रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् ॥ २२-३७ ॥
विश्वास-प्रस्तुतिः - २२-३८
रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा ।
श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् ॥ २२-३८ ॥
मूलम् - २२-३८
रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा ।
श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् ॥ २२-३८ ॥
विश्वास-प्रस्तुतिः - २२-३९
रेफं मों तारकं रेफं मों शक्तिं रेफमोन्द्वयम् ।
श्रियं रेफं च मतिमानरं याम्यं क्रमाल्लिखेत् ॥ २२-३९ ॥
मूलम् - २२-३९
रेफं मों तारकं रेफं मों शक्तिं रेफमोन्द्वयम् ।
श्रियं रेफं च मतिमानरं याम्यं क्रमाल्लिखेत् ॥ २२-३९ ॥
विश्वास-प्रस्तुतिः - २२-४०
रेफं नां तारकं रेफं नां शक्तिं रेफमेव च ।
नां श्रियं रेफमित्येवं नैर्-ऋतं च लिखेदरम् ॥ २२-४० ॥
मूलम् - २२-४०
रेफं नां तारकं रेफं नां शक्तिं रेफमेव च ।
नां श्रियं रेफमित्येवं नैर्-ऋतं च लिखेदरम् ॥ २२-४० ॥
विश्वास-प्रस्तुतिः - २२-४१
रेफं रां तारकं रेफं रां शक्तिं रेफमेव च ।
रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् ॥ २२-४१ ॥
मूलम् - २२-४१
रेफं रां तारकं रेफं रां शक्तिं रेफमेव च ।
रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् ॥ २२-४१ ॥
विश्वास-प्रस्तुतिः - २२-४२
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च ।
यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् ॥ २२-४२ ॥
मूलम् - २२-४२
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च ।
यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् ॥ २२-४२ ॥
विश्वास-प्रस्तुतिः - २२-४३
प्। १९८) रेफं णां तारकं रेफं णां शक्तिं रेफमेव च ।
णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् ॥ २२-४३ ॥
मूलम् - २२-४३
प्। १९८) रेफं णां तारकं रेफं णां शक्तिं रेफमेव च ।
णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् ॥ २२-४३ ॥
विश्वास-प्रस्तुतिः - २२-४४
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च ।
यं श्रियम् रेफमित्येवमैशानं च लिखेदरम् ॥ २२-४४ ॥
मूलम् - २२-४४
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च ।
यं श्रियम् रेफमित्येवमैशानं च लिखेदरम् ॥ २२-४४ ॥
विश्वास-प्रस्तुतिः - २२-४५
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ।
अष्टारीयं महापुण्या सुरासुरनमस्कृता ॥ २२-४५ ॥
मूलम् - २२-४५
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ।
अष्टारीयं महापुण्या सुरासुरनमस्कृता ॥ २२-४५ ॥
विश्वास-प्रस्तुतिः - २२-४६
परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ २२-४६ ॥
मूलम् - २२-४६
परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ २२-४६ ॥
विश्वास-प्रस्तुतिः - २२-४७
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ २२-४७ ॥
मूलम् - २२-४७
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ २२-४७ ॥
नारायणं महाचक्रमेतन्नारायणेरितम् ।
विश्वास-प्रस्तुतिः - २२-४८
अक्षं कृत्वा चक्रमेतद् द्वादशारं बहिर्लिखेत् ।
वासुदेवं महाचक्रं विधिं तस्य निशामय ॥ २२-४८ ॥
मूलम् - २२-४८
अक्षं कृत्वा चक्रमेतद् द्वादशारं बहिर्लिखेत् ।
वासुदेवं महाचक्रं विधिं तस्य निशामय ॥ २२-४८ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
मन्त्रमयरक्षानिरूपणं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
आदितः श्लोकाः १३०४
वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
द्वादशारचक्रम्
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २३-१
द्वादशारस्य चक्रस्य क्रमोऽयं परिगीयते ।
पाप्मानो विप्रदूयन्ते यस्य स्मरणमात्रतः ॥ २३-१ ॥
मूलम् - २३-१
द्वादशारस्य चक्रस्य क्रमोऽयं परिगीयते ।
पाप्मानो विप्रदूयन्ते यस्य स्मरणमात्रतः ॥ २३-१ ॥
विश्वास-प्रस्तुतिः - २३-२
नारायणाह्वयं चक्रं यत् पूर्वं समुदीरितम् ।
तदक्षं कल्पयेन्मन्त्री वक्ष्यमाणविधानतः ॥ २३-२ ॥
मूलम् - २३-२
नारायणाह्वयं चक्रं यत् पूर्वं समुदीरितम् ।
तदक्षं कल्पयेन्मन्त्री वक्ष्यमाणविधानतः ॥ २३-२ ॥
विश्वास-प्रस्तुतिः - २३-३
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
परितो विलिखेद् बाह्ये चक्रान्नारायणाह्वयात् ॥ २३-३ ॥
मूलम् - २३-३
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
परितो विलिखेद् बाह्ये चक्रान्नारायणाह्वयात् ॥ २३-३ ॥
विश्वास-प्रस्तुतिः - २३-४
नामवर्णान् लिखेद् बाह्ये तारादित्रयलोलितान् ।
द्वादशाक्षरमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ २३-४ ॥
मूलम् - २३-४
नामवर्णान् लिखेद् बाह्ये तारादित्रयलोलितान् ।
द्वादशाक्षरमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ २३-४ ॥
विश्वास-प्रस्तुतिः - २३-५
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् ।
मातृकां विलिखेत् सर्वमेतदक्षं विचिन्तयेत् ॥ २३-५ ॥
मूलम् - २३-५
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् ।
मातृकां विलिखेत् सर्वमेतदक्षं विचिन्तयेत् ॥ २३-५ ॥
विश्वास-प्रस्तुतिः - २३-६
प्। २००) द्वादशाक्षरमन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितां कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-६ ॥
मूलम् - २३-६
प्। २००) द्वादशाक्षरमन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितां कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-६ ॥
विश्वास-प्रस्तुतिः - २३-७
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा द्वादशाराण्यथो लिखेत् ॥ २३-७ ॥
मूलम् - २३-७
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा द्वादशाराण्यथो लिखेत् ॥ २३-७ ॥
विश्वास-प्रस्तुतिः - २३-८
दिक्षु द्वे द्वे अरे लिख्याद्विदिक्ष्वेकैकमप्युत ।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ॥ २३-८ ॥
मूलम् - २३-८
दिक्षु द्वे द्वे अरे लिख्याद्विदिक्ष्वेकैकमप्युत ।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ॥ २३-८ ॥
विश्वास-प्रस्तुतिः - २३-९
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ।
अराणि द्वादशैवं च द्वादशाक्षरविद्यया ॥ २३-९ ॥
मूलम् - २३-९
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ।
अराणि द्वादशैवं च द्वादशाक्षरविद्यया ॥ २३-९ ॥
विश्वास-प्रस्तुतिः - २३-१०
प्रागादीशानपर्यन्तं कल्पयेन्मन्त्रवित्तमः ।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ २३-१० ॥
मूलम् - २३-१०
प्रागादीशानपर्यन्तं कल्पयेन्मन्त्रवित्तमः ।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ २३-१० ॥
विश्वास-प्रस्तुतिः - २३-११
द्वादशारी महाविद्या सेयं सर्वेश्वरप्रिया ।
परितः कल्पयेन्नेमिं जितन्ताख्यमहामनुम् ॥ २३-११ ॥
मूलम् - २३-११
द्वादशारी महाविद्या सेयं सर्वेश्वरप्रिया ।
परितः कल्पयेन्नेमिं जितन्ताख्यमहामनुम् ॥ २३-११ ॥
विश्वास-प्रस्तुतिः - २३-१२
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ।
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ॥ २३-१२ ॥
मूलम् - २३-१२
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ।
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ॥ २३-१२ ॥
विश्वास-प्रस्तुतिः - २३-१३
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ।
वासुदेवाह्वयं चक्रमेतद् देवैरभिष्टुतम् ॥ २३-१३ ॥
मूलम् - २३-१३
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ।
वासुदेवाह्वयं चक्रमेतद् देवैरभिष्टुतम् ॥ २३-१३ ॥
अस्य चक्रस्य माहात्मयं वक्तुं शक्यं न मादृशैः ।
अजिताख्यद्वात्रिंशदरचक्रम्
अक्षं कृत्वा चक्रमेतद् द्वात्रिंशदरमालिखेत् ॥ २३-१४ ॥
विश्वास-प्रस्तुतिः - २३-१५
प्। २०१) अजिताख्यमिदं चक्रं सुरासुरनमस्कृतम् ।
अस्य चक्रस्य विधिवद् विधानमुपदिश्यते ॥ २३-१५ ॥
मूलम् - २३-१५
प्। २०१) अजिताख्यमिदं चक्रं सुरासुरनमस्कृतम् ।
अस्य चक्रस्य विधिवद् विधानमुपदिश्यते ॥ २३-१५ ॥
विश्वास-प्रस्तुतिः - २३-१६
वासुदेवाह्वयं चक्रमस्याक्षं परिकल्पयेत् ।
यथा तथा विधानेन विधानं शृणु साम्प्रतम् ॥ २३-१६ ॥
मूलम् - २३-१६
वासुदेवाह्वयं चक्रमस्याक्षं परिकल्पयेत् ।
यथा तथा विधानेन विधानं शृणु साम्प्रतम् ॥ २३-१६ ॥
विश्वास-प्रस्तुतिः - २३-१७
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
परितो विलिखेन्मन्त्री वासुदेवाह्वयाद् बहिः ॥ २३-१७ ॥
मूलम् - २३-१७
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
परितो विलिखेन्मन्त्री वासुदेवाह्वयाद् बहिः ॥ २३-१७ ॥
विश्वास-प्रस्तुतिः - २३-१८
तारादिग्रथितान् साध्यनामवर्णान् लिखेद्बहिः ।
जितन्ताग्रथितं मन्त्रं परितो बहिरालिखेत् ॥ २३-१८ ॥
मूलम् - २३-१८
तारादिग्रथितान् साध्यनामवर्णान् लिखेद्बहिः ।
जितन्ताग्रथितं मन्त्रं परितो बहिरालिखेत् ॥ २३-१८ ॥
विश्वास-प्रस्तुतिः - २३-१९
मातृकां विलिखेद् बाह्ये सहद्वन्द्वविदर्भिताम् ।
विद्यादजितचक्रस्य सम्यगक्षमिदं बुधः ॥ २३-१९ ॥
मूलम् - २३-१९
मातृकां विलिखेद् बाह्ये सहद्वन्द्वविदर्भिताम् ।
विद्यादजितचक्रस्य सम्यगक्षमिदं बुधः ॥ २३-१९ ॥
विश्वास-प्रस्तुतिः - २३-२०
जितन्ताख्येन मन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-२० ॥
मूलम् - २३-२०
जितन्ताख्येन मन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-२० ॥
विश्वास-प्रस्तुतिः - २३-२१
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा पुण्डरीकाक्षसम्मता ॥ २३-२१ ॥
मूलम् - २३-२१
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा पुण्डरीकाक्षसम्मता ॥ २३-२१ ॥
विश्वास-प्रस्तुतिः - २३-२२
द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत् ।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ २३-२२ ॥
मूलम् - २३-२२
द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत् ।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ २३-२२ ॥
विश्वास-प्रस्तुतिः - २३-२३
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ २३-२३ ॥
मूलम् - २३-२३
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ २३-२३ ॥
द्वात्रिंशतमराण्येवं लिखेत् सम्यग्जितन्तया ।
प्। २०२) तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ २३-२४ ॥
विश्वास-प्रस्तुतिः - २३-२५
सा द्वात्रिंशदरी दिव्या देवदेवजयप्रदा ।
परितः कल्पयेन्नेमिं नृसिंहानुष्टुभं पराम् ॥ २३-२५ ॥
मूलम् - २३-२५
सा द्वात्रिंशदरी दिव्या देवदेवजयप्रदा ।
परितः कल्पयेन्नेमिं नृसिंहानुष्टुभं पराम् ॥ २३-२५ ॥
विश्वास-प्रस्तुतिः - २३-२६
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ २३-२६ ॥
मूलम् - २३-२६
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ २३-२६ ॥
विश्वास-प्रस्तुतिः - २३-२७
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ।
अजिताख्यमिदं चक्रं पुण्डरीकाक्षसम्मतम् ॥ २३-२७ ॥
मूलम् - २३-२७
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ।
अजिताख्यमिदं चक्रं पुण्डरीकाक्षसम्मतम् ॥ २३-२७ ॥
विश्वास-प्रस्तुतिः - २३-२८
येनाद्य पुण्डरीकाक्षो दैत्यान् विजयतेऽखिलान् ।
एतदत्यद्भुतं चक्रं कथ्यते वैष्णवं यशः ॥ २३-२८ ॥
मूलम् - २३-२८
येनाद्य पुण्डरीकाक्षो दैत्यान् विजयतेऽखिलान् ।
एतदत्यद्भुतं चक्रं कथ्यते वैष्णवं यशः ॥ २३-२८ ॥
नित्ययुक्तोऽत्र सन्मन्त्री जगद्विजयतेऽखिलम् ।
नारसिंहद्वात्रिंशदरचक्रम्
अक्षीकृत्यैतच्चक्रं तु चक्रमन्यत् प्रवर्तते ॥ २३-२९ ॥
विश्वास-प्रस्तुतिः - २३-३०
महाविष्णुमयं घोरं भद्रं मृत्युविमर्दनम् ।
विधानं शृणु तस्येदं कथ्यमानं मयानघ ॥ २३-३० ॥
मूलम् - २३-३०
महाविष्णुमयं घोरं भद्रं मृत्युविमर्दनम् ।
विधानं शृणु तस्येदं कथ्यमानं मयानघ ॥ २३-३० ॥
विश्वास-प्रस्तुतिः - २३-३१
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
अजिताख्यान्महाचक्रात् परितो बहिरालिखेत् ॥ २३-३१ ॥
मूलम् - २३-३१
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
अजिताख्यान्महाचक्रात् परितो बहिरालिखेत् ॥ २३-३१ ॥
विश्वास-प्रस्तुतिः - २३-३२
तारादिग्रथितान् साध्यनामवर्णान् बहिर्लिखेत् ।
उग्रवीरादिमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ २३-३२ ॥
मूलम् - २३-३२
तारादिग्रथितान् साध्यनामवर्णान् बहिर्लिखेत् ।
उग्रवीरादिमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ २३-३२ ॥
विश्वास-प्रस्तुतिः - २३-३३
परितो विलिखेद् बाह्ये सहग्रथितमातृकम् ।
प्। २०३) महाविष्णुमयं ह्येतदक्षं चक्रस्य शोभनम् ॥ २३-३३ ॥
मूलम् - २३-३३
परितो विलिखेद् बाह्ये सहग्रथितमातृकम् ।
प्। २०३) महाविष्णुमयं ह्येतदक्षं चक्रस्य शोभनम् ॥ २३-३३ ॥
विश्वास-प्रस्तुतिः - २३-३४
उग्रवीरादिमन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-३४ ॥
मूलम् - २३-३४
उग्रवीरादिमन्त्रेण शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-३४ ॥
विश्वास-प्रस्तुतिः - २३-३५
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा महाविष्णुमयी परा ॥ २३-३५ ॥
मूलम् - २३-३५
स्राकारग्रथितां चापि मातृकां परितो लिखेत् ।
एषा नाभिः समुद्दिष्टा महाविष्णुमयी परा ॥ २३-३५ ॥
विश्वास-प्रस्तुतिः - २३-३६
द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत् ।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ २३-३६ ॥
मूलम् - २३-३६
द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत् ।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ २३-३६ ॥
विश्वास-प्रस्तुतिः - २३-३७
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ २३-३७ ॥
मूलम् - २३-३७
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ २३-३७ ॥
विश्वास-प्रस्तुतिः - २३-३८
द्वात्रिंशतमराण्येवं नृसिंहानुष्टुभा लिखेत् ।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ २३-३८ ॥
मूलम् - २३-३८
द्वात्रिंशतमराण्येवं नृसिंहानुष्टुभा लिखेत् ।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ २३-३८ ॥
विश्वास-प्रस्तुतिः - २३-३९
सा द्वात्रिंशदरी विद्या दुष्टदैत्यनिबर्हणी ।
अस्य चक्रस्य नेमिं तु त्रीणि छन्दांसि कल्पयेत् ॥ २३-३९ ॥
मूलम् - २३-३९
सा द्वात्रिंशदरी विद्या दुष्टदैत्यनिबर्हणी ।
अस्य चक्रस्य नेमिं तु त्रीणि छन्दांसि कल्पयेत् ॥ २३-३९ ॥
विश्वास-प्रस्तुतिः - २३-४०
गायत्रीं त्रिष्टुभं चैव तथानुष्टुभमेव च ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ २३-४० ॥
मूलम् - २३-४०
गायत्रीं त्रिष्टुभं चैव तथानुष्टुभमेव च ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ २३-४० ॥
विश्वास-प्रस्तुतिः - २३-४१
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ २३-४१ ॥
मूलम् - २३-४१
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ २३-४१ ॥
विश्वास-प्रस्तुतिः - २३-४२
एतदत्यद्भुतं घोरं दुष्टदानवसूदनम् ।
नारसिंहं महाचक्रं मृत्युञ्जयमिति श्रुतम् ॥ २३-४२ ॥
मूलम् - २३-४२
एतदत्यद्भुतं घोरं दुष्टदानवसूदनम् ।
नारसिंहं महाचक्रं मृत्युञ्जयमिति श्रुतम् ॥ २३-४२ ॥
विश्वास-प्रस्तुतिः - २३-४३
प्। २०४) प्रेतापस्मारकुश्माण्डदैत्यदानवराक्षसाः ।
डाकिन्यो भूतयोगिन्यो याश्चान्याः क्रूरजातयः ॥ २३-४३ ॥
मूलम् - २३-४३
प्। २०४) प्रेतापस्मारकुश्माण्डदैत्यदानवराक्षसाः ।
डाकिन्यो भूतयोगिन्यो याश्चान्याः क्रूरजातयः ॥ २३-४३ ॥
स्मरणादस्य चक्रस्य विनश्यन्त्येव सर्वदा ।
शतारज्योतिश्चक्रम्
अक्षीकृत्यैतच्चक्रं तु ज्योतिश्चक्रं प्रवर्तते ॥ २३-४४ ॥
विश्वास-प्रस्तुतिः - २३-४५
ज्योतींषि त्रीणि च्छन्दांसि गायत्र्यादीन्यसंशयम् ।
विधिज्ञैस्तस्य चक्रस्य विधानं विहितं शृणु ॥ २३-४५ ॥
मूलम् - २३-४५
ज्योतींषि त्रीणि च्छन्दांसि गायत्र्यादीन्यसंशयम् ।
विधिज्ञैस्तस्य चक्रस्य विधानं विहितं शृणु ॥ २३-४५ ॥
विश्वास-प्रस्तुतिः - २३-४६
यदेतत् प्रथितं ज्योतिर्दिवि प्रत्यक्षमुत्तमम् ।
एषा तदिति गायत्री वेदानां जननी परा ॥ २३-४६ ॥
मूलम् - २३-४६
यदेतत् प्रथितं ज्योतिर्दिवि प्रत्यक्षमुत्तमम् ।
एषा तदिति गायत्री वेदानां जननी परा ॥ २३-४६ ॥
विश्वास-प्रस्तुतिः - २३-४७
यदेतदग्निहोत्रस्थं ज्योतिर्वहति वै हुतम् ।
जातवेदस इत्येषा त्रिष्टुबग्निमयी तनुः ॥ २३-४७ ॥
मूलम् - २३-४७
यदेतदग्निहोत्रस्थं ज्योतिर्वहति वै हुतम् ।
जातवेदस इत्येषा त्रिष्टुबग्निमयी तनुः ॥ २३-४७ ॥
विश्वास-प्रस्तुतिः - २३-४८
रसैः पुष्णाति यद्विश्वं ज्योतिर्नयननन्दनम् ।
तत् त्रियम्बकमित्येषानुष्टुबिन्दुमयी तनुः ॥ २३-४८ ॥
मूलम् - २३-४८
रसैः पुष्णाति यद्विश्वं ज्योतिर्नयननन्दनम् ।
तत् त्रियम्बकमित्येषानुष्टुबिन्दुमयी तनुः ॥ २३-४८ ॥
विश्वास-प्रस्तुतिः - २३-४९
ज्योतिर्भिर्धार्यते विश्वं बोधतापनहर्षणैः ।
विरुद्धोपक्रमैर्विश्वं भोक्तृभोग्यमयात्मभिः ॥ २३-४९ ॥
मूलम् - २३-४९
ज्योतिर्भिर्धार्यते विश्वं बोधतापनहर्षणैः ।
विरुद्धोपक्रमैर्विश्वं भोक्तृभोग्यमयात्मभिः ॥ २३-४९ ॥
विश्वास-प्रस्तुतिः - २३-५०
यत् पूर्वमुदितं चक्रं महाविष्णुमयं महत् ।
तदक्षं कल्पयेन्मन्त्री त्रिभिर्ज्योतिर्भिरुत्तमैः ॥ २३-५० ॥
मूलम् - २३-५०
यत् पूर्वमुदितं चक्रं महाविष्णुमयं महत् ।
तदक्षं कल्पयेन्मन्त्री त्रिभिर्ज्योतिर्भिरुत्तमैः ॥ २३-५० ॥
विश्वास-प्रस्तुतिः - २३-५१
छन्दोभिः कल्पयेदक्षं तारादिग्रथितं पुरा ।
महाविष्णुमयाद् बाह्ये विलिखेन्मन्त्रनायकम् ॥ २३-५१ ॥
मूलम् - २३-५१
छन्दोभिः कल्पयेदक्षं तारादिग्रथितं पुरा ।
महाविष्णुमयाद् बाह्ये विलिखेन्मन्त्रनायकम् ॥ २३-५१ ॥
विश्वास-प्रस्तुतिः - २३-५२
प्। २०५) तारादिग्रथितांश्चापि साध्यवर्णान् लिखेद् बहिः ।
छन्दोभिर्ग्रथितं मन्त्रं मन्त्री तद्बहिरालिखेत् ॥ २३-५२ ॥
मूलम् - २३-५२
प्। २०५) तारादिग्रथितांश्चापि साध्यवर्णान् लिखेद् बहिः ।
छन्दोभिर्ग्रथितं मन्त्रं मन्त्री तद्बहिरालिखेत् ॥ २३-५२ ॥
विश्वास-प्रस्तुतिः - २३-५३
मातृकां विलिखेद् बाह्ये सहद्वयविदर्भिताम् ।
एतदक्षं समुद्दिष्टं ज्योतिश्चक्रस्य नारद ॥ २३-५३ ॥
मूलम् - २३-५३
मातृकां विलिखेद् बाह्ये सहद्वयविदर्भिताम् ।
एतदक्षं समुद्दिष्टं ज्योतिश्चक्रस्य नारद ॥ २३-५३ ॥
विश्वास-प्रस्तुतिः - २३-५४
त्रिभिस्तदाद्यैश्छन्दोभिः शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-५४ ॥
मूलम् - २३-५४
त्रिभिस्तदाद्यैश्छन्दोभिः शक्तिश्रीबीजतारकैः ।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ २३-५४ ॥
विश्वास-प्रस्तुतिः - २३-५५
स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ।
एषा नाभिः समुद्दिष्टा वेदवेदान्तपूजिता ॥ २३-५५ ॥
मूलम् - २३-५५
स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ।
एषा नाभिः समुद्दिष्टा वेदवेदान्तपूजिता ॥ २३-५५ ॥
विश्वास-प्रस्तुतिः - २३-५६
अराणि शतमस्य स्युर्विधानं तस्य मे शृणु ।
वायुतो वह्निपर्यन्तं रक्षसः शर्वगोचरम् ॥ २३-५६ ॥
मूलम् - २३-५६
अराणि शतमस्य स्युर्विधानं तस्य मे शृणु ।
वायुतो वह्निपर्यन्तं रक्षसः शर्वगोचरम् ॥ २३-५६ ॥
विश्वास-प्रस्तुतिः - २३-५७
सूत्रद्वयं पातयित्वा चतुर्धा प्रविभज्य तु ।
अराणि पञ्च पञ्चैव क्षेत्रमेकैकमालिखेत् ॥ २३-५७ ॥
मूलम् - २३-५७
सूत्रद्वयं पातयित्वा चतुर्धा प्रविभज्य तु ।
अराणि पञ्च पञ्चैव क्षेत्रमेकैकमालिखेत् ॥ २३-५७ ॥
विश्वास-प्रस्तुतिः - २३-५८
अराणि शतमेवं स्युर्विधानं तस्य मे शृणु ।
गायत्र्यादीनि यानि स्युस्तत्र च्छन्दस्त्रयं लिखेत् ॥ २३-५८ ॥
मूलम् - २३-५८
अराणि शतमेवं स्युर्विधानं तस्य मे शृणु ।
गायत्र्यादीनि यानि स्युस्तत्र च्छन्दस्त्रयं लिखेत् ॥ २३-५८ ॥
विश्वास-प्रस्तुतिः - २३-५९
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ २३-५९ ॥
मूलम् - २३-५९
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ २३-५९ ॥
विश्वास-प्रस्तुतिः - २३-६०
विलिखेदरगायत्रीं गायत्र्यादौ समाहितः ।
अराणां त्रिष्टुभं चैव त्रिष्टुभैव समालिखेत् ॥ २३-६० ॥
मूलम् - २३-६०
विलिखेदरगायत्रीं गायत्र्यादौ समाहितः ।
अराणां त्रिष्टुभं चैव त्रिष्टुभैव समालिखेत् ॥ २३-६० ॥
अनुष्टुभमराणां चानुष्टुभैव समालिखेत् ।
प्। २०६) प्रागादिक्रमयोगेन यावदीशानगोचरम् ॥ २३-६१ ॥
विश्वास-प्रस्तुतिः - २३-६२
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ।
शतारीयं महापुण्या सा ब्रह्मास्त्रमयी परा ॥ २३-६२ ॥
मूलम् - २३-६२
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ।
शतारीयं महापुण्या सा ब्रह्मास्त्रमयी परा ॥ २३-६२ ॥
विश्वास-प्रस्तुतिः - २३-६३
पादैः पदैरक्षरैश्च त्रिधैव प्रतिलोमया ।
ब्रह्मदण्डब्रह्मशिरोब्रह्मास्त्रमयतेजसा ॥ २३-६३ ॥
मूलम् - २३-६३
पादैः पदैरक्षरैश्च त्रिधैव प्रतिलोमया ।
ब्रह्मदण्डब्रह्मशिरोब्रह्मास्त्रमयतेजसा ॥ २३-६३ ॥
विश्वास-प्रस्तुतिः - २३-६४
आन्तरं नेमि भागं तु गायत्र्या कल्पयेत् सुधीः ।
आग्नेयास्त्रस्वरूपिण्या त्रिष्टुभा प्रतिलोमया ॥ २३-६४ ॥
मूलम् - २३-६४
आन्तरं नेमि भागं तु गायत्र्या कल्पयेत् सुधीः ।
आग्नेयास्त्रस्वरूपिण्या त्रिष्टुभा प्रतिलोमया ॥ २३-६४ ॥
विश्वास-प्रस्तुतिः - २३-६५
मध्यमं नेमिभागं तु कल्पयेन्मन्त्रवित्तमः ।
अनुष्टुभा तृतीयं तु नेमिभागं प्रकल्पयेत् ॥ २३-६५ ॥
मूलम् - २३-६५
मध्यमं नेमिभागं तु कल्पयेन्मन्त्रवित्तमः ।
अनुष्टुभा तृतीयं तु नेमिभागं प्रकल्पयेत् ॥ २३-६५ ॥
विश्वास-प्रस्तुतिः - २३-६६
त्रैयम्बकास्त्ररूपिण्या वर्णशः प्रतिलोमया ।
विलिखेत् प्रतिलोमास्ता मन्त्रेण ग्रथिताः सुधीः ॥ २३-६६ ॥
मूलम् - २३-६६
त्रैयम्बकास्त्ररूपिण्या वर्णशः प्रतिलोमया ।
विलिखेत् प्रतिलोमास्ता मन्त्रेण ग्रथिताः सुधीः ॥ २३-६६ ॥
विश्वास-प्रस्तुतिः - २३-६७
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ २३-६७ ॥
मूलम् - २३-६७
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ २३-६७ ॥
विश्वास-प्रस्तुतिः - २३-६८
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ।
त्रिषु लोकेषु विख्यातं त्रिज्योतिश्चक्रमुत्तमम् ॥ २३-६८ ॥
मूलम् - २३-६८
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ।
त्रिषु लोकेषु विख्यातं त्रिज्योतिश्चक्रमुत्तमम् ॥ २३-६८ ॥
नानास्त्रग्रामसम्भिन्नं ब्रह्मज्योतिरनामयम् ।
ब्रह्मचक्रम्
अस्माच्चक्राद् बहिः पञ्च होतारः सग्रहाः स्मृताः ॥ २३-६९ ॥
विश्वास-प्रस्तुतिः - २३-७०
सम्भाराः पत्नयश्चैव दक्षिणा हृदयानि च ।
प्। २०७) तद्बहिः शतरुद्राणि पञ्च ब्रह्माणि तद्बहिः ॥ २३-७० ॥
मूलम् - २३-७०
सम्भाराः पत्नयश्चैव दक्षिणा हृदयानि च ।
प्। २०७) तद्बहिः शतरुद्राणि पञ्च ब्रह्माणि तद्बहिः ॥ २३-७० ॥
विश्वास-प्रस्तुतिः - २३-७१
त्वरितां तद्बहिश्चैव सूक्तं पौरुषमेव च ।
श्रीसूक्तं तद्बहिश्चैव गायत्रीं व्याहृतित्रयम् ॥ २३-७१ ॥
मूलम् - २३-७१
त्वरितां तद्बहिश्चैव सूक्तं पौरुषमेव च ।
श्रीसूक्तं तद्बहिश्चैव गायत्रीं व्याहृतित्रयम् ॥ २३-७१ ॥
विश्वास-प्रस्तुतिः - २३-७२
प्रणवं चेति परितः पङ्क्तीरेताः क्रमाल्लिखेत् ।
एतद् ब्रह्ममयं चक्रं सर्वच्छन्दोविनिर्मितम् ॥ २३-७२ ॥
मूलम् - २३-७२
प्रणवं चेति परितः पङ्क्तीरेताः क्रमाल्लिखेत् ।
एतद् ब्रह्ममयं चक्रं सर्वच्छन्दोविनिर्मितम् ॥ २३-७२ ॥
विश्वास-प्रस्तुतिः - २३-७३
सर्वदुःखोपशमनं सर्वपापनिबर्हणम् ।
स्मृतिमात्रेण सर्वेषामभीष्टार्थप्रदं सदा ॥ २३-७३ ॥
मूलम् - २३-७३
सर्वदुःखोपशमनं सर्वपापनिबर्हणम् ।
स्मृतिमात्रेण सर्वेषामभीष्टार्थप्रदं सदा ॥ २३-७३ ॥
सहस्रारमातृकाचक्रम्
विश्वास-प्रस्तुतिः - २३-७४
बहिः प्रवर्तते चास्मान्मातृकाचक्रमुत्तमम् ।
सोमसूर्यौर्वबिन्दूनां कूटं तु परितो लिखेत् ॥ २३-७४ ॥
मूलम् - २३-७४
बहिः प्रवर्तते चास्मान्मातृकाचक्रमुत्तमम् ।
सोमसूर्यौर्वबिन्दूनां कूटं तु परितो लिखेत् ॥ २३-७४ ॥
विश्वास-प्रस्तुतिः - २३-७५
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
तद्बहिर्विलिखेन्मन्त्री तारादिग्रथितान् पुनः ॥ २३-७५ ॥
मूलम् - २३-७५
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् ।
तद्बहिर्विलिखेन्मन्त्री तारादिग्रथितान् पुनः ॥ २३-७५ ॥
विश्वास-प्रस्तुतिः - २३-७६
नामवर्णान् लिखेद् बाह्ये तद्बहिर्मन्त्रमिश्रितान् ।
मातृकां विलिखेद् बाह्ये सहग्रथितमातृकाम् ॥ २३-७६ ॥
मूलम् - २३-७६
नामवर्णान् लिखेद् बाह्ये तद्बहिर्मन्त्रमिश्रितान् ।
मातृकां विलिखेद् बाह्ये सहग्रथितमातृकाम् ॥ २३-७६ ॥
विश्वास-प्रस्तुतिः - २३-७७
एतदक्षं समुद्दिष्टं मातृकाचक्रसम्भवम् ।
तारतारानुताराभिर्वर्णमातृकयापि च ॥ २३-७७ ॥
मूलम् - २३-७७
एतदक्षं समुद्दिष्टं मातृकाचक्रसम्भवम् ।
तारतारानुताराभिर्वर्णमातृकयापि च ॥ २३-७७ ॥
विश्वास-प्रस्तुतिः - २३-७८
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ।
स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ॥ २३-७८ ॥
मूलम् - २३-७८
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ।
स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ॥ २३-७८ ॥
विश्वास-प्रस्तुतिः - २३-७९
प्। २०८) एषा नाभिः समुद्दिष्टा शब्दब्रह्ममयी परा ।
अराण्यस्य सहस्रं स्युस्तद्विधानमिदं शृणु ॥ २३-७९ ॥
मूलम् - २३-७९
प्। २०८) एषा नाभिः समुद्दिष्टा शब्दब्रह्ममयी परा ।
अराण्यस्य सहस्रं स्युस्तद्विधानमिदं शृणु ॥ २३-७९ ॥
विश्वास-प्रस्तुतिः - २३-८०
पूर्वादिषु विभक्तेषु सूत्रैः क्षेत्रेषु पूर्ववत् ।
पञ्च पञ्चाशतं कुर्यादराणि प्रतिभागशः ॥ २३-८० ॥
मूलम् - २३-८०
पूर्वादिषु विभक्तेषु सूत्रैः क्षेत्रेषु पूर्ववत् ।
पञ्च पञ्चाशतं कुर्यादराणि प्रतिभागशः ॥ २३-८० ॥
विश्वास-प्रस्तुतिः - २३-८१
पञ्चाशद्भिस्तु विंशत्या सहस्रारं भवेत् तलम् ।
तारतारानुताराभिर्वाग्भवाद्यैस्त्रिभिस्तथा ॥ २३-८१ ॥
मूलम् - २३-८१
पञ्चाशद्भिस्तु विंशत्या सहस्रारं भवेत् तलम् ।
तारतारानुताराभिर्वाग्भवाद्यैस्त्रिभिस्तथा ॥ २३-८१ ॥
विश्वास-प्रस्तुतिः - २३-८२
चतुर्भिर्मातृकाबीजैराद्यैरौर्वान्तिमैः स्वरैः ।
आदिद्विसप्तसम्भिन्नैः काद्यैः क्षान्तैश्च वर्णकैः ॥ २३-८२ ॥
मूलम् - २३-८२
चतुर्भिर्मातृकाबीजैराद्यैरौर्वान्तिमैः स्वरैः ।
आदिद्विसप्तसम्भिन्नैः काद्यैः क्षान्तैश्च वर्णकैः ॥ २३-८२ ॥
विश्वास-प्रस्तुतिः - २३-८३
त्रैलोक्यैश्वर्यदोपेतैः शतैः पञ्चभिरक्षरैः ।
तावद्भिश्चैव सृष्ट्यन्तैः सहस्रेणेति संहतैः ॥ २३-८३ ॥
मूलम् - २३-८३
त्रैलोक्यैश्वर्यदोपेतैः शतैः पञ्चभिरक्षरैः ।
तावद्भिश्चैव सृष्ट्यन्तैः सहस्रेणेति संहतैः ॥ २३-८३ ॥
विश्वास-प्रस्तुतिः - २३-८४
अराणि कल्पयेदेवं सहस्रं तद्विधिं शृणु ।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ॥ २३-८४ ॥
मूलम् - २३-८४
अराणि कल्पयेदेवं सहस्रं तद्विधिं शृणु ।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ॥ २३-८४ ॥
विश्वास-प्रस्तुतिः - २३-८५
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ।
प्रागादिक्रमयोगेन लिखेदरसहस्रकम् ॥ २३-८५ ॥
मूलम् - २३-८५
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ।
प्रागादिक्रमयोगेन लिखेदरसहस्रकम् ॥ २३-८५ ॥
विश्वास-प्रस्तुतिः - २३-८६
सहस्रारीयमुद्दिष्टा शब्दब्रह्ममयी परा ।
ऐश्वर्यं बिन्दुसंयुक्तं वाग्भवं सम्प्रचक्षते ॥ २३-८६ ॥
मूलम् - २३-८६
सहस्रारीयमुद्दिष्टा शब्दब्रह्ममयी परा ।
ऐश्वर्यं बिन्दुसंयुक्तं वाग्भवं सम्प्रचक्षते ॥ २३-८६ ॥
विश्वास-प्रस्तुतिः - २३-८७
करालविबुधाख्यस्था माया व्यापिसमन्विता ।
कामराजमयं बीजं सोमौर्वव्यापिसंयुता ॥ २३-८७ ॥
मूलम् - २३-८७
करालविबुधाख्यस्था माया व्यापिसमन्विता ।
कामराजमयं बीजं सोमौर्वव्यापिसंयुता ॥ २३-८७ ॥
विश्वास-प्रस्तुतिः - २३-८८
प्। २०९) बीजं सारस्वतमिदं वाग्भवाद्या इमे त्रयः ।
कालानलस्थकमलभास्करानिलगामिनी ॥ २३-८८ ॥
मूलम् - २३-८८
प्। २०९) बीजं सारस्वतमिदं वाग्भवाद्या इमे त्रयः ।
कालानलस्थकमलभास्करानिलगामिनी ॥ २३-८८ ॥
विश्वास-प्रस्तुतिः - २३-८९
माया व्यापिसमायुक्ता मातृकाबीजमादिमम् ।
अशेषभुवनाधारसूर्यानलविहारिणी ॥ २३-८९ ॥
मूलम् - २३-८९
माया व्यापिसमायुक्ता मातृकाबीजमादिमम् ।
अशेषभुवनाधारसूर्यानलविहारिणी ॥ २३-८९ ॥
विश्वास-प्रस्तुतिः - २३-९०
पञ्चबिन्दुर्व्यापियुता द्वितीयं बीजमुच्यते ।
सोमानलस्थसूक्ष्मस्थानन्दव्यापिसमन्वयः ॥ २३-९० ॥
मूलम् - २३-९०
पञ्चबिन्दुर्व्यापियुता द्वितीयं बीजमुच्यते ।
सोमानलस्थसूक्ष्मस्थानन्दव्यापिसमन्वयः ॥ २३-९० ॥
विश्वास-प्रस्तुतिः - २३-९१
तृतीयं बीजमुद्दिष्टं चतुर्थमपि मे शृणु ।
सोमतालाङ्कसूक्ष्मस्थकालपावकगोपना ॥ २३-९१ ॥
मूलम् - २३-९१
तृतीयं बीजमुद्दिष्टं चतुर्थमपि मे शृणु ।
सोमतालाङ्कसूक्ष्मस्थकालपावकगोपना ॥ २३-९१ ॥
विश्वास-प्रस्तुतिः - २३-९२
कूटीकृता व्यापियुता चतुर्थं बीजमुत्तमम् ।
बीजानीमानि चत्वारि मातृकायां महामुने ॥ २३-९२ ॥
मूलम् - २३-९२
कूटीकृता व्यापियुता चतुर्थं बीजमुत्तमम् ।
बीजानीमानि चत्वारि मातृकायां महामुने ॥ २३-९२ ॥
विश्वास-प्रस्तुतिः - २३-९३
तत्तदक्षरसंयुक्तं मन्त्रं चोभयपार्श्वयोः ।
अराणां विलिखेन्मन्त्री सहस्रारविधिक्रमे ॥ २३-९३ ॥
मूलम् - २३-९३
तत्तदक्षरसंयुक्तं मन्त्रं चोभयपार्श्वयोः ।
अराणां विलिखेन्मन्त्री सहस्रारविधिक्रमे ॥ २३-९३ ॥
विश्वास-प्रस्तुतिः - २३-९४
मन्त्रार्णग्रथितां मन्त्री मातृकां प्रतिलोमिकाम् ।
विलिखेत् परितो मन्त्री तारादिग्रथितं च हुम् ॥ २३-९४ ॥
मूलम् - २३-९४
मन्त्रार्णग्रथितां मन्त्री मातृकां प्रतिलोमिकाम् ।
विलिखेत् परितो मन्त्री तारादिग्रथितं च हुम् ॥ २३-९४ ॥
विश्वास-प्रस्तुतिः - २३-९५
बहिर्लिखेच्छक्तिताररमास्त्रिस्त्रिर्विचक्षणः ।
फट्कारग्रथितां चापि मातृकां प्रधिमालिखेत् ॥ २३-९५ ॥
मूलम् - २३-९५
बहिर्लिखेच्छक्तिताररमास्त्रिस्त्रिर्विचक्षणः ।
फट्कारग्रथितां चापि मातृकां प्रधिमालिखेत् ॥ २३-९५ ॥
एतत् तन्मातृकाचक्रं यत्र सर्वं प्रतिष्ठितम् ।
प्। २१०) यद्बीजं मातृकाक्षाद्यं तद्बहिः प्रधिमालिखेत् ॥ २३-९६ ॥
विश्वास-प्रस्तुतिः - २३-९७
ततश्चिन्तामणिं बाह्ये तद्बहिश्च लिखेत् पराम् ।
परावरां तद्बहिश्च तद्बहिः श्रियमालिखेत् ॥ २३-९७ ॥
मूलम् - २३-९७
ततश्चिन्तामणिं बाह्ये तद्बहिश्च लिखेत् पराम् ।
परावरां तद्बहिश्च तद्बहिः श्रियमालिखेत् ॥ २३-९७ ॥
विश्वास-प्रस्तुतिः - २३-९८
तद्बहिस्तारिकां चैव तद्बहिस्तारकं परम् ।
तद्बहिश्चाङ्कुशांस्त्रिस्त्रिः पाशांस्त्रिस्त्रिश्च तद्बहिः ॥ २३-९८ ॥
मूलम् - २३-९८
तद्बहिस्तारिकां चैव तद्बहिस्तारकं परम् ।
तद्बहिश्चाङ्कुशांस्त्रिस्त्रिः पाशांस्त्रिस्त्रिश्च तद्बहिः ॥ २३-९८ ॥
विश्वास-प्रस्तुतिः - २३-९९
आचक्रादीनि चाङ्गानि तद्बहिः परितो लिखेत् ।
तद्बहिश्चापि दिग्बन्धं तस्य रूपमिदं शृणु ॥ २३-९९ ॥
मूलम् - २३-९९
आचक्रादीनि चाङ्गानि तद्बहिः परितो लिखेत् ।
तद्बहिश्चापि दिग्बन्धं तस्य रूपमिदं शृणु ॥ २३-९९ ॥
विश्वास-प्रस्तुतिः - २३-१००
पुरुषाय ततः स्वाहा दिङ्नामामर्षणं ततः ।
सहेति च ततः पश्चाद्बन्धयामीति दिग्गतम् ॥ २३-१०० ॥
मूलम् - २३-१००
पुरुषाय ततः स्वाहा दिङ्नामामर्षणं ततः ।
सहेति च ततः पश्चाद्बन्धयामीति दिग्गतम् ॥ २३-१०० ॥
विश्वास-प्रस्तुतिः - २३-१०१
आत्मने च ततः स्वाहा विदिङ्नामाप्यमर्षणम् ।
सहेति च ततः पश्चाद्बन्धयामि विदिग्गतम् ॥ २३-१०१ ॥
मूलम् - २३-१०१
आत्मने च ततः स्वाहा विदिङ्नामाप्यमर्षणम् ।
सहेति च ततः पश्चाद्बन्धयामि विदिग्गतम् ॥ २३-१०१ ॥
विश्वास-प्रस्तुतिः - २३-१०२
विलिखेच्चक्रगायत्रीमग्निप्राकारमन्ततः ।
आकाशमण्डलं बाह्ये तद्बीजेन समन्वितम् ॥ २३-१०२ ॥
मूलम् - २३-१०२
विलिखेच्चक्रगायत्रीमग्निप्राकारमन्ततः ।
आकाशमण्डलं बाह्ये तद्बीजेन समन्वितम् ॥ २३-१०२ ॥
विश्वास-प्रस्तुतिः - २३-१०३
वायुबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् ।
वह्निबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् ॥ २३-१०३ ॥
मूलम् - २३-१०३
वायुबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् ।
वह्निबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् ॥ २३-१०३ ॥
विश्वास-प्रस्तुतिः - २३-१०४
आप्यं तु मण्डलं बाह्ये स्वबीजेन समन्वितम् ।
तद्बाह्ये पार्थिवं बिम्बं स्वबीजेन समन्वितम् ॥ २३-१०४ ॥
मूलम् - २३-१०४
आप्यं तु मण्डलं बाह्ये स्वबीजेन समन्वितम् ।
तद्बाह्ये पार्थिवं बिम्बं स्वबीजेन समन्वितम् ॥ २३-१०४ ॥
प्राणः सूक्ष्मोऽनलश्चैव वारुणः पुरुषेश्वरः ।
प्। २११) सव्यापिनः क्रमादेतद् व्योमादेर्बीजपञ्चकम् ॥ २३-१०५ ॥
विश्वास-प्रस्तुतिः - २३-१०६
अनलः कमलश्चैव भास्करो मर्दनस्तथा ।
अनलः सूक्ष्म और्वश्चाप्यूर्जः पिण्डीकृता इमे ॥ २३-१०६ ॥
मूलम् - २३-१०६
अनलः कमलश्चैव भास्करो मर्दनस्तथा ।
अनलः सूक्ष्म और्वश्चाप्यूर्जः पिण्डीकृता इमे ॥ २३-१०६ ॥
विश्वास-प्रस्तुतिः - २३-१०७
सव्यापिनः स्म्र्तं बीजं चिन्तामणिरिदं परम् ।
परा नाम महाविद्या सोमस्थौर्वस्थसृष्टिका ॥ २३-१०७ ॥
मूलम् - २३-१०७
सव्यापिनः स्म्र्तं बीजं चिन्तामणिरिदं परम् ।
परा नाम महाविद्या सोमस्थौर्वस्थसृष्टिका ॥ २३-१०७ ॥
विश्वास-प्रस्तुतिः - २३-१०८
सव्यापी सोमगो विष्णुरियं प्रोक्ता परावरा ।
सौदर्शनेन कूटेन पृथिवीं परिवेष्टयेत् ॥ २३-१०८ ॥
मूलम् - २३-१०८
सव्यापी सोमगो विष्णुरियं प्रोक्ता परावरा ।
सौदर्शनेन कूटेन पृथिवीं परिवेष्टयेत् ॥ २३-१०८ ॥
विश्वास-प्रस्तुतिः - २३-१०९
योनिं सुदर्शनस्याथ वेष्टयेत् तारया बहिः ।
सोमः सूर्यस्ततः सोमः कालपावकयोर्द्वयम् ॥ २३-१०९ ॥
मूलम् - २३-१०९
योनिं सुदर्शनस्याथ वेष्टयेत् तारया बहिः ।
सोमः सूर्यस्ततः सोमः कालपावकयोर्द्वयम् ॥ २३-१०९ ॥
विश्वास-प्रस्तुतिः - २३-११०
सौदर्शनमिदं कूटं निरचां पञ्चकं हलाम् ।
एतत् सौदर्शनं रूपं कालानलसमद्युति ॥ २३-११० ॥
मूलम् - २३-११०
सौदर्शनमिदं कूटं निरचां पञ्चकं हलाम् ।
एतत् सौदर्शनं रूपं कालानलसमद्युति ॥ २३-११० ॥
शमयेत् कूटमेतद्वै तारयामृतरूपया ।
विश्वास-प्रस्तुतिः - २३-१११
अग्नीषोमात्मकं चक्रमेतत्ते दर्शितं मुने ।
वैष्णवं परमं तेजो ध्याहि चक्रमिदं सदा ॥ २३-१११ ॥
मूलम् - २३-१११
अग्नीषोमात्मकं चक्रमेतत्ते दर्शितं मुने ।
वैष्णवं परमं तेजो ध्याहि चक्रमिदं सदा ॥ २३-१११ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
आदितः श्लोकाः १४१५
यन्त्रदेवताध्याननिरूपणं नाम चतुर्विंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
उक्तानामष्टानां चक्राणां सङ्क्षेपेण फलकथनम्
अहिर्बुध्न्यः �
सोमसूर्यदहनप्रभोज्ज्वलं
चक्रमेतदुदितं महामुने ।
वाङ्मयं सकलमन्त्रसम्मितं
शब्दशब्द्यमखिलं यदुद्गतम् ॥ २४-१ ॥
ब्रह्मचक्रमुदितं यदान्तरं
केवलं विमलधीप्रदं मुने ।
विष्णुचक्रमुदितं यदद्भुतं
व्याप्तिकान्तिमतिविक्रमप्रदम् ॥ २४-२ ॥
यत् तृतीयमुदितं महाद्भुतं
चक्रमुज्ज्वलयशोऽर्थदं तु तत् ।
यत्तु चक्रमुदितं तुरीयकं
मोक्षदं मुनिगणोदितं मुने ॥ २४-३ ॥
प्। २१३) पञ्चमं विजयदायि कीर्तिदं
षष्ठमुग्रगदमृत्युनाशनम् ।
ब्रह्मवर्चसविधायि सप्तमं
सम्पदर्थविजयार्थमष्टमम् ॥ २४-४ ॥
विस्तरेण तन्महिमवर्णनस्याशक्त्यत्वम्
एकैकशोऽल्पश इदं गदितं फलं ते
चक्राष्टके सकलयोगिमुनीन्द्रवन्द्ये ।
वर्षायुतैर्बहुभिरप्यखिलात्मकस्य
शक्या न विस्तृतिरमुष्य मयाभिधातुम् ॥ २४-५ ॥
मन्त्राक्षरप्रथितभावविभेदपूर्वं
मन्त्री यजेत विधिवन्मनुदेवतास्ताः ।
आकारशक्तिपरिवारविभूषणास्त्र-
वीर्यप्रभावविषयैश्च विचिन्तयेत् ताः ॥ २४-६ ॥
तत्तच्चक्रदेवतास्वरूपतद्ध्यानादिप्रपञ्चनम्
आद्यं निरञ्जनमशेषजगत्प्रसूति-
त्राणप्रमाथनियमोद्यदनुग्रहस्थम् ।
सम्पूर्णशक्तिमतरङ्गमहार्णवाभं
ध्यायेद्धरिं प्रणवगोचरमादिचक्रे ॥ २४-७ ॥
प्। २१४) श्वेतं प्रसन्नवदनं कमलायताक्षं
पीताम्बरं पृथुलवक्षसमात्मयोनिम् ।
पीनोरुदीर्घभुजबृन्दधृतारिशङ्ख-
कौमोदकीसरसिजं खलु विष्णुचक्रे ॥ २४-८ ॥
श्यामं किरीटिनमुदारचतुर्भुजस्थ-
कौमोदकीकमलवारिजवर्यचक्रम् ।
नारायणं नयननन्दनमादिदेवं
ध्यायेच्छ्रिया सह तृतीयपदस्थचक्रे ॥ २४-९ ॥
कुन्देन्दुगौरमरविन्ददलायताक्षं
शुद्धाक्षमालममलोद्यतबोधमुद्रम् ।
बाहुद्वयीविधृतचक्रविशुद्धशङ्खं
तं वासुदेवमिति चिन्तय तुर्यचक्रे ॥ २४-१० ॥
शङ्खारिपङ्कजगदाङ्कुशपाशशार्ङ्ग-
सौनन्दकान् दधतमष्टभिरुग्रहस्तैः ।
तार्क्ष्यस्थितं रजतशैलनिभं पुराणं
सञ्चिन्तयेदजितचक्रगतं पुमांसम् ॥ २४-११ ॥
क्रूरोग्रवक्रनखकोटिनिकृत्तदैत्य-
वक्षःस्थलोच्चलितशोणितदिग्धदेहम् ।
घोरप्रकारनयनत्रयदुर्निरीक्षं
षष्ठे विचिन्तय मुने नरसिंहमीशम् ॥ २४-१२ ॥
प्। २१५) सोमाग्निसूर्यकिरणोद्गमपुञ्जकुञ्ज-
मध्यस्थितं विधृतपद्मगदारिशङ्खम् ।
छन्दःस्थितं भुवनकारणमप्रमेयं
श्रीशं विचिन्तय मुने पुरुषं पुराणम् ॥ २४-१३ ॥
मातृकाचक्रे लक्ष्म्या ध्येयत्वम्
गोक्षीरशङ्खहिमदीधितिदेवसिन्धु-
कुन्दप्रभाविमलपङ्कजशङ्खहस्ता ।
स्मेरप्रसन्नवदना कमलायताक्षी
ध्येया स्वचक्रभवनोपरि मातृका सा ॥ २४-१४ ॥
आलोलशूलदशकं त्रियुगाधिकं स्वै-
र्हस्तैर्द्विरष्टभिरथो दधती जपाभा ।
चिन्तामणिस्थितिमती नयनत्रयाढ्या
शक्तिर्हरेरिति मुने मनसा विचिन्त्या ॥ २४-१५ ॥
पूर्णेन्दुशीतलरुचिर्धृतबोधमुद्रा
बाह्वन्तरस्थनिजबोधनपुस्तकाढ्या ।
देवी परा परमपूरुषदिव्यशक्ति-
श्चिन्त्या प्रसन्नवदना सरसीरुहाक्षी ॥ २४-१६ ॥
पद्मारुणाभयवराङ्कुशपाशहस्ता
रक्ताम्बरा विपुलवारिजपत्रनेत्रा ।
प्। २१६) सूक्ष्मप्रभास्थितपरावरतत्त्वजाता
चिन्त्यादिशक्तिरपि सा च परावराख्या ॥ २४-१७ ॥
बाहुस्थपाशवलिताखिलजीववर्गा
बन्धूकपद्मकुसुमारुणदेहकान्तिः ।
पीनस्तनी मदविघूर्णितनेत्रपद्मा
लक्ष्मीशपार्श्वनिलयाखिलदेवतेयम् ॥ २४-१८ ॥
वक्राग्रनासिनिशिताङ्कुशकीलितेन
नम्रेण जीवनिकरेण समीड्यमाना ।
दिव्याङ्कुशस्थितिमती हरिशक्तिराद्या
ध्येया समाधिनिरतेन महाप्रभावा ॥ २४-१९ ॥
अङ्गमन्त्रदेवतातद्ध्यानादिप्रपञ्चनम्
अङ्गं तु चक्रमयदेवसमानरूप-
माचक्रपूर्वमखिलं गदितं यदादौ ।
गायत्र्यपि ज्वलितपावकतुल्यवर्णा
चक्रेशतुल्यविभवा विपुलस्तनाढ्या ॥ २४-२० ॥
ज्वालाकुलद्रुतसमस्तसुरारिवर्गं
प्राकारमग्निमयमेव वदन्ति सन्तः ।
प्। २१७) व्योमस्थशक्तिरपि सूर्यसहस्रमाला
नीलाम्बुजद्युतिमती मनसा विचिन्त्या ॥ २४-२१ ॥
मालां चतुर्गतिमयीं वपुषा दधाना
वायुस्थशक्तिरपि धूम्रतनुर्विचिन्त्या ।
कालानलाख्यतरुणार्कसहस्रमाला
तेजःस्थशक्तिरपि रक्ततनुर्विचिन्त्या ॥ २४-२२ ॥
पीयूषरूपरचना सलिलस्थशक्ति-
र्ध्येया वराहनियुतायुतकॢप्तमाला ।
उत्तप्तकाञ्चनरुचिः पुरुषेश्वराढ्या
भूशक्तिरादिपुरुषस्य विचिन्तनीया ॥ २४-२३ ॥
सुदर्शनमयसर्वचक्रकूटध्यानम्
कालानलायुतसहस्रसमानरूपं
कूटं सुदर्शनमयं मनसा विचिन्त्यम् ।
तापातुरक्वथदशेषसुरारिमेदो-
निष्यन्दमेदुरितदीप्तिशिखाजटालम् ॥ २४-२४ ॥
सौदर्शनसर्वमन्त्रमूलभूतशक्तिध्यानम्
सूर्येन्दुवह्निनयना तरुणार्कवर्णा
व्याप्य स्थिता जगदशेषमशेषवन्द्या ।
प्। २१८) चक्राणि बाहुनिवहैर्दधती सहस्रं
योनिः सुदर्शनमनोरिति चिन्तनीया ॥ २४-२५ ॥
उक्तेषु यन्त्रेषु द्विजस्यैवाधिकारः
लेशतो गदितमेतदुदारं
रक्षणं सकललोकहिताय ।
भूपतेरनुमतो द्विजवर्यो
भावयेदनिशमेतदतन्द्री ॥ २४-२६ ॥
उक्तयन्त्राणामानुषङ्गिकफलपूर्वकमुक्तिरूपपरमफल-
साधनत्वम्
नाद्रवन्ति दुरितानि कदाचि-
द्विद्रवन्ति निखिला ग्रहरोगाः ।
वर्धते वसुमती बहुसस्या
न त्रिवर्गविहतिर्मनुजानाम् ॥ २४-२७ ॥
धर्मार्थकामबहुलाश्चिरजीविनश्च
हीनाश्च पाप्मभिरुदारयशःप्रतापाः ।
आराध्य शास्त्रनिरता विहितक्रियाभि-
रन्ते विशन्ति विमलाः परमं पुमांसम् ॥ २४-२८ ॥
सौदर्शनमन्त्रेष्वभिक्रमनाशाद्यभावः
प्। २१९) दिव्यो विधिः कथित एष मुने समस्तो
विप्रैर्नृपैर्धृतसमाधिभिरत्र भाव्यम् ।
अस्मिन् समाधिविरही ललितक्रियोऽपि
यत्नोचितं लभत एव फलं मनुष्यः ॥ २४-२९ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
यन्त्रदेवताध्याननिरूपणं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
आदितः श्लोकाः १४४४
सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
यन्त्रवैभवं प्रदर्शयितुमुक्तार्थानुवादः
नारदः �
विश्वास-प्रस्तुतिः - २५-१
भगवन् सम्यगाख्यातं विस्तरेण यथातथम् ।
यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् ॥ २५-१ ॥
मूलम् - २५-१
भगवन् सम्यगाख्यातं विस्तरेण यथातथम् ।
यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् ॥ २५-१ ॥
विश्वास-प्रस्तुतिः - २५-२
तथा धर्मार्थकामानां स्वरूपं साधनं तथा ।
परविद्या तथा विद्या तथा चाध्यात्मसञ्ज्ञिता ॥ २५-२ ॥
मूलम् - २५-२
तथा धर्मार्थकामानां स्वरूपं साधनं तथा ।
परविद्या तथा विद्या तथा चाध्यात्मसञ्ज्ञिता ॥ २५-२ ॥
विश्वास-प्रस्तुतिः - २५-३
मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं तथा ।
वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः ॥ २५-३ ॥
मूलम् - २५-३
मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं तथा ।
वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः ॥ २५-३ ॥
विश्वास-प्रस्तुतिः - २५-४
सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा ।
राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा ॥ २५-४ ॥
मूलम् - २५-४
सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा ।
राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा ॥ २५-४ ॥
कथं किल कलौ प्राप्ते राज्ञां रक्षाविधिर्भवेत् ।
सङ्क्षेपतः कलिस्वरूपकथनम्
न यक्ष्यन्ति न दास्यन्ति न होष्यन्ति द्विजातयः ॥ २५-५ ॥
विश्वास-प्रस्तुतिः - २५-६
प्। २२१) न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ ।
शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम् ॥ २५-६ ॥
मूलम् - २५-६
प्। २२१) न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ ।
शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम् ॥ २५-६ ॥
विश्वास-प्रस्तुतिः - २५-७
निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः ।
निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः ॥ २५-७ ॥
मूलम् - २५-७
निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः ।
निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः ॥ २५-७ ॥
विश्वास-प्रस्तुतिः - २५-८
अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे ।
प्रजाः क्षुधार्ताश्च कलाववग्रहनिपीडिताः ॥ २५-८ ॥
मूलम् - २५-८
अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे ।
प्रजाः क्षुधार्ताश्च कलाववग्रहनिपीडिताः ॥ २५-८ ॥
विश्वास-प्रस्तुतिः - २५-९
पाषण्डधर्मनिरता भगवन्तं जनार्दनम् ।
निन्दनादीन् करिष्यन्ति तमःप्राया ह्यवेदिनः ॥ २५-९ ॥
मूलम् - २५-९
पाषण्डधर्मनिरता भगवन्तं जनार्दनम् ।
निन्दनादीन् करिष्यन्ति तमःप्राया ह्यवेदिनः ॥ २५-९ ॥
तादृशे कलौ राज्ञां रक्षाविध्युपायप्रश्नः
विश्वास-प्रस्तुतिः - २५-१०
इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम् ।
सम्पत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः ॥ २५-१० ॥
मूलम् - २५-१०
इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम् ।
सम्पत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः ॥ २५-१० ॥
विश्वास-प्रस्तुतिः - २५-११
येनोपायेन रक्षा स्यात्तं मे ब्रूहि सुनिश्चितम् ।
सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर ॥ २५-११ ॥
मूलम् - २५-११
येनोपायेन रक्षा स्यात्तं मे ब्रूहि सुनिश्चितम् ।
सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर ॥ २५-११ ॥
तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २५-१२
साधु साधु यदेतत् त्वं पृष्टवानसि नारद ।
सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते ॥ २५-१२ ॥
मूलम् - २५-१२
साधु साधु यदेतत् त्वं पृष्टवानसि नारद ।
सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते ॥ २५-१२ ॥
विश्वास-प्रस्तुतिः - २५-१३
तथापि भक्त इति ते कथयामि शृणुष्व तम् ।
प्। २२२) सर्वेषामेव भूतानां राज्ञां चैव विशेषतः ॥ २५-१३ ॥
मूलम् - २५-१३
तथापि भक्त इति ते कथयामि शृणुष्व तम् ।
प्। २२२) सर्वेषामेव भूतानां राज्ञां चैव विशेषतः ॥ २५-१३ ॥
रक्षाविधिं परं गुह्यं तन्त्राणां सारमुत्तमम् ।
स्वकृतपितामहशिरश्छेदमहापापप्रशमाय नारायणात्
सुदर्शनयन्त्रप्राप्तिकथनम्
मम नारायणेनोक्तं पुण्ये बदरिकाश्रमे ॥ २५-१४ ॥
विश्वास-प्रस्तुतिः - २५-१५
पितामहशिरश्छेदमहापातकशान्तये ।
सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् ॥ २५-१५ ॥
मूलम् - २५-१५
पितामहशिरश्छेदमहापातकशान्तये ।
सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् ॥ २५-१५ ॥
तन्महिमसङ्क्षेपः
विश्वास-प्रस्तुतिः - २५-१६
सर्वसिद्धिप्रदं सर्वसम्पदामेककारणम् ।
पराभिचारशमनं परराज्यप्रदं शुभम् ॥ २५-१६ ॥
मूलम् - २५-१६
सर्वसिद्धिप्रदं सर्वसम्पदामेककारणम् ।
पराभिचारशमनं परराज्यप्रदं शुभम् ॥ २५-१६ ॥
विश्वास-प्रस्तुतिः - २५-१७
कलिदोषापहरणं सर्वशत्रुनिबर्हणम् ।
यस्य संस्मरणेनैव नॄणां नश्यन्ति शत्रवः ॥ २५-१७ ॥
मूलम् - २५-१७
कलिदोषापहरणं सर्वशत्रुनिबर्हणम् ।
यस्य संस्मरणेनैव नॄणां नश्यन्ति शत्रवः ॥ २५-१७ ॥
विश्वास-प्रस्तुतिः - २५-१८
दस्यवो नष्टविषया विद्रवन्ति दिशो दश ।
यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति ॥ २५-१८ ॥
मूलम् - २५-१८
दस्यवो नष्टविषया विद्रवन्ति दिशो दश ।
यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति ॥ २५-१८ ॥
विश्वास-प्रस्तुतिः - २५-१९
यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे ।
तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः ॥ २५-१९ ॥
मूलम् - २५-१९
यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे ।
तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः ॥ २५-१९ ॥
सौदर्शनस्य यन्त्रस्य माहात्म्यं वर्णितं मया ।
सुदर्शननारसिंहयन्त्रफलप्रदर्शनम्
प्। २२३) सुदर्शनेन युक्तस्य नारसिंहस्य यन्त्रकम् ॥ २५-२० ॥
विश्वास-प्रस्तुतिः - २५-२१
यः कारयति तस्यान्यो लोको वश्यो भवेदपि ।
एतल्लेखनमात्रेण सर्वं सम्पद्यते नृणाम् ॥ २५-२१ ॥
मूलम् - २५-२१
यः कारयति तस्यान्यो लोको वश्यो भवेदपि ।
एतल्लेखनमात्रेण सर्वं सम्पद्यते नृणाम् ॥ २५-२१ ॥
विष्णुपञ्जरयन्त्रफलप्रदर्शनम्
विश्वास-प्रस्तुतिः - २५-२२
विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः ।
सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः ॥ २५-२२ ॥
मूलम् - २५-२२
विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः ।
सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः ॥ २५-२२ ॥
समुदितयन्त्रत्रयफलस्याशक्यवर्णनत्वम्
विश्वास-प्रस्तुतिः - २५-२३
एषां त्रयाणां यन्त्राणां समाहारफलं मया ।
वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद ॥ २५-२३ ॥
मूलम् - २५-२३
एषां त्रयाणां यन्त्राणां समाहारफलं मया ।
वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद ॥ २५-२३ ॥
महासुदर्शनयन्त्रफलम्
विश्वास-प्रस्तुतिः - २५-२४
महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः ।
त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः ॥ २५-२४ ॥
मूलम् - २५-२४
महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः ।
त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः ॥ २५-२४ ॥
एकत्र कल्पितसुदर्शननारसिंह-
मन्यत्र केवलसुदर्शनमुज्ज्वलाङ्गम् ।
सङ्कल्पितोभयमुखं घटितास्त्रजालं
श्रीविष्णुपञ्जरगतं युतमन्त्रजालम् ॥ २५-२५ ॥
प्। २२४) माहासुदर्शनमपुण्यकृतां जनाना-
मप्राप्यमाश्रितसुखप्रदमेकयन्त्रम् ।
तेजोमयं सकललोकनमस्कृतं यत्
तत् कारयेत् सकललोकजयं यदीच्छेत् ॥ २५-२६ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सुदर्शनयन्त्रवैभववर्णनं नाम
पञ्चविंशोऽध्यायः ॥ २५ ॥
आदितः श्लोकाः १४७०
महासुदर्शनयन्त्रलक्षणं नाम षड्विंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
विस्तरेण महासुदर्शनयन्त्रलक्षणप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - २६-१
विस्तरेणास्य यन्त्रस्य संस्थानं लक्षणं तथा ।
श्रोतुमिच्छामि भगवंस्तन्ममाचक्ष्व पृच्छतः ॥ २६-१ ॥
मूलम् - २६-१
विस्तरेणास्य यन्त्रस्य संस्थानं लक्षणं तथा ।
श्रोतुमिच्छामि भगवंस्तन्ममाचक्ष्व पृच्छतः ॥ २६-१ ॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २६-२
विस्तरेण प्रवक्ष्यामि स्वरूपं लक्षणं तथा ।
अस्य यन्त्रस्य देवर्षे तन्मे कथयतः शृणु ॥ २६-२ ॥
मूलम् - २६-२
विस्तरेण प्रवक्ष्यामि स्वरूपं लक्षणं तथा ।
अस्य यन्त्रस्य देवर्षे तन्मे कथयतः शृणु ॥ २६-२ ॥
यन्त्रनिर्माणद्रव्याणि
विश्वास-प्रस्तुतिः - २६-३
रजतेन सुवर्णेन लोहैर्वा शिलयापि वा ।
यथाधिकारं यन्त्रस्य कुर्यादर्चां तु साधकः ॥ २६-३ ॥
मूलम् - २६-३
रजतेन सुवर्णेन लोहैर्वा शिलयापि वा ।
यथाधिकारं यन्त्रस्य कुर्यादर्चां तु साधकः ॥ २६-३ ॥
यन्त्रलेखनसाधनद्रव्याणि
विश्वास-प्रस्तुतिः - २६-४
धातुचन्दनकर्पूरकुङ्कुमागुरुजै रसैः ।
सुवर्णसूच्या यदि वा यन्त्रमेतल्लिखेत् पटे ॥ २६-४ ॥
मूलम् - २६-४
धातुचन्दनकर्पूरकुङ्कुमागुरुजै रसैः ।
सुवर्णसूच्या यदि वा यन्त्रमेतल्लिखेत् पटे ॥ २६-४ ॥
प्। २२६) यन्त्रमध्ये सौदर्शनपुरुषलेखनम्
विश्वास-प्रस्तुतिः - २६-५
चन्द्रमण्डलमध्ये तु तारं कुर्यात् समाहितः ।
तस्य मध्ये लिखेद् देवं रक्तवर्णं सुदर्शनम् ॥ २६-५ ॥
मूलम् - २६-५
चन्द्रमण्डलमध्ये तु तारं कुर्यात् समाहितः ।
तस्य मध्ये लिखेद् देवं रक्तवर्णं सुदर्शनम् ॥ २६-५ ॥
तत्स्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-६
पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं विभुम् ।
युक्तं षोडशभिर्हस्तैरष्टाभिर्वा महाद्युतिम् ॥ २६-६ ॥
मूलम् - २६-६
पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं विभुम् ।
युक्तं षोडशभिर्हस्तैरष्टाभिर्वा महाद्युतिम् ॥ २६-६ ॥
विश्वास-प्रस्तुतिः - २६-७
पाशाङ्कुशाब्जमुसलधनुःशङ्खगदारिभिः ।
भीषणैरायुधवरैरुपेतं जयिनां वरम् ॥ २६-७ ॥
मूलम् - २६-७
पाशाङ्कुशाब्जमुसलधनुःशङ्खगदारिभिः ।
भीषणैरायुधवरैरुपेतं जयिनां वरम् ॥ २६-७ ॥
विश्वास-प्रस्तुतिः - २६-८
तद्विष्णोः परमं रूपं नित्यं तैजसविग्रहम् ।
दंष्ट्रानिष्ठ्यूतसप्तार्चिर्ज्वालापल्लविताननम् ॥ २६-८ ॥
मूलम् - २६-८
तद्विष्णोः परमं रूपं नित्यं तैजसविग्रहम् ।
दंष्ट्रानिष्ठ्यूतसप्तार्चिर्ज्वालापल्लविताननम् ॥ २६-८ ॥
विश्वास-प्रस्तुतिः - २६-९
भूषणैर्भूषितं चित्रैर्भीषणं रोमहर्षणम् ।
स्वतेजसा जगत् सर्वं पूरयन्तं महाबलम् ॥ २६-९ ॥
मूलम् - २६-९
भूषणैर्भूषितं चित्रैर्भीषणं रोमहर्षणम् ।
स्वतेजसा जगत् सर्वं पूरयन्तं महाबलम् ॥ २६-९ ॥
विश्वास-प्रस्तुतिः - २६-१०
निर्भिद्यमानदैतेयशोणिताशनलम्पटम् ।
उद्यत्प्रद्योतनशतप्रख्यं विख्यातपौरुषम् ॥ २६-१० ॥
मूलम् - २६-१०
निर्भिद्यमानदैतेयशोणिताशनलम्पटम् ।
उद्यत्प्रद्योतनशतप्रख्यं विख्यातपौरुषम् ॥ २६-१० ॥
विश्वास-प्रस्तुतिः - २६-११
मनस्तत्त्वेन सततं संश्रितं वेगवत्तया ।
नारायणकराम्भोजसेवारसविशारदम् ॥ २६-११ ॥
मूलम् - २६-११
मनस्तत्त्वेन सततं संश्रितं वेगवत्तया ।
नारायणकराम्भोजसेवारसविशारदम् ॥ २६-११ ॥
विश्वास-प्रस्तुतिः - २६-१२
जवेन विष्णुचिन्तायाः परमं मार्गदर्शिनम् ।
स्मृत्यैव स्वानुरक्तानां दृष्टादृष्टार्थसाधनम् ॥ २६-१२ ॥
मूलम् - २६-१२
जवेन विष्णुचिन्तायाः परमं मार्गदर्शिनम् ।
स्मृत्यैव स्वानुरक्तानां दृष्टादृष्टार्थसाधनम् ॥ २६-१२ ॥
विश्वास-प्रस्तुतिः - २६-१३
स्वभक्तप्रत्यनीकानां मारणं सुरपूजितम् ।
प्। २२७) संस्तूयमानचरितं सिद्धगन्धर्वदानवैः ॥ २६-१३ ॥
मूलम् - २६-१३
स्वभक्तप्रत्यनीकानां मारणं सुरपूजितम् ।
प्। २२७) संस्तूयमानचरितं सिद्धगन्धर्वदानवैः ॥ २६-१३ ॥
तस्य सर्वशरण्यत्वं निर्दोषत्वं कल्याणगुणाकरत्वं च
विश्वास-प्रस्तुतिः - २६-१४
भक्तारिभञ्जनपरं शरण्यं शरणार्थिनाम् ।
नित्यनिःसीमनिर्दोषकल्याणगुणसागरम् ॥ २६-१४ ॥
मूलम् - २६-१४
भक्तारिभञ्जनपरं शरण्यं शरणार्थिनाम् ।
नित्यनिःसीमनिर्दोषकल्याणगुणसागरम् ॥ २६-१४ ॥
तत्पादप्रान्ते साधकनामलेखनम्
विश्वास-प्रस्तुतिः - २६-१५
एवम्भूतं समालिख्य सदानन्दं सुदर्शनम् ।
तत्पादपद्मपर्यन्ते साधकं नाम विन्यसेत् ॥ २६-१५ ॥
मूलम् - २६-१५
एवम्भूतं समालिख्य सदानन्दं सुदर्शनम् ।
तत्पादपद्मपर्यन्ते साधकं नाम विन्यसेत् ॥ २६-१५ ॥
ततः पर्यन्ते षट्कोणचक्रलेखनम्
विश्वास-प्रस्तुतिः - २६-१६
इन्दुबिम्बस्य पर्यन्ते षट्कोणं चक्रमालिखेत् ।
आग्नेयममितप्रख्यममोघं सर्वसाधकम् ॥ २६-१६ ॥
मूलम् - २६-१६
इन्दुबिम्बस्य पर्यन्ते षट्कोणं चक्रमालिखेत् ।
आग्नेयममितप्रख्यममोघं सर्वसाधकम् ॥ २६-१६ ॥
तत्र षडक्षरविन्यासः
प्राच्यादिदिक्षु कोणेषु षड् वर्णान् विन्यसेन्मनोः ।
अङ्गमन्त्रन्यासः
षट्सु कोणान्तरालेषु त्वङ्गमन्त्रान् न्यसेत् क्रमात् ॥ २६-१७ ॥
ततश्चतुर्दलपद्मलेखनम्
अस्माद्बहिस्तथा पद्मं चतुर्दलसमन्वितम् ।
तत्र न्यसनीया वर्णाः
सबिन्दुवर्म फट् चास्य दलेष्वेषु क्रमान्न्यसेत् ॥ २६-१८ ॥
अन्तरालेष्वन्तःस्थवर्णविन्यासः
प्। २२८) दलान्तरालेष्वन्तःस्थान् विन्यसेत् साधकस्तथा ।
ततः षोडशकेसराष्टदलपद्मलेखनम्
बाह्ये तत्राष्टपत्राब्जमन्तः षोडशकेसरम् ॥ २६-१९ ॥
केसरेषु षोडशस्वरविन्यासः
केसरेषु क्रमादस्य विलिखेत् षोडश स्वरान् ।
दलेष्वष्टाक्षरमन्त्रन्यासः
अष्टाक्षरं महामन्त्रं दलेष्वस्य समालिखेत् ॥ २६-२० ॥
द्वात्रिंशत्केसरषोडशदलपद्मलेखनम्
द्वात्रिंशत्केसरं चास्य बहिः षोडशपत्रकम् ।
केसरेषु कादिसान्तवर्णविन्यासः
ककारादि सकारान्तं केसरेष्वस्य चालिखेत् ॥ २६-२१ ॥
दलेषु षोडशार्णमन्त्रवर्णन्यासः
दलेष्वस्य लिखेन्मन्त्रं षोडशार्णं तु वैष्णवम् ।
द्वात्रिंशत्केसरदलपद्मलेखनम्
द्वात्रिंशत्केसरदलं बाह्ये तस्य समालिखेत् ॥ २६-२२ ॥
केसरेषु वाराहानुष्टुभमन्त्रवर्णन्यासः
विश्वास-प्रस्तुतिः - २६-२३
केसरेष्वस्य पद्मस्य प्राच्यादिषु यथाक्रमम् ।
प्। २२९) मन्त्रमानुष्टुभं सम्यग्वाराहं विलिखेत् परम् ॥ २६-२३ ॥
मूलम् - २६-२३
केसरेष्वस्य पद्मस्य प्राच्यादिषु यथाक्रमम् ।
प्। २२९) मन्त्रमानुष्टुभं सम्यग्वाराहं विलिखेत् परम् ॥ २६-२३ ॥
दलेषु नारसिंहानुष्टुभमन्त्रवर्णन्यासः
विश्वास-प्रस्तुतिः - २६-२४
द्वात्रिंशति दलेष्वस्य नारसिंहं क्रमाल्लिखेत् ।
आनुष्टुभं महामन्त्रममोघं सर्वसाधकम् ॥ २६-२४ ॥
मूलम् - २६-२४
द्वात्रिंशति दलेष्वस्य नारसिंहं क्रमाल्लिखेत् ।
आनुष्टुभं महामन्त्रममोघं सर्वसाधकम् ॥ २६-२४ ॥
चतुःषष्टिदलपद्मलेखनम्
तस्य बाह्ये लिखेत् पद्मं चतुःषष्टिदलैर्युतम् ।
तद्दलेषु पातालनारसिंहमन्त्रन्यासः
पातालनारसिंहाख्यं तद्दलेषु न्यसेन्मनुम् ॥ २६-२५ ॥
पुनरष्टदलपद्मलेखनम्
पुनश्च पद्मं विन्यस्य दलैरष्टभिरावृतम् ।
तद्दलेष्वष्टाक्षरनारसिंहमन्त्रन्यासः
अष्टाक्षरं नारसिंहं तद्दलेषु समालिखेत् ॥ २६-२६ ॥
तद्बहिर्माहेन्द्रमण्डलकल्पनम्
विश्वास-प्रस्तुतिः - २६-२७
तद्बाह्ये मण्डलं कुर्यान्माहेन्द्रं वज्रभूषितम् ।
जाज्वल्यमानं स्वेनैव सर्वालङ्कारमण्डितम् ॥ २६-२७ ॥
मूलम् - २६-२७
तद्बाह्ये मण्डलं कुर्यान्माहेन्द्रं वज्रभूषितम् ।
जाज्वल्यमानं स्वेनैव सर्वालङ्कारमण्डितम् ॥ २६-२७ ॥
तद्बहिः साधकनाम्ना सह तद्बीजन्यासः
विश्वास-प्रस्तुतिः - २६-२८
तस्य बाह्ये महादिक्षु प्रागादिषु यथाक्रमम् ।
प्। २३०) तद्बीजं विन्यसेद्धीमान्निजनाम्ना समन्वितम् ॥ २६-२८ ॥
मूलम् - २६-२८
तस्य बाह्ये महादिक्षु प्रागादिषु यथाक्रमम् ।
प्। २३०) तद्बीजं विन्यसेद्धीमान्निजनाम्ना समन्वितम् ॥ २६-२८ ॥
बहिष्कोणेष्वन्तःस्थवर्णन्यासः
बहिष्कोणेषु चतुर्षु तथान्तःस्थान् प्रकल्पयेत् ।
कोणान्तरालेषु तद्बीजन्यासः
कोणाभ्यन्तरभागेषु तद्बीजं विन्यसेत् पुनः ॥ २६-२९ ॥
तत्परितः स्वराणां प्रातिलोम्येन विन्यासः
परितस्तत् स्वरान् सर्वान् प्रातिलोम्येन चालिखेत् ।
तत्परितः सादिकान्ताक्षरविन्यासः
सकारादि ककारान्तं विन्यसेत् परितस्तथा ॥ २६-३० ॥
स्वनाम्ना पाशाङ्कुशाभ्यां चावेष्टनम्
विश्वास-प्रस्तुतिः - २६-३१
विदर्भितं स्वनाम्नैव परितोऽन्त्ययुगं न्यसेत् ।
पाशेनावेष्टयेदेतदङ्कुशेन तथातुरः ॥ २६-३१ ॥
मूलम् - २६-३१
विदर्भितं स्वनाम्नैव परितोऽन्त्ययुगं न्यसेत् ।
पाशेनावेष्टयेदेतदङ्कुशेन तथातुरः ॥ २६-३१ ॥
भूपुरकल्पनम्
पुटितं भूपुरं तस्य बाह्ये कुर्यादतन्द्रितः ।
समन्तात् केशवादिमूर्तिन्यासः
केशवादीन् मूर्तिमतः समन्तादस्य विन्यसेत् ॥ २६-३२ ॥
केशवस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-३३
प्। २३१) तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम् ।
अपारकरुणं पद्मशङ्खचक्रगदाधरम् ॥ २६-३३ ॥
मूलम् - २६-३३
प्। २३१) तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम् ।
अपारकरुणं पद्मशङ्खचक्रगदाधरम् ॥ २६-३३ ॥
विश्वास-प्रस्तुतिः - २६-३४
पीताम्बरधरं देवं वनमालाविभूषितम् ।
हारकेयूरकटककुण्डलैरुपशोभितम् ॥ २६-३४ ॥
मूलम् - २६-३४
पीताम्बरधरं देवं वनमालाविभूषितम् ।
हारकेयूरकटककुण्डलैरुपशोभितम् ॥ २६-३४ ॥
विश्वास-प्रस्तुतिः - २६-३५
चतुर्बाहुमुदाराङ्गं प्रसन्नवदनं विभुम् ।
प्रागादि विन्यसेद् देवं केशवं क्लेशनाशनम् ॥ २६-३५ ॥
मूलम् - २६-३५
चतुर्बाहुमुदाराङ्गं प्रसन्नवदनं विभुम् ।
प्रागादि विन्यसेद् देवं केशवं क्लेशनाशनम् ॥ २६-३५ ॥
नारायणस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-३६
शङ्खपद्मगदाचक्रधरं नीलाम्बुदच्छविम् ।
सर्वालङ्कारसंयुक्तं कुर्यान्नारायणं ततः ॥ २६-३६ ॥
मूलम् - २६-३६
शङ्खपद्मगदाचक्रधरं नीलाम्बुदच्छविम् ।
सर्वालङ्कारसंयुक्तं कुर्यान्नारायणं ततः ॥ २६-३६ ॥
माधवस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-३७
पद्मकौमोदकीशङ्खचक्रधारिणमव्ययम् ।
देवमिन्दीवरश्यामं माधवं भावयेत् ततः ॥ २६-३७ ॥
मूलम् - २६-३७
पद्मकौमोदकीशङ्खचक्रधारिणमव्ययम् ।
देवमिन्दीवरश्यामं माधवं भावयेत् ततः ॥ २६-३७ ॥
गोविन्दस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-३८
चक्रकौमोदकीशङ्खपद्मायुधविराजितम् ।
इन्दुबिम्बनिभं कुर्याद् गोविन्दममितौजसम् ॥ २६-३८ ॥
मूलम् - २६-३८
चक्रकौमोदकीशङ्खपद्मायुधविराजितम् ।
इन्दुबिम्बनिभं कुर्याद् गोविन्दममितौजसम् ॥ २६-३८ ॥
विष्णुस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-३९
गदाब्जशङ्खचक्रास्त्रधरं परमभूषितम् ।
विष्णुं विश्वपतिं कुर्यात् पद्मकिञ्जल्कसन्निभम् ॥ २६-३९ ॥
मूलम् - २६-३९
गदाब्जशङ्खचक्रास्त्रधरं परमभूषितम् ।
विष्णुं विश्वपतिं कुर्यात् पद्मकिञ्जल्कसन्निभम् ॥ २६-३९ ॥
मधुसूदनस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-४०
प्। २३२) चक्रशङ्खाम्बुजगदाधारिणं करुणानिधिम् ।
रक्तपद्मदलप्रख्यं भावयेन्मधुसूदनम् ॥ २६-४० ॥
मूलम् - २६-४०
प्। २३२) चक्रशङ्खाम्बुजगदाधारिणं करुणानिधिम् ।
रक्तपद्मदलप्रख्यं भावयेन्मधुसूदनम् ॥ २६-४० ॥
त्रिविक्रमस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-४१
चक्रकौमोदकीपद्मशङ्खसेवितमीश्वरम् ।
उज्ज्वलत्कनकप्रख्यं तं कुर्वीत त्रिविक्रमम् ॥ २६-४१ ॥
मूलम् - २६-४१
चक्रकौमोदकीपद्मशङ्खसेवितमीश्वरम् ।
उज्ज्वलत्कनकप्रख्यं तं कुर्वीत त्रिविक्रमम् ॥ २६-४१ ॥
वामनस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-४२
शङ्खचक्रगदापद्मधरं परमभूषितम् ।
तरुणादित्यसङ्काशं वामनं भावयेत् ततः ॥ २६-४२ ॥
मूलम् - २६-४२
शङ्खचक्रगदापद्मधरं परमभूषितम् ।
तरुणादित्यसङ्काशं वामनं भावयेत् ततः ॥ २६-४२ ॥
श्रीधरस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-४३
पद्मचक्रगदाशङ्खधरं सद्गुणसागरम् ।
पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् ॥ २६-४३ ॥
मूलम् - २६-४३
पद्मचक्रगदाशङ्खधरं सद्गुणसागरम् ।
पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् ॥ २६-४३ ॥
हृषीकेशस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-४४
गदासुदर्शनयुते शङ्खपद्मे च बिभ्रतम् ।
विद्युत्प्रभं हृषीकेशं कुर्वीत कमलेक्षणम् ॥ २६-४४ ॥
मूलम् - २६-४४
गदासुदर्शनयुते शङ्खपद्मे च बिभ्रतम् ।
विद्युत्प्रभं हृषीकेशं कुर्वीत कमलेक्षणम् ॥ २६-४४ ॥
पद्मनाभस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-४५
शङ्खपद्मे गदाचक्रे तथा बिभ्राणमुज्ज्वलम् ।
सहस्रादित्यसङ्काशं पद्मनाभं तु कारयेत् ॥ २६-४५ ॥
मूलम् - २६-४५
शङ्खपद्मे गदाचक्रे तथा बिभ्राणमुज्ज्वलम् ।
सहस्रादित्यसङ्काशं पद्मनाभं तु कारयेत् ॥ २६-४५ ॥
दामोदरस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - २६-४६
पद्मशङ्खगदाचक्रधरं बन्धूकसन्निभम् ।
प्। २३३) भक्त्येकसुलभं देवं दामोदरमथ स्मरेत् ॥ २६-४६ ॥
मूलम् - २६-४६
पद्मशङ्खगदाचक्रधरं बन्धूकसन्निभम् ।
प्। २३३) भक्त्येकसुलभं देवं दामोदरमथ स्मरेत् ॥ २६-४६ ॥
नमोऽन्तानां तत्तन्नाम्नामपि लेखनम्
विश्वास-प्रस्तुतिः - २६-४७
एवं क्रमेण न्यस्यैतानेषां नामानि च न्यसेत् ।
नमोऽन्तान्यमुकं रक्ष रक्षेति च समन्ततः ॥ २६-४७ ॥
मूलम् - २६-४७
एवं क्रमेण न्यस्यैतानेषां नामानि च न्यसेत् ।
नमोऽन्तान्यमुकं रक्ष रक्षेति च समन्ततः ॥ २६-४७ ॥
प्रागादिषु प्रादक्षिण्येन बीजाक्षरन्यासः
विश्वास-प्रस्तुतिः - २६-४८
यं शं रं षं तथा लं सं वं हं चेति द्वयं द्वयम् ।
प्राच्यादिषु महादिक्षु प्रादक्षिण्येन विन्यसेत् ॥ २६-४८ ॥
मूलम् - २६-४८
यं शं रं षं तथा लं सं वं हं चेति द्वयं द्वयम् ।
प्राच्यादिषु महादिक्षु प्रादक्षिण्येन विन्यसेत् ॥ २६-४८ ॥
ऐशान्यादिष्वप्रादक्षिण्येन बीजाक्षरन्यासः
विश्वास-प्रस्तुतिः - २६-४९
यं शं रं षं तथा लं सं वं हं चेति युगं युगम् ।
ऐशान्यादिषु कोणेषु विन्यसेदप्रदक्षिणम् ॥ २६-४९ ॥
मूलम् - २६-४९
यं शं रं षं तथा लं सं वं हं चेति युगं युगम् ।
ऐशान्यादिषु कोणेषु विन्यसेदप्रदक्षिणम् ॥ २६-४९ ॥
पुनः पाशाङ्कुशाभ्यां वेष्टनम्
विश्वास-प्रस्तुतिः - २६-५०
पाशेन तु समावेष्ट्य अङ्कुशेनापि वेष्टयेत् ।
सर्वमेतत् सबीजेन हृल्लेखमनुना वृतम् ॥ २६-५० ॥
मूलम् - २६-५०
पाशेन तु समावेष्ट्य अङ्कुशेनापि वेष्टयेत् ।
सर्वमेतत् सबीजेन हृल्लेखमनुना वृतम् ॥ २६-५० ॥
प्रागादिचतुर्दिक्षु विष्णुविन्यासस्तेषामायुधानि च
विश्वास-प्रस्तुतिः - २६-५१
प्रागादिषु चतुर्दिक्षु विन्यसेद् विष्णुमव्ययम् ।
चक्रकौमोदकीशार्ङ्गखड्गैर्युक्तं यथाक्रमम् ॥ २६-५१ ॥
मूलम् - २६-५१
प्रागादिषु चतुर्दिक्षु विन्यसेद् विष्णुमव्ययम् ।
चक्रकौमोदकीशार्ङ्गखड्गैर्युक्तं यथाक्रमम् ॥ २६-५१ ॥
साधारणौ च सर्वेषां शङ्खचक्रौ वरायुधौ ।
आग्नेयादिकोणेषु हृषीकेशन्यासः
प्। २३४) आग्नेयादिषु कोणेषु हृषीकेशं ततो न्यसेत् ॥ २६-५२ ॥
तेषामायुधविशेषाः
शङ्खं हलं च मुसलं शूलं चैतेषु धारयेत् ।
कोणान्तरालेष्वष्टसु जनार्दनविन्यासः
विकोणेष्वष्टसु तथा जनार्दनमथो न्यसेत् ॥ २६-५३ ॥
तेषामायुधविशेषाः
विश्वास-प्रस्तुतिः - २६-५४
दण्डं कुन्तं तथा शक्तिं पाशमङ्कुशमेव च ।
वज्रं तथैव परशुं तथा शतमुखानलम् ॥ २६-५४ ॥
मूलम् - २६-५४
दण्डं कुन्तं तथा शक्तिं पाशमङ्कुशमेव च ।
वज्रं तथैव परशुं तथा शतमुखानलम् ॥ २६-५४ ॥
करेष्वमीषामेतानि विलिखेत्तु यथाक्रमम् ।
तत्तत्पार्श्वेषु तत्तत्परिवारलेखनम्
प्रत्येकं परिवारांस्तु तेषां पार्श्वेषु विन्यसेत् ॥ २६-५५ ॥
ततो भूमौ भूम्या सह पुरुषोत्तमस्मरणम्
वराहरूपिणं देवं शङ्खचक्रगदाधरम्
भूमौ च सहितं भूम्या संस्मरेत् पुरुषोत्तमम् ॥ २६-५६ ॥
अम्बरे नरसिंहस्मरणम्
विश्वास-प्रस्तुतिः - २६-५७
अम्बरे नारसिंहं तु चिन्तयेदमितौजसम् ।
भीषणं घटितानेकभूषणं दारितासुरम् ॥ २६-५७ ॥
मूलम् - २६-५७
अम्बरे नारसिंहं तु चिन्तयेदमितौजसम् ।
भीषणं घटितानेकभूषणं दारितासुरम् ॥ २६-५७ ॥
प्रागादिषु चक्रगदाशार्ङ्गखड्गस्मरणम्
विश्वास-प्रस्तुतिः - २६-५८
प्। २३५) प्राच्यां दिशि महाज्वालागतं चक्रं स्मरेद्बुधः ।
दक्षिणस्यां दिशि तथा स्मरेज्ज्वालागतां गदाम् ॥ २६-५८ ॥
मूलम् - २६-५८
प्। २३५) प्राच्यां दिशि महाज्वालागतं चक्रं स्मरेद्बुधः ।
दक्षिणस्यां दिशि तथा स्मरेज्ज्वालागतां गदाम् ॥ २६-५८ ॥
विश्वास-प्रस्तुतिः - २६-५९
प्रतीच्यां शार्ङ्गमत्युग्रज्वालामध्यगतं स्मरेत् ।
उत्तरस्यां दिशि तथा स्मरेत् खड्गं सुदारुणम् ॥ २६-५९ ॥
मूलम् - २६-५९
प्रतीच्यां शार्ङ्गमत्युग्रज्वालामध्यगतं स्मरेत् ।
उत्तरस्यां दिशि तथा स्मरेत् खड्गं सुदारुणम् ॥ २६-५९ ॥
अस्य यन्त्रस्यापराङ्गकल्पनाय मध्ये
चतुर्विंशत्यरचक्रकल्पनम्
विश्वास-प्रस्तुतिः - २६-६०
अपराङ्गेऽथ यन्त्रस्य मध्ये चक्राब्जसंस्थितम् ।
चतुर्विंशत्यरं चक्रं सुनेमि रुचिराकृति ॥ २६-६० ॥
मूलम् - २६-६०
अपराङ्गेऽथ यन्त्रस्य मध्ये चक्राब्जसंस्थितम् ।
चतुर्विंशत्यरं चक्रं सुनेमि रुचिराकृति ॥ २६-६० ॥
तन्मध्ये द्वादशदलपद्मलेखनम्
मध्येचक्रं न्यसेत् पद्मं युक्तं द्वादशभिर्दलैः ।
तत्कर्णिकायामाग्नेयमण्डलन्यासः
चक्राब्जकर्णिकास्थाने न्यसेदाग्नेयमण्डलम् ॥ २६-६१ ॥
तन्मध्ये योगनृसिंहलेखनम्
विश्वास-प्रस्तुतिः - २६-६२
तन्मध्ये योगपट्टेन पिनद्धाङ्गं सनातनम् ।
नारसिंहं चतुर्बाहुं चतुश्चक्रधरं परम् ॥ २६-६२ ॥
मूलम् - २६-६२
तन्मध्ये योगपट्टेन पिनद्धाङ्गं सनातनम् ।
नारसिंहं चतुर्बाहुं चतुश्चक्रधरं परम् ॥ २६-६२ ॥
विश्वास-प्रस्तुतिः - २६-६३
समासीनमशोकस्य मूले कालानलद्युतिम् ।
सर्वाभरणसंयुक्तं सर्वभक्तार्तिहारिणम् ॥ २६-६३ ॥
मूलम् - २६-६३
समासीनमशोकस्य मूले कालानलद्युतिम् ।
सर्वाभरणसंयुक्तं सर्वभक्तार्तिहारिणम् ॥ २६-६३ ॥
विश्वास-प्रस्तुतिः - २६-६४
अपारसङ्ख्यकल्याणगुणपूर्णमहार्णवम् ।
भक्तानुकम्पिनं नित्यं सर्वलोकैकनायकम् ॥ २६-६४ ॥
मूलम् - २६-६४
अपारसङ्ख्यकल्याणगुणपूर्णमहार्णवम् ।
भक्तानुकम्पिनं नित्यं सर्वलोकैकनायकम् ॥ २६-६४ ॥
तत्पादपर्यन्ते द्वयोस्तद्भृत्ययोर्विन्यासः
विश्वास-प्रस्तुतिः - २६-६५
प्। २३६) एवं विन्यस्य तत्पादपर्यन्ते विन्यसेदुभौ ।
तदाज्ञाकारिणौ भीमौ नीलनीरदविग्रहौ ॥ २६-६५ ॥
मूलम् - २६-६५
प्। २३६) एवं विन्यस्य तत्पादपर्यन्ते विन्यसेदुभौ ।
तदाज्ञाकारिणौ भीमौ नीलनीरदविग्रहौ ॥ २६-६५ ॥
विश्वास-प्रस्तुतिः - २६-६६
उदग्रकायौ भीमाक्षौ भीमायुधधरौ वरौ ।
दंष्ट्राकरालवदनौ विन्यसेद् वृत्तलोचनौ ॥ २६-६६ ॥
मूलम् - २६-६६
उदग्रकायौ भीमाक्षौ भीमायुधधरौ वरौ ।
दंष्ट्राकरालवदनौ विन्यसेद् वृत्तलोचनौ ॥ २६-६६ ॥
चक्रस्य प्रागादिष्वष्टशक्तिध्यानम्
विश्वास-प्रस्तुतिः - २६-६७
चिन्तयेदथ चक्रस्य समन्तादष्ट योषितः ।
ऊर्ध्वमाबद्धकेशाढ्यास्तच्छक्तीः प्राप्तयौवनाः ॥ २६-६७ ॥
मूलम् - २६-६७
चिन्तयेदथ चक्रस्य समन्तादष्ट योषितः ।
ऊर्ध्वमाबद्धकेशाढ्यास्तच्छक्तीः प्राप्तयौवनाः ॥ २६-६७ ॥
विश्वास-प्रस्तुतिः - २६-६८
सर्वालङ्कारसंयुक्ता द्विभुजा माल्यधारिणीः ।
प्राच्यां दिशि जयां देवीं पीतवर्णां विचिन्तयेत् ॥ २६-६८ ॥
मूलम् - २६-६८
सर्वालङ्कारसंयुक्ता द्विभुजा माल्यधारिणीः ।
प्राच्यां दिशि जयां देवीं पीतवर्णां विचिन्तयेत् ॥ २६-६८ ॥
विश्वास-प्रस्तुतिः - २६-६९
आग्नेय्यां मोहिनीं देवीं श्यामलामायतेक्षणाम् ।
याम्यामनुस्मरेद् देवीं विजयां कृष्णरूपिणीम् ॥ २६-६९ ॥
मूलम् - २६-६९
आग्नेय्यां मोहिनीं देवीं श्यामलामायतेक्षणाम् ।
याम्यामनुस्मरेद् देवीं विजयां कृष्णरूपिणीम् ॥ २६-६९ ॥
विश्वास-प्रस्तुतिः - २६-७०
रक्तवर्णां तथा देवीं नैर्-ऋत्यां ह्लादिनीं तथा ।
अजितां पीतवर्णां तु प्रतीच्यां संस्मरेत् पराम् ॥ २६-७० ॥
मूलम् - २६-७०
रक्तवर्णां तथा देवीं नैर्-ऋत्यां ह्लादिनीं तथा ।
अजितां पीतवर्णां तु प्रतीच्यां संस्मरेत् पराम् ॥ २६-७० ॥
विश्वास-प्रस्तुतिः - २६-७१
वायव्यां दिशि मायां तु कृष्णवर्णां सनातनीम् ।
उदीच्यां रक्तवर्णां तामाशायामपराजिताम् ॥ २६-७१ ॥
मूलम् - २६-७१
वायव्यां दिशि मायां तु कृष्णवर्णां सनातनीम् ।
उदीच्यां रक्तवर्णां तामाशायामपराजिताम् ॥ २६-७१ ॥
ऐशान्यां संस्मरेत् सिद्धिं धूम्रवर्णामतः परम् ।
यथोक्तलक्षणयन्त्रमहिमा
एवमेतन्महायन्त्रं महापातकनाशनम् ॥ २६-७२ ॥
विश्वास-प्रस्तुतिः - २६-७३
प्। २३७) आयुरारोग्यधनदं पुत्रमित्रकलत्रदम् ।
सर्वविघ्नोपशमनं सर्वदुष्टनिवारणम् ॥ २६-७३ ॥
मूलम् - २६-७३
प्। २३७) आयुरारोग्यधनदं पुत्रमित्रकलत्रदम् ।
सर्वविघ्नोपशमनं सर्वदुष्टनिवारणम् ॥ २६-७३ ॥
विश्वास-प्रस्तुतिः - २६-७४
यो यदर्थी लिखेद्यन्त्रं तत् तदस्य प्रयच्छति ।
मणिविद्रुममुक्ताढ्यं कुर्याद् यन्त्रं हिरण्मयम् ॥ २६-७४ ॥
मूलम् - २६-७४
यो यदर्थी लिखेद्यन्त्रं तत् तदस्य प्रयच्छति ।
मणिविद्रुममुक्ताढ्यं कुर्याद् यन्त्रं हिरण्मयम् ॥ २६-७४ ॥
राजा चेद्राज्यमाप्नोति निष्कण्टकमनामयम् ।
भूर्जपत्रलिखितस्यापि यन्त्रस्य सर्वफलसाधनता
भूर्जपत्रे लिखित्वैतत् कुङ्कुमैश्चन्दनेन तु ॥ २६-७५ ॥
विश्वास-प्रस्तुतिः - २६-७६
यो मर्त्यः शिरसा धत्ते तस्य स्यात् सर्वमीप्सितम् ।
पिशाचोरगरक्षांसि क्षिप्रं नश्यन्ति तस्य वै ॥ २६-७६ ॥
मूलम् - २६-७६
यो मर्त्यः शिरसा धत्ते तस्य स्यात् सर्वमीप्सितम् ।
पिशाचोरगरक्षांसि क्षिप्रं नश्यन्ति तस्य वै ॥ २६-७६ ॥
एतद्यन्त्रशिलाप्रतिष्ठाया मुक्तिसाधनत्वम्
विश्वास-प्रस्तुतिः - २६-७७
शिलाप्रतिष्ठां यः कुर्यादेतस्य जगतीतले ।
सर्वान् कामानिहावाप्य विष्णुसायुज्यमाप्नुयात् ॥ २६-७७ ॥
मूलम् - २६-७७
शिलाप्रतिष्ठां यः कुर्यादेतस्य जगतीतले ।
सर्वान् कामानिहावाप्य विष्णुसायुज्यमाप्नुयात् ॥ २६-७७ ॥
लोहादिभिर्यन्त्रप्रतिमानिर्माणफलम्
विश्वास-प्रस्तुतिः - २६-७८
लोहैर्वा रजतेनाथ यः कुर्यात् प्रतिमां बुधः ।
त्रिवर्गफलमाप्नोति निर्वाणमचिरात् पुनः ॥ २६-७८ ॥
मूलम् - २६-७८
लोहैर्वा रजतेनाथ यः कुर्यात् प्रतिमां बुधः ।
त्रिवर्गफलमाप्नोति निर्वाणमचिरात् पुनः ॥ २६-७८ ॥
कर्षणादिप्रतिष्ठान्तायतननिर्माणफलम्
विश्वास-प्रस्तुतिः - २६-७९
कर्षणादि प्रतिष्ठान्तं कुर्यादायतनं च यः ।
आप्नुवन्ति च तद्वंश्याः पुण्यलोकाननुत्तमान् ॥ २६-७९ ॥
मूलम् - २६-७९
कर्षणादि प्रतिष्ठान्तं कुर्यादायतनं च यः ।
आप्नुवन्ति च तद्वंश्याः पुण्यलोकाननुत्तमान् ॥ २६-७९ ॥
भयादिषु यन्त्रस्मरणे फलम्
विश्वास-प्रस्तुतिः - २६-८०
प्। २३८) भयागमे च सङ्ग्रामे वादे वा यः स्मरेदिदम् ।
विजयस्तस्य हस्तस्थो नात्र कार्या विचारणा ॥ २६-८० ॥
मूलम् - २६-८०
प्। २३८) भयागमे च सङ्ग्रामे वादे वा यः स्मरेदिदम् ।
विजयस्तस्य हस्तस्थो नात्र कार्या विचारणा ॥ २६-८० ॥
त्रिसन्ध्यं यन्त्रार्चनं मुक्तिसाधनम्
विश्वास-प्रस्तुतिः - २६-८१
अर्चयेद्यस्त्रिसन्ध्यं वै यन्त्रमेतदनुत्तमम् ।
तापत्रयविनिर्मुक्तो विष्णुलोके महीयते ॥ २६-८१ ॥
मूलम् - २६-८१
अर्चयेद्यस्त्रिसन्ध्यं वै यन्त्रमेतदनुत्तमम् ।
तापत्रयविनिर्मुक्तो विष्णुलोके महीयते ॥ २६-८१ ॥
राक्षाविधौ राज्ञां वैशेषिकविध्यारम्भः
विश्वास-प्रस्तुतिः - २६-८२
राज्ञां रक्षाविधाने तु विशेषं शृणु नारद ।
राज्यार्थी हृतराज्यो वा परिभूतोऽथवा नृपैः ॥ २६-८२ ॥
मूलम् - २६-८२
राज्ञां रक्षाविधाने तु विशेषं शृणु नारद ।
राज्यार्थी हृतराज्यो वा परिभूतोऽथवा नृपैः ॥ २६-८२ ॥
तत्र प्रथममाचार्यपूजाविधिः
विश्वास-प्रस्तुतिः - २६-८३
सौदर्शनस्य यन्त्रस्य प्रदातारं गुरुं परम् ।
सर्वेभ्यो ह्यधिकं मत्वा तमभ्यर्च्य महाधनैः ॥ २६-८३ ॥
मूलम् - २६-८३
सौदर्शनस्य यन्त्रस्य प्रदातारं गुरुं परम् ।
सर्वेभ्यो ह्यधिकं मत्वा तमभ्यर्च्य महाधनैः ॥ २६-८३ ॥
ततो भगवदाराधनविधिः
विश्वास-प्रस्तुतिः - २६-८४
ततो नारायणं देवं पुण्डरीकायतेक्षणम् ।
श्यामलं पीतवसनं सर्वाभरणभूषितम् ॥ २६-८४ ॥
मूलम् - २६-८४
ततो नारायणं देवं पुण्डरीकायतेक्षणम् ।
श्यामलं पीतवसनं सर्वाभरणभूषितम् ॥ २६-८४ ॥
आराधयेच्चतुर्बाहुमाचार्योक्तविधानतः ।
ततो यन्त्रनिर्माणम्
तप्तजाम्बूनदमयं मणिविद्रुमचित्रितम् ॥ २६-८५ ॥
सर्वालङ्कारसंयुक्तं कारयेद्यन्त्रमुत्तमम् ।
यन्त्रनिर्माणस्य राज्यप्राप्तिहेतुत्वम्
प्। २३९) एतत्करणमात्रेण राज्यमाप्नोत्यनामयम् ॥ २६-८६ ॥
प्रतिष्ठापूर्वकार्चनस्य सप्तद्वीपान्तभूमिप्राप्तिहेतुत्वम्
विश्वास-प्रस्तुतिः - २६-८७
प्रतिष्ठाप्यार्चयेदेतत् सादरं सर्वसिद्धिदम् ।
ततो भूमिमवाप्नोति सप्तद्वीपां सपत्तनाम् ॥ २६-८७ ॥
मूलम् - २६-८७
प्रतिष्ठाप्यार्चयेदेतत् सादरं सर्वसिद्धिदम् ।
ततो भूमिमवाप्नोति सप्तद्वीपां सपत्तनाम् ॥ २६-८७ ॥
अन्ततस्त्रैलोक्यपालयितृत्वसिद्धिः
विश्वास-प्रस्तुतिः - २६-८८
वश्या भवन्ति सततं सिद्धगन्धर्वदानवाः ।
त्रैलोक्यराज्यमखिलं पालयत्यवनीतले ॥ २६-८८ ॥
मूलम् - २६-८८
वश्या भवन्ति सततं सिद्धगन्धर्वदानवाः ।
त्रैलोक्यराज्यमखिलं पालयत्यवनीतले ॥ २६-८८ ॥
परकृताभिचारपरावर्तनसिद्धिः
विश्वास-प्रस्तुतिः - २६-८९
अभिचाराः परकृताश्चैनमप्राप्य भीषिताः ।
प्रविशन्ति प्रयोक्तारमापगेवाचलाहता ॥ २६-८९ ॥
मूलम् - २६-८९
अभिचाराः परकृताश्चैनमप्राप्य भीषिताः ।
प्रविशन्ति प्रयोक्तारमापगेवाचलाहता ॥ २६-८९ ॥
अवग्रहादिपरिहारसिद्धिः
विश्वास-प्रस्तुतिः - २६-९०
अवग्रहाश्च नश्यन्ति शत्रवो विद्रवन्ति च ।
अपमृत्युमृगव्यालचोररोगादिभिर्भयम् ॥ २६-९० ॥
मूलम् - २६-९०
अवग्रहाश्च नश्यन्ति शत्रवो विद्रवन्ति च ।
अपमृत्युमृगव्यालचोररोगादिभिर्भयम् ॥ २६-९० ॥
न तस्य राज्ये भवति विद्यते तत्कुले बलम् ।
सर्वेषां स्वधर्मप्रवृत्तिसिद्धिः
सर्वे स्वेष्वेव धर्मेषु प्रवर्तन्ते सदामुने ॥ २६-९१ ॥
दुर्वाससा शप्तस्येन्द्रस्य यन्त्रेणानेन पुनः स्वपदप्राप्तिः
विश्वास-प्रस्तुतिः - २६-९२
प्। २४०) पुरा दुर्वाससः शापाद्धृतराज्ये शचीपतौ ।
एतत्प्रसादादखिलं पुनः प्राप त्रिविष्टपम् ॥ २६-९२ ॥
मूलम् - २६-९२
प्। २४०) पुरा दुर्वाससः शापाद्धृतराज्ये शचीपतौ ।
एतत्प्रसादादखिलं पुनः प्राप त्रिविष्टपम् ॥ २६-९२ ॥
चतुर्मुखस्य भगवत्सकाशाद्यन्त्रप्राप्तिः
एतत् पुरा महायन्त्रं ब्रह्मणे प्रोक्तवान् हरिः ।
चतुर्मुखेन विश्वकर्मणा यन्त्रविमानयोर्निर्मापणम्
ब्रह्मा च विश्वकर्माणमाहूयैतदकारयत् ॥ २६-९३ ॥
विमानं च तदारभ्य देवगन्धर्वदानवाः ।
तदा प्रभृति यन्त्रस्यैव रक्षासाधनत्वम्
विश्वास-प्रस्तुतिः - २६-९४
अनेन रक्षणविधिं चक्रुः पूर्वे नृपास्तथा ।
तस्माद्राज्ञां च सर्वेषामेष रक्षाविधिः परः ॥ २६-९४ ॥
मूलम् - २६-९४
अनेन रक्षणविधिं चक्रुः पूर्वे नृपास्तथा ।
तस्माद्राज्ञां च सर्वेषामेष रक्षाविधिः परः ॥ २६-९४ ॥
अध्यायार्थनिगमनम्
अभिनवदिननाथप्रोज्ज्वलद्बिम्बतुल्यं
कमलभवमुखाद्यैः संश्रितं देवबृन्दैः ।
परिगतमपि भूतैः पञ्चभिः सेव्यमानं
प्रकृतिमहदहङ्कारैः स्मरेद्यन्त्रराजम् ॥ २६-९५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
महासुदर्शनयन्त्रलक्षणं नाम षड्विशोऽध्यायः ॥ २६ ॥
आदितः श्लोकाः १५६५
धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
वृत्तानुवादपूर्वकं धारकयन्त्रविषयकः प्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - २७-१
कथितो यन्त्रराजस्य देवदेवस्य विस्तरः ।
स्वरूपं साधनं चास्य प्रकारश्च फलं तथा ॥ २७-१ ॥
मूलम् - २७-१
कथितो यन्त्रराजस्य देवदेवस्य विस्तरः ।
स्वरूपं साधनं चास्य प्रकारश्च फलं तथा ॥ २७-१ ॥
विश्वास-प्रस्तुतिः - २७-२
अद्येदं श्रोतुमिच्छामि भगवान् परमेश्वर ।
एतदत्यद्भुतं दिव्यं ध्रियते केन भूषणम् ॥ २७-२ ॥
मूलम् - २७-२
अद्येदं श्रोतुमिच्छामि भगवान् परमेश्वर ।
एतदत्यद्भुतं दिव्यं ध्रियते केन भूषणम् ॥ २७-२ ॥
विश्वास-प्रस्तुतिः - २७-३
न चास्य धारणे शक्तिं कस्यचित् कलयाम्यहम् ।
अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि ॥ २७-३ ॥
मूलम् - २७-३
न चास्य धारणे शक्तिं कस्यचित् कलयाम्यहम् ।
अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि ॥ २७-३ ॥
तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २७-४
सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति ।
ऋते यन्त्रान्तरादस्माद् देवर्षे शक्तिशालिनः ॥ २७-४ ॥
मूलम् - २७-४
सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति ।
ऋते यन्त्रान्तरादस्माद् देवर्षे शक्तिशालिनः ॥ २७-४ ॥
शृणु तस्य मुनिश्रेष्ठ स्वरूपं वीर्यमद्य वै ।
प्रथमं माहेन्द्रमण्डलनिर्माणम्
प्। २४२) प्रथमं मण्डलं कृत्वा माहेन्द्रं वसुधात्मकम् ॥
२७-५ ॥
सर्वालङ्कारसंयुक्तं यन्त्रलाञ्छनलाञ्छितम् ।
तत्कोणेषु भूबीजाक्षरन्यासः
भौममेतस्य कोणेषु विन्यसेद् बीजमुत्तमम् ॥ २७-६ ॥
शेषाद्यैरष्टभिर्नागैर्धार्यमाणं समन्ततः ।
मण्डलप्राग्भागे शेषगुलिकयोर्न्यासः
प्राग्भागे मण्डलस्यास्य भीषणौ भीमलोचनौ ॥ २७-७ ॥
विलिखेच्छेषगुलिकौ लोकयन्तौ परस्परम् ।
दक्षिणभागे वासुकिशङ्खयोः
वासुकिं शङ्खपालं च वीक्षमाणौ परस्परम् ॥ २७-८ ॥
दक्षिणस्यां दिशि तथा विन्यसेदस्य साधकः ।
पश्चिमे तक्षकमहाम्बुजयोः
पश्चिमायां लिखेदेवं तौ तक्षकमहाम्बुजौ ॥ २७-९ ॥
उत्तरभागे कार्कोटकाम्बुजयोः
विश्वास-प्रस्तुतिः - २७-१०
कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने ।
तस्य मध्ये महाज्वालामालावर्तविराजितम् ॥ २७-१० ॥
मूलम् - २७-१०
कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने ।
तस्य मध्ये महाज्वालामालावर्तविराजितम् ॥ २७-१० ॥
मध्ये वह्निमण्डलकल्पना
प्। २४३) कोणसट्कयुतं वह्निमण्डलं बीजसंयुतम् ।
तन्मध्ये वायुमण्डलविन्यासः
समालिख्य च तन्मध्ये वायव्यं मण्डलं लिखेत् ॥ २७-११ ॥
वर्तुलं बिन्दुसंयुक्तं तद्बीजेन समन्वितम् ।
तन्मध्ये दशारचक्रलेखनम्
तन्मध्ये चक्रमतुलं प्रोज्ज्वलन्नेमिमण्डलम् ॥ २७-१२ ॥
अरैर्दशभिराकीर्णं विन्यसेदरिमर्दनम् ।
अरेषु सुदर्शननारसिंहमन्त्रन्यासः
मन्त्रं सौदर्शनस्यास्य नारसिंहस्य विन्यसेत् ॥ २७-१३ ॥
विश्वास-प्रस्तुतिः - २७-१४
द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात् ।
दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै ॥ २७-१४ ॥
मूलम् - २७-१४
द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात् ।
दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै ॥ २७-१४ ॥
चक्रमध्ये अष्टदलपद्मलेखनम्
विश्वास-प्रस्तुतिः - २७-१५
चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम् ।
कर्णिकाघटितं रम्यं केसरैरुपशोभितम् ॥ २७-१५ ॥
मूलम् - २७-१५
चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम् ।
कर्णिकाघटितं रम्यं केसरैरुपशोभितम् ॥ २७-१५ ॥
कर्णिकायां प्रणवन्यासः
तत्कर्णिकायां विलिखेत् तारं संसारतारकम् ।
तत्रैवाभीष्टार्थसाध्यनाम्नोर्विलेखनम्
अभीष्टमर्थं साध्यस्य नामधेयमतः परम् ॥ २७-१६ ॥
एवं भूतेन धारकयन्त्रेण सकलार्थसिद्धिः
विश्वास-प्रस्तुतिः - २७-१७
प्। २४४) तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम् ।
पवित्राणां पवित्रं च चोरपीडानिवारणम् ॥ २७-१७ ॥
मूलम् - २७-१७
प्। २४४) तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम् ।
पवित्राणां पवित्रं च चोरपीडानिवारणम् ॥ २७-१७ ॥
सर्वार्थसाधकं घोरं विश्ववन्द्यमनुत्तमम् ।
यन्त्रेणानेनेन्द्रस्य शत्रुजयप्राप्तिः
पुरा देवेषु दैतेयैरभिभूतेषु वासवः ॥ २७-१८ ॥
विश्वास-प्रस्तुतिः - २७-१९
बृहस्पतिं समाहूय प्रोवाचेदं वचस्तदा ।
बाधन्ते नितरामस्मानिमे दैतेयदानवाः ॥ २७-१९ ॥
मूलम् - २७-१९
बृहस्पतिं समाहूय प्रोवाचेदं वचस्तदा ।
बाधन्ते नितरामस्मानिमे दैतेयदानवाः ॥ २७-१९ ॥
विश्वास-प्रस्तुतिः - २७-२०
केनोपायेन भगवन् विजेष्यामो महासुरान् ।
बलहानिः कथं वैषां भविता भगवन् वद ॥ २७-२० ॥
मूलम् - २७-२०
केनोपायेन भगवन् विजेष्यामो महासुरान् ।
बलहानिः कथं वैषां भविता भगवन् वद ॥ २७-२० ॥
विश्वास-प्रस्तुतिः - २७-२१
एवं मघवता प्रोक्तः प्रोवाचेदं बृहस्पतिः ।
सौदर्शननृसिंहस्य यन्त्रस्य करणादिह ॥ २७-२१ ॥
मूलम् - २७-२१
एवं मघवता प्रोक्तः प्रोवाचेदं बृहस्पतिः ।
सौदर्शननृसिंहस्य यन्त्रस्य करणादिह ॥ २७-२१ ॥
विश्वास-प्रस्तुतिः - २७-२२
नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन ।
इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे ॥ २७-२२ ॥
मूलम् - २७-२२
नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन ।
इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे ॥ २७-२२ ॥
विश्वास-प्रस्तुतिः - २७-२३
मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम् ।
ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः ॥ २७-२३ ॥
मूलम् - २७-२३
मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम् ।
ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः ॥ २७-२३ ॥
विश्वास-प्रस्तुतिः - २७-२४
पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः ।
तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् ॥ २७-२४ ॥
मूलम् - २७-२४
पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः ।
तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् ॥ २७-२४ ॥
अस्यैव यन्त्रस्य पूर्वोक्तमहासुदर्शनयन्त्रधारकत्वम्
विश्वास-प्रस्तुतिः - २७-२५
प्। २४५) तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम् ।
धार्यते तत् सुरमुने विचित्रं विष्टरात्मना ॥ २७-२५ ॥
मूलम् - २७-२५
प्। २४५) तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम् ।
धार्यते तत् सुरमुने विचित्रं विष्टरात्मना ॥ २७-२५ ॥
विश्वास-प्रस्तुतिः - २७-२६
यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम् ।
धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः ॥ २७-२६ ॥
मूलम् - २७-२६
यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम् ।
धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः ॥ २७-२६ ॥
राजन्वद्देशस्यैव यथोक्तयन्त्रभरणक्षमत्वम्
विश्वास-प्रस्तुतिः - २७-२७
एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा ।
यस्याः पालयिता राजा धार्मिको दृढविक्रमः ॥ २७-२७ ॥
मूलम् - २७-२७
एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा ।
यस्याः पालयिता राजा धार्मिको दृढविक्रमः ॥ २७-२७ ॥
देवद्विजगुरुप्राज्ञपूजकः परमास्तिकः ।
राज्ञो नित्यमेतदभ्यर्चनविधिः
एतदभ्यर्चयेद्राजा चक्राकारमतन्द्रितः ॥ २७-२८ ॥
पुरुषाकारमपि वा तथैवोभयतोमुखम् ।
एतन्मन्त्रप्रदातुर्विशेषतः पूज्यत्वम्
एतन्मन्त्रप्रदातारं विशिष्टं पूजयेद् बुधः ॥ २७-२९ ॥
एतन्मन्त्रविधिना कर्षणादिप्रतिष्ठान्तकर्मविधिः
विश्वास-प्रस्तुतिः - २७-३०
कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु ।
एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् ॥ २७-३० ॥
मूलम् - २७-३०
कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु ।
एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् ॥ २७-३० ॥
तन्त्रस्यास्य सात्त्वतादिभिरेकतन्त्रत्वम्
विश्वास-प्रस्तुतिः - २७-३१
प्। २४६) सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना ।
सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने ॥ २७-३१ ॥
मूलम् - २७-३१
प्। २४६) सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना ।
सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने ॥ २७-३१ ॥
विश्वास-प्रस्तुतिः - २७-३२
कल्पप्रयुक्ता विधयः सर्वे चैतस्य सन्निधौ ।
भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः ॥ २७-३२ ॥
मूलम् - २७-३२
कल्पप्रयुक्ता विधयः सर्वे चैतस्य सन्निधौ ।
भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः ॥ २७-३२ ॥
तस्माद्यथोक्तमार्गेण प्रतिष्ठाप्यैतदर्चयेत् ।
राज्ञामेतदर्चनेन राज्यादिलाभः
राजा राज्यं जयं भूतिमायुरारोग्यमाप्नुयात् ॥ २७-३३ ॥
नित्यमर्चयतः फलविशेषः
विश्वास-प्रस्तुतिः - २७-३४
नित्यमर्चयतो राज्ञः सप्तद्वीपवती मही ।
समुद्रवसना चैषा विश्वा वश्या भविष्।यति ॥ २७-३४ ॥
मूलम् - २७-३४
नित्यमर्चयतो राज्ञः सप्तद्वीपवती मही ।
समुद्रवसना चैषा विश्वा वश्या भविष्।यति ॥ २७-३४ ॥
होमार्थं प्रासादकुण्डयोर्निर्माणम्
विश्वास-प्रस्तुतिः - २७-३५
प्रासादं लक्षणोपेतं विधाय परमासनम् ।
तत्रैव कारयेत् कुण्डं मन्त्रस्यास्य यथाविधि ॥ २७-३५ ॥
मूलम् - २७-३५
प्रासादं लक्षणोपेतं विधाय परमासनम् ।
तत्रैव कारयेत् कुण्डं मन्त्रस्यास्य यथाविधि ॥ २७-३५ ॥
साधकेन तत्र होमादिनिर्वर्तनम्
विश्वास-प्रस्तुतिः - २७-३६
भूपतेर्यानि कर्माणि साधयंस्तानि साधकः ।
मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः ॥ २७-३६ ॥
मूलम् - २७-३६
भूपतेर्यानि कर्माणि साधयंस्तानि साधकः ।
मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः ॥ २७-३६ ॥
वैकल्पिकप्रदेशान्तरविधिः
विश्वास-प्रस्तुतिः - २७-३७
प्। २४७) अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि ।
विष्णोरायतने रम्ये मण्डपे मण्डितेऽथवा ॥ २७-३७ ॥
मूलम् - २७-३७
प्। २४७) अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि ।
विष्णोरायतने रम्ये मण्डपे मण्डितेऽथवा ॥ २७-३७ ॥
विश्वास-प्रस्तुतिः - २७-३८
कृत्वैतत् कुण्डमत्रैव राजाभ्यर्च्य महाधनैः ।
एतन्मन्त्रप्रदातारं स्वकर्माण्येव कारयेत् ॥ २७-३८ ॥
मूलम् - २७-३८
कृत्वैतत् कुण्डमत्रैव राजाभ्यर्च्य महाधनैः ।
एतन्मन्त्रप्रदातारं स्वकर्माण्येव कारयेत् ॥ २७-३८ ॥
पुनर्यन्त्रार्चनफलविशेषकथनम्
विश्वास-प्रस्तुतिः - २७-३९
अनेन कृतकृत्यस्तु राजा राज्यमवाप्नुयात् ।
नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति ॥ २७-३९ ॥
मूलम् - २७-३९
अनेन कृतकृत्यस्तु राजा राज्यमवाप्नुयात् ।
नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति ॥ २७-३९ ॥
विश्वास-प्रस्तुतिः - २७-४०
नागैरनेकसाहस्रैरसङ्ख्येयैश्च वाजिभिः ।
स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् ॥ २७-४० ॥
मूलम् - २७-४०
नागैरनेकसाहस्रैरसङ्ख्येयैश्च वाजिभिः ।
स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् ॥ २७-४० ॥
विश्वास-प्रस्तुतिः - २७-४१
यश्चैनमर्चयेद्राजा यन्त्रराजमनुत्तमम् ।
सर्वमन्त्रविशिष्टत्वादर्चितास्तेन देवताः ॥ २७-४१ ॥
मूलम् - २७-४१
यश्चैनमर्चयेद्राजा यन्त्रराजमनुत्तमम् ।
सर्वमन्त्रविशिष्टत्वादर्चितास्तेन देवताः ॥ २७-४१ ॥
विश्वास-प्रस्तुतिः - २७-४२
यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम् ।
सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् ॥ २७-४२ ॥
मूलम् - २७-४२
यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम् ।
सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् ॥ २७-४२ ॥
अस्मिन् मन्त्रे यन्त्रे च राज्ञामेवाधिकारः
विश्वास-प्रस्तुतिः - २७-४३
अयं मन्त्रश्च यन्त्रं च राज्ञामेव विधीयते ।
सर्वसाधारणार्थानि मन्त्रजातानि नारद ॥ २७-४३ ॥
मूलम् - २७-४३
अयं मन्त्रश्च यन्त्रं च राज्ञामेव विधीयते ।
सर्वसाधारणार्थानि मन्त्रजातानि नारद ॥ २७-४३ ॥
विश्वास-प्रस्तुतिः - २७-४४
प्। २४८) एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः ।
अभिरक्षन्ति राजानमरिष्टमुखतोऽपि ते ॥ २७-४४ ॥
मूलम् - २७-४४
प्। २४८) एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः ।
अभिरक्षन्ति राजानमरिष्टमुखतोऽपि ते ॥ २७-४४ ॥
एतत्प्रणामादीनामपि तत्तत्फलसाधनत्वम्
एतत्प्रणामेन समर्चनेन
सङ्कीर्तनेन स्मरणेन वाऽपि ।
सन्तोषयेत् सन्ततमस्य सर्वं
मनीषितं हस्तगतं प्रपश्येत् ॥ २७-४५ ॥
अध्यायार्थनिगमनम्
इति निगदितमेतद्यन्त्ररूपं समन्त्रं
सकलदुरितभेदव्यापृतं संश्रितानाम् ।
तदिह कृतविधेयो भूपतिः पूर्णकामो
भुवनतलमशेषं प्राप्नुयाच्चक्रवर्ती ॥ २७-४६ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः ॥ २७ ॥
आदितः श्लोकाः १६११
भगवदाराधनविधिनिरूपणं नाम
अष्टाविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
आराधनविधिनिरूपणारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २८-१
आराधनविधिं वक्ष्ये समासेनैव नारद ।
आयुरारोग्यविजयभूप्रदं धनधान्यदम् ॥ २८-१ ॥
मूलम् - २८-१
आराधनविधिं वक्ष्ये समासेनैव नारद ।
आयुरारोग्यविजयभूप्रदं धनधान्यदम् ॥ २८-१ ॥
तस्यैहिकामुष्मिकफलसाधनत्वम्
विश्वास-प्रस्तुतिः - २८-२
पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम् ।
भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम् ॥ २८-२ ॥
मूलम् - २८-२
पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम् ।
भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम् ॥ २८-२ ॥
तत्रादौ स्नानविधिः
विश्वास-प्रस्तुतिः - २८-३
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः ।
द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् ॥ २८-३ ॥
मूलम् - २८-३
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः ।
द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् ॥ २८-३ ॥
विश्वास-प्रस्तुतिः - २८-४
स्नात्वाचम्य गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा ।
वामे पाणौ दिशाबन्धं विदध्यादेकभागतः ॥ २८-४ ॥
मूलम् - २८-४
स्नात्वाचम्य गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा ।
वामे पाणौ दिशाबन्धं विदध्यादेकभागतः ॥ २८-४ ॥
विश्वास-प्रस्तुतिः - २८-५
गात्रालेपं ततः कुर्यादन्येनांशेन नारद ।
प्। २५०) सङ्कल्पयेत् तृतीयांशं तीर्थपीठमतःपरम् ॥ २८-५ ॥
मूलम् - २८-५
गात्रालेपं ततः कुर्यादन्येनांशेन नारद ।
प्। २५०) सङ्कल्पयेत् तृतीयांशं तीर्थपीठमतःपरम् ॥ २८-५ ॥
विश्वास-प्रस्तुतिः - २८-६
गङ्गां तत्र स्मरेद्विष्णोर्वामपादविनिःसृताम् ।
अर्घ्यमस्यै निवेद्याथ ततो हृत्वा जलाञ्जलिम् ॥ २८-६ ॥
मूलम् - २८-६
गङ्गां तत्र स्मरेद्विष्णोर्वामपादविनिःसृताम् ।
अर्घ्यमस्यै निवेद्याथ ततो हृत्वा जलाञ्जलिम् ॥ २८-६ ॥
विश्वास-प्रस्तुतिः - २८-७
स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृवोऽभिमन्त्रितम् ।
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ॥ २८-७ ॥
मूलम् - २८-७
स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृवोऽभिमन्त्रितम् ।
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ॥ २८-७ ॥
विश्वास-प्रस्तुतिः - २८-८
यथाशक्ति जपेन्मन्त्रं तस्य ध्यानपरायणः ।
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ॥ २८-८ ॥
मूलम् - २८-८
यथाशक्ति जपेन्मन्त्रं तस्य ध्यानपरायणः ।
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ॥ २८-८ ॥
विश्वास-प्रस्तुतिः - २८-९
धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान् ।
ध्यात्वा सन्तर्पयेदन्यदाह्निकं विधिवच्चरेत् ॥ २८-९ ॥
मूलम् - २८-९
धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान् ।
ध्यात्वा सन्तर्पयेदन्यदाह्निकं विधिवच्चरेत् ॥ २८-९ ॥
यागभूमिमथागम्य क्षालिताङ्घ्रिकरो वशी ।
आराधनोपक्रमः
आचम्य वाग्यतो भूत्वा प्रारभेत समर्चनम् ॥ २८-१० ॥
विश्वास-प्रस्तुतिः - २८-११
चतुर्द्वारयुतं रम्यं गत्वा शरणमात्मवान् ।
द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् ॥ २८-११ ॥
मूलम् - २८-११
चतुर्द्वारयुतं रम्यं गत्वा शरणमात्मवान् ।
द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् ॥ २८-११ ॥
मण्डपवर्णनम्
विश्वास-प्रस्तुतिः - २८-१२
तुङ्गं मङ्गलसंयुक्तं मणिकुट्टिमभूषितम् ।
सौवर्णैर्बहुभिः स्तम्भैर्मणिविद्रुमभूषितैः ॥ २८-१२ ॥
मूलम् - २८-१२
तुङ्गं मङ्गलसंयुक्तं मणिकुट्टिमभूषितम् ।
सौवर्णैर्बहुभिः स्तम्भैर्मणिविद्रुमभूषितैः ॥ २८-१२ ॥
विश्वास-प्रस्तुतिः - २८-१३
उपेतं दीपिकाजालैर्जातरूपमयैर्वृतम् ।
प्। २५१) विचित्राभिः पताकाभिस्तोरणैरुपशोभितम् ॥ २८-१३ ॥
मूलम् - २८-१३
उपेतं दीपिकाजालैर्जातरूपमयैर्वृतम् ।
प्। २५१) विचित्राभिः पताकाभिस्तोरणैरुपशोभितम् ॥ २८-१३ ॥
विश्वास-प्रस्तुतिः - २८-१४
मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः ।
विराजमानं सर्वत्र मणिपीठविराजितम् ॥ २८-१४ ॥
मूलम् - २८-१४
मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः ।
विराजमानं सर्वत्र मणिपीठविराजितम् ॥ २८-१४ ॥
तत्र वेदिकानिर्माणम्
विश्वास-प्रस्तुतिः - २८-१५
तस्य मण्डपरत्नस्य मध्ये परमभास्वराम् ।
पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् ॥ २८-१५ ॥
मूलम् - २८-१५
तस्य मण्डपरत्नस्य मध्ये परमभास्वराम् ।
पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् ॥ २८-१५ ॥
विश्वास-प्रस्तुतिः - २८-१६
मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम् ।
वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् ॥ २८-१६ ॥
मूलम् - २८-१६
मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम् ।
वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् ॥ २८-१६ ॥
एवं कर्तुमशक्तश्चेदेवं ध्यायीत पूजकः ।
तत्र सपरिवारभगवद्ध्यानम्
एवं चतुष्किकामध्ये चक्राब्जमयविष्टरे ॥ २८-१७ ॥
विश्वास-प्रस्तुतिः - २८-१८
आधारशक्तिकमठानन्तधर्मादिधारिते ।
पद्मे सोमरविज्योतिःसत्त्वादिपरिवारिते ॥ २८-१८ ॥
मूलम् - २८-१८
आधारशक्तिकमठानन्तधर्मादिधारिते ।
पद्मे सोमरविज्योतिःसत्त्वादिपरिवारिते ॥ २८-१८ ॥
विश्वास-प्रस्तुतिः - २८-१९
एवमुक्तप्रकारेण परिवारैर्निषेवितम् ।
वेदैर्मन्त्रैस्तथा शस्त्रैरस्त्रैः शक्तिभिरावृतम् ॥ २८-१९ ॥
मूलम् - २८-१९
एवमुक्तप्रकारेण परिवारैर्निषेवितम् ।
वेदैर्मन्त्रैस्तथा शस्त्रैरस्त्रैः शक्तिभिरावृतम् ॥ २८-१९ ॥
ध्यायेत् तदासने देवं समासीनः समासने ।
भगवत्प्रार्थना
अर्चयामि त्वदीयोऽहं त्वद्दत्तैरौपचारिकैः ॥ २८-२० ॥
प्। २५२) सांस्पर्शिकैरिति ब्रूयाद् देवमाभ्यवहारिकैः ।
भूतशुद्धिक्रमः
संहरेद् देहतत्त्वानि प्रतिसञ्चरवर्त्मना ॥ २८-२१ ॥
विश्वास-प्रस्तुतिः - २८-२२
ततः स्थूलमिदं देहं शोषयित्वाथ सन्दहेत् ।
प्राणायामेन चाद्येन मन्त्रं नाभ्यां तु विन्यसेत् ॥ २८-२२ ॥
मूलम् - २८-२२
ततः स्थूलमिदं देहं शोषयित्वाथ सन्दहेत् ।
प्राणायामेन चाद्येन मन्त्रं नाभ्यां तु विन्यसेत् ॥ २८-२२ ॥
विश्वास-प्रस्तुतिः - २८-२३
तदुद्भूतेन नादेन सुषुम्नामध्यवर्तिना ।
वायुमण्डलमभ्येत्य तदुत्थेनैव वायुना ॥ २८-२३ ॥
मूलम् - २८-२३
तदुद्भूतेन नादेन सुषुम्नामध्यवर्तिना ।
वायुमण्डलमभ्येत्य तदुत्थेनैव वायुना ॥ २८-२३ ॥
विश्वास-प्रस्तुतिः - २८-२४
संशोषयेदिमं देहं स्थूलं सुरमुने ततः ।
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ॥ २८-२४ ॥
मूलम् - २८-२४
संशोषयेदिमं देहं स्थूलं सुरमुने ततः ।
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ॥ २८-२४ ॥
विश्वास-प्रस्तुतिः - २८-२५
मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना ।
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ॥ २८-२५ ॥
मूलम् - २८-२५
मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना ।
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ॥ २८-२५ ॥
विश्वास-प्रस्तुतिः - २८-२६
अधो निवेशयन् विष्णोर्वामपादाम्बुजस्य वै ।
स्वं तदङ्गुष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ॥ २८-२६ ॥
मूलम् - २८-२६
अधो निवेशयन् विष्णोर्वामपादाम्बुजस्य वै ।
स्वं तदङ्गुष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ॥ २८-२६ ॥
विश्वास-प्रस्तुतिः - २८-२७
पञ्चौपनिषदैर्मन्त्रैस्ततः सञ्जातविग्रहः ।
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम् ॥ २८-२७ ॥
मूलम् - २८-२७
पञ्चौपनिषदैर्मन्त्रैस्ततः सञ्जातविग्रहः ।
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम् ॥ २८-२७ ॥
विश्वास-प्रस्तुतिः - २८-२८
आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् ।
प्रारभेत ततः पूजां करन्यासं विधाय वै ॥ २८-२८ ॥
मूलम् - २८-२८
आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् ।
प्रारभेत ततः पूजां करन्यासं विधाय वै ॥ २८-२८ ॥
हृद्यागं प्रथमं कुर्यान्नियतेन्द्रियमानसः ।
पात्रादिस्थापनम्
प्। २५३) आत्मनो दक्षिणे पार्श्वे वासितैः पावनैर्जलैः ॥ २८-२९ ॥
विश्वास-प्रस्तुतिः - २८-३०
पूरितं स्थापयेत् पात्रं मूलमन्त्रेण मन्त्रितम् ।
वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् ॥ २८-३० ॥
मूलम् - २८-३०
पूरितं स्थापयेत् पात्रं मूलमन्त्रेण मन्त्रितम् ।
वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् ॥ २८-३० ॥
विश्वास-प्रस्तुतिः - २८-३१
ततो विस्तीर्य पुरतः शाटिकामतिनिर्मलाम् ।
तस्यामाग्नेयदिग्भागे विन्यसेदर्घ्यपात्रकम् ॥ २८-३१ ॥
मूलम् - २८-३१
ततो विस्तीर्य पुरतः शाटिकामतिनिर्मलाम् ।
तस्यामाग्नेयदिग्भागे विन्यसेदर्घ्यपात्रकम् ॥ २८-३१ ॥
विश्वास-प्रस्तुतिः - २८-३२
पाद्यपात्रमथो न्यस्येत् कोणे दक्षिणपश्चिमे ।
पात्रमाचमनीयस्य विन्यसेत् पश्चिमोत्तरे ॥ २८-३२ ॥
मूलम् - २८-३२
पाद्यपात्रमथो न्यस्येत् कोणे दक्षिणपश्चिमे ।
पात्रमाचमनीयस्य विन्यसेत् पश्चिमोत्तरे ॥ २८-३२ ॥
स्नानीयपात्रं दिग्भागे विन्यसेच्छाङ्करे ततः ।
अर्घ्यादिषु प्रक्षेप्यद्रव्याणि
सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेव च ॥ २८-३३ ॥
विश्वास-प्रस्तुतिः - २८-३४
यवं गन्धं फलं पुष्पमष्टाङ्गं चार्घ्यमुच्यते ।
दूर्वा च विष्णुपर्णी च श्यामाकं पद्ममेव च ॥ २८-३४ ॥
मूलम् - २८-३४
यवं गन्धं फलं पुष्पमष्टाङ्गं चार्घ्यमुच्यते ।
दूर्वा च विष्णुपर्णी च श्यामाकं पद्ममेव च ॥ २८-३४ ॥
विश्वास-प्रस्तुतिः - २८-३५
पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत् ।
लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके ॥ २८-३५ ॥
मूलम् - २८-३५
पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत् ।
लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके ॥ २८-३५ ॥
सिद्धार्थकादि स्नानीये पूर्ववत् कल्पयेद् बुधः ।
प्। २५४) तत्र मन्त्रासनं प्रथनम्
अर्घ्यं सङ्कल्पयामीति स्पृशेज्जप्त्वार्घ्यमादितः ॥ २८-३६ ॥
विश्वास-प्रस्तुतिः - २८-३७
पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात् ।
गन्धतोयेन सम्पूर्य पात्राण्येतानि सर्वशः ॥ २८-३७ ॥
मूलम् - २८-३७
पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात् ।
गन्धतोयेन सम्पूर्य पात्राण्येतानि सर्वशः ॥ २८-३७ ॥
विश्वास-प्रस्तुतिः - २८-३८
अर्घ्यात् किञ्चित् समुद्धृत्य जलं पात्रान्तरेण तु ।
देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् ॥ २८-३८ ॥
मूलम् - २८-३८
अर्घ्यात् किञ्चित् समुद्धृत्य जलं पात्रान्तरेण तु ।
देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् ॥ २८-३८ ॥
विश्वास-प्रस्तुतिः - २८-३९
पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत् ।
वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् ॥ २८-३९ ॥
मूलम् - २८-३९
पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत् ।
वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् ॥ २८-३९ ॥
विश्वास-प्रस्तुतिः - २८-४०
अर्घ्यादिदत्तशिष्टानि क्षिपेत् पात्रान्तरे तदा ।
चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः ॥ २८-४० ॥
मूलम् - २८-४०
अर्घ्यादिदत्तशिष्टानि क्षिपेत् पात्रान्तरे तदा ।
चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः ॥ २८-४० ॥
विश्वास-प्रस्तुतिः - २८-४१
पुनराचमनीयं च मुखवासमतः परम् ।
ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् ॥ २८-४१ ॥
मूलम् - २८-४१
पुनराचमनीयं च मुखवासमतः परम् ।
ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् ॥ २८-४१ ॥
स्नानासनं द्वितीयम्
विश्वास-प्रस्तुतिः - २८-४२
विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत् ।
विज्ञाप्य पादुके दत्त्वा देवे स्नानासनं गते ॥ २८-४२ ॥
मूलम् - २८-४२
विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत् ।
विज्ञाप्य पादुके दत्त्वा देवे स्नानासनं गते ॥ २८-४२ ॥
विश्वास-प्रस्तुतिः - २८-४३
वस्त्रभूषणमाल्यानि व्यपनीय ततः परम् ।
स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् ॥ २८-४३ ॥
मूलम् - २८-४३
वस्त्रभूषणमाल्यानि व्यपनीय ततः परम् ।
स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् ॥ २८-४३ ॥
विश्वास-प्रस्तुतिः - २८-४४
पादपीठप्रदानं च दन्तकाष्ठं दिशेत् ततः ।
प्। २५५) जिह्वानिर्लेखनं चैव मुखशोधमथो दिशेत् ॥ २८-४४ ॥
मूलम् - २८-४४
पादपीठप्रदानं च दन्तकाष्ठं दिशेत् ततः ।
प्। २५५) जिह्वानिर्लेखनं चैव मुखशोधमथो दिशेत् ॥ २८-४४ ॥
विश्वास-प्रस्तुतिः - २८-४५
पुनराचमनीयं च तथादर्शोपदर्शनम् ।
पुनस्ताम्बूलदानं च तैलाभ्यङ्गमतः परम् ॥ २८-४५ ॥
मूलम् - २८-४५
पुनराचमनीयं च तथादर्शोपदर्शनम् ।
पुनस्ताम्बूलदानं च तैलाभ्यङ्गमतः परम् ॥ २८-४५ ॥
विश्वास-प्रस्तुतिः - २८-४६
उद्वर्तनविधानं च दानमामलकस्य च ।
तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च ॥ २८-४६ ॥
मूलम् - २८-४६
उद्वर्तनविधानं च दानमामलकस्य च ।
तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च ॥ २८-४६ ॥
विश्वास-प्रस्तुतिः - २८-४७
ततो विदद्याद् देवस्य देहशोधनशाटिकाम् ।
हरिद्रालेपनं कुर्यात् प्रक्षालनमतः परम् ॥ २८-४७ ॥
मूलम् - २८-४७
ततो विदद्याद् देवस्य देहशोधनशाटिकाम् ।
हरिद्रालेपनं कुर्यात् प्रक्षालनमतः परम् ॥ २८-४७ ॥
विश्वास-प्रस्तुतिः - २८-४८
वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च ।
पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा ॥ २८-४८ ॥
मूलम् - २८-४८
वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च ।
पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा ॥ २८-४८ ॥
विश्वास-प्रस्तुतिः - २८-४९
गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा ।
नृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् ॥ २८-४९ ॥
मूलम् - २८-४९
गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा ।
नृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् ॥ २८-४९ ॥
विश्वास-प्रस्तुतिः - २८-५०
अभिषेकं ततः कुर्यान्नीराजनविधिं ततः ।
प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् ॥ २८-५० ॥
मूलम् - २८-५०
अभिषेकं ततः कुर्यान्नीराजनविधिं ततः ।
प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् ॥ २८-५० ॥
तत आचमनीयं च दत्त्वा देवाय देशिकः ।
तृतीयमलङ्कारासनम्
अलङ्कारासनं पश्चादभ्यर्च्य प्रोक्षणादिना ॥ २८-५१ ॥
विश्वास-प्रस्तुतिः - २८-५२
विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते ।
अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः ॥ २८-५२ ॥
मूलम् - २८-५२
विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते ।
अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः ॥ २८-५२ ॥
विश्वास-प्रस्तुतिः - २८-५३
अर्घ्यं पाद्यं ततो दद्यात् तत आचमनीयकम् ।
प्। २५६) गन्धवच्चन्दनाद्यैश्च द्रव्यैश्चार्घ्यादिकं चरेत् ॥ २८-५३
॥
मूलम् - २८-५३
अर्घ्यं पाद्यं ततो दद्यात् तत आचमनीयकम् ।
प्। २५६) गन्धवच्चन्दनाद्यैश्च द्रव्यैश्चार्घ्यादिकं चरेत् ॥ २८-५३
॥
विश्वास-प्रस्तुतिः - २८-५४
ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च ।
यज्ञोपवीतदानं च तत आचमनीयकम् ॥ २८-५४ ॥
मूलम् - २८-५४
ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च ।
यज्ञोपवीतदानं च तत आचमनीयकम् ॥ २८-५४ ॥
विश्वास-प्रस्तुतिः - २८-५५
गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम् ।
धूपदीपौ तथा दद्यात् पुनराचमनीयकम् ॥ २८-५५ ॥
मूलम् - २८-५५
गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम् ।
धूपदीपौ तथा दद्यात् पुनराचमनीयकम् ॥ २८-५५ ॥
विश्वास-प्रस्तुतिः - २८-५६
ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम् ।
दर्शनं वाहनानां च ततः शङ्खरवं तथा ॥ २८-५६ ॥
मूलम् - २८-५६
ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम् ।
दर्शनं वाहनानां च ततः शङ्खरवं तथा ॥ २८-५६ ॥
विश्वास-प्रस्तुतिः - २८-५७
वीणाकाहलभेर्यादिनिनादश्रावनं तथा ।
नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः ॥ २८-५७ ॥
मूलम् - २८-५७
वीणाकाहलभेर्यादिनिनादश्रावनं तथा ।
नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः ॥ २८-५७ ॥
विश्वास-प्रस्तुतिः - २८-५८
मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः ।
पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरःसरम् ॥ २८-५८ ॥
मूलम् - २८-५८
मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः ।
पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरःसरम् ॥ २८-५८ ॥
विश्वास-प्रस्तुतिः - २८-५९
दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै ।
स्वमात्मानं भगवते किङ्करत्वाय वेदयेत् ॥ २८-५९ ॥
मूलम् - २८-५९
दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै ।
स्वमात्मानं भगवते किङ्करत्वाय वेदयेत् ॥ २८-५९ ॥
विश्वास-प्रस्तुतिः - २८-६०
ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः ।
आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः ॥ २८-६० ॥
मूलम् - २८-६०
ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः ।
आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः ॥ २८-६० ॥
विश्वास-प्रस्तुतिः - २८-६१
सर्वभोगैस्तु सम्पूर्णान् मन्त्रांस्तस्मै निवेदयेत् ।
मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च ॥ २८-६१ ॥
मूलम् - २८-६१
सर्वभोगैस्तु सम्पूर्णान् मन्त्रांस्तस्मै निवेदयेत् ।
मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च ॥ २८-६१ ॥
चतुर्थं भोज्यासनम्
विश्वास-प्रस्तुतिः - २८-६२
भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके ।
दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः ॥ २८-६२ ॥
मूलम् - २८-६२
भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके ।
दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः ॥ २८-६२ ॥
विश्वास-प्रस्तुतिः - २८-६३
प्। २५७) अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान् ।
गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् ॥ २८-६३ ॥
मूलम् - २८-६३
प्। २५७) अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान् ।
गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् ॥ २८-६३ ॥
विश्वास-प्रस्तुतिः - २८-६४
सम्प्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत् ।
ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः ॥ २८-६४ ॥
मूलम् - २८-६४
सम्प्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत् ।
ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः ॥ २८-६४ ॥
हविर्निवेदनम्
विश्वास-प्रस्तुतिः - २८-६५
सुसंस्कृतान्नमाज्यं च दधिक्षीरमधूनि च ।
मूलानि मोदकान् स्निग्धान् व्यञ्जनानि फलानि च ॥ २८-६५ ॥
मूलम् - २८-६५
सुसंस्कृतान्नमाज्यं च दधिक्षीरमधूनि च ।
मूलानि मोदकान् स्निग्धान् व्यञ्जनानि फलानि च ॥ २८-६५ ॥
विश्वास-प्रस्तुतिः - २८-६६
यानि कालोपपन्नानि शुचीनि गुणवन्ति च ।
स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च ॥ २८-६६ ॥
मूलम् - २८-६६
यानि कालोपपन्नानि शुचीनि गुणवन्ति च ।
स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च ॥ २८-६६ ॥
विश्वास-प्रस्तुतिः - २८-६७
विशोध्य शोषणाद्यैस्तु सम्प्रोक्ष्यार्घ्यजलेन तु ।
विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् ॥ २८-६७ ॥
मूलम् - २८-६७
विशोध्य शोषणाद्यैस्तु सम्प्रोक्ष्यार्घ्यजलेन तु ।
विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् ॥ २८-६७ ॥
विश्वास-प्रस्तुतिः - २८-६८
मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत् ।
अनुवासं ततो दद्याद् दर्पणं च ततः परम् ॥ २८-६८ ॥
मूलम् - २८-६८
मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत् ।
अनुवासं ततो दद्याद् दर्पणं च ततः परम् ॥ २८-६८ ॥
विश्वास-प्रस्तुतिः - २८-६९
दद्यादाचमनीयं च हस्तमार्जनचन्दनम् ।
मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च ॥ २८-६९ ॥
मूलम् - २८-६९
दद्यादाचमनीयं च हस्तमार्जनचन्दनम् ।
मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च ॥ २८-६९ ॥
पुनर्मन्त्रासनं पञ्चमम्
विश्वास-प्रस्तुतिः - २८-७०
अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च ।
गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके ॥ २८-७० ॥
मूलम् - २८-७०
अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च ।
गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके ॥ २८-७० ॥
विश्वास-प्रस्तुतिः - २८-७१
तथाधिरूढे देवेशे माल्यादिकमपोह्य तु ।
पाद्याचमनके दत्त्वा ततो धूपं निवेदयेत् ॥ २८-७१ ॥
मूलम् - २८-७१
तथाधिरूढे देवेशे माल्यादिकमपोह्य तु ।
पाद्याचमनके दत्त्वा ततो धूपं निवेदयेत् ॥ २८-७१ ॥
विश्वास-प्रस्तुतिः - २८-७२
प्। २५८) स्वादिष्ठानि फलान्यस्मै दद्यात् ताम्बूलमेव च ।
गीतवादित्रनृत्ताद्यैर्देवमभ्यर्चयेत् ततः ॥ २८-७२ ॥
मूलम् - २८-७२
प्। २५८) स्वादिष्ठानि फलान्यस्मै दद्यात् ताम्बूलमेव च ।
गीतवादित्रनृत्ताद्यैर्देवमभ्यर्चयेत् ततः ॥ २८-७२ ॥
प्रदक्षिणं विधायास्मै प्रणमेतद् दण्डवत् ततः ।
षष्ठं पर्यङ्कासनम्
अथ पर्यङ्कमभ्यर्च्य देवं विज्ञापयेत् ततः ॥ २८-७३ ॥
विश्वास-प्रस्तुतिः - २८-७४
ततः पादूप्रदानेन देवे पर्यङ्कमास्थिते ।
पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः ॥ २८-७४ ॥
मूलम् - २८-७४
ततः पादूप्रदानेन देवे पर्यङ्कमास्थिते ।
पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः ॥ २८-७४ ॥
विश्वास-प्रस्तुतिः - २८-७५
माल्यभूषणकादीनि व्यपनीय महामते ।
शयनोचितमाल्यानि भूषणान्यंशुकानि च ॥ २८-७५ ॥
मूलम् - २८-७५
माल्यभूषणकादीनि व्यपनीय महामते ।
शयनोचितमाल्यानि भूषणान्यंशुकानि च ॥ २८-७५ ॥
विश्वास-प्रस्तुतिः - २८-७६
सुखस्पर्शानि चान्यानि दद्याद्यज्ञोपवीतकम् ।
दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् ॥ २८-७६ ॥
मूलम् - २८-७६
सुखस्पर्शानि चान्यानि दद्याद्यज्ञोपवीतकम् ।
दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् ॥ २८-७६ ॥
विश्वास-प्रस्तुतिः - २८-७७
मुखवासं च ताम्बूलं दत्त्वा स्तोत्रः स्तुवीत तम् ।
अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् ॥ २८-७७ ॥
मूलम् - २८-७७
मुखवासं च ताम्बूलं दत्त्वा स्तोत्रः स्तुवीत तम् ।
अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् ॥ २८-७७ ॥
विश्वास-प्रस्तुतिः - २८-७८
प्रदक्षिणसमेतेन देवं योगासनस्थितम् ।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ २८-७८ ॥
मूलम् - २८-७८
प्रदक्षिणसमेतेन देवं योगासनस्थितम् ।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ २८-७८ ॥
कूर्मवच्चतुरः पादाञ्छिरस्तत्रैव पञ्चमम् ।
दास्यप्रार्थना
अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया ॥ २८-७९ ॥
विश्वास-प्रस्तुतिः - २८-८०
प्। २५९) क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम् ।
एवमाराधनं कुर्यादुभयत्र मुखे हरिम् ॥ २८-८० ॥
मूलम् - २८-८०
प्। २५९) क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम् ।
एवमाराधनं कुर्यादुभयत्र मुखे हरिम् ॥ २८-८० ॥
सुदर्शनं नृसिंहं च विष्णुरूपं सुदर्शनम् ।
एवमनुष्ठितस्याराधनस्य मोक्षसाधनत्वम्
समाराधयतस्त्वेवमेकाहमपि नारद ॥ २८-८१ ॥
मुक्तिः करे स्थिता तस्य सर्वे कामाश्च किं पुनः ।
आनुषङ्गिकफलसाधनत्वं कैमुतिकम्
अनेन लोकपालाश्च सर्वे देवगणास्तथा ॥ २८-८२ ॥
विश्वास-प्रस्तुतिः - २८-८३
सिद्धगन्धर्वयक्षाश्च नागाश्चाप्सरसां गणाः ।
सर्वे वश्या भवन्तीह किं पुनर्भुवि मानवाः ॥ २८-८३ ॥
मूलम् - २८-८३
सिद्धगन्धर्वयक्षाश्च नागाश्चाप्सरसां गणाः ।
सर्वे वश्या भवन्तीह किं पुनर्भुवि मानवाः ॥ २८-८३ ॥
विश्वास-प्रस्तुतिः - २८-८४
भूतप्रेतपिशाचाश्च कुश्माण्डाश्च विनायकाः ।
प्रेष्यास्तस्य भविष्यन्ति साधकस्य महात्मनः ॥ २८-८४ ॥
मूलम् - २८-८४
भूतप्रेतपिशाचाश्च कुश्माण्डाश्च विनायकाः ।
प्रेष्यास्तस्य भविष्यन्ति साधकस्य महात्मनः ॥ २८-८४ ॥
परिवाराध्यर्चनविधिः
तथास्य परिवाराणां देवानां शक्तियोषिताम् ।
विश्वास-प्रस्तुतिः - २८-८५
मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम् ।
नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् ॥ २८-८५ ॥
मूलम् - २८-८५
मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम् ।
नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् ॥ २८-८५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
भगवदाराधनविधिनिरूपणं
नामाष्टाविंशोऽध्यायः ॥ २८ ॥
आदितः श्लोकाः १६९६
काम्याराधनविधिनिरूपणं नाम एकोनत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
भगवदाराधनस्यानुषङ्गिकफलसाधनत्वकथन्ताप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - २९-१
एतदाराधनैः कस्य कथं देवादयः सुराः ।
अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् ॥ २९-१ ॥
मूलम् - २९-१
एतदाराधनैः कस्य कथं देवादयः सुराः ।
अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् ॥ २९-१ ॥
तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - २९-२
क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने ।
येनार्चनविशेषेण विश्वे वश्या भवन्ति हि ॥ २९-२ ॥
मूलम् - २९-२
क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने ।
येनार्चनविशेषेण विश्वे वश्या भवन्ति हि ॥ २९-२ ॥
शृणुष्व तं समासेन कथयामि यथातथम् ।
तत्तदाराधनविशेषाणां तत्तद्दिग्विजयसाधनत्वम्
यदीच्छेद्विजयं दिक्षु सर्वासु च महीपतिः ॥ २९-३ ॥
आराधनविशेषैस्तु तत्तद्विजयमाप्नुयात् ।
तत्र प्राचीदिग्विषये
नृपेभ्यो विजयाकाङ्क्षी प्राच्येभ्यश्चेन्महीपतिः ॥ २९-४ ॥
विश्वास-प्रस्तुतिः - २९-५
प्। २६१) आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम् ।
सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि ॥ २९-५ ॥
मूलम् - २९-५
प्। २६१) आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम् ।
सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि ॥ २९-५ ॥
विश्वास-प्रस्तुतिः - २९-६
शाल्योदनैश्च दध्याढ्यैरर्चयित्वा सुदर्शनम् ।
मण्डपे मण्डिते शुद्धे पूर्वोक्ते देवसन्निधौ ॥ २९-६ ॥
मूलम् - २९-६
शाल्योदनैश्च दध्याढ्यैरर्चयित्वा सुदर्शनम् ।
मण्डपे मण्डिते शुद्धे पूर्वोक्ते देवसन्निधौ ॥ २९-६ ॥
विश्वास-प्रस्तुतिः - २९-७
प्रासादलक्षणे कुण्डे चतुष्कोणपरिस्तृते ।
तत्र वह्निमथादाय काष्ठैः प्रज्वाल्य बैल्वकैः ॥ २९-७ ॥
मूलम् - २९-७
प्रासादलक्षणे कुण्डे चतुष्कोणपरिस्तृते ।
तत्र वह्निमथादाय काष्ठैः प्रज्वाल्य बैल्वकैः ॥ २९-७ ॥
विश्वास-प्रस्तुतिः - २९-८
आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः ।
तस्मिन् फलानि बैल्वानि सर्पिःसिक्तानि नारद ॥ २९-८ ॥
मूलम् - २९-८
आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः ।
तस्मिन् फलानि बैल्वानि सर्पिःसिक्तानि नारद ॥ २९-८ ॥
विश्वास-प्रस्तुतिः - २९-९
नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले ।
होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही ॥ २९-९ ॥
मूलम् - २९-९
नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले ।
होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही ॥ २९-९ ॥
विश्वास-प्रस्तुतिः - २९-१०
फलानां कोटिहोमेन बैल्वानां वशमेष्यति ।
प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः ॥ २९-१० ॥
मूलम् - २९-१०
फलानां कोटिहोमेन बैल्वानां वशमेष्यति ।
प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः ॥ २९-१० ॥
विश्वास-प्रस्तुतिः - २९-११
कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति ।
देशः प्राच्यः सभूपालः स्वदेश इव नारद ॥ २९-११ ॥
मूलम् - २९-११
कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति ।
देशः प्राच्यः सभूपालः स्वदेश इव नारद ॥ २९-११ ॥
विश्वास-प्रस्तुतिः - २९-१२
कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसञ्ज्ञितः ।
एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै ॥ २९-१२ ॥
मूलम् - २९-१२
कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसञ्ज्ञितः ।
एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै ॥ २९-१२ ॥
विश्वास-प्रस्तुतिः - २९-१३
कोटीनां फलहोमानां वशं यास्यन्ति भूपतेः ।
द्वीपानामपि चैतेषां प्राची माघवती पुरी ॥ २९-१३ ॥
मूलम् - २९-१३
कोटीनां फलहोमानां वशं यास्यन्ति भूपतेः ।
द्वीपानामपि चैतेषां प्राची माघवती पुरी ॥ २९-१३ ॥
विश्वास-प्रस्तुतिः - २९-१४
दशकोट्या तु होमानां वशं यास्यति सा ध्रुवम् ।
प्। २६२) पालनार्थं तु लोकानामेकेनांशेन वासवः ॥ २९-१४ ॥
मूलम् - २९-१४
दशकोट्या तु होमानां वशं यास्यति सा ध्रुवम् ।
प्। २६२) पालनार्थं तु लोकानामेकेनांशेन वासवः ॥ २९-१४ ॥
विश्वास-प्रस्तुतिः - २९-१५
तत्रैव वर्तते सोऽपि साहाय्यं तस्य यास्यति ।
स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः ॥ २९-१५ ॥
मूलम् - २९-१५
तत्रैव वर्तते सोऽपि साहाय्यं तस्य यास्यति ।
स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः ॥ २९-१५ ॥
विश्वास-प्रस्तुतिः - २९-१६
यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया ।
चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः ॥ २९-१६ ॥
मूलम् - २९-१६
यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया ।
चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः ॥ २९-१६ ॥
विश्वास-प्रस्तुतिः - २९-१७
अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः ।
गन्तुं योग्या भविष्यन्ति स्यन्दनेन यथा स्थली ॥ २९-१७ ॥
मूलम् - २९-१७
अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः ।
गन्तुं योग्या भविष्यन्ति स्यन्दनेन यथा स्थली ॥ २९-१७ ॥
विश्वास-प्रस्तुतिः - २९-१८
हारं च वासवस्तस्य चक्रवर्तित्वलक्षणम् ।
सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् ॥ २९-१८ ॥
मूलम् - २९-१८
हारं च वासवस्तस्य चक्रवर्तित्वलक्षणम् ।
सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् ॥ २९-१८ ॥
दक्षिणदिग्विषये
विश्वास-प्रस्तुतिः - २९-१९
दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः ।
पूर्वोक्ते मण्डपे देवं दक्षिणाभिमुखं नयेत् ॥ २९-१९ ॥
मूलम् - २९-१९
दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः ।
पूर्वोक्ते मण्डपे देवं दक्षिणाभिमुखं नयेत् ॥ २९-१९ ॥
विश्वास-प्रस्तुतिः - २९-२०
रक्तमाल्याम्बरधरं रक्तचन्दनरञ्जितम् ।
रक्ताम्बरधरं देवमभ्यर्च्योक्तेन वर्त्मना ॥ २९-२० ॥
मूलम् - २९-२०
रक्तमाल्याम्बरधरं रक्तचन्दनरञ्जितम् ।
रक्ताम्बरधरं देवमभ्यर्च्योक्तेन वर्त्मना ॥ २९-२० ॥
विश्वास-प्रस्तुतिः - २९-२१
गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम् ।
अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम् ॥ २९-२१ ॥
मूलम् - २९-२१
गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम् ।
अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम् ॥ २९-२१ ॥
विश्वास-प्रस्तुतिः - २९-२२
कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम् ।
दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः ॥ २९-२२ ॥
मूलम् - २९-२२
कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम् ।
दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः ॥ २९-२२ ॥
विश्वास-प्रस्तुतिः - २९-२३
प्। २६३) मन्त्रेण वह्निमादाय काष्ठैः प्रज्वाल्य खादिरैः ।
पद्मानां चैव रक्तानां नियुतैर्होममाचरेत् ॥ २९-२३ ॥
मूलम् - २९-२३
प्। २६३) मन्त्रेण वह्निमादाय काष्ठैः प्रज्वाल्य खादिरैः ।
पद्मानां चैव रक्तानां नियुतैर्होममाचरेत् ॥ २९-२३ ॥
विश्वास-प्रस्तुतिः - २९-२४
ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत् ।
सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः ॥ २९-२४ ॥
मूलम् - २९-२४
ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत् ।
सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः ॥ २९-२४ ॥
विश्वास-प्रस्तुतिः - २९-२५
प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः ।
ततो दक्षिणदिग्भागे षट्सु द्वीपेषु सम्मताः ॥ २९-२५ ॥
मूलम् - २९-२५
प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः ।
ततो दक्षिणदिग्भागे षट्सु द्वीपेषु सम्मताः ॥ २९-२५ ॥
विश्वास-प्रस्तुतिः - २९-२६
एकद्वित्रिचतुःपञ्चषड्भिर्वश्याः सभूभुजः ।
रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् ॥ २९-२६ ॥
मूलम् - २९-२६
एकद्वित्रिचतुःपञ्चषड्भिर्वश्याः सभूभुजः ।
रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् ॥ २९-२६ ॥
विश्वास-प्रस्तुतिः - २९-२७
एषा दक्षिणतो रम्या याम्या संयमिनी पुरी ।
सा रक्तपद्महोमानां दशकोट्या वशा भवेत् ॥ २९-२७ ॥
मूलम् - २९-२७
एषा दक्षिणतो रम्या याम्या संयमिनी पुरी ।
सा रक्तपद्महोमानां दशकोट्या वशा भवेत् ॥ २९-२७ ॥
विश्वास-प्रस्तुतिः - २९-२८
यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः ।
राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति ॥ २९-२८ ॥
मूलम् - २९-२८
यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः ।
राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति ॥ २९-२८ ॥
विश्वास-प्रस्तुतिः - २९-२९
अकालमरणं किञ्चित् तद्देशे न भविष्यति ।
ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः ॥ २९-२९ ॥
मूलम् - २९-२९
अकालमरणं किञ्चित् तद्देशे न भविष्यति ।
ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः ॥ २९-२९ ॥
विश्वास-प्रस्तुतिः - २९-३०
ते सर्वे तस्य वशगा भविष्यन्ति न संशयः ।
दिव्ये रक्ताङ्गदे रम्ये सार्वभौमत्वलक्षणे ॥ २९-३० ॥
मूलम् - २९-३०
ते सर्वे तस्य वशगा भविष्यन्ति न संशयः ।
दिव्ये रक्ताङ्गदे रम्ये सार्वभौमत्वलक्षणे ॥ २९-३० ॥
यमस्तु स्वयमादाय प्रीतस्तस्मै प्रयच्छति ।
पश्चिमदिग्विषये
प्। २६४) पश्चिमाशां प्रति यदा जिगीषुर्नृपतिस्तदा ॥ २९-३१ ॥
विश्वास-प्रस्तुतिः - २९-३२
मण्डपेऽलङ्कृते देवं पश्चिमाभिमुखं नयेत् ।
चित्रमालाधरं चित्रैरंशुकैः समलङ्कृतम् ॥ २९-३२ ॥
मूलम् - २९-३२
मण्डपेऽलङ्कृते देवं पश्चिमाभिमुखं नयेत् ।
चित्रमालाधरं चित्रैरंशुकैः समलङ्कृतम् ॥ २९-३२ ॥
विश्वास-प्रस्तुतिः - २९-३३
चित्राङ्गरागैश्चित्राभिर्भूषाभिरुपशोभितम् ।
मध्वोदनं हविः कृत्वा देवायैतन्निवेदयेत् ॥ २९-३३ ॥
मूलम् - २९-३३
चित्राङ्गरागैश्चित्राभिर्भूषाभिरुपशोभितम् ।
मध्वोदनं हविः कृत्वा देवायैतन्निवेदयेत् ॥ २९-३३ ॥
विश्वास-प्रस्तुतिः - २९-३४
पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलङ्कृतम् ।
तत्राधायाग्निमासित्वा देवस्य पुरतो वशी ॥ २९-३४ ॥
मूलम् - २९-३४
पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलङ्कृतम् ।
तत्राधायाग्निमासित्वा देवस्य पुरतो वशी ॥ २९-३४ ॥
विश्वास-प्रस्तुतिः - २९-३५
काष्ठैः शमीमयैरग्निं प्रज्वाल्याथ समाहितः ।
मध्वक्तैः करवीरैस्तु नियुतं जुहुयान्मनुम् ॥ २९-३५ ॥
मूलम् - २९-३५
काष्ठैः शमीमयैरग्निं प्रज्वाल्याथ समाहितः ।
मध्वक्तैः करवीरैस्तु नियुतं जुहुयान्मनुम् ॥ २९-३५ ॥
विश्वास-प्रस्तुतिः - २९-३६
ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा ।
वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा ॥ २९-३६ ॥
मूलम् - २९-३६
ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा ।
वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा ॥ २९-३६ ॥
विश्वास-प्रस्तुतिः - २९-३७
करवीराहुतीनां च कोट्या कोटिद्वयेन च ।
कोटित्रयचतुःपञ्चसट्कैस्ते च यथाक्रमम् ॥ २९-३७ ॥
मूलम् - २९-३७
करवीराहुतीनां च कोट्या कोटिद्वयेन च ।
कोटित्रयचतुःपञ्चसट्कैस्ते च यथाक्रमम् ॥ २९-३७ ॥
विश्वास-प्रस्तुतिः - २९-३८
सड् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः ।
सुखाख्या वारुणी रम्या पुरी परमभास्वरा ॥ २९-३८ ॥
मूलम् - २९-३८
सड् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः ।
सुखाख्या वारुणी रम्या पुरी परमभास्वरा ॥ २९-३८ ॥
विश्वास-प्रस्तुतिः - २९-३९
सदा सन्निहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता ।
दिव्यपादपसंयुक्तैर्नन्दनैरुपशोभिता ॥ २९-३९ ॥
मूलम् - २९-३९
सदा सन्निहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता ।
दिव्यपादपसंयुक्तैर्नन्दनैरुपशोभिता ॥ २९-३९ ॥
विश्वास-प्रस्तुतिः - २९-४०
प्। २६५) सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता ।
आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः ॥ २९-४० ॥
मूलम् - २९-४०
प्। २६५) सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता ।
आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः ॥ २९-४० ॥
विश्वास-प्रस्तुतिः - २९-४१
प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः ।
एवं विधा पुरी तस्य राज्ञो भोग्या भविष्यति ॥ २९-४१ ॥
मूलम् - २९-४१
प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः ।
एवं विधा पुरी तस्य राज्ञो भोग्या भविष्यति ॥ २९-४१ ॥
विश्वास-प्रस्तुतिः - २९-४२
वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम् ।
मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् ॥ २९-४२ ॥
मूलम् - २९-४२
वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम् ।
मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् ॥ २९-४२ ॥
चिह्नं तच्चक्रवर्तीनां राज्ञे प्रीतः प्रदास्यति ।
उत्तरदिग्विषये
उदीचीं दिशमुद्युक्तो जेतुं यदि महीपतिः ॥ २९-४३ ॥
विश्वास-प्रस्तुतिः - २९-४४
चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत् ।
पीताम्बराणि बिभ्राणं पीतपुष्पैरलङ्कृतम् ॥ २९-४४ ॥
मूलम् - २९-४४
चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत् ।
पीताम्बराणि बिभ्राणं पीतपुष्पैरलङ्कृतम् ॥ २९-४४ ॥
विश्वास-प्रस्तुतिः - २९-४५
विद्रुमाभरणैर्युक्तं कुङ्कुमक्षोदरञ्जितम् ।
घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् ॥ २९-४५ ॥
मूलम् - २९-४५
विद्रुमाभरणैर्युक्तं कुङ्कुमक्षोदरञ्जितम् ।
घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् ॥ २९-४५ ॥
विश्वास-प्रस्तुतिः - २९-४६
कुर्यात् तस्याग्रतः कुण्डं वृत्तप्रासादलक्षणम् ।
उदङ्मुखोऽग्निमाधाय कुण्डे मण्डपसंश्रिते ॥ २९-४६ ॥
मूलम् - २९-४६
कुर्यात् तस्याग्रतः कुण्डं वृत्तप्रासादलक्षणम् ।
उदङ्मुखोऽग्निमाधाय कुण्डे मण्डपसंश्रिते ॥ २९-४६ ॥
विश्वास-प्रस्तुतिः - २९-४७
काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले ।
नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् पुरः ॥ २९-४७ ॥
मूलम् - २९-४७
काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले ।
नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् पुरः ॥ २९-४७ ॥
विश्वास-प्रस्तुतिः - २९-४८
तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम् ।
प्। २६६) सराजकं तस्य वशे भविष्यति न संशयः ॥ २९-४८ ॥
मूलम् - २९-४८
तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम् ।
प्। २६६) सराजकं तस्य वशे भविष्यति न संशयः ॥ २९-४८ ॥
विश्वास-प्रस्तुतिः - २९-४९
लक्षद्वयेन होमानां वर्षं किम्पुरुषाह्वयम् ।
सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् ॥ २९-४९ ॥
मूलम् - २९-४९
लक्षद्वयेन होमानां वर्षं किम्पुरुषाह्वयम् ।
सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् ॥ २९-४९ ॥
विश्वास-प्रस्तुतिः - २९-५०
लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम् ।
होमलक्षचतुष्केण भद्राश्वं वशमेष्यति ॥ २९-५० ॥
मूलम् - २९-५०
लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम् ।
होमलक्षचतुष्केण भद्राश्वं वशमेष्यति ॥ २९-५० ॥
विश्वास-प्रस्तुतिः - २९-५१
पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः ।
इलावृतं केतुमालं रम्यकं च वशे भवेत् ॥ २९-५१ ॥
मूलम् - २९-५१
पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः ।
इलावृतं केतुमालं रम्यकं च वशे भवेत् ॥ २९-५१ ॥
विश्वास-प्रस्तुतिः - २९-५२
हिरण्मये मेरुवर्षे अष्टाभिर्नवभिस्तथा ।
वशे भविष्यतो होमलक्षाणां समहीश्वरे ॥ २९-५२ ॥
मूलम् - २९-५२
हिरण्मये मेरुवर्षे अष्टाभिर्नवभिस्तथा ।
वशे भविष्यतो होमलक्षाणां समहीश्वरे ॥ २९-५२ ॥
विश्वास-प्रस्तुतिः - २९-५३
षण्णां प्लक्षमुखानां तु द्वीपानां भोगभूमयः ।
उक्तसङ्ख्यायुतैर्होमैर्वशमेष्यन्ति नारद ॥ २९-५३ ॥
मूलम् - २९-५३
षण्णां प्लक्षमुखानां तु द्वीपानां भोगभूमयः ।
उक्तसङ्ख्यायुतैर्होमैर्वशमेष्यन्ति नारद ॥ २९-५३ ॥
विश्वास-प्रस्तुतिः - २९-५४
सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा ।
विभावरीति विख्याता सोमस्य परमाद्भुता ॥ २९-५४ ॥
मूलम् - २९-५४
सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा ।
विभावरीति विख्याता सोमस्य परमाद्भुता ॥ २९-५४ ॥
विश्वास-प्रस्तुतिः - २९-५५
दशकोट्या वशे तस्य होमानां सा भविष्यति ।
ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः ॥ २९-५५ ॥
मूलम् - २९-५५
दशकोट्या वशे तस्य होमानां सा भविष्यति ।
ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः ॥ २९-५५ ॥
विश्वास-प्रस्तुतिः - २९-५६
ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने ।
तस्य प्रभावतः सोमः स्वयमादाय चामरे ॥ २९-५६ ॥
मूलम् - २९-५६
ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने ।
तस्य प्रभावतः सोमः स्वयमादाय चामरे ॥ २९-५६ ॥
विश्वास-प्रस्तुतिः - २९-५७
स्वज्योत्स्नासञ्चयप्रख्ये रत्ननालसमन्विते ।
विश्वाधिराज्यचिह्ने ते शुभ्रे शीतलदर्शने ॥ २९-५७ ॥
मूलम् - २९-५७
स्वज्योत्स्नासञ्चयप्रख्ये रत्ननालसमन्विते ।
विश्वाधिराज्यचिह्ने ते शुभ्रे शीतलदर्शने ॥ २९-५७ ॥
प्। २६७) प्रीतः प्रदास्यति श्रीमानस्मै विस्मितकर्मणे ।
विदिशां विषये
महादिशां जयात् सिद्धो विदिशां वशिनो जयः ॥ २९-५८ ॥
उपहारान् प्रदास्यन्ति तत्तद्दिक्पालकाः परे ।
ऊर्ध्वलोकस्य विषये
ऊर्ध्वलोकजयोद्योगो यद्यवर्तिष्ट भूपतेः ॥ २९-५९ ॥
विश्वास-प्रस्तुतिः - २९-६०
देवं मण्डपरत्ने तु प्राङ्मुखासनमर्हयेत् ।
गन्धवन्माल्यसंवीतं मुक्ताभूषणभूषितम् ॥ २९-६० ॥
मूलम् - २९-६०
देवं मण्डपरत्ने तु प्राङ्मुखासनमर्हयेत् ।
गन्धवन्माल्यसंवीतं मुक्ताभूषणभूषितम् ॥ २९-६० ॥
विश्वास-प्रस्तुतिः - २९-६१
दिव्यचन्दनलिप्ताङ्गं क्षौमैः कल्पितवाससम् ।
एवमभ्यर्च्य विधिना पायसं खण्डसम्मितम् ॥ २९-६१ ॥
मूलम् - २९-६१
दिव्यचन्दनलिप्ताङ्गं क्षौमैः कल्पितवाससम् ।
एवमभ्यर्च्य विधिना पायसं खण्डसम्मितम् ॥ २९-६१ ॥
विश्वास-प्रस्तुतिः - २९-६२
आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम् ।
प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् ॥ २९-६२ ॥
मूलम् - २९-६२
आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम् ।
प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् ॥ २९-६२ ॥
विश्वास-प्रस्तुतिः - २९-६३
कारयित्वास्त्रमन्त्रेण वह्निमादाय मन्त्रवित् ।
कृष्णागुरुमयैः काष्ठैर्ज्वलयेज्जातवेदसम् ॥ २९-६३ ॥
मूलम् - २९-६३
कारयित्वास्त्रमन्त्रेण वह्निमादाय मन्त्रवित् ।
कृष्णागुरुमयैः काष्ठैर्ज्वलयेज्जातवेदसम् ॥ २९-६३ ॥
विश्वास-प्रस्तुतिः - २९-६४
तत्राज्यहोमं कुर्याद्वै शतकोटिसमन्वितम् ।
अन्तरिक्षं ततस्तेन होमेन वशमेष्यति ॥ २९-६४ ॥
मूलम् - २९-६४
तत्राज्यहोमं कुर्याद्वै शतकोटिसमन्वितम् ।
अन्तरिक्षं ततस्तेन होमेन वशमेष्यति ॥ २९-६४ ॥
विश्वास-प्रस्तुतिः - २९-६५
तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिन्नराः ।
यक्षाः किम्पुरुषाश्चैव चारणाः साङ्गनागणाः ॥ २९-६५ ॥
मूलम् - २९-६५
तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिन्नराः ।
यक्षाः किम्पुरुषाश्चैव चारणाः साङ्गनागणाः ॥ २९-६५ ॥
विश्वास-प्रस्तुतिः - २९-६६
प्। २६८) वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः ।
तस्यापदानचरितगर्भा भोगवलीः पराः ॥ २९-६६ ॥
मूलम् - २९-६६
प्। २६८) वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः ।
तस्यापदानचरितगर्भा भोगवलीः पराः ॥ २९-६६ ॥
विश्वास-प्रस्तुतिः - २९-६७
गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम् ।
कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति ॥ २९-६७ ॥
मूलम् - २९-६७
गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम् ।
कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति ॥ २९-६७ ॥
विश्वास-प्रस्तुतिः - २९-६८
तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः ।
आरुह्यैरावतं नागमप्सराणां गणैः सह ॥ २९-६८ ॥
मूलम् - २९-६८
तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः ।
आरुह्यैरावतं नागमप्सराणां गणैः सह ॥ २९-६८ ॥
विश्वास-प्रस्तुतिः - २९-६९
तमभ्येत्य महात्मानमवरुह्य मुदान्वितः ।
मणिपीठं समारोप्य वाचयित्वा च मङ्गलम् ॥ २९-६९ ॥
मूलम् - २९-६९
तमभ्येत्य महात्मानमवरुह्य मुदान्वितः ।
मणिपीठं समारोप्य वाचयित्वा च मङ्गलम् ॥ २९-६९ ॥
नृत्तैर्गीतैश्च वाद्यैश्च दिव्यदुन्दुभिनिस्वनैः ।
विश्वास-प्रस्तुतिः - २९-७०
शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः ।
वासवश्चक्रवर्तित्वे राजानमभिषेक्ष्यति ॥ २९-७० ॥
मूलम् - २९-७०
शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः ।
वासवश्चक्रवर्तित्वे राजानमभिषेक्ष्यति ॥ २९-७० ॥
मणिमुकुटमथास्मै वारणं दिव्यमेकं
हयमनिलसमानं पुष्पकाभं विमानम् ।
सरसिजपरिकॢप्तां काञ्चनीं दिव्यमाला-
मपि च हरुषजुष्टो दास्यति स्वात्मसाम्यम् ॥ २९-७१ ॥
हयमेधशतेन याजयित्वा
नृपतिं सर्वमहीपतिं विधाय ।
शतमप्सरसः प्रदाय तस्मै
त्रिदिवं यास्यति वृत्रहा सदेवः ॥ २९-७२ ॥
नागलोकस्य विषये
विश्वास-प्रस्तुतिः - २९-७३
प्। २६९) नागलोकेषु जाता चेज्जिगीषा चक्रवर्तिनः ।
पद्मरागमयैर्दिव्यैर्भूषणैरुपशोभितम् ॥ २९-७३ ॥
मूलम् - २९-७३
प्। २६९) नागलोकेषु जाता चेज्जिगीषा चक्रवर्तिनः ।
पद्मरागमयैर्दिव्यैर्भूषणैरुपशोभितम् ॥ २९-७३ ॥
विश्वास-प्रस्तुतिः - २९-७४
रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत् ।
पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च ॥ २९-७४ ॥
मूलम् - २९-७४
रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत् ।
पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च ॥ २९-७४ ॥
विश्वास-प्रस्तुतिः - २९-७५
प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले ।
अपूपानां तु कोटीनां कोट्या होमं समाचरेत् ॥ २९-७५ ॥
मूलम् - २९-७५
प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले ।
अपूपानां तु कोटीनां कोट्या होमं समाचरेत् ॥ २९-७५ ॥
विश्वास-प्रस्तुतिः - २९-७६
तेन तक्षकमुख्यानां नागानां परमा पुरी ।
वश्या भवेद्भोगवती स्वपुरीवास्य भूपतेः ॥ २९-७६ ॥
मूलम् - २९-७६
तेन तक्षकमुख्यानां नागानां परमा पुरी ।
वश्या भवेद्भोगवती स्वपुरीवास्य भूपतेः ॥ २९-७६ ॥
तस्य प्रभावमवलोक्य स नागराजो
रत्नानि भास्वरतराणि महान्ति भान्ति ।
द्वे कुण्डले मणिमये च सहाङ्गनाभि-
रादाय सत्यमुपयास्यति सार्वभौमम् ॥ २९-७७ ॥
सामान्यपरिभाषा
विश्वास-प्रस्तुतिः - २९-७८
उक्तानामप्यनुक्तानां शृणु नारद लक्षणम् ।
सामान्यं येन सिद्धिः स्यादीप्सितार्थस्य मन्त्रिणः ॥ २९-७८ ॥
मूलम् - २९-७८
उक्तानामप्यनुक्तानां शृणु नारद लक्षणम् ।
सामान्यं येन सिद्धिः स्यादीप्सितार्थस्य मन्त्रिणः ॥ २९-७८ ॥
विश्वास-प्रस्तुतिः - २९-७९
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवात्मकाः ।
प्। २७०) विहारास्त्रिचतुःपञ्च समुखान्तायतोच्छ्रिताः ॥ २९-७९ ॥
मूलम् - २९-७९
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवात्मकाः ।
प्। २७०) विहारास्त्रिचतुःपञ्च समुखान्तायतोच्छ्रिताः ॥ २९-७९ ॥
विश्वास-प्रस्तुतिः - २९-८०
दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः ।
दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः ॥ २९-८० ॥
मूलम् - २९-८०
दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः ।
दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः ॥ २९-८० ॥
विश्वास-प्रस्तुतिः - २९-८१
एकद्व्यादियुगाश्चैव शान्तिपुष्ट्योः प्रकीर्तिताः ।
एकत्र्याद्ययुजश्चैव क्षुद्रेषु नवकं विना ॥ २९-८१ ॥
मूलम् - २९-८१
एकद्व्यादियुगाश्चैव शान्तिपुष्ट्योः प्रकीर्तिताः ।
एकत्र्याद्ययुजश्चैव क्षुद्रेषु नवकं विना ॥ २९-८१ ॥
विश्वास-प्रस्तुतिः - २९-८२
पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः ।
दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि ॥ २९-८२ ॥
मूलम् - २९-८२
पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः ।
दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि ॥ २९-८२ ॥
विश्वास-प्रस्तुतिः - २९-८३
कारस्करादयः क्षुद्रे कटुबीजादयस्तथा ।
सहस्राद्या लक्षमध्याः कोट्यन्ता होमजातयः ॥ २९-८३ ॥
मूलम् - २९-८३
कारस्करादयः क्षुद्रे कटुबीजादयस्तथा ।
सहस्राद्या लक्षमध्याः कोट्यन्ता होमजातयः ॥ २९-८३ ॥
विश्वास-प्रस्तुतिः - २९-८४
एको द्वौ बहवो वापि यथर्द्ध्या ऋत्विजः स्मृताः ।
एकस्मिन् वह्निकुण्डे चेज्जुहुयुः प्रागुदङ्मुखाः ॥ २९-८४ ॥
मूलम् - २९-८४
एको द्वौ बहवो वापि यथर्द्ध्या ऋत्विजः स्मृताः ।
एकस्मिन् वह्निकुण्डे चेज्जुहुयुः प्रागुदङ्मुखाः ॥ २९-८४ ॥
विश्वास-प्रस्तुतिः - २९-८५
वासुदेवालयोद्यानमन्दिरेषु शुभा क्रिया ।
अशुभा तु श्मशानादावथ कालविधिक्रमः ॥ २९-८५ ॥
मूलम् - २९-८५
वासुदेवालयोद्यानमन्दिरेषु शुभा क्रिया ।
अशुभा तु श्मशानादावथ कालविधिक्रमः ॥ २९-८५ ॥
विश्वास-प्रस्तुतिः - २९-८६
युक्षु कुर्याद् दिनर्क्षेषु शुभामन्यामथान्यथा ।
व्यस्तैरथ समस्तैर्वा यद्वा कामविकल्पितैः ॥ २९-८६ ॥
मूलम् - २९-८६
युक्षु कुर्याद् दिनर्क्षेषु शुभामन्यामथान्यथा ।
व्यस्तैरथ समस्तैर्वा यद्वा कामविकल्पितैः ॥ २९-८६ ॥
विश्वास-प्रस्तुतिः - २९-८७
समिदाज्यादिभिर्लक्षकोटिहोमादयः स्मृताः ।
एवमभ्यूह्य कुर्वीत मन्त्रेणेष्टस्य साधनम् ॥ २९-८७ ॥
मूलम् - २९-८७
समिदाज्यादिभिर्लक्षकोटिहोमादयः स्मृताः ।
एवमभ्यूह्य कुर्वीत मन्त्रेणेष्टस्य साधनम् ॥ २९-८७ ॥
विश्वास-प्रस्तुतिः - २९-८८
प्। २७१) अनुक्तमिव यत् किञ्चित् तान् स्वगृह्योक्तमाचरेत् ।
अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः ॥ २९-८८ ॥
मूलम् - २९-८८
प्। २७१) अनुक्तमिव यत् किञ्चित् तान् स्वगृह्योक्तमाचरेत् ।
अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः ॥ २९-८८ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
काम्याराधनविधिनिरूपणं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
आदितः श्लोकाः १७८४
अस्त्राणां जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
ब्राह्माद्यस्त्राणां देवपरिवारत्वकथन्ताप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३०-१
कथं ब्रह्मास्त्रमुख्यानां महतां शक्तिशालिनाम् ।
अस्त्राणामप्रमेयाणां देवस्य परिवारता ॥ ३०-१ ॥
मूलम् - ३०-१
कथं ब्रह्मास्त्रमुख्यानां महतां शक्तिशालिनाम् ।
अस्त्राणामप्रमेयाणां देवस्य परिवारता ॥ ३०-१ ॥
तेषां जन्मनामप्रश्नः
विश्वास-प्रस्तुतिः - ३०-२
कस्मादेतानि जातानि महास्त्राणि महेश्वर ।
अमीषां कानि नामानि तन्ममाचक्ष्व पृच्छतः ॥ ३०-२ ॥
मूलम् - ३०-२
कस्मादेतानि जातानि महास्त्राणि महेश्वर ।
अमीषां कानि नामानि तन्ममाचक्ष्व पृच्छतः ॥ ३०-२ ॥
तत्प्रतिवचनार्थमाख्यायिकारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ३०-३
पुरा नारायणो देवः स्वयमेव व्यवस्थितः ।
प्राक् सृष्टेर्न रतिं लेभे लीलोपकरणादृते ॥ ३०-३ ॥
मूलम् - ३०-३
पुरा नारायणो देवः स्वयमेव व्यवस्थितः ।
प्राक् सृष्टेर्न रतिं लेभे लीलोपकरणादृते ॥ ३०-३ ॥
लीलार्थं भगवतो बहुभवनम्
ततो लीलार्थमात्मानं बह्वकल्पयदीश्वरः ।
पुरुषाधिष्ठितप्रधानसृष्टिः
प्। २७३) अथ प्रधानमसृजत् पुरुषाधिष्ठितं स्वतः ॥ ३०-४ ॥
प्रधानान्महतः सृष्टिः
ततो महान्तमव्यक्ताज्जनयामास नारद ।
महतोऽहङ्कारसृष्टिः
गुणत्रयात्मकं तस्मादहङ्कारमतः परम् ॥ ३०-५ ॥
सात्त्विकाहङ्कारादेकादशेन्द्रियसृष्टिः
विश्वास-प्रस्तुतिः - ३०-६
इन्द्रियाणि दशैतानि ज्ञानकर्मात्मकानि वै ।
मनश्च सात्त्विकात् तस्मादहङ्कारादजीजनत् ॥ ३०-६ ॥
मूलम् - ३०-६
इन्द्रियाणि दशैतानि ज्ञानकर्मात्मकानि वै ।
मनश्च सात्त्विकात् तस्मादहङ्कारादजीजनत् ॥ ३०-६ ॥
तामसाहङ्कारात् भूतसूक्ष्माणां भूतानां च सृष्टिः
विश्वास-प्रस्तुतिः - ३०-७
भूतानि भूतसूक्ष्माणि दशैतानि महामुने ।
असृजत् तामसात् तस्मादहङ्काराज्जनार्दनः ॥ ३०-७ ॥
मूलम् - ३०-७
भूतानि भूतसूक्ष्माणि दशैतानि महामुने ।
असृजत् तामसात् तस्मादहङ्काराज्जनार्दनः ॥ ३०-७ ॥
सप्तावरणवेष्टिताण्डसृष्टिः
विश्वास-प्रस्तुतिः - ३०-८
महदादिविशेषान्तैरेतैरण्डमजीजनत् ।
दशोत्तरैरावरणै सप्तभिः परिवेष्टितम् ॥ ३०-८ ॥
मूलम् - ३०-८
महदादिविशेषान्तैरेतैरण्डमजीजनत् ।
दशोत्तरैरावरणै सप्तभिः परिवेष्टितम् ॥ ३०-८ ॥
अण्डे चतुर्मुखसृष्टिः
विश्वास-प्रस्तुतिः - ३०-९
तस्मिन्नण्डे स्वयं विष्णुः प्रजापतिमथाकरोत् ।
उच्चावचानां भूतानां कर्तारं निजशक्तिभिः ॥ ३०-९ ॥
मूलम् - ३०-९
तस्मिन्नण्डे स्वयं विष्णुः प्रजापतिमथाकरोत् ।
उच्चावचानां भूतानां कर्तारं निजशक्तिभिः ॥ ३०-९ ॥
भगवच्छक्तिभूतस्य कालस्य सृष्टौ सहकारित्वम्
विश्वास-प्रस्तुतिः - ३०-१०
हरिः स्वशक्तिरूपेण कालेन च समन्वितः ।
महदादिषु सृज्येषु सृष्टिं चक्रे जगन्मयः ॥ ३०-१० ॥
मूलम् - ३०-१०
हरिः स्वशक्तिरूपेण कालेन च समन्वितः ।
महदादिषु सृज्येषु सृष्टिं चक्रे जगन्मयः ॥ ३०-१० ॥
चतुर्मुखव्याजेन भगवत एव विचित्रजगत्स्रष्टृत्वम्
विश्वास-प्रस्तुतिः - ३०-११
विष्णुर्ब्रह्मापदेशेन चिदचिन्मिश्रितं जगत् ।
विचित्रं जनयामास तत्तच्छक्तिसमन्वितः ॥ ३०-११ ॥
मूलम् - ३०-११
विष्णुर्ब्रह्मापदेशेन चिदचिन्मिश्रितं जगत् ।
विचित्रं जनयामास तत्तच्छक्तिसमन्वितः ॥ ३०-११ ॥
वेदशब्देभ्य एव देवादीनां नामरूपव्याकरणम्
विश्वास-प्रस्तुतिः - ३०-१२
वेदानालोच्य भूतानां देवादीनां यमः प्रभुः ।
नामरूपे च विविधे यथापूर्वमकल्पयत् ॥ ३०-१२ ॥
मूलम् - ३०-१२
वेदानालोच्य भूतानां देवादीनां यमः प्रभुः ।
नामरूपे च विविधे यथापूर्वमकल्पयत् ॥ ३०-१२ ॥
आप्तकामस्यापि स्रष्टृत्वोपपतिः
विश्वास-प्रस्तुतिः - ३०-१३
सर्वदावाप्तसकलकामोऽपि परमेश्वरः ।
जन्तुभिर्निजसृष्टैश्च लीलारसमथान्वभूत् ॥ ३०-१३ ॥
मूलम् - ३०-१३
सर्वदावाप्तसकलकामोऽपि परमेश्वरः ।
जन्तुभिर्निजसृष्टैश्च लीलारसमथान्वभूत् ॥ ३०-१३ ॥
भगवत एव पालकत्वम्
विश्वास-प्रस्तुतिः - ३०-१४
अनालोच्यैव जगतां त्रातारमपरं हरिः ।
स्वयमेवांशरूपेण पालयत्यखिलं जगत् ॥ ३०-१४ ॥
मूलम् - ३०-१४
अनालोच्यैव जगतां त्रातारमपरं हरिः ।
स्वयमेवांशरूपेण पालयत्यखिलं जगत् ॥ ३०-१४ ॥
दुष्टनिरसनं विना पालनस्याशक्यत्वम्
विश्वास-प्रस्तुतिः - ३०-१५
दैतेयानां दानवानामन्तरेण निबर्हणम् ।
न शक्यते पालयितुं सदेवासुरमानवम् ॥ ३०-१५ ॥
मूलम् - ३०-१५
दैतेयानां दानवानामन्तरेण निबर्हणम् ।
न शक्यते पालयितुं सदेवासुरमानवम् ॥ ३०-१५ ॥
दुष्टनिबर्हणाय भगवत एव चक्रात्मनावस्थानम्
विश्वास-प्रस्तुतिः - ३०-१६
प्। २७५) अतश्च भगवान् विष्णुश्चक्ररूपी व्यवस्थितः ।
हन्यन्ते तेन चक्रेण विश्वे दैतेयदानवाः ॥ ३०-१६ ॥
मूलम् - ३०-१६
प्। २७५) अतश्च भगवान् विष्णुश्चक्ररूपी व्यवस्थितः ।
हन्यन्ते तेन चक्रेण विश्वे दैतेयदानवाः ॥ ३०-१६ ॥
देवादीनां सुदर्शनधारणासामर्थ्यम्
विश्वास-प्रस्तुतिः - ३०-१७
देवादीनां सुराणां च विशेषाच्च महीक्षिताम् ।
न शक्यते धारयितुं सुदर्शनमनुत्तमम् ॥ ३०-१७ ॥
मूलम् - ३०-१७
देवादीनां सुराणां च विशेषाच्च महीक्षिताम् ।
न शक्यते धारयितुं सुदर्शनमनुत्तमम् ॥ ३०-१७ ॥
शास्त्रास्त्ररूपेण तस्य विभागः
विश्वास-प्रस्तुतिः - ३०-१८
अतस्तेषां विभक्तानि विविधानि बहूनि च ।
अस्त्राणि शस्त्रजातानि शत्रुनाशाय नारद ॥ ३०-१८ ॥
मूलम् - ३०-१८
अतस्तेषां विभक्तानि विविधानि बहूनि च ।
अस्त्राणि शस्त्रजातानि शत्रुनाशाय नारद ॥ ३०-१८ ॥
भगवदात्मकात् सुदर्शनादस्त्राणामुत्पत्तिः
विश्वास-प्रस्तुतिः - ३०-१९
अस्त्राणि तानि निर्जग्मुर्विष्णुरूपात् सुदर्शनात् ।
अमोघानि ततोऽस्त्राणि भीषणानि महान्ति च ॥ ३०-१९ ॥
मूलम् - ३०-१९
अस्त्राणि तानि निर्जग्मुर्विष्णुरूपात् सुदर्शनात् ।
अमोघानि ततोऽस्त्राणि भीषणानि महान्ति च ॥ ३०-१९ ॥
विश्वास-प्रस्तुतिः - ३०-२०
प्रजाः स्रष्टुं मनश्चक्रे चक्ररूपी जगत्पतिः ।
स्रष्टुमस्त्राणि सर्वाणि स्वस्माद्रूपान्महामुने ॥ ३०-२० ॥
मूलम् - ३०-२०
प्रजाः स्रष्टुं मनश्चक्रे चक्ररूपी जगत्पतिः ।
स्रष्टुमस्त्राणि सर्वाणि स्वस्माद्रूपान्महामुने ॥ ३०-२० ॥
तस्माद्देवो भीममापद्य चोग्रं
रूपं पिङ्गं पिङ्गलावृत्तनेत्रम् ।
दंष्ट्रानिर्यत्पावकप्लुष्टकाष्ठं
भीमं केशैः पिङ्गलैर्विद्युदाभैः ॥ ३०-२१ ॥
तत्र मुखजातान्यस्त्राणि
विश्वास-प्रस्तुतिः - ३०-२२
नारायणं पाशुपतं ब्राह्ममस्त्रं तथैव च ।
प्। २७६) अस्त्रं ब्रह्मशिरो नाम विष्णुचक्रं च जृम्भणम् ॥ ३०-२२ ॥
मूलम् - ३०-२२
नारायणं पाशुपतं ब्राह्ममस्त्रं तथैव च ।
प्। २७६) अस्त्रं ब्रह्मशिरो नाम विष्णुचक्रं च जृम्भणम् ॥ ३०-२२ ॥
विश्वास-प्रस्तुतिः - ३०-२३
कालपाशमथाग्नेयमस्त्रं हयशिरस्तथा ।
प्रस्वापनं तापसं च कालास्त्रममितप्रभम् ॥ ३०-२३ ॥
मूलम् - ३०-२३
कालपाशमथाग्नेयमस्त्रं हयशिरस्तथा ।
प्रस्वापनं तापसं च कालास्त्रममितप्रभम् ॥ ३०-२३ ॥
विश्वास-प्रस्तुतिः - ३०-२४
दण्डचक्रं कालचक्रं धर्मचक्रं तथैव च ।
शैवं शूलं रौद्रमस्त्रं त्रिशूलं घोरमेव च ॥ ३०-२४ ॥
मूलम् - ३०-२४
दण्डचक्रं कालचक्रं धर्मचक्रं तथैव च ।
शैवं शूलं रौद्रमस्त्रं त्रिशूलं घोरमेव च ॥ ३०-२४ ॥
अस्त्राण्येतानि मुख्यानि मुखतो जज्ञिरे विभोः ।
वक्षोजातान्यस्त्राणि
सम्मोहनं तथैषीकमैन्द्रं चक्रं महाद्युति ॥ ३०-२५ ॥
विश्वास-प्रस्तुतिः - ३०-२६
अशनी द्वे च शुष्कार्द्रासञ्ज्ञिते सर्वभीषणे ।
पैनाकमस्त्रं कङ्कालं कापालमतिदारुणम् ॥ ३०-२६ ॥
मूलम् - ३०-२६
अशनी द्वे च शुष्कार्द्रासञ्ज्ञिते सर्वभीषणे ।
पैनाकमस्त्रं कङ्कालं कापालमतिदारुणम् ॥ ३०-२६ ॥
विश्वास-प्रस्तुतिः - ३०-२७
सौर्यं वारुणपाशं च सन्तापनमरिन्दमम् ।
अस्त्रं वारुणमत्युग्रं धर्मपाशं तथैव च ॥ ३०-२७ ॥
मूलम् - ३०-२७
सौर्यं वारुणपाशं च सन्तापनमरिन्दमम् ।
अस्त्रं वारुणमत्युग्रं धर्मपाशं तथैव च ॥ ३०-२७ ॥
एतान्यस्त्राणि देवस्य निर्जग्मुर्वक्षसस्तथा ।
ऊरुजातान्यस्त्राणि
शक्तिद्वयं च वायव्यमस्त्रं मौसलमेव च ॥ ३०-२८ ॥
विश्वास-प्रस्तुतिः - ३०-२९
गान्धर्वं दर्पणं चास्त्रं शोषणं परदारणम् ।
तेजःप्रभं च पैशाचमैन्द्रमस्त्रं सुदारुणम् ॥ ३०-२९ ॥
मूलम् - ३०-२९
गान्धर्वं दर्पणं चास्त्रं शोषणं परदारणम् ।
तेजःप्रभं च पैशाचमैन्द्रमस्त्रं सुदारुणम् ॥ ३०-२९ ॥
विश्वास-प्रस्तुतिः - ३०-३०
याम्यं विलापनं चास्त्रं वैद्याधरममित्रहम् ।
प्। २७७) कङ्कणीं मोदकीं चैव शिखरं क्रौञ्चमेव च ॥ ३०-३० ॥
मूलम् - ३०-३०
याम्यं विलापनं चास्त्रं वैद्याधरममित्रहम् ।
प्। २७७) कङ्कणीं मोदकीं चैव शिखरं क्रौञ्चमेव च ॥ ३०-३० ॥
एतानि जनयामास निजोर्वोरुरुविक्रमः ।
पादजातान्यस्त्राणि
असिरत्नं प्रशमनं कन्दर्पदयितं तथा ॥ ३०-३१ ॥
विश्वास-प्रस्तुतिः - ३०-३२
मदनं सौमनं चास्त्रं सत्यं संवर्तनं तथा ।
मायाधरं च सोमास्त्रं त्वाष्ट्रं शीतेषुमेव च ॥ ३०-३२ ॥
मूलम् - ३०-३२
मदनं सौमनं चास्त्रं सत्यं संवर्तनं तथा ।
मायाधरं च सोमास्त्रं त्वाष्ट्रं शीतेषुमेव च ॥ ३०-३२ ॥
भगास्त्रमस्त्राण्येतानि पद्भ्यां जातानि नारद ।
अपराङ्गजातान्युपसंहारास्त्राणि
सन्दामनं सत्यवन्तं धरणं धृष्टमेव च ॥ ३०-३३ ॥
विश्वास-प्रस्तुतिः - ३०-३४
भृशाश्वतनयं चैव सत्यकीर्तिं तथैव च ।
मोहनं रभसास्त्रं च सर्वनाहं पराङ्मुखम् ॥ ३०-३४ ॥
मूलम् - ३०-३४
भृशाश्वतनयं चैव सत्यकीर्तिं तथैव च ।
मोहनं रभसास्त्रं च सर्वनाहं पराङ्मुखम् ॥ ३०-३४ ॥
विश्वास-प्रस्तुतिः - ३०-३५
जृम्भकं प्रतिहारं च तथा वरणमुत्तमम् ।
अवाङ्मुखं धनं धान्यं वृषाक्षं कामरूपकम् ॥ ३०-३५
॥
मूलम् - ३०-३५
जृम्भकं प्रतिहारं च तथा वरणमुत्तमम् ।
अवाङ्मुखं धनं धान्यं वृषाक्षं कामरूपकम् ॥ ३०-३५
॥
विश्वास-प्रस्तुतिः - ३०-३६
दृढनाहं कामरुचिं सुनाभं मकरं तथा ।
दशाक्षं वृत्तिमन्तं च दशवक्त्रं तथापरम् ॥ ३०-३६ ॥
मूलम् - ३०-३६
दृढनाहं कामरुचिं सुनाभं मकरं तथा ।
दशाक्षं वृत्तिमन्तं च दशवक्त्रं तथापरम् ॥ ३०-३६ ॥
विश्वास-प्रस्तुतिः - ३०-३७
रुचिरं दशशीर्षं च योगन्धरममित्रहम् ।
अनिद्रं मकरं चैव भोक्तारं कङ्कणीं तथा ॥ ३०-३७ ॥
मूलम् - ३०-३७
रुचिरं दशशीर्षं च योगन्धरममित्रहम् ।
अनिद्रं मकरं चैव भोक्तारं कङ्कणीं तथा ॥ ३०-३७ ॥
विश्वास-प्रस्तुतिः - ३०-३८
प्। २७८) शतोदरं सौमनसं पद्मनाभं तथैव च ।
महानाभं प्रमथनं ज्यौतिषं क्रथनं तथा ॥ ३०-३८ ॥
मूलम् - ३०-३८
प्। २७८) शतोदरं सौमनसं पद्मनाभं तथैव च ।
महानाभं प्रमथनं ज्यौतिषं क्रथनं तथा ॥ ३०-३८ ॥
विश्वास-प्रस्तुतिः - ३०-३९
त्रैराशिं सार्चिमालिं च विमलां धृतिकां तथा ।
सृष्टिं तथा विषामास्त्रं सुध्याताहं तथैव च ॥ ३०-३९ ॥
मूलम् - ३०-३९
त्रैराशिं सार्चिमालिं च विमलां धृतिकां तथा ।
सृष्टिं तथा विषामास्त्रं सुध्याताहं तथैव च ॥ ३०-३९ ॥
विधूतं कृशनं चैव लक्षाक्षं कर्शनं तथा ।
विश्वास-प्रस्तुतिः - ३०-४०
उपसंहाररूपाणि सर्वाण्यस्त्राण्यमूनि वै ।
जनयामास देवोऽसौ स्वापराङ्गात् परन्तपः ॥ ३०-४० ॥
मूलम् - ३०-४०
उपसंहाररूपाणि सर्वाण्यस्त्राण्यमूनि वै ।
जनयामास देवोऽसौ स्वापराङ्गात् परन्तपः ॥ ३०-४० ॥
अध्यायार्थनिगमनम्
विश्वास-प्रस्तुतिः - ३०-४१
एवमुक्तानि नामानि जन्मान्यपि च नारद ।
अस्त्रानामपि माहात्म्यं यन्त्रस्यास्य समासतः ॥ ३०-४१ ॥
मूलम् - ३०-४१
एवमुक्तानि नामानि जन्मान्यपि च नारद ।
अस्त्रानामपि माहात्म्यं यन्त्रस्यास्य समासतः ॥ ३०-४१ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अस्त्राणां
जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः ॥ ३० ॥
आदितः श्लोकाः १८२५
योगाङ्गयमनियमासननिरूपणं नाम
एकत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
हृद्यागस्वरूपप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३१-१
प्रथमं बाह्ययागस्य हृदयाराधनं परम् ।
उक्तं त्वया तत्स्वरूपं यथावद्वक्तुमर्हसि ॥ ३१-१ ॥
मूलम् - ३१-१
प्रथमं बाह्ययागस्य हृदयाराधनं परम् ।
उक्तं त्वया तत्स्वरूपं यथावद्वक्तुमर्हसि ॥ ३१-१ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ३१-२
साधु पृष्टं त्वया तस्य स्वरूपं शृणु नारद ।
येन प्रीणाति भगवान् सर्वलोकनमस्कृतः ॥ ३१-२ ॥
मूलम् - ३१-२
साधु पृष्टं त्वया तस्य स्वरूपं शृणु नारद ।
येन प्रीणाति भगवान् सर्वलोकनमस्कृतः ॥ ३१-२ ॥
हृद्यागलक्षणम्
विश्वास-प्रस्तुतिः - ३१-३
यैर्बाह्ययागः क्रियते साधनैस्त्रिविधैरिह ।
सङ्कल्पसिद्धैस्तैरेव देवं प्रति समर्चनम् ॥ ३१-३ ॥
मूलम् - ३१-३
यैर्बाह्ययागः क्रियते साधनैस्त्रिविधैरिह ।
सङ्कल्पसिद्धैस्तैरेव देवं प्रति समर्चनम् ॥ ३१-३ ॥
हृदयाराधनं प्रोक्तमेतत् सर्वार्थसाधनम् ।
आत्मसमर्पणस्य हृद्यागतुल्यत्वम्
प्। २८०) यद्वा भगवते तस्मै स्वकीयात्मसमर्पणम् ॥ ३१-४ ॥
विश्वास-प्रस्तुतिः - ३१-५
वियुक्तं प्रकृतेः शुद्धं दद्यादात्महविः स्वयम् ।
विशिष्टदैवतायास्मै चक्ररूपाय मन्त्रतः ॥ ३१-५ ॥
मूलम् - ३१-५
वियुक्तं प्रकृतेः शुद्धं दद्यादात्महविः स्वयम् ।
विशिष्टदैवतायास्मै चक्ररूपाय मन्त्रतः ॥ ३१-५ ॥
प्रकृतिवियुक्तात्मस्वरूपविषयकः प्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३१-६
वियुक्तं प्रकृते रूपमात्मनो वक्तुमर्हसि ।
केनोपायेन तत्प्राप्तिस्तन्मे ब्रूहि सुनिश्चितम् ॥ ३१-६ ॥
मूलम् - ३१-६
वियुक्तं प्रकृते रूपमात्मनो वक्तुमर्हसि ।
केनोपायेन तत्प्राप्तिस्तन्मे ब्रूहि सुनिश्चितम् ॥ ३१-६ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ३१-७
शृणु तत् परमं सूक्ष्मं सर्वगं सर्वभृत् तथा ।
ज्ञानरूपमनाद्यन्तमविकारि निरामयम् ॥ ३१-७ ॥
मूलम् - ३१-७
शृणु तत् परमं सूक्ष्मं सर्वगं सर्वभृत् तथा ।
ज्ञानरूपमनाद्यन्तमविकारि निरामयम् ॥ ३१-७ ॥
विश्वास-प्रस्तुतिः - ३१-८
अचक्षुःश्रोत्रमस्पर्शमपाणिचरणं ध्रुवम् ।
नामजात्यादिरहितमवर्णमगुणं त्वपि ॥ ३१-८ ॥
मूलम् - ३१-८
अचक्षुःश्रोत्रमस्पर्शमपाणिचरणं ध्रुवम् ।
नामजात्यादिरहितमवर्णमगुणं त्वपि ॥ ३१-८ ॥
विश्वास-प्रस्तुतिः - ३१-९
विश्वश्रवो विश्वचक्षुर्विश्वपाणिपदं परम् ।
असक्तमचरं शान्तं स्वयञ्ज्योतिरनौपमम् ॥ ३१-९ ॥
मूलम् - ३१-९
विश्वश्रवो विश्वचक्षुर्विश्वपाणिपदं परम् ।
असक्तमचरं शान्तं स्वयञ्ज्योतिरनौपमम् ॥ ३१-९ ॥
विश्वास-प्रस्तुतिः - ३१-१०
दूरस्थमन्तिकचरं ज्ञानगम्यं निरञ्जनम् ।
प्। २८१) भूतभर्तृ समज्योतिर्ज्योतिषां तमसः परम् ॥ ३१-१० ॥
मूलम् - ३१-१०
दूरस्थमन्तिकचरं ज्ञानगम्यं निरञ्जनम् ।
प्। २८१) भूतभर्तृ समज्योतिर्ज्योतिषां तमसः परम् ॥ ३१-१० ॥
अक्षरं सर्वभूतस्थं तद्विष्णोः परमं पदम् ।
योगकर्मणोर्विविक्तात्मस्वरूपप्राप्तिसाधनता
तत्प्राप्तिसाधनं योगः कर्म च श्रुतिचोदितम् ॥ ३१-११ ॥
तद्विषयकः प्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३१-१२
कीदृशं कर्म विज्ञेयं योगः कीदृश उच्यते ।
याभ्यां सम्प्राप्यते चात्मा केवलं प्रकृतेः परः ॥ ३१-१२ ॥
मूलम् - ३१-१२
कीदृशं कर्म विज्ञेयं योगः कीदृश उच्यते ।
याभ्यां सम्प्राप्यते चात्मा केवलं प्रकृतेः परः ॥ ३१-१२ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः �
शृणुष्व प्रथमं कर्म द्विविधं तदिहोच्यते ।
कर्मणां द्वैविध्यम्
एकं प्रवर्तकं प्रोक्तं निवर्तकमथापरम् ॥ ३१-१३ ॥
प्रवर्तकनिवर्तककर्मणोः क्रमादभ्युदयनिश्रेयससाधनत्वम्
विश्वास-प्रस्तुतिः - ३१-१४
प्रवर्तकं च स्वर्गादिफलसाधनमुच्यते ।
निवर्तकाख्यं देवर्षे विज्ञेयं मोक्षसाधनम् ॥ ३१-१४ ॥
मूलम् - ३१-१४
प्रवर्तकं च स्वर्गादिफलसाधनमुच्यते ।
निवर्तकाख्यं देवर्षे विज्ञेयं मोक्षसाधनम् ॥ ३१-१४ ॥
जीवपरसंयोगस्याष्टाङ्गयोगशब्दार्थता
विश्वास-प्रस्तुतिः - ३१-१५
संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः ।
अष्टाङ्ग एष कथितो येनात्मा दृश्यतां गतः ॥ ३१-१५ ॥
मूलम् - ३१-१५
संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः ।
अष्टाङ्ग एष कथितो येनात्मा दृश्यतां गतः ॥ ३१-१५ ॥
योगाङ्गपरिगणनम्
विश्वास-प्रस्तुतिः - ३१-१६
प्। २८२) अष्टाङ्गान्यस्य वक्ष्यामि पृथक् तानि निशामय ।
यमश्च नियमश्चैवमासनं तदनन्तरम् ॥ ३१-१६ ॥
मूलम् - ३१-१६
प्। २८२) अष्टाङ्गान्यस्य वक्ष्यामि पृथक् तानि निशामय ।
यमश्च नियमश्चैवमासनं तदनन्तरम् ॥ ३१-१६ ॥
विश्वास-प्रस्तुतिः - ३१-१७
प्राणायामस्ततः प्रोक्तः प्रत्याहारश्च धारणा ।
ध्यानं तथा समाधिश्चाप्यङ्गान्येतानि नारद ॥ ३१-१७ ॥
मूलम् - ३१-१७
प्राणायामस्ततः प्रोक्तः प्रत्याहारश्च धारणा ।
ध्यानं तथा समाधिश्चाप्यङ्गान्येतानि नारद ॥ ३१-१७ ॥
यमस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - ३१-१८
सत्यं दया धृतिः शौचं ब्रह्मचर्यं क्षमार्जवम् ।
मिताहारस्तथास्तेयमहिंसेति यमा दश ॥ ३१-१८ ॥
मूलम् - ३१-१८
सत्यं दया धृतिः शौचं ब्रह्मचर्यं क्षमार्जवम् ।
मिताहारस्तथास्तेयमहिंसेति यमा दश ॥ ३१-१८ ॥
सत्यादीनां स्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - ३१-१९
हितरूपं वचः सत्यं यथादृष्टार्थगोचरम् ।
दया दुःखासहिष्णुत्वं सर्वभूतेषु सर्वदा ॥ ३१-१९ ॥
मूलम् - ३१-१९
हितरूपं वचः सत्यं यथादृष्टार्थगोचरम् ।
दया दुःखासहिष्णुत्वं सर्वभूतेषु सर्वदा ॥ ३१-१९ ॥
विश्वास-प्रस्तुतिः - ३१-२०
आपद्यपि स्वकार्येषु कर्तव्यत्वस्थितिर्धृतिः ।
शौचं सर्वेन्द्रियाणां च वैधकर्मसु योग्यता ॥ ३१-२० ॥
मूलम् - ३१-२०
आपद्यपि स्वकार्येषु कर्तव्यत्वस्थितिर्धृतिः ।
शौचं सर्वेन्द्रियाणां च वैधकर्मसु योग्यता ॥ ३१-२० ॥
विश्वास-प्रस्तुतिः - ३१-२१
ब्रह्मचर्यं स्वयोषित्सु भोग्यताबुद्धिवर्जनम् ।
अविकारमनस्त्वं तु क्षमा विकृतिहेतुषु ॥ ३१-२१ ॥
मूलम् - ३१-२१
ब्रह्मचर्यं स्वयोषित्सु भोग्यताबुद्धिवर्जनम् ।
अविकारमनस्त्वं तु क्षमा विकृतिहेतुषु ॥ ३१-२१ ॥
विश्वास-प्रस्तुतिः - ३१-२२
वाङ्मनःकायवृत्तीनामेकरूपत्वमार्जवम् ।
मिताहारस्त्वाश्रमिणां श्रुतिचोदितभोजनम् ॥ ३१-२२ ॥
मूलम् - ३१-२२
वाङ्मनःकायवृत्तीनामेकरूपत्वमार्जवम् ।
मिताहारस्त्वाश्रमिणां श्रुतिचोदितभोजनम् ॥ ३१-२२ ॥
विश्वास-प्रस्तुतिः - ३१-२३
अस्तेयमस्पृहान्येषां वित्ते वाक्कायमानसैः ।
अहिंसा वाङ्मनःकायैः परपीडानिवर्तनम् ॥ ३१-२३ ॥
मूलम् - ३१-२३
अस्तेयमस्पृहान्येषां वित्ते वाक्कायमानसैः ।
अहिंसा वाङ्मनःकायैः परपीडानिवर्तनम् ॥ ३१-२३ ॥
नियमस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - ३१-२४
सिद्धान्तश्रवणं दानं मतिरीश्वरपूजनम् ।
सन्तोषस्तप आस्तिक्यं ह्रीर्जपश्च तथा व्रतम् ॥ ३१-२४ ॥
मूलम् - ३१-२४
सिद्धान्तश्रवणं दानं मतिरीश्वरपूजनम् ।
सन्तोषस्तप आस्तिक्यं ह्रीर्जपश्च तथा व्रतम् ॥ ३१-२४ ॥
एते तु नियमाः प्रोक्ता दश योगस्य साधकाः ।
सिद्धान्तश्रवणादीनां स्वरूपनिरूपणम्
सिद्धान्तश्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः ॥ ३१-२५ ॥
विश्वास-प्रस्तुतिः - ३१-२६
दानं न्यायार्जितार्थस्य सत्पात्रे प्रतिपादनम् ।
विहिते कर्मणि श्रद्धा मतिरित्यभिधीयते ॥ ३१-२६ ॥
मूलम् - ३१-२६
दानं न्यायार्जितार्थस्य सत्पात्रे प्रतिपादनम् ।
विहिते कर्मणि श्रद्धा मतिरित्यभिधीयते ॥ ३१-२६ ॥
विश्वास-प्रस्तुतिः - ३१-२७
यथाशक्त्यर्चनं भक्त्या विष्णोरीश्वरपूजनम् ।
सन्तोषोऽलमनेनेति प्रीतिर्यादृच्छिकेन वै ॥ ३१-२७ ॥
मूलम् - ३१-२७
यथाशक्त्यर्चनं भक्त्या विष्णोरीश्वरपूजनम् ।
सन्तोषोऽलमनेनेति प्रीतिर्यादृच्छिकेन वै ॥ ३१-२७ ॥
विश्वास-प्रस्तुतिः - ३१-२८
कृच्छ्रचान्द्रायणाद्यैश्च तपो देहविशोषणम् ।
आस्तिक्यम्स्ति वेदैकगम्यं वस्त्विति निश्चयः ॥ ३१-२८ ॥
मूलम् - ३१-२८
कृच्छ्रचान्द्रायणाद्यैश्च तपो देहविशोषणम् ।
आस्तिक्यम्स्ति वेदैकगम्यं वस्त्विति निश्चयः ॥ ३१-२८ ॥
विश्वास-प्रस्तुतिः - ३१-२९
निषिद्धकर्मकरणे व्रीडा ह्रीः प्रोच्यते बुधैः ।
गुरूपदिष्टस्वाध्यायमन्त्राभ्यासो जपः स्मृतः ॥ ३१-२९ ॥
मूलम् - ३१-२९
निषिद्धकर्मकरणे व्रीडा ह्रीः प्रोच्यते बुधैः ।
गुरूपदिष्टस्वाध्यायमन्त्राभ्यासो जपः स्मृतः ॥ ३१-२९ ॥
सदाचार्योपदिष्टेषूपायत्वप्रग्रहो व्रतम् ।
अथासनानां स्वास्थ्यहेतुत्वम्
आसनानि प्रवक्ष्यामि मुख्यानि विविधानि च ॥ ३१-३० ॥
आस्थायैषामन्यतमं योगिनो यान्ति निर्वृतिम् ।
प्। २८४) मुख्यासनपरिगणनम्
चक्रं पद्मासनं कूर्मं मायूरं कौक्कुटं तथा ॥ ३१-३१ ॥
विश्वास-प्रस्तुतिः - ३१-३२
वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा ।
मुक्तासनं गोमुखं च मुख्यान्येतानि नारद ॥ ३१-३२ ॥
मूलम् - ३१-३२
वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा ।
मुक्तासनं गोमुखं च मुख्यान्येतानि नारद ॥ ३१-३२ ॥
चक्रासनम्
विश्वास-प्रस्तुतिः - ३१-३३
सव्योरुं दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे ।
निदध्यादृजुकायस्तु चक्रासनमिदं परम् ॥ ३१-३३ ॥
मूलम् - ३१-३३
सव्योरुं दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे ।
निदध्यादृजुकायस्तु चक्रासनमिदं परम् ॥ ३१-३३ ॥
पद्मासनम्
विश्वास-प्रस्तुतिः - ३१-३४
ऊर्वोरुपरि संस्थाप्य उभे पादतले सुखम् ।
पद्मासनमिदं प्रोक्तं सर्वकिल्बिषनाशनम् ॥ ३१-३४ ॥
मूलम् - ३१-३४
ऊर्वोरुपरि संस्थाप्य उभे पादतले सुखम् ।
पद्मासनमिदं प्रोक्तं सर्वकिल्बिषनाशनम् ॥ ३१-३४ ॥
कूर्मासनम्
विश्वास-प्रस्तुतिः - ३१-३५
गुदं निपीड्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
एतत् कूर्मासनं प्रोक्तं योगसिद्धिकरं परम् ॥ ३१-३५ ॥
मूलम् - ३१-३५
गुदं निपीड्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
एतत् कूर्मासनं प्रोक्तं योगसिद्धिकरं परम् ॥ ३१-३५ ॥
मयूरासनम्
विश्वास-प्रस्तुतिः - ३१-३६
निवेश्य कूर्परौ सम्यङ् नाभिमण्डलपार्श्वयोः ।
अवष्टभ्य भुवं पाणितलाभ्यां व्योम्नि दण्डवत् ॥ ३१-३६ ॥
मूलम् - ३१-३६
निवेश्य कूर्परौ सम्यङ् नाभिमण्डलपार्श्वयोः ।
अवष्टभ्य भुवं पाणितलाभ्यां व्योम्नि दण्डवत् ॥ ३१-३६ ॥
विश्वास-प्रस्तुतिः - ३१-३७
समोन्नतशिरःपादो मायूरासनमिष्यते ।
एतत् सर्वविषघ्नं च सर्वव्याधिनिवारणम् ॥ ३१-३७ ॥
मूलम् - ३१-३७
समोन्नतशिरःपादो मायूरासनमिष्यते ।
एतत् सर्वविषघ्नं च सर्वव्याधिनिवारणम् ॥ ३१-३७ ॥
कुक्कुटासनम्
विश्वास-प्रस्तुतिः - ३१-३८
प्। २८५) पद्मासनमधिष्ठाय जान्वन्तरविनिःसृतौ ।
करौ भूमौ निवेश्यैतद्व्योमस्थं कुक्कुटासनम् ॥ ३१-३८ ॥
मूलम् - ३१-३८
प्। २८५) पद्मासनमधिष्ठाय जान्वन्तरविनिःसृतौ ।
करौ भूमौ निवेश्यैतद्व्योमस्थं कुक्कुटासनम् ॥ ३१-३८ ॥
वीरासनम्
विश्वास-प्रस्तुतिः - ३१-३९
एकत्रोरौ तु संस्थाप्य पादमेकमथेतरम् ।
ऊरुं पादे निवेश्यैतद्वीरासनमुदाहृतम् ॥ ३१-३९ ॥
मूलम् - ३१-३९
एकत्रोरौ तु संस्थाप्य पादमेकमथेतरम् ।
ऊरुं पादे निवेश्यैतद्वीरासनमुदाहृतम् ॥ ३१-३९ ॥
स्वस्तिकासनम्
विश्वास-प्रस्तुतिः - ३१-४०
उभे पादतले कृत्वा जानूर्वोरन्तरे दृढम् ।
ऋजुकायः समासीत स्वस्तिकं तत् प्रचक्षते ॥ ३१-४० ॥
मूलम् - ३१-४०
उभे पादतले कृत्वा जानूर्वोरन्तरे दृढम् ।
ऋजुकायः समासीत स्वस्तिकं तत् प्रचक्षते ॥ ३१-४० ॥
भद्रासनम्
विश्वास-प्रस्तुतिः - ३१-४१
सीवन्याः पार्श्वयोर्गुल्फौ निवेश्याग्रपदे दृढम् ।
बद्ध्वा कराभ्यां तत् प्रोक्तं भद्रासनमघापहम् ॥ ३१-४१ ॥
मूलम् - ३१-४१
सीवन्याः पार्श्वयोर्गुल्फौ निवेश्याग्रपदे दृढम् ।
बद्ध्वा कराभ्यां तत् प्रोक्तं भद्रासनमघापहम् ॥ ३१-४१ ॥
सिंहासनम्
विश्वास-प्रस्तुतिः - ३१-४२
सीवन्याः पार्श्वयोर्गुल्फौ व्युत्क्रमेण निवेश्य च ।
करौ जान्वोर्निधायोभौ प्रसार्य निखिलाङ्गुलीः ॥ ३१-४२ ॥
मूलम् - ३१-४२
सीवन्याः पार्श्वयोर्गुल्फौ व्युत्क्रमेण निवेश्य च ।
करौ जान्वोर्निधायोभौ प्रसार्य निखिलाङ्गुलीः ॥ ३१-४२ ॥
विश्वास-प्रस्तुतिः - ३१-४३
नासाग्रन्यस्तनयनो व्यात्तवक्त्र ऋजुः सुधीः ।
एतत् सिंहासनं प्रोक्तं सर्वदेवाभिपूजितम् ॥ ३१-४३ ॥
मूलम् - ३१-४३
नासाग्रन्यस्तनयनो व्यात्तवक्त्र ऋजुः सुधीः ।
एतत् सिंहासनं प्रोक्तं सर्वदेवाभिपूजितम् ॥ ३१-४३ ॥
मुक्तासनम्
विश्वास-प्रस्तुतिः - ३१-४४
प्। २८६) मेढ्रादुपरि विन्यस्य सव्यगुल्फमिहेतरम् ।
गुल्फं विन्यस्य पाणी चाप्यङ्गमध्ये निवेश्य च ॥ ३१-४४ ॥
मूलम् - ३१-४४
प्। २८६) मेढ्रादुपरि विन्यस्य सव्यगुल्फमिहेतरम् ।
गुल्फं विन्यस्य पाणी चाप्यङ्गमध्ये निवेश्य च ॥ ३१-४४ ॥
मुक्तासनमिदं प्रोक्तं स्थिता यत्र मुमुक्षवः ।
गोमुखासनम्
उभयोर्गुल्फयोः कृत्वा पृष्ठपार्श्वावुभावपि ॥ ३१-४५ ॥
विश्वास-प्रस्तुतिः - ३१-४६
व्युत्क्रमेणाथ पानिभ्यां विन्यस्ताभ्यां विगृह्य च ।
पृष्ठगाभ्यां पदाङ्गुष्ठावेतद् गोमुखमुच्यते ॥ ३१-४६ ॥
मूलम् - ३१-४६
व्युत्क्रमेणाथ पानिभ्यां विन्यस्ताभ्यां विगृह्य च ।
पृष्ठगाभ्यां पदाङ्गुष्ठावेतद् गोमुखमुच्यते ॥ ३१-४६ ॥
प्राणायामसिद्धये नाडीशुद्ध्यावश्यकता
विश्वास-प्रस्तुतिः - ३१-४७
प्राणायामप्रसिद्ध्यर्थं नाडीशुद्धिमनन्तरम् ।
देहस्थवायुभिः कुर्यात् साग्निभिश्च तपोधन ॥ ३१-४७ ॥
मूलम् - ३१-४७
प्राणायामप्रसिद्ध्यर्थं नाडीशुद्धिमनन्तरम् ।
देहस्थवायुभिः कुर्यात् साग्निभिश्च तपोधन ॥ ३१-४७ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
योगाङ्गयमनियमासननिरूपणं
नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
आदितः श्लोकाः १८७२
नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं
नाम द्वात्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
नाडीसङ्ख्यास्थानादिप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३२-१
नाडयः कति तिष्ठन्ति कीदृश्यः किम्प्रमाणकाः ।
क्व वर्तन्ते शरीरेऽस्मिन् कथमासां विशोधनम् ॥ ३२-१ ॥
मूलम् - ३२-१
नाडयः कति तिष्ठन्ति कीदृश्यः किम्प्रमाणकाः ।
क्व वर्तन्ते शरीरेऽस्मिन् कथमासां विशोधनम् ॥ ३२-१ ॥
वायुसङ्ख्यादिप्रश्नः
विश्वास-प्रस्तुतिः - ३२-२
वायवः कति तिष्ठन्ति किन्नामानश्च कीदृशाः ।
कानि कर्माण्यमीषां तु तत् सर्वं वक्तुमर्हसि ॥ ३२-२ ॥
मूलम् - ३२-२
वायवः कति तिष्ठन्ति किन्नामानश्च कीदृशाः ।
कानि कर्माण्यमीषां तु तत् सर्वं वक्तुमर्हसि ॥ ३२-२ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः �
तदेतत् परमं गुह्यं शृणुष्वानन्यमानसः ।
शरीरस्य षण्णवत्यङ्गुलपरिमाणत्वम्
प्। २८८) शरीरं सर्वजन्तूनामङ्गुलीभिरनामयम् ॥ ३२-३ ॥
स्वाभिः स्वाभिः सुरमुने षण्णवत्यङ्गुलात्मकम् ।
शरीरमध्यभागनिर्णयः
शरीरमध्यः क इति शुश्रूषा चेन्महामुने ॥ ३२-४ ॥
विश्वास-प्रस्तुतिः - ३२-५
श्रूयतां पायुदेशात्तु द्व्यङ्गुलात् परतः परम् ।
मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्य उच्यते ॥ ३२-५ ॥
मूलम् - ३२-५
श्रूयतां पायुदेशात्तु द्व्यङ्गुलात् परतः परम् ।
मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्य उच्यते ॥ ३२-५ ॥
शरीरस्थवह्निमण्डलस्वरूपम्
विश्वास-प्रस्तुतिः - ३२-६
चतुष्कोणं त्रिकोणं तद् वृत्तमाग्नेयमण्डलम् ।
चतुष्पदां नृणां चैव विहङ्गानां यथाक्रमम् ॥ ३२-६ ॥
मूलम् - ३२-६
चतुष्कोणं त्रिकोणं तद् वृत्तमाग्नेयमण्डलम् ।
चतुष्पदां नृणां चैव विहङ्गानां यथाक्रमम् ॥ ३२-६ ॥
नाडीमूलस्थानम्
विश्वास-प्रस्तुतिः - ३२-७
मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां कन्द उच्यते ।
चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ॥ ३२-७ ॥
मूलम् - ३२-७
मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां कन्द उच्यते ।
चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ॥ ३२-७ ॥
अण्डाकारं परिवृतं मेदोमांसास्थिशोणितैः ।
नाभिचक्रस्थानम्
तत्रैव नाभिचक्रं तु द्वादशारं प्रतिष्ठितम् ॥ ३२-८ ॥
शरीरं ध्रियते येन तस्मिन् वसति कुण्डली ।
नाभिचक्रस्यारेषु सुदर्शनमन्त्रवर्णन्यासः
सौदर्शनस्य मन्त्रस्य यानि वर्णानि सन्ति वै ॥ ३२-९ ॥
विश्वास-प्रस्तुतिः - ३२-१०
प्। २८९) विभज्य तानि सर्वाणि व्यञ्जनानि स्वरांस्तथा ।
चक्रेऽस्मिन् विन्यसेत् तानि प्राच्याद्यारेषु च क्रमात् ॥ ३२-१० ॥
मूलम् - ३२-१०
प्। २८९) विभज्य तानि सर्वाणि व्यञ्जनानि स्वरांस्तथा ।
चक्रेऽस्मिन् विन्यसेत् तानि प्राच्याद्यारेषु च क्रमात् ॥ ३२-१० ॥
शिष्टाक्षराणां चक्रमध्ये न्यासः
शेषाणि विन्यसेन्मध्ये चक्रस्यास्य समाहितः ।
नाभिचक्रं परितः कुण्डल्यवस्थितिः
वर्तते परितश्चक्रमष्टवक्त्राथ कुण्डली ॥ ३२-११ ॥
विश्वास-प्रस्तुतिः - ३२-१२
अष्टप्रकृतिरूपेण भोगेनावेष्ट्य वैष्णवी ।
ब्रह्मरन्ध्रं सुषुम्नायाः पिदधाति मुखेन वै ॥ ३२-१२ ॥
मूलम् - ३२-१२
अष्टप्रकृतिरूपेण भोगेनावेष्ट्य वैष्णवी ।
ब्रह्मरन्ध्रं सुषुम्नायाः पिदधाति मुखेन वै ॥ ३२-१२ ॥
चक्रमध्ये अलम्बुसासुषुम्नयोः स्थितिः
अलम्बुसा सुषुम्ना च मध्ये चक्रस्य तिष्ठतः ।
अन्यासां द्वादशनाडीनां स्थानभेदाः
अरे प्राच्ये सुषुम्नायाः कुहूर्नाडी वसत्यसौ ॥ ३२-१३ ॥
विश्वास-प्रस्तुतिः - ३२-१४
अनन्तरारयुग्मे च वारुणा च यशस्विनी ।
दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् ॥ ३२-१४ ॥
मूलम् - ३२-१४
अनन्तरारयुग्मे च वारुणा च यशस्विनी ।
दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् ॥ ३२-१४ ॥
विश्वास-प्रस्तुतिः - ३२-१५
तदनन्तरयोः पूषा वर्तते च पयस्विनी ।
सुषुम्नापश्चिमे चारे स्थिता नाडी सरस्वती ॥ ३२-१५ ॥
मूलम् - ३२-१५
तदनन्तरयोः पूषा वर्तते च पयस्विनी ।
सुषुम्नापश्चिमे चारे स्थिता नाडी सरस्वती ॥ ३२-१५ ॥
विश्वास-प्रस्तुतिः - ३२-१६
शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते ।
प्। २९०) उत्तरे च सुषुम्नाया इडाख्या निवसत्यरे ॥ ३२-१६ ॥
मूलम् - ३२-१६
शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते ।
प्। २९०) उत्तरे च सुषुम्नाया इडाख्या निवसत्यरे ॥ ३२-१६ ॥
विश्वास-प्रस्तुतिः - ३२-१७
अनन्तरं हस्तिजिह्वा ततो विश्वोदरा स्थिता ।
प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥ ३२-१७ ॥
मूलम् - ३२-१७
अनन्तरं हस्तिजिह्वा ततो विश्वोदरा स्थिता ।
प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥ ३२-१७ ॥
वर्तन्ते द्वादशस्वेता द्वादश ब्रह्मणः सुताः ।
मुख्यानां चतुर्दशनाडीनां नामानि
इडा च पिङ्गला चैव सुषुम्ना च सरस्वती ॥ ३२-१८ ॥
विश्वास-प्रस्तुतिः - ३२-१९
कुहूः पयस्विनी चैव वारुणा च यशस्विनी ।
विश्वोदरा हस्तिजिह्वा गान्धारी शङ्खिनी तथा ॥ ३२-१९ ॥
मूलम् - ३२-१९
कुहूः पयस्विनी चैव वारुणा च यशस्विनी ।
विश्वोदरा हस्तिजिह्वा गान्धारी शङ्खिनी तथा ॥ ३२-१९ ॥
अलम्बुसा च पूषा च मुख्यास्त्वेताश्चतुर्दश ।
देहवर्तिनाडीसङ्ख्या
द्विसप्ततिसहस्राणि नाडीनां देहवर्तिनाम् ॥ ३२-२० ॥
मुख्यास्तिस्रो नाड्यः
तासु तिस्रो मुख्यतमाः सुषुम्नेडा च पिङ्गला ।
तास्वपि सुषुम्ना मुख्यतमा
तासां सुषुम्ना मुख्या स्यादामूर्धान्तं व्यवस्थिता ॥ ३२-२१ ॥
जीवस्य नाडीचक्रे भ्रमणम्
विश्वास-प्रस्तुतिः - ३२-२२
प्राणारूढो भवेज्जीवश्चक्रेऽस्मिन् भ्रमते सदा ।
ऊर्णनाभिर्यथा तन्तुपञ्जरान्तर्व्यवस्थितः ॥ ३२-२२ ॥
मूलम् - ३२-२२
प्राणारूढो भवेज्जीवश्चक्रेऽस्मिन् भ्रमते सदा ।
ऊर्णनाभिर्यथा तन्तुपञ्जरान्तर्व्यवस्थितः ॥ ३२-२२ ॥
सुषुम्नाया मध्यमरन्ध्रस्य कुण्डल्या पिधानम्
विश्वास-प्रस्तुतिः - ३२-२३
प्। २९१) पञ्चरन्ध्र्याः सुषुम्नायाश्चत्वारो रक्तपूरिताः ।
कुण्डल्या पिहितं शश्वद् ब्रह्मरन्ध्रं तु मध्यमम् ॥ ३२-२३ ॥
मूलम् - ३२-२३
प्। २९१) पञ्चरन्ध्र्याः सुषुम्नायाश्चत्वारो रक्तपूरिताः ।
कुण्डल्या पिहितं शश्वद् ब्रह्मरन्ध्रं तु मध्यमम् ॥ ३२-२३ ॥
नाडीनां परिमाणनिरूपणम्
विश्वास-प्रस्तुतिः - ३२-२४
प्राच्यः पार्श्वः सुषुम्नाया ललाटान्तं समुच्छ्रितः ।
प्रतीच्यः कन्धरान्तस्तु द्वौ पार्श्वौ सव्यदक्षिणौ ॥ ३२-२४ ॥
मूलम् - ३२-२४
प्राच्यः पार्श्वः सुषुम्नाया ललाटान्तं समुच्छ्रितः ।
प्रतीच्यः कन्धरान्तस्तु द्वौ पार्श्वौ सव्यदक्षिणौ ॥ ३२-२४ ॥
विश्वास-प्रस्तुतिः - ३२-२५
आ पार्श्वशिरसः प्राप्तौ गुह्यमेतदुदाहृतम् ।
अलम्बुसाख्या नाडी स्यादापादान्तं व्यवस्थिता ॥ ३२-२५ ॥
मूलम् - ३२-२५
आ पार्श्वशिरसः प्राप्तौ गुह्यमेतदुदाहृतम् ।
अलम्बुसाख्या नाडी स्यादापादान्तं व्यवस्थिता ॥ ३२-२५ ॥
विश्वास-प्रस्तुतिः - ३२-२६
आमेढ्रान्तं कुहूः प्राप्ता वारुणा विश्वदेहगा ।
आदक्षिणपदाङ्गुष्ठं सम्प्राप्ताथ यशस्विनी ॥ ३२-२६ ॥
मूलम् - ३२-२६
आमेढ्रान्तं कुहूः प्राप्ता वारुणा विश्वदेहगा ।
आदक्षिणपदाङ्गुष्ठं सम्प्राप्ताथ यशस्विनी ॥ ३२-२६ ॥
विश्वास-प्रस्तुतिः - ३२-२७
प्राप्ता दक्षिणनासान्तं पिङ्गलाख्या तु नाडिका ।
पूषा पयस्विनी चैव दक्षिणाक्षिश्रुती गते ॥ ३२-२७ ॥
मूलम् - ३२-२७
प्राप्ता दक्षिणनासान्तं पिङ्गलाख्या तु नाडिका ।
पूषा पयस्विनी चैव दक्षिणाक्षिश्रुती गते ॥ ३२-२७ ॥
विश्वास-प्रस्तुतिः - ३२-२८
जिह्वामूलमभिप्राप्ता नाडी नाम्ना सरस्वती ।
शङ्खिनी वामकर्णं च गान्धारी वामलोचनम् ॥ ३२-२८ ॥
मूलम् - ३२-२८
जिह्वामूलमभिप्राप्ता नाडी नाम्ना सरस्वती ।
शङ्खिनी वामकर्णं च गान्धारी वामलोचनम् ॥ ३२-२८ ॥
विश्वास-प्रस्तुतिः - ३२-२९
वामघ्राणं गता नाडी इडा नाम्नेति विश्रुता ।
प्राप्ता वामपदाङ्गुष्ठं हस्तिजिह्वा तु नाडिका ॥ ३२-२९ ॥
मूलम् - ३२-२९
वामघ्राणं गता नाडी इडा नाम्नेति विश्रुता ।
प्राप्ता वामपदाङ्गुष्ठं हस्तिजिह्वा तु नाडिका ॥ ३२-२९ ॥
विश्वोदरोदरं प्राप्ता प्रोक्ता नाडीगतिर्मया ।
इडापिङ्गलयोश्चन्द्रसूर्यावस्थितिः
इडायां वर्तते चन्द्रः पिङ्गलायां प्रभाकरः ॥ ३२-३० ॥
प्। २९२) द्वावेव कुरुतः कालं भुङ्क्ते तं ब्रह्मनाडिका ।
शरीरवायुवृत्तान्तकथनम्
श्रूयतां वायुवृत्तान्तः शरीरान्तरवस्थितः ॥ ३२-३१ ॥
शरीरे दश वायवः
विश्वास-प्रस्तुतिः - ३२-३२
प्राणापानसमानाश्चाप्युदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ३२-३२ ॥
मूलम् - ३२-३२
प्राणापानसमानाश्चाप्युदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ३२-३२ ॥
प्राणादिवायूनां स्थाननिरूपणम्
विश्वास-प्रस्तुतिः - ३२-३३
सदा निवसति प्राणो नाभिचक्रे समीरणः ।
आस्यनासिकयोर्मध्ये हृदि प्राणः प्रकाशते ॥ ३२-३३ ॥
मूलम् - ३२-३३
सदा निवसति प्राणो नाभिचक्रे समीरणः ।
आस्यनासिकयोर्मध्ये हृदि प्राणः प्रकाशते ॥ ३२-३३ ॥
विश्वास-प्रस्तुतिः - ३२-३४
अपानो वसति प्रायो गुदमेढ्रोरुजानुषु ।
उदरे वृषणे कट्यां जङ्घानाभ्योः प्रदीपवत् ॥ ३२-३४ ॥
मूलम् - ३२-३४
अपानो वसति प्रायो गुदमेढ्रोरुजानुषु ।
उदरे वृषणे कट्यां जङ्घानाभ्योः प्रदीपवत् ॥ ३२-३४ ॥
विश्वास-प्रस्तुतिः - ३२-३५
गुदाग्न्यगारयोस्तिष्ठन् मध्येऽपानः प्रकाशते ।
व्यानः श्रोत्राक्षिमध्ये च कृकाट्यां गुल्फयोरपि ॥ ३२-३५ ॥
मूलम् - ३२-३५
गुदाग्न्यगारयोस्तिष्ठन् मध्येऽपानः प्रकाशते ।
व्यानः श्रोत्राक्षिमध्ये च कृकाट्यां गुल्फयोरपि ॥ ३२-३५ ॥
विश्वास-प्रस्तुतिः - ३२-३६
घ्राणे गले च स्फिग्देशे वसत्यत्र न संशयः ।
उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि ॥ ३२-३६ ॥
मूलम् - ३२-३६
घ्राणे गले च स्फिग्देशे वसत्यत्र न संशयः ।
उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि ॥ ३२-३६ ॥
समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः ।
प्राणादीनां वृत्तिनिरूपणम्
निश्वासोच्छ्वासकादीनि प्राणकर्म इतीष्यते ॥ ३२-३७ ॥
विश्वास-प्रस्तुतिः - ३२-३८
प्। २९३) हानोपादानकर्मैव व्यानकर्मेति चेष्यते ।
उदानकर्म तत् प्रोक्तं देहस्योन्नयनादिकम् ॥ ३२-३८ ॥
मूलम् - ३२-३८
प्। २९३) हानोपादानकर्मैव व्यानकर्मेति चेष्यते ।
उदानकर्म तत् प्रोक्तं देहस्योन्नयनादिकम् ॥ ३२-३८ ॥
विश्वास-प्रस्तुतिः - ३२-३९
पोषणादि समानस्य शरीरे कर्म कीर्तितम् ।
उद्गारादिगुणो यस्तु नागकर्मेति चेरितम् ॥ ३२-३९ ॥
मूलम् - ३२-३९
पोषणादि समानस्य शरीरे कर्म कीर्तितम् ।
उद्गारादिगुणो यस्तु नागकर्मेति चेरितम् ॥ ३२-३९ ॥
विश्वास-प्रस्तुतिः - ३२-४०
निमीलनादि कूर्मस्य क्षुतं कृकरकस्य च ।
देवदत्तस्य देवर्षे तन्द्रीकर्मेति चेरितम् ॥ ३२-४० ॥
मूलम् - ३२-४०
निमीलनादि कूर्मस्य क्षुतं कृकरकस्य च ।
देवदत्तस्य देवर्षे तन्द्रीकर्मेति चेरितम् ॥ ३२-४० ॥
विश्वास-प्रस्तुतिः - ३२-४१
धनञ्जयस्य शोफादि सर्वकर्म प्रकीर्तितम् ।
एवं वायुगतिः सर्वा कर्म तेषां च कीर्तितम् ॥ ३२-४१ ॥
मूलम् - ३२-४१
धनञ्जयस्य शोफादि सर्वकर्म प्रकीर्तितम् ।
एवं वायुगतिः सर्वा कर्म तेषां च कीर्तितम् ॥ ३२-४१ ॥
नाडीशोधनविधिः
ततश्च सर्वनाडीनां कुर्याच्छोधनमात्मवान् ।
तच्छोधनप्रकारः
इडया वायुमापूर्य बाह्यं षोडशमात्रकैः ॥ ३२-४२ ॥
विश्वास-प्रस्तुतिः - ३२-४३
धारयन्नुदरे वायुं मात्रा द्वात्रिंशतं ततः ।
स्मरेत् स्वमण्डले वह्निं तत्र रेफं सबिन्दुकम् ॥ ३२-४३ ॥
मूलम् - ३२-४३
धारयन्नुदरे वायुं मात्रा द्वात्रिंशतं ततः ।
स्मरेत् स्वमण्डले वह्निं तत्र रेफं सबिन्दुकम् ॥ ३२-४३ ॥
विश्वास-प्रस्तुतिः - ३२-४४
नासाग्रे शशिनो बिम्बं स्मरेत् पीयूषवर्षिणम् ।
स्मृत्वा चन्द्रे वकारं च सबिन्दुं रेचयेत् ततः ॥ ३२-४४ ॥
मूलम् - ३२-४४
नासाग्रे शशिनो बिम्बं स्मरेत् पीयूषवर्षिणम् ।
स्मृत्वा चन्द्रे वकारं च सबिन्दुं रेचयेत् ततः ॥ ३२-४४ ॥
विश्वास-प्रस्तुतिः - ३२-४५
पुनः पिङ्गलयापूर्य यथोक्तेनैव वर्त्मना ।
धृत्वा च मातरिश्वानमिडया रेचयेत् पुनः ॥ ३२-४५ ॥
मूलम् - ३२-४५
पुनः पिङ्गलयापूर्य यथोक्तेनैव वर्त्मना ।
धृत्वा च मातरिश्वानमिडया रेचयेत् पुनः ॥ ३२-४५ ॥
एवं त्रिसन्ध्यां त्रिः कृत्वा कुर्यान्नित्यं समाहितः ।
उक्तक्रमेण शोधयतो मासत्रयेण नाडीशुद्धिसिद्धिः
प्। २९४) एवं नियमयुक्तस्य कुर्वतः सर्वनाडयः ॥ ३२-४६ ॥
मासत्रयेण शुद्धाः स्युरिति योगविदो विदुः ।
ततो वायुजयः
ततश्च मरुतां कुर्युर्विजयं देहवर्तिनाम् ॥ ३२-४७ ॥
वायुजयान्मनसः स्थैर्यम्
विश्वास-प्रस्तुतिः - ३२-४८
ततश्च वायवो देहे यत्र यत्र वसन्ति वै ।
तत्र तत्र मनःस्थैर्यं वह्निना सह नारद ॥ ३२-४८ ॥
मूलम् - ३२-४८
ततश्च वायवो देहे यत्र यत्र वसन्ति वै ।
तत्र तत्र मनःस्थैर्यं वह्निना सह नारद ॥ ३२-४८ ॥
प्राणायामविधिः
प्राणायामं ततः कुर्यात् सर्वपापप्रणाशनम् ।
शिखादिस्थानेषु मनोः षडक्षरन्यासः
शिखास्थाने नाभिचक्रे हृदयाम्बुरुहे ततः ॥ ३२-४९ ॥
विश्वास-प्रस्तुतिः - ३२-५०
कण्ठकूपे भ्रुवोर्मध्ये जिह्वामूले तथैव च ।
मनोः षडक्षराण्येषु क्रमेणैव विचिन्तयेत् ॥ ३२-५० ॥
मूलम् - ३२-५०
कण्ठकूपे भ्रुवोर्मध्ये जिह्वामूले तथैव च ।
मनोः षडक्षराण्येषु क्रमेणैव विचिन्तयेत् ॥ ३२-५० ॥
प्राणायामप्रकारः
विश्वास-प्रस्तुतिः - ३२-५१
वायुं षोडशमात्राभिरिडयापूर्य चिन्तयेत् ।
हृन्मध्ये परमात्मानं चक्ररूपिणमव्ययम् ॥ ३२-५१ ॥
मूलम् - ३२-५१
वायुं षोडशमात्राभिरिडयापूर्य चिन्तयेत् ।
हृन्मध्ये परमात्मानं चक्ररूपिणमव्ययम् ॥ ३२-५१ ॥
विश्वास-प्रस्तुतिः - ३२-५२
प्। २९५) यावच्छक्ति जपेन्मन्त्रमिमं सौदर्शनं स्मरन् ।
पुनः षोडशमात्राभी रेचयेत् पिङ्गलाह्वया ॥ ३२-५२ ॥
मूलम् - ३२-५२
प्। २९५) यावच्छक्ति जपेन्मन्त्रमिमं सौदर्शनं स्मरन् ।
पुनः षोडशमात्राभी रेचयेत् पिङ्गलाह्वया ॥ ३२-५२ ॥
विश्वास-प्रस्तुतिः - ३२-५३
अनया पुनरारोप्य धृत्वा चेतरया त्यजेत् ।
पूरणे कुम्भके चैव रेचने प्रणवं जपेत् ॥ ३२-५३ ॥
मूलम् - ३२-५३
अनया पुनरारोप्य धृत्वा चेतरया त्यजेत् ।
पूरणे कुम्भके चैव रेचने प्रणवं जपेत् ॥ ३२-५३ ॥
विश्वास-प्रस्तुतिः - ३२-५४
दश पञ्चाशतं चैव चतुर्दश शतं क्रमात् ।
गायत्रीं यदि वा जप्त्वा कुर्यादुक्तेन वर्त्मना ॥ ३२-५४ ॥
मूलम् - ३२-५४
दश पञ्चाशतं चैव चतुर्दश शतं क्रमात् ।
गायत्रीं यदि वा जप्त्वा कुर्यादुक्तेन वर्त्मना ॥ ३२-५४ ॥
विश्वास-प्रस्तुतिः - ३२-५५
एवं प्रतिदिनं कुर्यात् प्राणायामांस्तु षोडश ।
एते पुनन्ति मासेन महापातकिनं नरम् ॥ ३२-५५ ॥
मूलम् - ३२-५५
एवं प्रतिदिनं कुर्यात् प्राणायामांस्तु षोडश ।
एते पुनन्ति मासेन महापातकिनं नरम् ॥ ३२-५५ ॥
प्रत्याहारनिरूपणम्
विश्वास-प्रस्तुतिः - ३२-५६
प्रत्याहारं ततः कुर्यादङ्गैः पञ्चभिरन्वितम् ।
स्वभावेनेन्द्रियार्थेषु प्रवृत्तं मानसं बुधैः ॥ ३२-५६ ॥
मूलम् - ३२-५६
प्रत्याहारं ततः कुर्यादङ्गैः पञ्चभिरन्वितम् ।
स्वभावेनेन्द्रियार्थेषु प्रवृत्तं मानसं बुधैः ॥ ३२-५६ ॥
विश्वास-प्रस्तुतिः - ३२-५७
तद्दोषदर्शनात् तेभ्यः समाहृत्य बलेन तु ।
निवेशनं भगवति प्रत्याहार इति स्मृतः ॥ ३२-५७ ॥
मूलम् - ३२-५७
तद्दोषदर्शनात् तेभ्यः समाहृत्य बलेन तु ।
निवेशनं भगवति प्रत्याहार इति स्मृतः ॥ ३२-५७ ॥
धारणानिरूपणम्
विश्वास-प्रस्तुतिः - ३२-५८
विषयेषु च वैराग्यादभ्यासाद् गुणदर्शनात् ।
परमात्मनि संरोधो मनसो धारणा स्मृता ॥ ३२-५८ ॥
मूलम् - ३२-५८
विषयेषु च वैराग्यादभ्यासाद् गुणदर्शनात् ।
परमात्मनि संरोधो मनसो धारणा स्मृता ॥ ३२-५८ ॥
ध्याननिरूपणम्
विश्वास-प्रस्तुतिः - ३२-५९
तदेवं धृतचित्तस्तु चक्ररूपं जनार्दनम् ।
ध्यायीत नियतस्तस्मिन् युञ्जानः प्रथमं मनः ॥ ३२-५९ ॥
मूलम् - ३२-५९
तदेवं धृतचित्तस्तु चक्ररूपं जनार्दनम् ।
ध्यायीत नियतस्तस्मिन् युञ्जानः प्रथमं मनः ॥ ३२-५९ ॥
वर्णाश्रमधर्माणां ध्यानेतिकर्तव्यतात्वम्
विश्वास-प्रस्तुतिः - ३२-६०
प्। २९६) रमणीये शुचौ देशे विविक्ते सजले वने ।
वर्णाश्रमोचिते धर्मे वर्तमानः प्रसन्नधीः ॥ ३२-६० ॥
मूलम् - ३२-६०
प्। २९६) रमणीये शुचौ देशे विविक्ते सजले वने ।
वर्णाश्रमोचिते धर्मे वर्तमानः प्रसन्नधीः ॥ ३२-६० ॥
विश्वास-प्रस्तुतिः - ३२-६१
शान्तः सर्वगुणोपेतः सममासनमास्थितः ।
ऋजुकायः स्वनासाग्रन्यस्तदृग् भक्तिमान् हरौ ॥ ३२-६१ ॥
मूलम् - ३२-६१
शान्तः सर्वगुणोपेतः सममासनमास्थितः ।
ऋजुकायः स्वनासाग्रन्यस्तदृग् भक्तिमान् हरौ ॥ ३२-६१ ॥
विश्वास-प्रस्तुतिः - ३२-६२
प्राणायामोत्थितेनैव वायुना साग्निना मुखम् ।
कुण्डल्यास्तु विनिर्भिद्य सुषुम्नामध्यवर्तिना ॥ ३२-६२ ॥
मूलम् - ३२-६२
प्राणायामोत्थितेनैव वायुना साग्निना मुखम् ।
कुण्डल्यास्तु विनिर्भिद्य सुषुम्नामध्यवर्तिना ॥ ३२-६२ ॥
विश्वास-प्रस्तुतिः - ३२-६३
विकास्य हृदयाम्भोजे तदाकाशे शिखास्पदे ।
स्फुरद्वह्निशिखामध्ये चिन्तयेदद्भुताकृतिम् ॥ ३२-६३ ॥
मूलम् - ३२-६३
विकास्य हृदयाम्भोजे तदाकाशे शिखास्पदे ।
स्फुरद्वह्निशिखामध्ये चिन्तयेदद्भुताकृतिम् ॥ ३२-६३ ॥
ध्यानालम्बनभूतध्येयस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - ३२-६४
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वलज्ज्वलनतेजसम् ।
दंष्ट्राकरालवदनं भ्रुकुटीभीमदर्शनम् ॥ ३२-६४ ॥
मूलम् - ३२-६४
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वलज्ज्वलनतेजसम् ।
दंष्ट्राकरालवदनं भ्रुकुटीभीमदर्शनम् ॥ ३२-६४ ॥
विश्वास-प्रस्तुतिः - ३२-६५
विद्युत्पुञ्जप्रतीकाशैरूर्ध्वकेशैर्विराजितम् ।
विचित्रानन्दमाणिक्यमुक्ताढ्यमुकुटोज्ज्वलम् ॥ ३२-६५ ॥
मूलम् - ३२-६५
विद्युत्पुञ्जप्रतीकाशैरूर्ध्वकेशैर्विराजितम् ।
विचित्रानन्दमाणिक्यमुक्ताढ्यमुकुटोज्ज्वलम् ॥ ३२-६५ ॥
विश्वास-प्रस्तुतिः - ३२-६६
पूर्णचन्द्रप्रतीकाशमणिताटङ्कमण्डितम् ।
भुजाभिरष्टभिर्युक्तं रत्नाम्बरधरं विभुम् ॥ ३२-६६ ॥
मूलम् - ३२-६६
पूर्णचन्द्रप्रतीकाशमणिताटङ्कमण्डितम् ।
भुजाभिरष्टभिर्युक्तं रत्नाम्बरधरं विभुम् ॥ ३२-६६ ॥
विश्वास-प्रस्तुतिः - ३२-६७
शङ्खचक्रगदाशार्ङ्गमुसलैः परमायुधैः ।
प्। २९७) पाशाङ्कुशाम्बुजैरन्यैरुपेतं परदारुणैः ॥ ३२-६७ ॥
मूलम् - ३२-६७
शङ्खचक्रगदाशार्ङ्गमुसलैः परमायुधैः ।
प्। २९७) पाशाङ्कुशाम्बुजैरन्यैरुपेतं परदारुणैः ॥ ३२-६७ ॥
विश्वास-प्रस्तुतिः - ३२-६८
दिव्यमाल्याम्बरधरं दिव्यचन्दनचर्चितम् ।
हारकेयूरकटककाञ्चीमञ्जीरमण्डितम् ॥ ३२-६८ ॥
मूलम् - ३२-६८
दिव्यमाल्याम्बरधरं दिव्यचन्दनचर्चितम् ।
हारकेयूरकटककाञ्चीमञ्जीरमण्डितम् ॥ ३२-६८ ॥
विश्वास-प्रस्तुतिः - ३२-६९
अन्यैश्च विविधैश्चित्रैर्भूषणैरुपशोभितम् ।
पद्मासनस्थं भक्तानां विश्वेषामभयप्रदम् ॥ ३२-६९ ॥
मूलम् - ३२-६९
अन्यैश्च विविधैश्चित्रैर्भूषणैरुपशोभितम् ।
पद्मासनस्थं भक्तानां विश्वेषामभयप्रदम् ॥ ३२-६९ ॥
एवं ध्यायन् विमुच्येत मुक्तः सकलकिल्बिषैः ।
समाधिनिरूपणम्
तदेवं स्मृतिसन्तानजनितोत्कर्षणं क्रमात् ॥ ३२-७० ॥
अर्थमात्रावभासं तु समाधिं योगिनो विदुः ।
समाधिनिष्ठस्य महिमानुवर्णनम्
ततः समाधिमास्थाय तन्मयत्वमुपागतः ॥ ३२-७१ ॥
विश्वास-प्रस्तुतिः - ३२-७२
तस्य प्रभावमखिलमश्नुते शक्तिशालिनः ।
अणिमादिगुणाः सर्वे भवन्त्यस्य महात्मनः ॥ ३२-७२ ॥
मूलम् - ३२-७२
तस्य प्रभावमखिलमश्नुते शक्तिशालिनः ।
अणिमादिगुणाः सर्वे भवन्त्यस्य महात्मनः ॥ ३२-७२ ॥
विश्वास-प्रस्तुतिः - ३२-७३
निःसहायः सपत्नानामनीकानि बहून्यपि ।
हिनस्त्येष यथा चक्रं चक्रं दैतेयरक्षसाम् ॥ ३२-७३ ॥
मूलम् - ३२-७३
निःसहायः सपत्नानामनीकानि बहून्यपि ।
हिनस्त्येष यथा चक्रं चक्रं दैतेयरक्षसाम् ॥ ३२-७३ ॥
विश्वास-प्रस्तुतिः - ३२-७४
मनीषितानि सर्वानि स्वयमस्योपयान्ति वै ।
सिद्धा विद्याधरा यक्षाः कैङ्कर्यं तस्य कुर्वते ॥ ३२-७४ ॥
मूलम् - ३२-७४
मनीषितानि सर्वानि स्वयमस्योपयान्ति वै ।
सिद्धा विद्याधरा यक्षाः कैङ्कर्यं तस्य कुर्वते ॥ ३२-७४ ॥
विश्वास-प्रस्तुतिः - ३२-७५
देवाश्च ऋषयः सर्वे गन्धर्वाप्सरसां गणाः ।
प्। २९८) तदाज्ञाकारिणः सर्वे पिशाचोरगराक्षसाः ॥ ३२-७५ ॥
मूलम् - ३२-७५
देवाश्च ऋषयः सर्वे गन्धर्वाप्सरसां गणाः ।
प्। २९८) तदाज्ञाकारिणः सर्वे पिशाचोरगराक्षसाः ॥ ३२-७५ ॥
निखिलभुवनजन्मस्थेमभङ्गैकहेतु-
र्भवति सकलवेत्ता सर्वदृक् सर्वशक्तिः ।
अभिमतबहुरूपो दैत्यरक्षांसि निघ्नन्
परिहृतपरिवारो वर्तते पूर्णकामः ॥ ३२-७६ ॥
इति पाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं नाम
द्वात्रिंशोऽध्यायः ॥ ३२ ॥
आदितः श्लोकाः १९४८
मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
उक्तार्थानुवादः
नारदः �
विश्वास-प्रस्तुतिः - ३३-१
भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा ।
परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः ॥ ३३-१ ॥
मूलम् - ३३-१
भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा ।
परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः ॥ ३३-१ ॥
विश्वास-प्रस्तुतिः - ३३-२
शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि ।
एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् ॥ ३३-२ ॥
मूलम् - ३३-२
शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि ।
एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् ॥ ३३-२ ॥
विश्वास-प्रस्तुतिः - ३३-३
सर्वेषामेव जन्तूनां वर्णानां परमेश्वर ।
क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् ॥ ३३-३ ॥
मूलम् - ३३-३
सर्वेषामेव जन्तूनां वर्णानां परमेश्वर ।
क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् ॥ ३३-३ ॥
सुदर्शनप्रभावविषयकस्त्रिधा प्रश्नः
विश्वास-प्रस्तुतिः - ३३-४
एतस्य यन्त्रराजस्य महिमा कथितः पुरा ।
प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः ॥ ३३-४ ॥
मूलम् - ३३-४
एतस्य यन्त्रराजस्य महिमा कथितः पुरा ।
प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः ॥ ३३-४ ॥
विश्वास-प्रस्तुतिः - ३३-५
सुदर्शननृसिंहस्य किमु किं परिवारजः ।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥ ३३-५ ॥
मूलम् - ३३-५
सुदर्शननृसिंहस्य किमु किं परिवारजः ।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥ ३३-५ ॥
प्। ३००) विस्तरेण तदुत्तरकथनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ३३-६
सुदर्शनप्रभावोऽयं सङ्क्षेपात् कथितो मया ।
विस्तारमस्य देवर्षे कथ्यमानमिमं शृणु ॥ ३३-६ ॥
मूलम् - ३३-६
सुदर्शनप्रभावोऽयं सङ्क्षेपात् कथितो मया ।
विस्तारमस्य देवर्षे कथ्यमानमिमं शृणु ॥ ३३-६ ॥
विश्वास-प्रस्तुतिः - ३३-७
सा भूमानं प्रति प्रायो महतां परिवारता ।
न चेद्भूमास्य नास्त्येव परिवायत्वसम्भवः ॥ ३३-७ ॥
मूलम् - ३३-७
सा भूमानं प्रति प्रायो महतां परिवारता ।
न चेद्भूमास्य नास्त्येव परिवायत्वसम्भवः ॥ ३३-७ ॥
सर्वस्यापि सुदर्शनात्मकत्वम्
ततश्चक्रमयं सर्वं जगत् स्थावरजङ्गमम् ।
सुदर्शनस्यैव कालचक्रात्मकत्वम्
चक्रात्मानमनाद्यन्तं कालं प्रथमतः शृणु ॥ ३३-८ ॥
कालचक्रस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - ३३-९
त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम् ।
संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् ॥ ३३-९ ॥
मूलम् - ३३-९
त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम् ।
संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् ॥ ३३-९ ॥
सर्वस्यापि कालचक्रवशवर्तित्वम्
तद्वशे वर्तते विश्वं चेतनाचेतनात्मकम् ।
परमात्मा कालचक्रप्रवर्तकः
परिवर्तयते देवस्तदेतच्चक्ररूपधृत् ॥ ३३-१० ॥
जगच्चक्रनिरूपणम्
विश्वास-प्रस्तुतिः - ३३-११
अव्यक्तादिविशेषान्ततत्त्वरूपैररैर्वृतम् ।
प्। ३०१) चतुर्विंशतिसङ्ख्याकैः पुरुषात्मकनेमियुक् ॥ ३३-११ ॥
मूलम् - ३३-११
अव्यक्तादिविशेषान्ततत्त्वरूपैररैर्वृतम् ।
प्। ३०१) चतुर्विंशतिसङ्ख्याकैः पुरुषात्मकनेमियुक् ॥ ३३-११ ॥
परमात्मनस्तत्प्रेरकत्वम्
जगच्चक्रमिति ख्यातं तच्च प्रेरयति स्वयम् ।
परमात्मनो नाभिचक्रप्रेरकत्वम्
स्थीयते द्वादशारेण नाभिचक्रेण देहिनः ॥ ३३-१२ ॥
शरीरं तच्च तेनैव प्रेर्यते चक्ररूपिणा ।
परमात्मनः सर्वप्रेरकत्वनिगमनम्
अतः प्रेरयिता देवः समस्तस्य जनार्दनः ॥ ३३-१३ ॥
सुदर्शनवपुः श्रीमाननादिप्रभवाप्ययः ।
तस्यैव जगत्सर्गस्थितिसंहारहेतुत्वम्
ज्ञानस्वरूपो भगवान् पूर्णषाङ्गुण्यविग्रहः ॥ ३३-१४ ॥
स एव सर्वभूतानां स्रष्टा पालयितान्तकः ।
तस्यैव शिवरूपधरस्य शैवैराराध्यत्वम्
स एव शिवरूपेण शैवैराराध्यते प्रभुः ॥ ३३-१५ ॥
तस्यैव ब्रह्मरूपेण जगत्स्रष्टृत्वम्
स एव ब्रह्मरूपेण सृजत्येतच्चराचरम् ।
तस्यैव स्वांशरूपेण जगत्पालकत्वम्
स एव पालयत्येतद् विष्णुर्भूत्वा जनार्दनः ॥ ३३-१६ ॥
तस्यैव रुद्ररूपेण संहर्तृत्वम्
प्। ३०२) स एव रुद्ररूपेण संहरत्यखिलं जगत् ।
तस्यैव बुद्धरूपत्वम्
बुद्धात्मना च बौद्धानां स एव जगति स्थितः ॥ ३३-१७ ॥
तस्यैव दिगम्बररूपत्वम्
स एव शाम्बराणां च निरावरणरूपधृत् ।
तस्यैव जिनरूपत्वम्
स एव चार्वाकमते जिनेश्वरवपुर्धरः ॥ ३३-१८ ॥
तस्यैव यज्ञपुरुषरूपत्वम्
विश्वास-प्रस्तुतिः - ३३-१९
स एव याज्ञिकानां च यज्ञपूरुषसञ्ज्ञकः ।
मीमांसकैः स एवायमुपास्यत्वेन चोद्यते ॥ ३३-१९ ॥
मूलम् - ३३-१९
स एव याज्ञिकानां च यज्ञपूरुषसञ्ज्ञकः ।
मीमांसकैः स एवायमुपास्यत्वेन चोद्यते ॥ ३३-१९ ॥
कापिलमते तस्यैव पुरुषरूपत्वम्
कापिलैः पुरुषत्वेन स एवाख्यायते विभुः ।
सर्वस्वरूपत्वात् तस्यैव सर्वफलप्रदत्वम्
उपास्यत्वेन ये प्राहुर्यं यं तत्तद्वपुर्धरः ॥ ३३-२० ॥
तेषां मनीषितं सर्वं स एवाशु प्रयच्छति ।
देवादिरूपधारणादपि चक्ररूपधारणं भगवतः
प्रियतमम्
प्। ३०३) एतेषामेव देवानां स्वतनूनां जनार्दनः ॥ ३३-२१ ॥
परं प्रीणाति भगवांश्चक्ररूपधरो हरिः ।
तत्र हेतुनिरूपणम्
स्वसमाश्रितरक्षायां परेषां च निबर्हणे ॥ ३३-२२ ॥
विश्वास-प्रस्तुतिः - ३३-२३
इदमेव वपुर्धत्ते सुदर्शनमयं हरिः ।
रहस्यमेतत् कथितं भक्तोऽसीति तपोधन ॥ ३३-२३ ॥
मूलम् - ३३-२३
इदमेव वपुर्धत्ते सुदर्शनमयं हरिः ।
रहस्यमेतत् कथितं भक्तोऽसीति तपोधन ॥ ३३-२३ ॥
तत्रेतिहासोदाहरणम्
विश्वास-प्रस्तुतिः - ३३-२४
पुरावृत्तं सुरमुने शृणुष्व गदतो मम ।
दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः ॥ ३३-२४ ॥
मूलम् - ३३-२४
पुरावृत्तं सुरमुने शृणुष्व गदतो मम ।
दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः ॥ ३३-२४ ॥
विश्वास-प्रस्तुतिः - ३३-२५
प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन् ।
धर्मतः पालयामास सप्तद्वीपवतीं महीम् ॥ ३३-२५ ॥
मूलम् - ३३-२५
प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन् ।
धर्मतः पालयामास सप्तद्वीपवतीं महीम् ॥ ३३-२५ ॥
विश्वास-प्रस्तुतिः - ३३-२६
वत्सला नाम तस्याभून्महिषी वरवर्णिनी ।
सा तस्य जनयामास मणिशेखरमात्मजम् ॥ ३३-२६ ॥
मूलम् - ३३-२६
वत्सला नाम तस्याभून्महिषी वरवर्णिनी ।
सा तस्य जनयामास मणिशेखरमात्मजम् ॥ ३३-२६ ॥
विश्वास-प्रस्तुतिः - ३३-२७
सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः ।
रमणीयाकृतिः शूरः प्राप्तविद्यः परन्तपः ॥ ३३-२७ ॥
मूलम् - ३३-२७
सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः ।
रमणीयाकृतिः शूरः प्राप्तविद्यः परन्तपः ॥ ३३-२७ ॥
विश्वास-प्रस्तुतिः - ३३-२८
सम्प्राप्तयौवनः श्रीमान् प्राचीं भार्यामविन्दत ।
सर्वलोकाधिपत्यार्हमेनं दुर्धर्षणः सुतम् ॥ ३३-२८ ॥
मूलम् - ३३-२८
सम्प्राप्तयौवनः श्रीमान् प्राचीं भार्यामविन्दत ।
सर्वलोकाधिपत्यार्हमेनं दुर्धर्षणः सुतम् ॥ ३३-२८ ॥
विश्वास-प्रस्तुतिः - ३३-२९
निधाय राज्ये तत्रैव जगाम तपसे वनम् ।
प्। ३०४) पितेव पालयामास स समुद्रवतीं महीम् ॥ ३३-२९ ॥
मूलम् - ३३-२९
निधाय राज्ये तत्रैव जगाम तपसे वनम् ।
प्। ३०४) पितेव पालयामास स समुद्रवतीं महीम् ॥ ३३-२९ ॥
विश्वास-प्रस्तुतिः - ३३-३०
प्राच्यां पुत्रः समभवंस्तस्य सप्त महात्मनः ।
पालयत्यवनीं तस्मिन् निखिलां मणिशेखरे ॥ ३३-३० ॥
मूलम् - ३३-३०
प्राच्यां पुत्रः समभवंस्तस्य सप्त महात्मनः ।
पालयत्यवनीं तस्मिन् निखिलां मणिशेखरे ॥ ३३-३० ॥
विश्वास-प्रस्तुतिः - ३३-३१
तस्मिन् काले समभवत् सर्वप्राणिभयङ्करः ।
विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली ॥ ३३-३१ ॥
मूलम् - ३३-३१
तस्मिन् काले समभवत् सर्वप्राणिभयङ्करः ।
विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली ॥ ३३-३१ ॥
विश्वास-प्रस्तुतिः - ३३-३२
महासुरेण तेनैव पीडिता सकला मही ।
तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही ॥ ३३-३२ ॥
मूलम् - ३३-३२
महासुरेण तेनैव पीडिता सकला मही ।
तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही ॥ ३३-३२ ॥
विश्वास-प्रस्तुतिः - ३३-३३
तेऽसुराः सर्वभूतानि पीडयन्ति स्म भीषणाः ।
विकटाक्षसमाज्ञप्ता भीमरूपाः सहस्रशः ॥ ३३-३३ ॥
मूलम् - ३३-३३
तेऽसुराः सर्वभूतानि पीडयन्ति स्म भीषणाः ।
विकटाक्षसमाज्ञप्ता भीमरूपाः सहस्रशः ॥ ३३-३३ ॥
विश्वास-प्रस्तुतिः - ३३-३४
कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नुस्तरस्विनः ।
द्विजातीनां मुनिश्रेष्ठ यज्ञव्यासेधमाचरन् ॥ ३३-३४ ॥
मूलम् - ३३-३४
कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नुस्तरस्विनः ।
द्विजातीनां मुनिश्रेष्ठ यज्ञव्यासेधमाचरन् ॥ ३३-३४ ॥
विश्वास-प्रस्तुतिः - ३३-३५
सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम् ।
अबाधिषत कर्माणि विहितानि यथातथम् ॥ ३३-३५ ॥
मूलम् - ३३-३५
सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम् ।
अबाधिषत कर्माणि विहितानि यथातथम् ॥ ३३-३५ ॥
विश्वास-प्रस्तुतिः - ३३-३६
पृथिव्यां यानि रत्नानि धनानि विपुलानि च ।
स्वस्मै प्रदापयामास विकटाक्षो महासुरः ॥ ३३-३६ ॥
मूलम् - ३३-३६
पृथिव्यां यानि रत्नानि धनानि विपुलानि च ।
स्वस्मै प्रदापयामास विकटाक्षो महासुरः ॥ ३३-३६ ॥
विश्वास-प्रस्तुतिः - ३३-३७
ततः सम्पीडिताः सर्वाः प्रजास्तेन दुरात्मना ।
व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेखरभूभुजे ॥ ३३-३७ ॥
मूलम् - ३३-३७
ततः सम्पीडिताः सर्वाः प्रजास्तेन दुरात्मना ।
व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेखरभूभुजे ॥ ३३-३७ ॥
विश्वास-प्रस्तुतिः - ३३-३८
क्रोधेन महताविष्टो राजा राजीवलोचनः ।
प्। ३०५) अभियोद्धुं मनश्चक्रे विकटाक्षं महासुरम् ॥ ३३-३८ ॥
मूलम् - ३३-३८
क्रोधेन महताविष्टो राजा राजीवलोचनः ।
प्। ३०५) अभियोद्धुं मनश्चक्रे विकटाक्षं महासुरम् ॥ ३३-३८ ॥
विश्वास-प्रस्तुतिः - ३३-३९
समानीय ततः सर्वान् सैनिकान् समनह्यत ।
तस्य सन्नाहमालोक्य मन्त्रिणस्तस्य सङ्गताः ॥ ३३-३९ ॥
मूलम् - ३३-३९
समानीय ततः सर्वान् सैनिकान् समनह्यत ।
तस्य सन्नाहमालोक्य मन्त्रिणस्तस्य सङ्गताः ॥ ३३-३९ ॥
विश्वास-प्रस्तुतिः - ३३-४०
इदमूचुरवध्यत्वं तस्य सेनाभियोगतः ।
पुरा दुरात्मावृणुत तपःअस्न्तोषिताद्विधेः ॥ ३३-४० ॥
मूलम् - ३३-४०
इदमूचुरवध्यत्वं तस्य सेनाभियोगतः ।
पुरा दुरात्मावृणुत तपःअस्न्तोषिताद्विधेः ॥ ३३-४० ॥
विश्वास-प्रस्तुतिः - ३३-४१
ये मामभिमुखायाताः शत्रवस्तैरवध्यताम् ।
एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः ॥ ३३-४१ ॥
मूलम् - ३३-४१
ये मामभिमुखायाताः शत्रवस्तैरवध्यताम् ।
एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः ॥ ३३-४१ ॥
विश्वास-प्रस्तुतिः - ३३-४२
ततः प्रभृत्यजय्योऽभूच्छत्रुभिः सम्मुखागतैः ।
तस्मात् त्वमपि सन्नाहमुपसंहर तं प्रति ॥ ३३-४२ ॥
मूलम् - ३३-४२
ततः प्रभृत्यजय्योऽभूच्छत्रुभिः सम्मुखागतैः ।
तस्मात् त्वमपि सन्नाहमुपसंहर तं प्रति ॥ ३३-४२ ॥
विश्वास-प्रस्तुतिः - ३३-४३
ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम् ।
ततः सङ्ग्रामसन्नाहाद् विरराम महीपतिः ॥ ३३-४३ ॥
मूलम् - ३३-४३
ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम् ।
ततः सङ्ग्रामसन्नाहाद् विरराम महीपतिः ॥ ३३-४३ ॥
विश्वास-प्रस्तुतिः - ३३-४४
ततः क्रतुं समाहूय पुरोधसमनागसम् ।
मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् ॥ ३३-४४ ॥
मूलम् - ३३-४४
ततः क्रतुं समाहूय पुरोधसमनागसम् ।
मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् ॥ ३३-४४ ॥
विश्वास-प्रस्तुतिः - ३३-४५
विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः ।
परैरजय्यतां चास्य युद्धे सम्मुखवर्तिभिः ॥ ३३-४५ ॥
मूलम् - ३३-४५
विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः ।
परैरजय्यतां चास्य युद्धे सम्मुखवर्तिभिः ॥ ३३-४५ ॥
विश्वास-प्रस्तुतिः - ३३-४६
येनोपायेन भगवन् जेष्यामस्तं दुरासदम् ।
ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः ॥ ३३-४६ ॥
मूलम् - ३३-४६
येनोपायेन भगवन् जेष्यामस्तं दुरासदम् ।
ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः ॥ ३३-४६ ॥
विश्वास-प्रस्तुतिः - ३३-४७
एवमुक्तस्तदा तेन भूभुजा स पुरोहितः ।
चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् ॥ ३३-४७ ॥
मूलम् - ३३-४७
एवमुक्तस्तदा तेन भूभुजा स पुरोहितः ।
चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् ॥ ३३-४७ ॥
विश्वास-प्रस्तुतिः - ३३-४८
प्। ३०६) सत्यं न शक्यते जेतुं युद्धे स वरदर्पितः ।
भगवन्तमृते विष्णुं शङ्खचक्रगदाधरम् ॥ ३३-४८ ॥
मूलम् - ३३-४८
प्। ३०६) सत्यं न शक्यते जेतुं युद्धे स वरदर्पितः ।
भगवन्तमृते विष्णुं शङ्खचक्रगदाधरम् ॥ ३३-४८ ॥
विश्वास-प्रस्तुतिः - ३३-४९
नीलजीमूतसङ्काशं पुण्डरीकायतेक्षणम् ।
अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् ॥ ३३-४९ ॥
मूलम् - ३३-४९
नीलजीमूतसङ्काशं पुण्डरीकायतेक्षणम् ।
अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् ॥ ३३-४९ ॥
विश्वास-प्रस्तुतिः - ३३-५०
उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम् ।
नास्त्युपायान्तरं लोके तत्समं जगतीपते ॥ ३३-५० ॥
मूलम् - ३३-५०
उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम् ।
नास्त्युपायान्तरं लोके तत्समं जगतीपते ॥ ३३-५० ॥
विश्वास-प्रस्तुतिः - ३३-५१
अतस्तं शरणं गच्छ सर्वभावेन भूपते ।
चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् ॥ ३३-५१ ॥
मूलम् - ३३-५१
अतस्तं शरणं गच्छ सर्वभावेन भूपते ।
चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् ॥ ३३-५१ ॥
विश्वास-प्रस्तुतिः - ३३-५२
तत्प्राप्त्युपायं जानाति दुर्वासा मुनिसत्तमः ।
तत्प्रासादात् तमसुरं संहर्तुं सकलं क्षमम् ॥ ३३-५२ ॥
मूलम् - ३३-५२
तत्प्राप्त्युपायं जानाति दुर्वासा मुनिसत्तमः ।
तत्प्रासादात् तमसुरं संहर्तुं सकलं क्षमम् ॥ ३३-५२ ॥
विश्वास-प्रस्तुतिः - ३३-५३
तमृषिं सर्वभूतानां भीषणं गच्छ साम्प्रतम् ।
एवमेवेति निश्चित्य राजा परमधार्मिकः ॥ ३३-५३ ॥
मूलम् - ३३-५३
तमृषिं सर्वभूतानां भीषणं गच्छ साम्प्रतम् ।
एवमेवेति निश्चित्य राजा परमधार्मिकः ॥ ३३-५३ ॥
विश्वास-प्रस्तुतिः - ३३-५४
निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा ।
हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् ॥ ३३-५४ ॥
मूलम् - ३३-५४
निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा ।
हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् ॥ ३३-५४ ॥
विश्वास-प्रस्तुतिः - ३३-५५
वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम् ।
जटाजिनधरं शान्तं ज्वलत्पावकसन्निभम् ॥ ३३-५५ ॥
मूलम् - ३३-५५
वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम् ।
जटाजिनधरं शान्तं ज्वलत्पावकसन्निभम् ॥ ३३-५५ ॥
विश्वास-प्रस्तुतिः - ३३-५६
तं तथावस्थितं राजा जगाम सपुरोहितः ।
स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ ॥ ३३-५६ ॥
मूलम् - ३३-५६
तं तथावस्थितं राजा जगाम सपुरोहितः ।
स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ ॥ ३३-५६ ॥
तौ समभ्यर्च्य विधिना स्वागतं व्याजहार ह ।
प्। ३०७) इमं देशमनुप्राप्तौ किमर्थं वनगोचरम् ॥ ३३-५७ ॥
विश्वास-प्रस्तुतिः - ३३-५८
भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे ।
प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् ॥ ३३-५८ ॥
मूलम् - ३३-५८
भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे ।
प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् ॥ ३३-५८ ॥
विश्वास-प्रस्तुतिः - ३३-५९
सप्तद्वीपवती पृथ्वी तव वश्येति शुश्रुम् ।
सर्वेष्वङ्गादिधर्मेषु भवतः किमनामयम् ॥ ३३-५९ ॥
मूलम् - ३३-५९
सप्तद्वीपवती पृथ्वी तव वश्येति शुश्रुम् ।
सर्वेष्वङ्गादिधर्मेषु भवतः किमनामयम् ॥ ३३-५९ ॥
विश्वास-प्रस्तुतिः - ३३-६०
प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते ।
क्रतुं पुरोहितं लब्ध्वा भवतः किं न सेत्स्यति ॥ ३३-६० ॥
मूलम् - ३३-६०
प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते ।
क्रतुं पुरोहितं लब्ध्वा भवतः किं न सेत्स्यति ॥ ३३-६० ॥
विश्वास-प्रस्तुतिः - ३३-६१
अनूचानो मुनिः श्रेयान् सर्वेषां च तपस्विनाम् ।
शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः ॥ ३३-६१ ॥
मूलम् - ३३-६१
अनूचानो मुनिः श्रेयान् सर्वेषां च तपस्विनाम् ।
शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः ॥ ३३-६१ ॥
विश्वास-प्रस्तुतिः - ३३-६२
धर्मज्ञः सर्वशास्त्रज्ञः सर्वकर्मसु कोविदः ।
कर्मठः शीलसम्पन्नो यायजूको निरामयः ॥ ३३-६२ ॥
मूलम् - ३३-६२
धर्मज्ञः सर्वशास्त्रज्ञः सर्वकर्मसु कोविदः ।
कर्मठः शीलसम्पन्नो यायजूको निरामयः ॥ ३३-६२ ॥
विश्वास-प्रस्तुतिः - ३३-६३
कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान् ।
दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः ॥ ३३-६३ ॥
मूलम् - ३३-६३
कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान् ।
दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः ॥ ३३-६३ ॥
विश्वास-प्रस्तुतिः - ३३-६४
सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे ।
षण्णां समयधर्माणामभिज्ञो नयकोविदः ॥ ३३-६४ ॥
मूलम् - ३३-६४
सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे ।
षण्णां समयधर्माणामभिज्ञो नयकोविदः ॥ ३३-६४ ॥
विश्वास-प्रस्तुतिः - ३३-६५
दयालुरभिजातश्च साधकः सर्वमन्त्रवित् ।
अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः ॥ ३३-६५ ॥
मूलम् - ३३-६५
दयालुरभिजातश्च साधकः सर्वमन्त्रवित् ।
अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः ॥ ३३-६५ ॥
विश्वास-प्रस्तुतिः - ३३-६६
ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः ।
अनेन सर्वकार्याणि कुरुष्व मणिशेखर ॥ ३३-६६ ॥
मूलम् - ३३-६६
ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः ।
अनेन सर्वकार्याणि कुरुष्व मणिशेखर ॥ ३३-६६ ॥
विश्वास-प्रस्तुतिः - ३३-६७
प्। ३०८) तथापि कैश्चिदरिभिः परिभूत इवागतः ।
आख्याहि सर्वं नृपते किमागमनकारणम् ॥ ३३-६७ ॥
मूलम् - ३३-६७
प्। ३०८) तथापि कैश्चिदरिभिः परिभूत इवागतः ।
आख्याहि सर्वं नृपते किमागमनकारणम् ॥ ३३-६७ ॥
विश्वास-प्रस्तुतिः - ३३-६८
एवमुक्त्वा महातेजा विरराम तपोधनः ।
अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति ॥ ३३-६८ ॥
मूलम् - ३३-६८
एवमुक्त्वा महातेजा विरराम तपोधनः ।
अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति ॥ ३३-६८ ॥
विश्वास-प्रस्तुतिः - ३३-६९
राजकार्यमशेषेण समागमनकारणम् ।
स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना ॥ ३३-६९ ॥
मूलम् - ३३-६९
राजकार्यमशेषेण समागमनकारणम् ।
स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना ॥ ३३-६९ ॥
विश्वास-प्रस्तुतिः - ३३-७०
बलं महासुरस्यास्य दुर्जयत्वमरातिभिः ।
प्रजापतेर्वरप्राप्तिं तत्सन्ततिविजृम्भणम् ॥ ३३-७० ॥
मूलम् - ३३-७०
बलं महासुरस्यास्य दुर्जयत्वमरातिभिः ।
प्रजापतेर्वरप्राप्तिं तत्सन्ततिविजृम्भणम् ॥ ३३-७० ॥
विश्वास-प्रस्तुतिः - ३३-७१
एवं बहुविधं तस्य चेष्टितं लोकगर्हितम् ।
व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः ॥ ३३-७१ ॥
मूलम् - ३३-७१
एवं बहुविधं तस्य चेष्टितं लोकगर्हितम् ।
व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः ॥ ३३-७१ ॥
विश्वास-प्रस्तुतिः - ३३-७२
ब्रूहि तस्य जयोपायं त्वामयं शरणं गतः ।
त्वमापदः परित्राहि राजानं धर्मवत्सलम् ॥ ३३-७२ ॥
मूलम् - ३३-७२
ब्रूहि तस्य जयोपायं त्वामयं शरणं गतः ।
त्वमापदः परित्राहि राजानं धर्मवत्सलम् ॥ ३३-७२ ॥
विश्वास-प्रस्तुतिः - ३३-७३
परित्रातान्यनेनैव भुवनानि तपोधन ।
एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ ॥ ३३-७३ ॥
मूलम् - ३३-७३
परित्रातान्यनेनैव भुवनानि तपोधन ।
एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ ॥ ३३-७३ ॥
विश्वास-प्रस्तुतिः - ३३-७४
कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम् ।
सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् ॥ ३३-७४ ॥
मूलम् - ३३-७४
कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम् ।
सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् ॥ ३३-७४ ॥
विश्वास-प्रस्तुतिः - ३३-७५
अनेन साधयाभीष्टमेतेनैव पुरोधसा ।
पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः ॥ ३३-७५ ॥
मूलम् - ३३-७५
अनेन साधयाभीष्टमेतेनैव पुरोधसा ।
पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः ॥ ३३-७५ ॥
विशेषेणास्य देवस्य प्रतिष्ठाराधनादिषु ।
प्। ३०९) वैगुण्यमस्य तत् सर्वमपराधात् पुरोधसः ॥ ३३-७६ ॥
विश्वास-प्रस्तुतिः - ३३-७७
तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते ।
अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै ॥ ३३-७७ ॥
मूलम् - ३३-७७
तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते ।
अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै ॥ ३३-७७ ॥
विश्वास-प्रस्तुतिः - ३३-७८
इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः ।
वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः ॥ ३३-७८ ॥
मूलम् - ३३-७८
इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः ।
वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः ॥ ३३-७८ ॥
विश्वास-प्रस्तुतिः - ३३-७९
उज्जहार भुवं कल्पे वाराहे सलिलात् ततः ।
तदाह परमप्रीता देवं देवी वसुन्धरा ॥ ३३-७९ ॥
मूलम् - ३३-७९
उज्जहार भुवं कल्पे वाराहे सलिलात् ततः ।
तदाह परमप्रीता देवं देवी वसुन्धरा ॥ ३३-७९ ॥
विश्वास-प्रस्तुतिः - ३३-८०
प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया ।
वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा ॥ ३३-८० ॥
मूलम् - ३३-८०
प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया ।
वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा ॥ ३३-८० ॥
विश्वास-प्रस्तुतिः - ३३-८१
एवमुक्तस्तया देव्या तदा प्रभृति केशवः ।
सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः ॥ ३३-८१ ॥
मूलम् - ३३-८१
एवमुक्तस्तया देव्या तदा प्रभृति केशवः ।
सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः ॥ ३३-८१ ॥
विश्वास-प्रस्तुतिः - ३३-८२
सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः ।
अद्यापि देशमाहात्म्याद् भक्तानामनुकम्पया ॥ ३३-८२ ॥
मूलम् - ३३-८२
सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः ।
अद्यापि देशमाहात्म्याद् भक्तानामनुकम्पया ॥ ३३-८२ ॥
विश्वास-प्रस्तुतिः - ३३-८३
भुवः प्रार्थनया तत्र नित्यं सन्निहितो हरिः ।
अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् ॥ ३३-८३ ॥
मूलम् - ३३-८३
भुवः प्रार्थनया तत्र नित्यं सन्निहितो हरिः ।
अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् ॥ ३३-८३ ॥
विश्वास-प्रस्तुतिः - ३३-८४
मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः ।
ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः ॥ ३३-८४ ॥
मूलम् - ३३-८४
मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः ।
ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः ॥ ३३-८४ ॥
विश्वास-प्रस्तुतिः - ३३-८५
भगवान् पुण्डरीकाक्षः सुदर्शनवपुर्धरः ।
सन्निधत्ते सदा तत्र सन्मङ्गलगुणार्णवः ॥ ३३-८५ ॥
मूलम् - ३३-८५
भगवान् पुण्डरीकाक्षः सुदर्शनवपुर्धरः ।
सन्निधत्ते सदा तत्र सन्मङ्गलगुणार्णवः ॥ ३३-८५ ॥
तद्देशवासिनो मर्त्याः सुरास्तिर्यञ्च एव च ।
प्। ३१०) तरवश्चाचलाः सर्वे चक्रमुद्राङ्कितास्तदा ॥ ३३-८६ ॥
विश्वास-प्रस्तुतिः - ३३-८७
सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम् ।
चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना ॥ ३३-८७ ॥
मूलम् - ३३-८७
सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम् ।
चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना ॥ ३३-८७ ॥
विश्वास-प्रस्तुतिः - ३३-८८
तत्प्रसादात् सपत्नांस्त्वं जहि दुष्टविचेष्टितान् ।
ततो निष्कण्टकां भूमिं पालयैनां पुरा यथा ॥ ३३-८८ ॥
मूलम् - ३३-८८
तत्प्रसादात् सपत्नांस्त्वं जहि दुष्टविचेष्टितान् ।
ततो निष्कण्टकां भूमिं पालयैनां पुरा यथा ॥ ३३-८८ ॥
विश्वास-प्रस्तुतिः - ३३-८९
एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम् ।
उपारराम भगवान् दुर्वासा यमिनां वरः ॥ ३३-८९ ॥
मूलम् - ३३-८९
एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम् ।
उपारराम भगवान् दुर्वासा यमिनां वरः ॥ ३३-८९ ॥
विश्वास-प्रस्तुतिः - ३३-९०
ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः ।
जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति ॥ ३३-९० ॥
मूलम् - ३३-९०
ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः ।
जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति ॥ ३३-९० ॥
विश्वास-प्रस्तुतिः - ३३-९१
सालग्रामं ततो गत्वा भगवन्तं जनार्दनम् ।
सम्भृत्य सर्वसम्भारांश्चक्ररूपं जगत्पतिम् ॥ ३३-९१ ॥
मूलम् - ३३-९१
सालग्रामं ततो गत्वा भगवन्तं जनार्दनम् ।
सम्भृत्य सर्वसम्भारांश्चक्ररूपं जगत्पतिम् ॥ ३३-९१ ॥
विश्वास-प्रस्तुतिः - ३३-९२
पुरोधसैव नृपतिरर्चयामास मन्त्रतः ।
अर्चनेन जपेनैव ध्यानेन च महीपतिः ॥ ३३-९२ ॥
मूलम् - ३३-९२
पुरोधसैव नृपतिरर्चयामास मन्त्रतः ।
अर्चनेन जपेनैव ध्यानेन च महीपतिः ॥ ३३-९२ ॥
विश्वास-प्रस्तुतिः - ३३-९३
तोषयामास मासेन भक्त्या परमया हरिम् ।
आविर्बभूव स तदा चक्ररूपी महीपतेः ॥ ३३-९३ ॥
मूलम् - ३३-९३
तोषयामास मासेन भक्त्या परमया हरिम् ।
आविर्बभूव स तदा चक्ररूपी महीपतेः ॥ ३३-९३ ॥
विश्वास-प्रस्तुतिः - ३३-९४
गदामुसलशङ्खारिधनुःपाशाङ्कुशाम्बुजान् ।
अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः ॥ ३३-९४ ॥
मूलम् - ३३-९४
गदामुसलशङ्खारिधनुःपाशाङ्कुशाम्बुजान् ।
अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः ॥ ३३-९४ ॥
विश्वास-प्रस्तुतिः - ३३-९५
ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः ।
दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः ॥ ३३-९५ ॥
मूलम् - ३३-९५
ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः ।
दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः ॥ ३३-९५ ॥
विश्वास-प्रस्तुतिः - ३३-९६
प्। ३११) रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः ।
दिव्यमालाधरोरस्कः सस्मितं समुदैक्षत ॥ ३३-९६ ॥
मूलम् - ३३-९६
प्। ३११) रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः ।
दिव्यमालाधरोरस्कः सस्मितं समुदैक्षत ॥ ३३-९६ ॥
समुदियाय ततो हरिवक्षसः
प्रतिहताखिललोकविलोचनम् ।
वलयिताचिररोचिरिवाम्बरात्
परमचक्रमथैन्द्रमतिद्युति ॥ ३३-९७ ॥
प्रथममेकमथो दश तच्छतं
दशशतक्रमतो नियुतायुते ।
भवदथो बहुधा सकलं नभः
कलितचक्रमभूदतिभीषणम् ॥ ३३-९८ ॥
विश्वास-प्रस्तुतिः - ३३-९९
युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह ।
तदिहाविषयं व्यतिष्ठत क्षणमाप्लुत्य ययौ सुदर्शनः ॥ ३३-९९
॥
मूलम् - ३३-९९
युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह ।
तदिहाविषयं व्यतिष्ठत क्षणमाप्लुत्य ययौ सुदर्शनः ॥ ३३-९९
॥
शशास पृथ्वीं ससमुद्रकाननां
जिताखिलद्वीपवतीं सपत्तनाम् ।
यथा शचीशस्त्रिदिवं सदैवतं
पवित्रकीर्तिर्मणिशेखरस्तथा ॥ ३३-१०० ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
मणिशेखरोपाख्यानवर्णनं नाम
त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
आदितः श्लोकाः २०४८
ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम
चतुस्त्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
ब्रह्मास्त्रादिमन्त्रस्वरूपप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३४-१
भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत ।
उक्तं चक्राद्विनिष्क्रान्तमस्त्रजातमिह प्रभो ॥ ३४-१ ॥
मूलम् - ३४-१
भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत ।
उक्तं चक्राद्विनिष्क्रान्तमस्त्रजातमिह प्रभो ॥ ३४-१ ॥
विश्वास-प्रस्तुतिः - ३४-२
तेषां स्वरूपं मन्त्राणां सर्वेषां वक्तुमर्हसि ।
विना त्वां न हि पश्यामि वेत्तारं कमपीश्वर ॥ ३४-२ ॥
मूलम् - ३४-२
तेषां स्वरूपं मन्त्राणां सर्वेषां वक्तुमर्हसि ।
विना त्वां न हि पश्यामि वेत्तारं कमपीश्वर ॥ ३४-२ ॥
तदुत्तरकथनाय तेषां गुह्यतमत्वाख्यानम्
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ३४-३
महर्षे यत् त्वया पृष्टमेतद् गुह्यतमं परम् ।
सुदुर्लभमनाख्येयं कस्मैचित् सर्वसाधकम् ॥ ३४-३ ॥
मूलम् - ३४-३
महर्षे यत् त्वया पृष्टमेतद् गुह्यतमं परम् ।
सुदुर्लभमनाख्येयं कस्मैचित् सर्वसाधकम् ॥ ३४-३ ॥
विश्वास-प्रस्तुतिः - ३४-४
तथापि तव वक्ष्यामि भक्तोऽसीति महामुने ।
त्वयाप्येतन्न दातव्यं सुरासुरसमर्चितम् ॥ ३४-४ ॥
मूलम् - ३४-४
तथापि तव वक्ष्यामि भक्तोऽसीति महामुने ।
त्वयाप्येतन्न दातव्यं सुरासुरसमर्चितम् ॥ ३४-४ ॥
१ � ब्रह्मास्त्रम्
विश्वास-प्रस्तुतिः - ३४-५
प्। ३१३) फान्तं वह्निसमायुक्तं व्योम हालासमन्वितम् ।
मेषद्वयं दन्तयुतं हालाहलमतः परम् ॥ ३४-५ ॥
मूलम् - ३४-५
प्। ३१३) फान्तं वह्निसमायुक्तं व्योम हालासमन्वितम् ।
मेषद्वयं दन्तयुतं हालाहलमतः परम् ॥ ३४-५ ॥
विश्वास-प्रस्तुतिः - ३४-६
घनाद्यं वायुपूर्वं च दन्तयुक्तमथान्तिमम् ।
सरसं चर्क्षपर्यायं भान्तं भृगुमतः परम् ॥ ३४-६ ॥
मूलम् - ३४-६
घनाद्यं वायुपूर्वं च दन्तयुक्तमथान्तिमम् ।
सरसं चर्क्षपर्यायं भान्तं भृगुमतः परम् ॥ ३४-६ ॥
विश्वास-प्रस्तुतिः - ३४-७
अम्बरं वायुसंयुक्तमरिमर्दनमप्यतः ।
प्रदीप्तमथ वक्तव्यं परमं च पदं ततः ॥ ३४-७ ॥
मूलम् - ३४-७
अम्बरं वायुसंयुक्तमरिमर्दनमप्यतः ।
प्रदीप्तमथ वक्तव्यं परमं च पदं ततः ॥ ३४-७ ॥
विश्वास-प्रस्तुतिः - ३४-८
तत्ते पदे प्रयोक्तव्ये गायत्र्या मध्यमं ततः ।
पदत्रयं प्रयोक्तव्यमेतद् ब्रह्मास्त्रमीरितम् ॥ ३४-८ ॥
मूलम् - ३४-८
तत्ते पदे प्रयोक्तव्ये गायत्र्या मध्यमं ततः ।
पदत्रयं प्रयोक्तव्यमेतद् ब्रह्मास्त्रमीरितम् ॥ ३४-८ ॥
२ � दण्डचक्रम्
विश्वास-प्रस्तुतिः - ३४-९
जीवः पञ्चमवर्गादिश्चतुर्थाद्योऽन्तिमान्वितः ।
भृगुः सदीर्घो दण्डाद्यो मेषो यष्ट्यपराह्वयः ॥ ३४-९ ॥
मूलम् - ३४-९
जीवः पञ्चमवर्गादिश्चतुर्थाद्योऽन्तिमान्वितः ।
भृगुः सदीर्घो दण्डाद्यो मेषो यष्ट्यपराह्वयः ॥ ३४-९ ॥
विश्वास-प्रस्तुतिः - ३४-१०
आत्मने च पदं तत्र चक्रायेति पदं ततः ।
वर्मान्त एष मन्त्रस्तु दण्डचक्रमितीष्यते ॥ ३४-१० ॥
मूलम् - ३४-१०
आत्मने च पदं तत्र चक्रायेति पदं ततः ।
वर्मान्त एष मन्त्रस्तु दण्डचक्रमितीष्यते ॥ ३४-१० ॥
३ � कालचक्रम्
विश्वास-प्रस्तुतिः - ३४-११
वारुणं मायया युक्तं वान्तं वारुणसंयुतम् ।
प्। ३१४) यूपान्तं वह्निना युक्तं मोऽथ साग्निरथात्रियुक् ॥ ३४-११ ॥
मूलम् - ३४-११
वारुणं मायया युक्तं वान्तं वारुणसंयुतम् ।
प्। ३१४) यूपान्तं वह्निना युक्तं मोऽथ साग्निरथात्रियुक् ॥ ३४-११ ॥
विश्वास-प्रस्तुतिः - ३४-१२
धान्तं कालात्मनेत्येतच्चक्रायेति पदं ततः ।
फडन्त एष मन्त्रस्तु कालचक्रः प्रकीर्तितः ॥ ३४-१२ ॥
मूलम् - ३४-१२
धान्तं कालात्मनेत्येतच्चक्रायेति पदं ततः ।
फडन्त एष मन्त्रस्तु कालचक्रः प्रकीर्तितः ॥ ३४-१२ ॥
४ � धर्मचक्रम्
विश्वास-प्रस्तुतिः - ३४-१३
मोन यक्राच नेत्मर्मा तथा ध नमयेति च ।
निलखीत्यपिचाकारो व्युत्क्रमेण प्रदृश्यते ॥ ३४-१३ ॥
मूलम् - ३४-१३
मोन यक्राच नेत्मर्मा तथा ध नमयेति च ।
निलखीत्यपिचाकारो व्युत्क्रमेण प्रदृश्यते ॥ ३४-१३ ॥
धर्मचक्रमिमं मन्त्रं विदुः पूर्वे महर्षयः ।
५ � विष्णुचक्रम्
तारपूर्वं च हृदयं भगाद्यन्तौ वनादिमः ॥ ३४-१४ ॥
विश्वास-प्रस्तुतिः - ३४-१५
चण्डीशयुक्त आषाढस्तीव्रतेजस इत्यपि ।
पर्यायं लक्षसङ्ख्याया आरेति च पदं ततः ॥ ३४-१५ ॥
मूलम् - ३४-१५
चण्डीशयुक्त आषाढस्तीव्रतेजस इत्यपि ।
पर्यायं लक्षसङ्ख्याया आरेति च पदं ततः ॥ ३४-१५ ॥
विश्वास-प्रस्तुतिः - ३४-१६
परमत्र प्रयोक्तव्यं भिन्धीति च पदं ततः ।
भीषयेत्यपि वक्तव्यं विष्णुचक्रमिदं विदुः ॥ ३४-१६ ॥
मूलम् - ३४-१६
परमत्र प्रयोक्तव्यं भिन्धीति च पदं ततः ।
भीषयेत्यपि वक्तव्यं विष्णुचक्रमिदं विदुः ॥ ३४-१६ ॥
६ � इन्द्रचक्रम्
विश्वास-प्रस्तुतिः - ३४-१७
यषशो कं तथा नीवानदा वन्नपिरूमहि ।
मिन्नेलज्वेति तारं च इन्द्रचक्रमिदं स्मृतम् ॥ ३४-१७ ॥
मूलम् - ३४-१७
यषशो कं तथा नीवानदा वन्नपिरूमहि ।
मिन्नेलज्वेति तारं च इन्द्रचक्रमिदं स्मृतम् ॥ ३४-१७ ॥
७ � वज्रास्त्रम्
विश्वास-प्रस्तुतिः - ३४-१८
तारं चतुर्मुखः स्वङ्गनाथवान् दीर्घसंयुतः ।
प्। ३१५) पिनाकी दीर्घसंयुक्तो जलाद्यं मायि सोमराट् ॥ ३४-१८ ॥
मूलम् - ३४-१८
तारं चतुर्मुखः स्वङ्गनाथवान् दीर्घसंयुतः ।
प्। ३१५) पिनाकी दीर्घसंयुक्तो जलाद्यं मायि सोमराट् ॥ ३४-१८ ॥
विश्वास-प्रस्तुतिः - ३४-१९
फलान्तं भीषणपदं दम्भोले इत्यपि क्रमात् ।
वर्मास्त्रयुक्तं विज्ञेयं वज्रास्त्रमिदमुत्तमम् ॥ ३४-१९ ॥
मूलम् - ३४-१९
फलान्तं भीषणपदं दम्भोले इत्यपि क्रमात् ।
वर्मास्त्रयुक्तं विज्ञेयं वज्रास्त्रमिदमुत्तमम् ॥ ३४-१९ ॥
८ � त्रिशूलम्
विश्वास-प्रस्तुतिः - ३४-२०
हृत्पूर्वं वह्निमायायुगाषाढो मायया बकः ।
वह्निर्भृगुः सचण्डीशः प्रयोक्तव्यस्ततः परम् ॥ ३४-२० ॥
मूलम् - ३४-२०
हृत्पूर्वं वह्निमायायुगाषाढो मायया बकः ।
वह्निर्भृगुः सचण्डीशः प्रयोक्तव्यस्ततः परम् ॥ ३४-२० ॥
विश्वास-प्रस्तुतिः - ३४-२१
अथ शूलवरायेति भीमरूपपदं तथा ।
दारयेति पदं तत्र मारयेति पदं ततः ॥ ३४-२१ ॥
मूलम् - ३४-२१
अथ शूलवरायेति भीमरूपपदं तथा ।
दारयेति पदं तत्र मारयेति पदं ततः ॥ ३४-२१ ॥
भीषयेति शिरोऽन्तं च त्रिशूलमिदमीरितम् ।
९ � ब्रह्मशिरोऽस्त्रम्
क्रोधी दण्डी च चण्डीशवीरान्तं वृश्चिकादिमम् ॥ ३४-२२ ॥
आषाढयुक् सचण्डीशो हुं फड् ब्रह्मशिरः स्मृतम् ।
१० � ऐषीकास्त्रम्
हास्वा पक्षि यवद्रावि न्यंसैरप मरेति च ॥ ३४-२३ ॥
पकारं व्युत्क्रमेणेदमैषीकं परमं स्मृतम् ।
११ � मोदकी
भृगुः क्रोधी पिनाकी च सानन्तो मित्र इत्यपि ॥ ३४-२४ ॥
विश्वास-प्रस्तुतिः - ३४-२५
प्। ३१६) सन्तापनान्ते माया स्यान्मोदकान्ते च तां न्यसेत् ।
कवचास्त्रयुतो मन्त्रो मोदकी स्याद् गदाह्वया ॥ ३४-२५ ॥
मूलम् - ३४-२५
प्। ३१६) सन्तापनान्ते माया स्यान्मोदकान्ते च तां न्यसेत् ।
कवचास्त्रयुतो मन्त्रो मोदकी स्याद् गदाह्वया ॥ ३४-२५ ॥
१२ � शिखरी
विश्वास-प्रस्तुतिः - ३४-२६
लोहितश्च भुजङ्गेशो भृगुर्भौतिकसंयुतः ।
मुण्डः सवाली खड्गीशो दीर्घयुक्तश्च पावकः ॥ ३४-२६ ॥
मूलम् - ३४-२६
लोहितश्च भुजङ्गेशो भृगुर्भौतिकसंयुतः ।
मुण्डः सवाली खड्गीशो दीर्घयुक्तश्च पावकः ॥ ३४-२६ ॥
विश्वास-प्रस्तुतिः - ३४-२७
उमेशो मायया युक्तः शिखरीति पदं ततः ।
ततो भेदिनि फट् चैव शिखरी स्याद् गदाह्वया ॥ ३४-२७ ॥
मूलम् - ३४-२७
उमेशो मायया युक्तः शिखरीति पदं ततः ।
ततो भेदिनि फट् चैव शिखरी स्याद् गदाह्वया ॥ ३४-२७ ॥
१३ � धर्मपाशास्त्रम्
विश्वास-प्रस्तुतिः - ३४-२८
वप्रान्तमाद्यं चण्डस्य मण्डपे मध्यमं ततः ।
दुर्वृत्तेति पदं तत्र गजपर्यायमप्युत ॥ ३४-२८ ॥
मूलम् - ३४-२८
वप्रान्तमाद्यं चण्डस्य मण्डपे मध्यमं ततः ।
दुर्वृत्तेति पदं तत्र गजपर्यायमप्युत ॥ ३४-२८ ॥
द्विरावृत्तं बन्धयेति धर्मपाशमिदं विदुः ।
१४ � कालपाशास्त्रम्
अत्रिर्मायान्वितः श्वेतः ससोमेशोऽथ पावकः ॥ ३४-२९ ॥
विश्वास-प्रस्तुतिः - ३४-३०
षष्ठस्वरसमायुक्तो लोहितश्च ततः क्रमात् ।
विष्टम्भयेति च पदं द्विरावृत्तमतः परम् ॥ ३४-३० ॥
मूलम् - ३४-३०
षष्ठस्वरसमायुक्तो लोहितश्च ततः क्रमात् ।
विष्टम्भयेति च पदं द्विरावृत्तमतः परम् ॥ ३४-३० ॥
वर्मान्त एष मन्त्रस्तु कालपाश इतीरितः ।
१५ � वरुणपाशास्त्रम्
तुन्दिलेति पदं पूर्वं सर्वेति च पदं ततः ॥ ३४-३१ ॥
विश्वास-प्रस्तुतिः - ३४-३२
प्। ३१७) वारणेति ततो घोररूपेति च पदं क्रमात् ।
वर्म फट् चेति मन्त्रोऽयं वारुणं पाशमुत्तमम् ॥ ३४-३२ ॥
मूलम् - ३४-३२
प्। ३१७) वारणेति ततो घोररूपेति च पदं क्रमात् ।
वर्म फट् चेति मन्त्रोऽयं वारुणं पाशमुत्तमम् ॥ ३४-३२ ॥
१६ � आद्योऽशनिः
विश्वास-प्रस्तुतिः - ३४-३३
लोहितश्चैव वह्निश्च कूर्मः साषाढकं विषम् ।
भारभूतियुतः क्रोधी ततश्च मतिपश्चिमः ॥ ३४-३३ ॥
मूलम् - ३४-३३
लोहितश्चैव वह्निश्च कूर्मः साषाढकं विषम् ।
भारभूतियुतः क्रोधी ततश्च मतिपश्चिमः ॥ ३४-३३ ॥
विश्वास-प्रस्तुतिः - ३४-३४
अथ हस्तापरं नाम शोषयेति द्विरुच्चरेत् ।
अशनिद्वितयादाद्यमिमं मन्त्रं विदुर्बुधाः ॥ ३४-३४ ॥
मूलम् - ३४-३४
अथ हस्तापरं नाम शोषयेति द्विरुच्चरेत् ।
अशनिद्वितयादाद्यमिमं मन्त्रं विदुर्बुधाः ॥ ३४-३४ ॥
१७ � अन्योऽशनिः
यषभी णरदानोमरप इत्यपरोऽशनिः ।
१८ � पैनाकास्त्रम्
अमरेशोऽथ खान्तोऽग्निसंयुक्तो दण्ड इत्यपि ॥ ३४-३५ ॥
अङ्कुशो भिन्धि भिन्धीति पैनाकममितद्युति ।
१९ � नारायणास्त्रम्
विष्णुर्दण्डी पुनश्चाद्यो भुजङ्गो दीर्घसंयुतः ॥ ३४-३६ ॥
विश्वास-प्रस्तुतिः - ३४-३७
आषाढो मायया युक्तः सुदर्शनपराह्वयः ।
दारणेति पदं तत्र विश्वमूर्ते इति क्रमात् ॥ ३४-३७ ॥
मूलम् - ३४-३७
आषाढो मायया युक्तः सुदर्शनपराह्वयः ।
दारणेति पदं तत्र विश्वमूर्ते इति क्रमात् ॥ ३४-३७ ॥
वर्मास्त्रे च तथा ज्ञेये नारायणमिदं स्मृतम् ।
२० � पाशुपतास्त्रम्
सपिनाकी बको बिन्दुर्महामायासमन्वितः ॥ ३४-३८ ॥
विश्वास-प्रस्तुतिः - ३४-३९
प्। ३१८) लोहितोऽथ बकश्चायं पञ्चमस्वरसंयुतः ।
कवचास्त्रे प्रयोक्तव्ये एतत् पाशुपतं स्मृतम् ॥ ३४-३९ ॥
मूलम् - ३४-३९
प्। ३१८) लोहितोऽथ बकश्चायं पञ्चमस्वरसंयुतः ।
कवचास्त्रे प्रयोक्तव्ये एतत् पाशुपतं स्मृतम् ॥ ३४-३९ ॥
२१ � आग्नेयास्त्रम्
विश्वास-प्रस्तुतिः - ३४-४०
तारं ततश्च हृदयं बहुवर्णाय चेत्यथ ।
वृत्तपिङ्गलशब्दं च लोचनेति ततः क्रमात् ॥ ३४-४० ॥
मूलम् - ३४-४०
तारं ततश्च हृदयं बहुवर्णाय चेत्यथ ।
वृत्तपिङ्गलशब्दं च लोचनेति ततः क्रमात् ॥ ३४-४० ॥
विश्वास-प्रस्तुतिः - ३४-४१
विश्वामित्रपदं चापि तथा प्रशमनेति च ।
दहेति शोषयेत्येवं प्रयुञ्ज्याद् भीषयेति च ॥ ३४-४१ ॥
मूलम् - ३४-४१
विश्वामित्रपदं चापि तथा प्रशमनेति च ।
दहेति शोषयेत्येवं प्रयुञ्ज्याद् भीषयेति च ॥ ३४-४१ ॥
एतदाग्नेयमत्युग्रं सुरासुरसुपूजितम् ।
२२ � दयितास्त्रम्
बकश्च सूक्ष्मश्चण्डश्च भुजङ्गो दीर्घदण्डवान् ॥ ३४-४२ ॥
विश्वास-प्रस्तुतिः - ३४-४३
व्योम खड्गीशसंयुक्तं वाली प्रक्षेपणेति च ।
वर्मान्तमेतं मन्त्रं तु दयितं परिचक्षते ॥ ३४-४३ ॥
मूलम् - ३४-४३
व्योम खड्गीशसंयुक्तं वाली प्रक्षेपणेति च ।
वर्मान्तमेतं मन्त्रं तु दयितं परिचक्षते ॥ ३४-४३ ॥
२३ � वायव्यास्त्रम्
विश्वास-प्रस्तुतिः - ३४-४४
वालिनं दण्डसहितं त्रिरावृत्तं विनिर्दिशेत् ।
यक्षरक्षःपदे चैव पिशाचादीनिति क्रमात् ॥ ३४-४४ ॥
मूलम् - ३४-४४
वालिनं दण्डसहितं त्रिरावृत्तं विनिर्दिशेत् ।
यक्षरक्षःपदे चैव पिशाचादीनिति क्रमात् ॥ ३४-४४ ॥
विश्वास-प्रस्तुतिः - ३४-४५
अमित्रांश्चेति च पदं ब्रूयाद् दूरमतः परम् ।
द्विरावृत्तं ततः कुर्यादुत्सारयपदं क्रमात् ॥ ३४-४५ ॥
मूलम् - ३४-४५
अमित्रांश्चेति च पदं ब्रूयाद् दूरमतः परम् ।
द्विरावृत्तं ततः कुर्यादुत्सारयपदं क्रमात् ॥ ३४-४५ ॥
वायव्यमेतद् विख्यातं त्रैलोक्ये सर्ववन्दितम् ।
२४ � हयशिरोऽस्त्रम्
व्योम दण्डयुतं व्योम वाली शीताद्यमक्षरम् ॥ ३४-४६ ॥
विश्वास-प्रस्तुतिः - ३४-४७
प्। ३१९) श्वेतो वह्नियुतो दीर्घो भुजङ्गो दीर्घसंयुतः ।
आषाढोऽथ महामायासंयुतो मुण्डमण्डितः ॥ ३४-४७ ॥
मूलम् - ३४-४७
प्। ३१९) श्वेतो वह्नियुतो दीर्घो भुजङ्गो दीर्घसंयुतः ।
आषाढोऽथ महामायासंयुतो मुण्डमण्डितः ॥ ३४-४७ ॥
कबलीकुर्विति ब्रूयादयं हयशिरोमनुः ।
२५ � क्रौञ्चास्त्रम्
नपन्तासरपेत्येष फडन्तः क्रौञ्च ईरितः ॥ ३४-४८ ॥
२६ � प्रथमा शक्तिः
विश्वास-प्रस्तुतिः - ३४-४९
णिरदाविरप र्तेमूप्तदी व्युत्क्रमतो मनुः ।
वर्मान्त एष शक्तिभ्यामाद्यः सर्वारिभीषणः ॥ ३४-४९ ॥
मूलम् - ३४-४९
णिरदाविरप र्तेमूप्तदी व्युत्क्रमतो मनुः ।
वर्मान्त एष शक्तिभ्यामाद्यः सर्वारिभीषणः ॥ ३४-४९ ॥
२७ � द्वितीया शक्तिः
विश्वास-प्रस्तुतिः - ३४-५०
नेसेतप्रो र्णिककुशं र्तेमूज्रव इतीरितः ।
व्युत्क्रेमेण हुमन्तोऽयं शक्तिभ्यामपरो मनुः ॥ ३४-५० ॥
मूलम् - ३४-५०
नेसेतप्रो र्णिककुशं र्तेमूज्रव इतीरितः ।
व्युत्क्रेमेण हुमन्तोऽयं शक्तिभ्यामपरो मनुः ॥ ३४-५० ॥
२८ � कङ्कालास्त्रम्
विश्वास-प्रस्तुतिः - ३४-५१
शिवोत्तमः सबिन्दुश्च क्रोधी दीर्घान्वितोऽनलः ।
भान्तो दीर्घसमायुक्तो वाली पडिति चान्ततः ॥ ३४-५१ ॥
मूलम् - ३४-५१
शिवोत्तमः सबिन्दुश्च क्रोधी दीर्घान्वितोऽनलः ।
भान्तो दीर्घसमायुक्तो वाली पडिति चान्ततः ॥ ३४-५१ ॥
कङ्काल एष कथितो मन्त्रः सर्वभयङ्करः ।
२९ � मुसलास्त्रम्
चण्डाद्यन्तौ क्रमान्न्यस्य रूपाद्यन्तौ ततः परम् ॥ ३४-५२ ॥
प्। ३२०) आवर्तयद् घातयेति तदेतन्मुसलं स्मृतम् ।
३० � कापालास्त्रम्
चण्डो भुजङ्गश्चात्रिश्च बको वह्निसमायुतः ॥ ३४-५३ ॥
विश्वास-प्रस्तुतिः - ३४-५४
मुण्डो द्विगण्डो मायी मा मेषद्वयमतः परम् ।
खड्गीशो भौतिकयुतो वह्निश्चण्डीशसंयुतः ॥ ३४-५४ ॥
मूलम् - ३४-५४
मुण्डो द्विगण्डो मायी मा मेषद्वयमतः परम् ।
खड्गीशो भौतिकयुतो वह्निश्चण्डीशसंयुतः ॥ ३४-५४ ॥
अस्त्रान्त एष मन्त्रः स्यात् कापालमतिभीषणम् ।
३१ � कङ्कणी
अत्रिः सदीर्घो वह्निश्च मायया तु समन्वितः ॥ ३४-५५ ॥
विश्वास-प्रस्तुतिः - ३४-५६
आषाढोऽनन्तसहितो वह्निर्दीर्घसमन्वितः ।
आद्यश्चतुर्थवर्गस्य चण्डीशेन समन्वितः ॥ ३४-५६ ॥
मूलम् - ३४-५६
आषाढोऽनन्तसहितो वह्निर्दीर्घसमन्वितः ।
आद्यश्चतुर्थवर्गस्य चण्डीशेन समन्वितः ॥ ३४-५६ ॥
दमयेति द्विरावृत्त्या मनुरेष तु कङ्कणी ।
३२ � वैद्याधरास्त्रम्
हृदयं प्रथमं न्यस्य भगेति च पदं ततः ॥ ३४-५७ ॥
विश्वास-प्रस्तुतिः - ३४-५८
वतीत्येतदपि ब्रूयान्महामाये इति क्रमात् ।
कवचास्त्रे प्रयोक्तव्ये एतद्वैद्याधरं परम् ॥ ३४-५८ ॥
मूलम् - ३४-५८
वतीत्येतदपि ब्रूयान्महामाये इति क्रमात् ।
कवचास्त्रे प्रयोक्तव्ये एतद्वैद्याधरं परम् ॥ ३४-५८ ॥
३३ � असिरक्तास्त्रम्
विश्वास-प्रस्तुतिः - ३४-५९
खण्डिताद्यरिपर्यायं पदं शक्ते इति क्रमात् ।
वर्मान्तमसिरक्ताख्यमस्त्रमेतदुदाहृतम् ॥ ३४-५९ ॥
मूलम् - ३४-५९
खण्डिताद्यरिपर्यायं पदं शक्ते इति क्रमात् ।
वर्मान्तमसिरक्ताख्यमस्त्रमेतदुदाहृतम् ॥ ३४-५९ ॥
३४ - गान्धर्वास्त्रम्
विश्वास-प्रस्तुतिः - ३४-६०
प्। ३२१) क्रोधी पिनाकिसंयुक्तो दण्डभौतिकसंयुतः ।
मोहयेति द्विरभ्यस्य मनुर्गान्धर्व इष्यते ॥ ३४-६० ॥
मूलम् - ३४-६०
प्। ३२१) क्रोधी पिनाकिसंयुक्तो दण्डभौतिकसंयुतः ।
मोहयेति द्विरभ्यस्य मनुर्गान्धर्व इष्यते ॥ ३४-६० ॥
३५ � प्रस्थापनास्त्रम्
विश्वास-प्रस्तुतिः - ३४-६१
पञ्चान्तकः सदण्डः स्यादथो गणपते अपि ।
लोकेत्यनन्तरं ब्रूयादमित्रानित्यनन्तरम् ॥ ३४-६१ ॥
मूलम् - ३४-६१
पञ्चान्तकः सदण्डः स्यादथो गणपते अपि ।
लोकेत्यनन्तरं ब्रूयादमित्रानित्यनन्तरम् ॥ ३४-६१ ॥
प्रस्थापयेत्यथाभ्यस्य प्रस्थापनमुदाहृतम् ।
३६ � प्रशमनास्त्रम्
लोहितः सानलो जीवो महामायासमन्वितः ॥ ३४-६२ ॥
विश्वास-प्रस्तुतिः - ३४-६३
अत्रिर्द्विरण्डः पञ्चारिर्लान्तो मायी तलादिमः ।
मायारूपिणि चेत्येतत् पदमन्ते प्रयोजयेत् ॥ ३४-६३ ॥
मूलम् - ३४-६३
अत्रिर्द्विरण्डः पञ्चारिर्लान्तो मायी तलादिमः ।
मायारूपिणि चेत्येतत् पदमन्ते प्रयोजयेत् ॥ ३४-६३ ॥
एतत् प्रशमनं नाम सर्वशत्रुनिवारणम् ।
३७ � सौर्यास्त्रम्
तारं ततश्च हृदयं परायेति पदं ततः ॥ ३४-६४ ॥
विश्वास-प्रस्तुतिः - ३४-६५
परेति पदमुच्चार्य तेजः पदमनन्तरम् ।
निबर्हणाय चेत्येतत् फडन्तं सौर्यमुच्यते ॥ ३४-६५ ॥
मूलम् - ३४-६५
परेति पदमुच्चार्य तेजः पदमनन्तरम् ।
निबर्हणाय चेत्येतत् फडन्तं सौर्यमुच्यते ॥ ३४-६५ ॥
३८ � दर्पणास्त्रम्
विश्वास-प्रस्तुतिः - ३४-६६
अत्रिर्दण्डी च खड्गीशो मायया च समन्वितः ।
प्। ३२२) अत्रिः सदीर्घो वह्निश्च मायी चाषाढकः स्मृतः ॥ ३४-६६ ॥
मूलम् - ३४-६६
अत्रिर्दण्डी च खड्गीशो मायया च समन्वितः ।
प्। ३२२) अत्रिः सदीर्घो वह्निश्च मायी चाषाढकः स्मृतः ॥ ३४-६६ ॥
विश्वास-प्रस्तुतिः - ३४-६७
अत्रिर्लोहितयुक्तश्च वह्निर्वर्म च फट् ततः ।
दर्पणास्त्रमिदं प्रोक्तं सर्वारिबलमर्दनम् ॥ ३४-६७ ॥
मूलम् - ३४-६७
अत्रिर्लोहितयुक्तश्च वह्निर्वर्म च फट् ततः ।
दर्पणास्त्रमिदं प्रोक्तं सर्वारिबलमर्दनम् ॥ ३४-६७ ॥
३९ � शोषणास्त्रम्
विश्वास-प्रस्तुतिः - ३४-६८
बको दन्ती च शुक्राद्यो मायायुक्तस्तलादिमः ।
वैरीति मानसेत्येतत् प्रयोज्यं वर्म चान्ततः ॥ ३४-६८ ॥
मूलम् - ३४-६८
बको दन्ती च शुक्राद्यो मायायुक्तस्तलादिमः ।
वैरीति मानसेत्येतत् प्रयोज्यं वर्म चान्ततः ॥ ३४-६८ ॥
एतच्छोषणमित्युक्तं विश्वारातिक्षयङ्करम् ।
४० - सन्तापनास्त्रम्
आषाढो दीर्घसंयुक्तो लोहितो माययान्वितः ॥ ३४-६९ ॥
विश्वास-प्रस्तुतिः - ३४-७०
आषाढो लोहितो वह्निर्भृगुर्भौतिकसंयुतः ।
मुण्डयुक्तं सवालि स्याद् भृगुराकाश एव च ॥ ३४-७० ॥
मूलम् - ३४-७०
आषाढो लोहितो वह्निर्भृगुर्भौतिकसंयुतः ।
मुण्डयुक्तं सवालि स्याद् भृगुराकाश एव च ॥ ३४-७० ॥
विश्वास-प्रस्तुतिः - ३४-७१
स्रमूर्ते इति च न्यस्य सन्तापयपदं ततः ।
आवर्तयेदिमं मन्त्रं सन्तापनमुदाहृतम् ॥ ३४-७१ ॥
मूलम् - ३४-७१
स्रमूर्ते इति च न्यस्य सन्तापयपदं ततः ।
आवर्तयेदिमं मन्त्रं सन्तापनमुदाहृतम् ॥ ३४-७१ ॥
४१ � विलापनास्त्रम्
विश्वास-प्रस्तुतिः - ३४-७२
भृगुर्भौतिकसंयुक्तः सवह्निर्दण्डसंयुतः ।
महाकालः सदीर्घः स्याद् वाली दीर्घान्वितस्ततः ॥ ३४-७२ ॥
मूलम् - ३४-७२
भृगुर्भौतिकसंयुक्तः सवह्निर्दण्डसंयुतः ।
महाकालः सदीर्घः स्याद् वाली दीर्घान्वितस्ततः ॥ ३४-७२ ॥
आत्मने तु पदं पश्चात् फडन्तः स्याद्विलापनम् ।
४२ � मदनास्त्रम्
हुं येमाहामरर्वादु व्युत्क्रान्तं मदनं स्मृतम् ॥ ३४-७३ ॥
४३ � कन्दर्पदयितास्त्रम्
विश्वास-प्रस्तुतिः - ३४-७४
प्। ३२३) चलगण्डमथो व्योम सामरधीश्वरं ततः ।
महाकलः सदन्तः स्याद् व्योम मेषस्ततः परम् ॥ ३४-७४ ॥
मूलम् - ३४-७४
प्। ३२३) चलगण्डमथो व्योम सामरधीश्वरं ततः ।
महाकलः सदन्तः स्याद् व्योम मेषस्ततः परम् ॥ ३४-७४ ॥
विश्वास-प्रस्तुतिः - ३४-७५
मायाविन्निति च ब्रूयादस्त्रायेति पदं ततः ।
फडन्त एष मन्त्रस्तु कन्दर्पदयितं स्मृतम् ॥ ३४-७५ ॥
मूलम् - ३४-७५
मायाविन्निति च ब्रूयादस्त्रायेति पदं ततः ।
फडन्त एष मन्त्रस्तु कन्दर्पदयितं स्मृतम् ॥ ३४-७५ ॥
४४ � पैशाचास्त्रम्
विश्वास-प्रस्तुतिः - ३४-७६
निहमोरप इत्येष व्युत्क्रान्तः सशिरोमनुः ।
पैशाचमिदमाख्यातमखिलारिविमर्दनम् ॥ ३४-७६ ॥
मूलम् - ३४-७६
निहमोरप इत्येष व्युत्क्रान्तः सशिरोमनुः ।
पैशाचमिदमाख्यातमखिलारिविमर्दनम् ॥ ३४-७६ ॥
४५ � तामसास्त्रम्
विश्वास-प्रस्तुतिः - ३४-७७
अजेश्वरं त्रिरावृतं सदण्डं प्रथमं पठेत् ।
तिमिरेति पदं ब्रूयाद्धस्तपर्यायमेव च ॥ ३४-७७ ॥
मूलम् - ३४-७७
अजेश्वरं त्रिरावृतं सदण्डं प्रथमं पठेत् ।
तिमिरेति पदं ब्रूयाद्धस्तपर्यायमेव च ॥ ३४-७७ ॥
विश्वास-प्रस्तुतिः - ३४-७८
प्रतिसैन्यं पदं पश्चात् संवृण्विति समभ्यसेत् ।
एतत् तामसमित्युक्तमस्त्रं सर्वारिमोहनम् ॥ ३४-७८ ॥
मूलम् - ३४-७८
प्रतिसैन्यं पदं पश्चात् संवृण्विति समभ्यसेत् ।
एतत् तामसमित्युक्तमस्त्रं सर्वारिमोहनम् ॥ ३४-७८ ॥
४६ � सौमनास्त्रम्
विश्वास-प्रस्तुतिः - ३४-७९
विष्णुर्दन्ती महाकालः शिवोत्तममतः परम् ।
शक्ते इति पदं पश्चात् परस्तम्भन इत्यतः ॥ ३४-७९ ॥
मूलम् - ३४-७९
विष्णुर्दन्ती महाकालः शिवोत्तममतः परम् ।
शक्ते इति पदं पश्चात् परस्तम्भन इत्यतः ॥ ३४-७९ ॥
वर्मास्त्रे च ततो ब्रूयादेतत् सौमनमुच्यते ।
४७ � संवर्तास्त्रम्
भुजङ्गो दण्डवान् पश्चाद्रिपूनिति पदं वदेत् ॥ ३४-८० ॥
प्। २२४) क्षिपेति द्विः शिरोऽन्तं स्यात् संवर्तमिदमुत्तमम् ।
४८ � मौसलास्त्रम्
तिग्मेति वृत्ते इति च पदे पूर्वं पठेत् क्रमात् ॥ ३४-८१ ॥
भिन्धीति च द्विरभ्यस्तं शिरोऽन्तं मौसलं स्मृतम् ।
४९ � सत्यास्त्रम्
तारं प्रणामपर्यायं परमार्थाय इत्यथ ॥ ३४-८२ ॥
विश्वास-प्रस्तुतिः - ३४-८३
रिपूनिति पदं ब्रूयाज्जहीत्येतद् द्विरभ्यसेत् ।
सत्यमस्त्रमिदं प्रोक्तं सर्वशत्रुनिबर्हणम् ॥ ३४-८३ ॥
मूलम् - ३४-८३
रिपूनिति पदं ब्रूयाज्जहीत्येतद् द्विरभ्यसेत् ।
सत्यमस्त्रमिदं प्रोक्तं सर्वशत्रुनिबर्हणम् ॥ ३४-८३ ॥
५० � मायाधरास्त्रम्
विश्वास-प्रस्तुतिः - ३४-८४
तारं ततश्च हृदयं देवायेति पदं वदेत् ।
मायात्मने इति पदं पठित्वा तदनन्तरम् ॥ ३४-८४ ॥
मूलम् - ३४-८४
तारं ततश्च हृदयं देवायेति पदं वदेत् ।
मायात्मने इति पदं पठित्वा तदनन्तरम् ॥ ३४-८४ ॥
फडन्त एष मन्त्रस्तु मायाधरमुदीरितम् ।
५१ � घोरास्त्रम्
शिवोत्तमः सदण्डश्च पुनश्चायं सदन्तकः ॥ ३४-८५ ॥
विश्वास-प्रस्तुतिः - ३४-८६
वह्निस्ततो भुजङ्गः स्यदङ्घ्रीशेन च संयुतः ।
लोहितो दीर्घयुग्वाली चण्डायेति पदं वदेत् ॥ ३४-८६ ॥
मूलम् - ३४-८६
वह्निस्ततो भुजङ्गः स्यदङ्घ्रीशेन च संयुतः ।
लोहितो दीर्घयुग्वाली चण्डायेति पदं वदेत् ॥ ३४-८६ ॥
शिरोऽन्त एष मन्त्रस्तु घोरमस्त्रमुदीरितम् ।
५२ � रत्यस्त्रम्
भृगुरौद्रद्विकं रेफं द्विः कृत्वा प्रादिकान् पुनः ॥ ३४-८७ ॥
विश्वास-प्रस्तुतिः - ३४-८८
प्। ३२५) शिवोत्तमं ससत्यं च भुजङ्गेशस्ततः परम् ।
आषाढोऽमरयुङ्मेषं रत्यस्त्रं च पवित्रकम् ॥ ३४-८८ ॥
मूलम् - ३४-८८
प्। ३२५) शिवोत्तमं ससत्यं च भुजङ्गेशस्ततः परम् ।
आषाढोऽमरयुङ्मेषं रत्यस्त्रं च पवित्रकम् ॥ ३४-८८ ॥
५३ � अघोरास्त्रम्
विश्वास-प्रस्तुतिः - ३४-८९
चटं वीप्स्य पुनः प्रादिं क्रोधीशं व्योम चाभ्यसेत् ।
वारुणं च तथा कालं द्विर्वामनसबिन्दुकम् ॥ ३४-८९ ॥
मूलम् - ३४-८९
चटं वीप्स्य पुनः प्रादिं क्रोधीशं व्योम चाभ्यसेत् ।
वारुणं च तथा कालं द्विर्वामनसबिन्दुकम् ॥ ३४-८९ ॥
विश्वास-प्रस्तुतिः - ३४-९०
मीनमावृत्य मेषं च आषाढं लोहितं पुनः ।
शक्त्याधिकमघोरास्त्रं वर्मास्त्रान्तमुदीरितम् ॥ ३४-९० ॥
मूलम् - ३४-९०
मीनमावृत्य मेषं च आषाढं लोहितं पुनः ।
शक्त्याधिकमघोरास्त्रं वर्मास्त्रान्तमुदीरितम् ॥ ३४-९० ॥
५४ � सौमास्त्रम्
विश्वास-प्रस्तुतिः - ३४-९१
भृगुं सानुग्रहाधीशं दण्डिनं प्रथमं पठेत् ।
द्विषन्तं पदमुच्चार्य तत उद्वेजयेति च ॥ ३४-९१ ॥
मूलम् - ३४-९१
भृगुं सानुग्रहाधीशं दण्डिनं प्रथमं पठेत् ।
द्विषन्तं पदमुच्चार्य तत उद्वेजयेति च ॥ ३४-९१ ॥
अन्त्यं द्विरभ्यसेदेतत् सौमास्त्रमिदमीरितम् ।
५५ � त्वाष्ट्रास्त्रम्
प्रणवं हृदयं पूर्वं भृगुस्तेनैव संयुतः ॥ ३४-९२ ॥
विश्वास-प्रस्तुतिः - ३४-९३
क्रोधी पिनाकी मेषश्च मायया च समन्वितः ।
महाकालद्वयं साग्निदीर्घयुक्तं ततः परम् ॥ ३४-९३ ॥
मूलम् - ३४-९३
क्रोधी पिनाकी मेषश्च मायया च समन्वितः ।
महाकालद्वयं साग्निदीर्घयुक्तं ततः परम् ॥ ३४-९३ ॥
विश्वास-प्रस्तुतिः - ३४-९४
भारभूतियुगाषाढो मीनो दीर्घसमन्वितः ।
धाम्ने इति पदं ब्रूयात् परायेति पदं ततः ॥ ३४-९४ ॥
मूलम् - ३४-९४
भारभूतियुगाषाढो मीनो दीर्घसमन्वितः ।
धाम्ने इति पदं ब्रूयात् परायेति पदं ततः ॥ ३४-९४ ॥
एतत् त्वाष्ट्रं समाख्यातं सर्वलोकनमस्कृतम् ।
५६ � दारुणास्त्रम्
विष्णुर्दण्डी पुनश्चाद्यो भुजङ्गो दीर्घसंयुतः ॥ ३४-९५ ॥
विश्वास-प्रस्तुतिः - ३४-९६
प्। ३२६) आषाढो मायया युक्तो ज्वलनो बिन्दुसंयुतः ।
चतुर्मुखश्च क्रोधीशः फडन्तः स्यात्तु दारुणम् ॥ ३४-९६ ॥
मूलम् - ३४-९६
प्। ३२६) आषाढो मायया युक्तो ज्वलनो बिन्दुसंयुतः ।
चतुर्मुखश्च क्रोधीशः फडन्तः स्यात्तु दारुणम् ॥ ३४-९६ ॥
५७ � भगास्त्रम्
विश्वास-प्रस्तुतिः - ३४-९७
विपक्षादिममध्यान्तान् पठेद् विभजनेति च ।
प्रवृत्तायेति च पदं भगेति तदनन्तरम् ॥ ३४-९७ ॥
मूलम् - ३४-९७
विपक्षादिममध्यान्तान् पठेद् विभजनेति च ।
प्रवृत्तायेति च पदं भगेति तदनन्तरम् ॥ ३४-९७ ॥
आत्मने इति निर्दिश्य भगास्त्रं तत् फडन्तिमम् ।
५८ � शीतेष्वस्त्रम्
बकस्त्रिमूर्तिसहित आषाढश्च शिखी ततः ॥ ३४-९८ ॥
विश्वास-प्रस्तुतिः - ३४-९९
पिनाकी खड्गिको मायी लोहितश्च तथोपरि ।
संवर्तकः सदण्डश्च क्षिपेति द्विः पठेत् ततः ॥ ३४-९९ ॥
मूलम् - ३४-९९
पिनाकी खड्गिको मायी लोहितश्च तथोपरि ।
संवर्तकः सदण्डश्च क्षिपेति द्विः पठेत् ततः ॥ ३४-९९ ॥
शिरोऽन्त एष मन्त्रस्तु शीतेषुरभिधीयते ।
५९ � मानवास्त्रम्
लोहितश्च भुजङ्गश्च दीर्घो वाल्यथ लोहितः ॥ ३४-१०० ॥
अग्निर्भान्तश्च वाली च सवह्निर्दीर्घसंयुतः ।
विश्वास-प्रस्तुतिः - ३४-१०१
अत्रिर्दीर्घसमायुक्तो भेदिने इति च क्रमात् ।
भीमरूपाय चेत्युक्त्वा नमोऽन्तं मानवं स्मृतम् ॥ ३४-१०१ ॥
मूलम् - ३४-१०१
अत्रिर्दीर्घसमायुक्तो भेदिने इति च क्रमात् ।
भीमरूपाय चेत्युक्त्वा नमोऽन्तं मानवं स्मृतम् ॥ ३४-१०१ ॥
६० � रौद्रास्त्रम्
दहेति द्विरभ्यस्य पूर्वं प्रचण्ड �
प्रयोगं विधायाथ रूपेति पश्चात् ।
प्। ३२७) ततो रुद्रधाम्ने न्यस्य पश्चा �
च्छिरोवृत्तमेतत् परं रौद्रमाहुः ॥ ३४-१०२ ॥
६१ � प्रस्वापनास्त्रम्
अत्रिस्त्रिमूर्तिसहितोऽथ शिवोत्तमश्च
साग्निर्भृगुस्त्वमरनायकसप्रयुक्तः ।
सुप्त्यन्तिमः करिपदं च ततः प्रयोज्यं
मायात्मिके इति फडन्तमसौ मनुः स्यात् ॥ ३४-१०३ ॥
प्रस्वापनं तदिदमाहुरशेषवैरि-
सेनासमस्तपरिमोहनकारि मुख्यम् ।
इत्थं समस्तपरमास्त्रसमुद्धृतिस्तु
तत्त्वान्मया विरचिता परमेष्ठिसूनो ॥ ३४-१०४ ॥
तारं सद्योजातमाषाढमन्ते
खड्गेशानं भौतिकेनैव युक्तम् ।
वह्निं मायासंवृतं तत्र चोक्त्वा
हृत्पर्यायं वर्म फट् चान्ततः स्यात् ॥ ३४-१०५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम
चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
आदितः श्लोकाः २१५३
संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
ध्यातं स्कृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गोदेवस्य धीमहि ॥
संहारास्त्रस्वरूपप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३५-१
भगवन् पूर्वमाख्यातं संहारास्त्राण्यशेषतः ।
सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर ॥ ३५-१ ॥
मूलम् - ३५-१
भगवन् पूर्वमाख्यातं संहारास्त्राण्यशेषतः ।
सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर ॥ ३५-१ ॥
विश्वास-प्रस्तुतिः - ३५-२
तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम् ।
वक्तुमर्हस्यशेषेण यदि सानुग्रहो मयि ॥ ३५-२ ॥
मूलम् - ३५-२
तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम् ।
वक्तुमर्हस्यशेषेण यदि सानुग्रहो मयि ॥ ३५-२ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ३५-३
तदेतत् परमं गुह्यं पुरा नारायणेरितम् ।
भक्तोऽसीति तव स्नेहाद् वक्ष्यामि शृणु नारद ॥ ३५-३ ॥
मूलम् - ३५-३
तदेतत् परमं गुह्यं पुरा नारायणेरितम् ।
भक्तोऽसीति तव स्नेहाद् वक्ष्यामि शृणु नारद ॥ ३५-३ ॥
१ � सत्यवदस्त्रम्
विश्वास-प्रस्तुतिः - ३५-४
लोहितोऽग्निसमायुक्तः खड्गीशो भारभूतिमान् ।
आषाढयुग्मं मुण्डश्च मायी स्यात् खड्गनायकः ॥ ३५-४ ॥
मूलम् - ३५-४
लोहितोऽग्निसमायुक्तः खड्गीशो भारभूतिमान् ।
आषाढयुग्मं मुण्डश्च मायी स्यात् खड्गनायकः ॥ ३५-४ ॥
विश्वास-प्रस्तुतिः - ३५-५
प्। ३२९) साग्न्याषाढयुगं पश्चात् क्रोधीशं निर्दिशेत् ततः ।
परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् ॥ ३५-५ ॥
मूलम् - ३५-५
प्। ३२९) साग्न्याषाढयुगं पश्चात् क्रोधीशं निर्दिशेत् ततः ।
परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् ॥ ३५-५ ॥
पिबेति सशिरोमन्त्रः सत्यवानिति विश्रुतः ।
२ � सत्यकीर्त्यस्त्रम्
तारं ततश्च हृदयं सत्यधाम्न इति क्रमात् ॥ ३५-६ ॥
शमयेति द्विरावृत्तं सत्यकीर्तिरिति स्मृतम् ।
३ - धृष्टास्त्रम्
अत्रिः सामरनाथश्च साग्निः पञ्चान्तकः स्मृतः ॥ ३५-७ ॥
विश्वास-प्रस्तुतिः - ३५-८
महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा ।
प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः ॥ ३५-८ ॥
मूलम् - ३५-८
महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा ।
प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः ॥ ३५-८ ॥
४ - रभसास्त्रम्
विश्वास-प्रस्तुतिः - ३५-९
क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः ।
अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा ॥ ३५-९ ॥
मूलम् - ३५-९
क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः ।
अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा ॥ ३५-९ ॥
विश्वास-प्रस्तुतिः - ३५-१०
अग्निर्द्विरण्डश्च भृगुर्दीर्घो वाली ततः परम् ।
नमोऽन्त एष मन्त्रस्तु रभसः परिकीर्तितः ॥ ३५-१० ॥
मूलम् - ३५-१०
अग्निर्द्विरण्डश्च भृगुर्दीर्घो वाली ततः परम् ।
नमोऽन्त एष मन्त्रस्तु रभसः परिकीर्तितः ॥ ३५-१० ॥
५ � प्रतीहारतरास्त्रम्
तारं शिरोयुतं मन्त्रं प्रतीहारतरं विदुः ।
६ � पराङ्मुखास्त्रम्
प्। ३३०) लोहितो वह्निसंयुक्तः स्तुतेति च पदं ततः ॥ ३५-११ ॥
विश्वास-प्रस्तुतिः - ३५-१२
स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात् ।
आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् ॥ ३५-१२ ॥
मूलम् - ३५-१२
स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात् ।
आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् ॥ ३५-१२ ॥
७ � अवाङ्मुखास्त्रम्
विश्वास-प्रस्तुतिः - ३५-१३
अमरेशस्तथात्रिश्च सवाल्याषाढनायकः ।
विद्रावणायेति पदमवेति तदनन्तरम् ॥ ३५-१३ ॥
मूलम् - ३५-१३
अमरेशस्तथात्रिश्च सवाल्याषाढनायकः ।
विद्रावणायेति पदमवेति तदनन्तरम् ॥ ३५-१३ ॥
विश्वास-प्रस्तुतिः - ३५-१४
नतेति च प्रयोक्तव्यं फलाय तदनन्तरम् ।
शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः ॥ ३५-१४ ॥
मूलम् - ३५-१४
नतेति च प्रयोक्तव्यं फलाय तदनन्तरम् ।
शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः ॥ ३५-१४ ॥
८ � लक्षाक्षास्त्रम्
विश्वास-प्रस्तुतिः - ३५-१५
नियुतापरपर्यायं भेदिने इत्यनन्तरम् ।
निरासकेति चावृत्तं पदमायेति चेत्यथ ॥ ३५-१५ ॥
मूलम् - ३५-१५
नियुतापरपर्यायं भेदिने इत्यनन्तरम् ।
निरासकेति चावृत्तं पदमायेति चेत्यथ ॥ ३५-१५ ॥
हृदयान्तमिमं मन्त्रं लक्षाक्षं परिचक्षते ।
९ � विषमास्त्रम्
खड्गीशो मायया युक्तः कूर्मो मायासमन्वितः ॥ ३५-१६ ॥
विश्वास-प्रस्तुतिः - ३५-१७
आषाढो वह्निसहितो लोहितश्चाग्निसंयुतः ।
भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् ॥ ३५-१७ ॥
मूलम् - ३५-१७
आषाढो वह्निसहितो लोहितश्चाग्निसंयुतः ।
भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् ॥ ३५-१७ ॥
एतद्विषममित्युक्तमस्त्रं परमदुर्जयम् ।
१० � दृढनाभास्त्रम्
शान्तिं पदं न्यसेत् पूर्वं कुर्वित्येतदतः परम् ॥ ३५-१८ ॥
विश्वास-प्रस्तुतिः - ३५-१९
निबिडेति ततो न्यस्य गात्रशब्दं ततः परम् ।
विष्कम्भेति शिरोऽन्तं च दृढनाभमुदाहृतम् ॥ ३५-१९ ॥
मूलम् - ३५-१९
निबिडेति ततो न्यस्य गात्रशब्दं ततः परम् ।
विष्कम्भेति शिरोऽन्तं च दृढनाभमुदाहृतम् ॥ ३५-१९ ॥
११ � संहारकास्त्रम्
विश्वास-प्रस्तुतिः - ३५-२०
हास्वा यक्राचतसृवि मोन ॐ व्युत्क्रमो मनुः ।
संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः ॥ ३५-२० ॥
मूलम् - ३५-२०
हास्वा यक्राचतसृवि मोन ॐ व्युत्क्रमो मनुः ।
संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः ॥ ३५-२० ॥
१२ � दशाक्षास्त्रम्
विश्वास-प्रस्तुतिः - ३५-२१
खड्गीशो मायया युक्तस्तेन युक्तो बकस्तथा ।
वान्तो दीर्घसमायुक्त आषाढो मुण्ड एव च ॥ ३५-२१ ॥
मूलम् - ३५-२१
खड्गीशो मायया युक्तस्तेन युक्तो बकस्तथा ।
वान्तो दीर्घसमायुक्त आषाढो मुण्ड एव च ॥ ३५-२१ ॥
विश्वास-प्रस्तुतिः - ३५-२२
दीर्घी ख्ड्गेश्वरो वह्निरुमेशो दीर्घसंयुतः ।
वाली हृदन्तो मन्त्रोऽयं दशाक्षः परिपठ्यते ॥ ३५-२२ ॥
मूलम् - ३५-२२
दीर्घी ख्ड्गेश्वरो वह्निरुमेशो दीर्घसंयुतः ।
वाली हृदन्तो मन्त्रोऽयं दशाक्षः परिपठ्यते ॥ ३५-२२ ॥
१३ � दशशीर्षास्त्रम्
विश्वास-प्रस्तुतिः - ३५-२३
तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत् ।
अम्बरं सामराधीशं वक्त्रायेति पदं ततः ॥ ३५-२३ ॥
मूलम् - ३५-२३
तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत् ।
अम्बरं सामराधीशं वक्त्रायेति पदं ततः ॥ ३५-२३ ॥
विश्वास-प्रस्तुतिः - ३५-२४
वज्रवारणशब्दौ च आयान्तं शतवक्त्रकम् ।
शिवोत्तमः सदन्तः स्यादग्निर्दीर्घसमन्वितः ॥ ३५-२४ ॥
मूलम् - ३५-२४
वज्रवारणशब्दौ च आयान्तं शतवक्त्रकम् ।
शिवोत्तमः सदन्तः स्यादग्निर्दीर्घसमन्वितः ॥ ३५-२४ ॥
भृगुराषाढवान् साग्निः कर्तनायेति विन्यसेत् ।
प्। ३३२) दशेति च पदं पश्चाच्छीर्षायेति पदं ततः ॥ ३५-२५ ॥
शिरोऽन्त एष मन्त्रस्तु दशशीर्षमुदाहृतम् ।
१४ � शतोदरास्त्रम्
तारं प्रणामपर्यायं लुप्तास्त्रेति पदं ततः ॥ ३५-२६ ॥
विश्वास-प्रस्तुतिः - ३५-२७
जालायेति प्रयोक्तव्यं बहूदरपदं ततः ।
आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः ॥ ३५-२७ ॥
मूलम् - ३५-२७
जालायेति प्रयोक्तव्यं बहूदरपदं ततः ।
आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः ॥ ३५-२७ ॥
१५ � पद्मनाभास्त्रम्
विश्वास-प्रस्तुतिः - ३५-२८
लोहितः पावकश्चैव नकुलीशस्ततः परम् ।
आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् ॥ ३५-२८ ॥
मूलम् - ३५-२८
लोहितः पावकश्चैव नकुलीशस्ततः परम् ।
आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् ॥ ३५-२८ ॥
नाशनायेत्यथाभ्यस्तं स्वस्त्यन्तं पद्मनाभकम् ।
१६ � महानाभास्त्रम्
महाकालोऽम्बरं दीर्घं लोहितो दीर्घसंयुतः ॥ ३५-२९ ॥
विश्वास-प्रस्तुतिः - ३५-३०
बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत् ।
चक्रात्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः ॥ ३५-३० ॥
मूलम् - ३५-३०
बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत् ।
चक्रात्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः ॥ ३५-३० ॥
महानाभमिदं प्राज्ञा वदन्त्यखिलसाधकम् ।
१७ � दुन्दुनाभास्त्रम्
बकश्चैव महाकालो मायी चाषाढनायकः ॥ ३५-३१ ॥
विश्वास-प्रस्तुतिः - ३५-३२
शूलायेति प्रयोक्तव्यं चण्डनाभाय चेत्यतः ।
स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः ॥ ३५-३२ ॥
मूलम् - ३५-३२
शूलायेति प्रयोक्तव्यं चण्डनाभाय चेत्यतः ।
स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः ॥ ३५-३२ ॥
१८ � धृतिमाल्यस्त्रम्
विश्वास-प्रस्तुतिः - ३५-३३
प्। ३३३) मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च ।
मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः ॥ ३५-३३ ॥
मूलम् - ३५-३३
प्। ३३३) मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च ।
मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः ॥ ३५-३३ ॥
विश्वास-प्रस्तुतिः - ३५-३४
क्रोधी च सामरेशः स्याद् बको दीर्घसमन्वितः ।
वाली दीर्घसमायुक्तो निवारितपदं ततः ॥ ३५-३४ ॥
मूलम् - ३५-३४
क्रोधी च सामरेशः स्याद् बको दीर्घसमन्वितः ।
वाली दीर्घसमायुक्तो निवारितपदं ततः ॥ ३५-३४ ॥
विश्वास-प्रस्तुतिः - ३५-३५
तेजसे इति च ब्रूयात् स्वस्त्यन्तोऽयं महामनुः ।
धृतिमालीति विख्यातः सर्वलोकेषु पूजितः ॥ ३५-३५ ॥
मूलम् - ३५-३५
तेजसे इति च ब्रूयात् स्वस्त्यन्तोऽयं महामनुः ।
धृतिमालीति विख्यातः सर्वलोकेषु पूजितः ॥ ३५-३५ ॥
१९ � रुचिरास्त्रम्
विश्वास-प्रस्तुतिः - ३५-३६
संवर्तकः सामरेशो मीनो बिन्दुसमन्वितः ।
मायी च क्षामयेत्येतदावृत्तं वृत्तिमान् मनुः ॥ ३५-३६ ॥
मूलम् - ३५-३६
संवर्तकः सामरेशो मीनो बिन्दुसमन्वितः ।
मायी च क्षामयेत्येतदावृत्तं वृत्तिमान् मनुः ॥ ३५-३६ ॥
विश्वास-प्रस्तुतिः - ३५-३७
द्विरावृत्तः प्रहरणं शं तनोतु पदं ततः ।
शिरोऽन्त एष मन्त्रस्तु रुचिरः परिकीर्तितः ॥ ३५-३७ ॥
मूलम् - ३५-३७
द्विरावृत्तः प्रहरणं शं तनोतु पदं ततः ।
शिरोऽन्त एष मन्त्रस्तु रुचिरः परिकीर्तितः ॥ ३५-३७ ॥
२० � पितृसौमनसास्त्रम्
विश्वास-प्रस्तुतिः - ३५-३८
लोहितो मायया युक्त आषाढो भारभूतिमान् ।
देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः ॥ ३५-३८ ॥
मूलम् - ३५-३८
लोहितो मायया युक्त आषाढो भारभूतिमान् ।
देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः ॥ ३५-३८ ॥
विश्वास-प्रस्तुतिः - ३५-३९
प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च ।
शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् ॥ ३५-३९ ॥
मूलम् - ३५-३९
प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च ।
शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् ॥ ३५-३९ ॥
२१ � विधूतास्त्रम्
विश्वास-प्रस्तुतिः - ३५-४०
प्। ३३४) तारं तथा च हृदयं खड्गीशो मायया युतः ।
मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः ॥ ३५-४० ॥
मूलम् - ३५-४०
प्। ३३४) तारं तथा च हृदयं खड्गीशो मायया युतः ।
मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः ॥ ३५-४० ॥
विश्वास-प्रस्तुतिः - ३५-४१
चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः ।
लोहितश्च करायेति पदं तत उदीर्य च ॥ ३५-४१ ॥
मूलम् - ३५-४१
चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः ।
लोहितश्च करायेति पदं तत उदीर्य च ॥ ३५-४१ ॥
परमेत्यथ धाम्ने च विधूतमिदमुत्तमम् ।
२२ � मकरास्त्रम्
नमस्त्रुटितशब्दौ च पठित्वा प्रथमं ततः ॥ ३५-४२ ॥
विश्वास-प्रस्तुतिः - ३५-४३
शास्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम् ।
शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् ॥ ३५-४३ ॥
मूलम् - ३५-४३
शास्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम् ।
शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् ॥ ३५-४३ ॥
विश्वास-प्रस्तुतिः - ३५-४४
प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः ।
विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् ॥ ३५-४४ ॥
मूलम् - ३५-४४
प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः ।
विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् ॥ ३५-४४ ॥
२३ � करवीरसमास्त्रम्
विश्वास-प्रस्तुतिः - ३५-४५
तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः ।
गदाशब्दं समुच्चार्य वीर्यायेति ततः पठेत् ॥ ३५-४५ ॥
मूलम् - ३५-४५
तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः ।
गदाशब्दं समुच्चार्य वीर्यायेति ततः पठेत् ॥ ३५-४५ ॥
शिरोऽन्त एष मन्त्रस्तु करवीरसमं स्मृतम् ।
२४ � धनास्त्रम्
तारं प्रणामपर्यायं लोहितं वह्निसंयुतम् ॥ ३५-४६ ॥
आषाढोऽनन्तसंयुक्तो लोहितो मीन एव च ।
प्। ३३५) मुण्डः शिवं कुरुपदं द्विरावृत्तं धनं स्मृतम् ॥ ३५-
४७ ॥
२५ � धान्यास्त्रम्
विश्वास-प्रस्तुतिः - ३५-४८
वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम् ।
शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः ॥ ३५-४८ ॥
मूलम् - ३५-४८
वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम् ।
शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः ॥ ३५-४८ ॥
२६ � ज्यौतिषास्त्रम्
विश्वास-प्रस्तुतिः - ३५-४९
लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ ततः क्रमात् ।
बको मुण्डः समायी स्यात् सवह्निर्लोहितस्तथा ॥ ३५-४९ ॥
मूलम् - ३५-४९
लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ ततः क्रमात् ।
बको मुण्डः समायी स्यात् सवह्निर्लोहितस्तथा ॥ ३५-४९ ॥
विश्वास-प्रस्तुतिः - ३५-५०
बको विषं ततो मुण्डो मायी प्रकटितेति च ।
अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च ॥ ३५-५० ॥
मूलम् - ३५-५०
बको विषं ततो मुण्डो मायी प्रकटितेति च ।
अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च ॥ ३५-५० ॥
द्विरभ्यस्तमिमं मन्त्रं ज्यौतिषं परिचक्षते ।
२७ � कृशनास्त्रम्
क्रोधी पिनाकी मायी स्यादाषाढं च ततः परम् ॥ ३५-५१ ॥
विश्वास-प्रस्तुतिः - ३५-५२
क्रोधी चानन्तसहितो बकयुग् दीर्घमग्निमत् ।
मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् ॥ ३५-५२ ॥
मूलम् - ३५-५२
क्रोधी चानन्तसहितो बकयुग् दीर्घमग्निमत् ।
मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् ॥ ३५-५२ ॥
२८ � नैराश्यास्त्रम्
विश्वास-प्रस्तुतिः - ३५-५३
मायी खड्गी शिखी चैव महामायी पिनाकवान् ।
कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् ॥ ३५-५३ ॥
मूलम् - ३५-५३
मायी खड्गी शिखी चैव महामायी पिनाकवान् ।
कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् ॥ ३५-५३ ॥
वषडन्तमिमं मन्त्रं नैराश्यं परिचक्षते ।
२९ � विमलास्त्रम्
प्। ३३६) खड्गेशः प्रथमं मायी चाषाढो दीर्घवह्निमान् ॥ ३५-
५४ ॥
विश्वास-प्रस्तुतिः - ३५-५५
भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः ।
मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् ॥ ३५-५५ ॥
मूलम् - ३५-५५
भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः ।
मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् ॥ ३५-५५ ॥
विश्वास-प्रस्तुतिः - ३५-५६
भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम् ।
विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् ॥ ३५-५६ ॥
मूलम् - ३५-५६
भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम् ।
विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् ॥ ३५-५६ ॥
३० � योगन्धरास्त्रम्
विश्वास-प्रस्तुतिः - ३५-५७
भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः ।
मयास्त्रायेति च पदं तमोबर्हण इत्यपि ॥ ३५-५७ ॥
मूलम् - ३५-५७
भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः ।
मयास्त्रायेति च पदं तमोबर्हण इत्यपि ॥ ३५-५७ ॥
विश्वास-प्रस्तुतिः - ३५-५८
मूर्तये इति निर्दिश्य योगं चेति ततः पठेत् ।
धरायेति पदं चापि महते इत्यनन्तरम् ॥ ३५-५८ ॥
मूलम् - ३५-५८
मूर्तये इति निर्दिश्य योगं चेति ततः पठेत् ।
धरायेति पदं चापि महते इत्यनन्तरम् ॥ ३५-५८ ॥
विश्वास-प्रस्तुतिः - ३५-५९
भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः ।
योगन्धरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् ॥ ३५-५९ ॥
मूलम् - ३५-५९
भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः ।
योगन्धरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् ॥ ३५-५९ ॥
३१ � विनिद्रास्त्रम्
विश्वास-प्रस्तुतिः - ३५-६०
मुण्डो मायी तथाकाश आषाढश्च ततः परम् ।
मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् ॥ ३५-६० ॥
मूलम् - ३५-६०
मुण्डो मायी तथाकाश आषाढश्च ततः परम् ।
मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् ॥ ३५-६० ॥
मुद्रायेति शिरोऽन्तोऽयं विनिद्रमभिधीयते ।
३२ � नैद्रास्त्रम्
विषमग्न्यनिलोपेतं सषष्ठस्वरबिन्दुकम् ॥ ३५-६१ ॥
प्। ३३७) पिण्डमेतच्छिरोऽन्तं च नैद्रमस्त्रविदो विदुः ।
३३ - प्रमथनास्त्रम्
प्रथमं तारमुच्चार्य हृदयं च ततः परम् ॥ ३५-६२ ॥
विश्वास-प्रस्तुतिः - ३५-६३
विषं ततश्च दण्डीशं मायया च समन्वितम् ।
आषाढं च बकं चैव पठित्वा तदनन्तरम् ॥ ३५-६३ ॥
मूलम् - ३५-६३
विषं ततश्च दण्डीशं मायया च समन्वितम् ।
आषाढं च बकं चैव पठित्वा तदनन्तरम् ॥ ३५-६३ ॥
विश्वास-प्रस्तुतिः - ३५-६४
ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः ।
प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् ॥ ३५-६४ ॥
मूलम् - ३५-६४
ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः ।
प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् ॥ ३५-६४ ॥
३४ � सार्चिर्माल्यस्त्रम्
विश्वास-प्रस्तुतिः - ३५-६५
वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः ।
ततः पिनाकी सानन्तो लान्तो मायी ततः परम् ॥ ३५-६५ ॥
मूलम् - ३५-६५
वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः ।
ततः पिनाकी सानन्तो लान्तो मायी ततः परम् ॥ ३५-६५ ॥
विश्वास-प्रस्तुतिः - ३५-६६
ज्वालान्तो मायया युक्तः पिनाकी च ततः परम् ।
आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः ॥ ३५-६६ ॥
मूलम् - ३५-६६
ज्वालान्तो मायया युक्तः पिनाकी च ततः परम् ।
आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः ॥ ३५-६६ ॥
विश्वास-प्रस्तुतिः - ३५-६७
शक्त इत्यपि वक्त्रव्यं महामहस इत्यपि ।
मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः ॥ ३५-६७ ॥
मूलम् - ३५-६७
शक्त इत्यपि वक्त्रव्यं महामहस इत्यपि ।
मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः ॥ ३५-६७ ॥
३५ � कामरूपास्त्रम्
विश्वास-प्रस्तुतिः - ३५-६८
हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि ।
रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् ॥ ३५-६८ ॥
मूलम् - ३५-६८
हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि ।
रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् ॥ ३५-६८ ॥
३६ � कामरुच्यस्त्रम्
विश्वास-प्रस्तुतिः - ३५-६९
ॐ नमो इत्युपक्रम्य मुण्डो मायासमन्वितः ।
प्। ३३८) तृतीयस्वरसंयुक्तश्चण्डो रान्तस्ततः परम् ॥ ३५-६९ ॥
मूलम् - ३५-६९
ॐ नमो इत्युपक्रम्य मुण्डो मायासमन्वितः ।
प्। ३३८) तृतीयस्वरसंयुक्तश्चण्डो रान्तस्ततः परम् ॥ ३५-६९ ॥
विश्वास-प्रस्तुतिः - ३५-७०
कबन्धेति पदं ब्रूयात् सन्धानायेति चान्ततः ।
शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः ॥ ३५-७० ॥
मूलम् - ३५-७०
कबन्धेति पदं ब्रूयात् सन्धानायेति चान्ततः ।
शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः ॥ ३५-७० ॥
३७ � मोहनास्त्रम्
विश्वास-प्रस्तुतिः - ३५-७१
भौतिकं दण्डसंयुक्तमङ्कुशं च ततो वदेत् ।
मोहवारिणिशब्दं च शिरोऽन्तं मोह उच्यते ॥ ३५-७१ ॥
मूलम् - ३५-७१
भौतिकं दण्डसंयुक्तमङ्कुशं च ततो वदेत् ।
मोहवारिणिशब्दं च शिरोऽन्तं मोह उच्यते ॥ ३५-७१ ॥
३८ � आवरणास्त्रम्
विश्वास-प्रस्तुतिः - ३५-७२
खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः ।
आषाढश्च महाकालो व्योम दीर्घान्वितं ततः ॥ ३५-७२ ॥
मूलम् - ३५-७२
खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः ।
आषाढश्च महाकालो व्योम दीर्घान्वितं ततः ॥ ३५-७२ ॥
विश्वास-प्रस्तुतिः - ३५-७३
महाकालश्च सानन्तो वाली चण्डीशसंयुतः ।
शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः ॥ ३५-७३ ॥
मूलम् - ३५-७३
महाकालश्च सानन्तो वाली चण्डीशसंयुतः ।
शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः ॥ ३५-७३ ॥
३९ � जृम्भकास्त्रम्
विश्वास-प्रस्तुतिः - ३५-७४
द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम् ।
मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् ॥ ३५-७४ ॥
मूलम् - ३५-७४
द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम् ।
मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् ॥ ३५-७४ ॥
शिरोऽन्तोऽयं महामन्त्रो जृम्भकः परिकीर्तितः ।
४० � सर्वनाभकास्त्रम्
चण्डोऽनन्तसमायुक्तो मायी चास्त्रिस्ततः परम् ॥ ३५-७५ ॥
विश्वास-प्रस्तुतिः - ३५-७६
आद्यश्चतुर्थवर्गस्य सेनापदमनन्तरम् ।
प्। ३३९) जीवातव इति ब्रूयाच्छिरोऽन्तं सर्वनाभकम् ॥ ३५-७६ ॥
मूलम् - ३५-७६
आद्यश्चतुर्थवर्गस्य सेनापदमनन्तरम् ।
प्। ३३९) जीवातव इति ब्रूयाच्छिरोऽन्तं सर्वनाभकम् ॥ ३५-७६ ॥
४१ � भृशाश्वतनयास्त्रम्
विश्वास-प्रस्तुतिः - ३५-७७
वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम् ।
जितशब्दमथोच्चार्य वैनतेयाय इत्यपि ॥ ३५-७७ ॥
मूलम् - ३५-७७
वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम् ।
जितशब्दमथोच्चार्य वैनतेयाय इत्यपि ॥ ३५-७७ ॥
शिरोऽन्तोऽयं मनुः प्रोक्तो भृशाश्वतनया इति ।
४२ � सन्धानास्त्रम्
भृगुश्च वरुणः साग्निर्मुण्डो मायी ततः क्रमात् ॥ ३५-७८ ॥
विश्वास-प्रस्तुतिः - ३५-७९
खड्गीशः साग्निदीर्घश्च लोहितोऽथ उमापतिः ।
शं कुर्वीति द्विरभ्यस्तो मन्त्रः सन्धानमुच्यते ॥ ३५-७९ ॥
मूलम् - ३५-७९
खड्गीशः साग्निदीर्घश्च लोहितोऽथ उमापतिः ।
शं कुर्वीति द्विरभ्यस्तो मन्त्रः सन्धानमुच्यते ॥ ३५-७९ ॥
४३ � वारुणास्त्रम्
विश्वास-प्रस्तुतिः - ३५-८०
भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः ।
भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः ॥ ३५-८० ॥
मूलम् - ३५-८०
भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः ।
भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः ॥ ३५-८० ॥
शिरोऽन्त एष मन्त्रस्तु वारुणं परिकीर्तितम् ।
अस्त्राणां मूर्तत्वामूर्तत्वजिज्ञासया नारदेनाहिर्बुध्न्यस्तुतिः
नारदः �
भगवन् देवदेवेश सर्वलोकनमस्कृत ॥ ३५-८१ ॥
विश्वास-प्रस्तुतिः - ३५-८२
सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर ।
त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम् ॥ ३५-८२ ॥
मूलम् - ३५-८२
सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर ।
त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम् ॥ ३५-८२ ॥
विश्वास-प्रस्तुतिः - ३५-८३
प्। ३४०) त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम् ।
त्वयैव पालितं सर्वं संहृतं च महेश्वर ॥ ३५-८३ ॥
मूलम् - ३५-८३
प्। ३४०) त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम् ।
त्वयैव पालितं सर्वं संहृतं च महेश्वर ॥ ३५-८३ ॥
विश्वास-प्रस्तुतिः - ३५-८४
त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय ।
पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन् ॥ ३५-८४ ॥
मूलम् - ३५-८४
त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय ।
पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन् ॥ ३५-८४ ॥
विश्वास-प्रस्तुतिः - ३५-८५
यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः ।
वषट्कारस्त्वमोङ्कारो वेदवेद्यस्तथा भवान् ॥ ३५-८५ ॥
मूलम् - ३५-८५
यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः ।
वषट्कारस्त्वमोङ्कारो वेदवेद्यस्तथा भवान् ॥ ३५-८५ ॥
विश्वास-प्रस्तुतिः - ३५-८६
त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर ।
करणं कारणं कर्ता कार्यं कर्म फलं विभो ॥ ३५-८६ ॥
मूलम् - ३५-८६
त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर ।
करणं कारणं कर्ता कार्यं कर्म फलं विभो ॥ ३५-८६ ॥
विश्वास-प्रस्तुतिः - ३५-८७
त्वमेव भूतं भव्यं च भवच्च परमेश्वर ।
निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो गुणानसि ॥ ३५-८७ ॥
मूलम् - ३५-८७
त्वमेव भूतं भव्यं च भवच्च परमेश्वर ।
निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो गुणानसि ॥ ३५-८७ ॥
विश्वास-प्रस्तुतिः - ३५-८८
अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम् ।
अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् ॥ ३५-८८ ॥
मूलम् - ३५-८८
अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम् ।
अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् ॥ ३५-८८ ॥
विश्वास-प्रस्तुतिः - ३५-८९
अपरक्तो व्रजत्येव निरयं विकृतिर्न ते ।
कलाकाष्ठामुहूर्तादिकालश्च त्वं कलात्मकः ॥ ३५-८९ ॥
मूलम् - ३५-८९
अपरक्तो व्रजत्येव निरयं विकृतिर्न ते ।
कलाकाष्ठामुहूर्तादिकालश्च त्वं कलात्मकः ॥ ३५-८९ ॥
विश्वास-प्रस्तुतिः - ३५-९०
सर्वदा सर्वभूतेषु निवसन्नपि शङ्कर ।
न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा ॥ ३५-९० ॥
मूलम् - ३५-९०
सर्वदा सर्वभूतेषु निवसन्नपि शङ्कर ।
न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा ॥ ३५-९० ॥
विश्वास-प्रस्तुतिः - ३५-९१
करामलकवत् सर्वं सर्वदा कलयस्यतः ।
प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम ॥ ३५-९१ ॥
मूलम् - ३५-९१
करामलकवत् सर्वं सर्वदा कलयस्यतः ।
प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम ॥ ३५-९१ ॥
अस्त्राणां मूर्तत्वामूर्तत्वप्रश्नः
विश्वास-प्रस्तुतिः - ३५-९२
प्। ३४१) किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै ।
छेत्तुमर्हसि देवेश तमिमं संशयं विभो ॥ ३५-९२ ॥
मूलम् - ३५-९२
प्। ३४१) किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै ।
छेत्तुमर्हसि देवेश तमिमं संशयं विभो ॥ ३५-९२ ॥
तेषां मूर्तत्वप्रतिपादनम्
अहिर्भुध्न्यः �
विश्वास-प्रस्तुतिः - ३५-९३
तेषां भवन्ति गात्राणि भीमरूपाणि नारद ।
वक्रभीषणदंष्ट्रोग्रमुखत्रस्तजनानि वै ॥ ३५-९३ ॥
मूलम् - ३५-९३
तेषां भवन्ति गात्राणि भीमरूपाणि नारद ।
वक्रभीषणदंष्ट्रोग्रमुखत्रस्तजनानि वै ॥ ३५-९३ ॥
विश्वास-प्रस्तुतिः - ३५-९४
भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै ।
विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद ॥ ३५-९४ ॥
मूलम् - ३५-९४
भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै ।
विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद ॥ ३५-९४ ॥
विश्वास-प्रस्तुतिः - ३५-९५
कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित् ।
कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् ॥ ३५-९५ ॥
मूलम् - ३५-९५
कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित् ।
कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् ॥ ३५-९५ ॥
विश्वास-प्रस्तुतिः - ३५-९६
महापरिघसङ्काशभीमरूपैः करैः परैः ।
यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च ॥ ३५-९६ ॥
मूलम् - ३५-९६
महापरिघसङ्काशभीमरूपैः करैः परैः ।
यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च ॥ ३५-९६ ॥
विश्वास-प्रस्तुतिः - ३५-९७
वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च ।
उपासितानि सततं सुरासुरवरैरपि ॥ ३५-९७ ॥
मूलम् - ३५-९७
वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च ।
उपासितानि सततं सुरासुरवरैरपि ॥ ३५-९७ ॥
विश्वास-प्रस्तुतिः - ३५-९८
एवम्भूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद ।
विचरन्ति यथाकाममकुतोभीतिमन्ति च ॥ ३५-९८ ॥
मूलम् - ३५-९८
एवम्भूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद ।
विचरन्ति यथाकाममकुतोभीतिमन्ति च ॥ ३५-९८ ॥
प्। ३४२) अकलितमहिमानि भीषणानि
ज्वलितवपूंषि समुद्यतायुधानि ।
अविहतगमनानि चास्त्रमुख्या �
न्यनवरतं भुवनेषु सञ्चरन्ति ॥ ३५-९९ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
संहारास्त्रस्वरूपनिरूपणं नाम
पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
आदितः श्लोकाः २२५२
राज्ञां सुदर्शनयन्त्राराधनविधानकेशवादिगुण-
प्रधानभावव्यवस्थापनं नाम षट्त्रिंशोऽध्यायः
ध्यातं स्कृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गोदेवस्य धीमहि ॥
सौदर्शनयन्त्रस्य पूर्वापराङ्गध्यानार्चनप्रकारप्रश्नः
नारदः �
विश्वास-प्रस्तुतिः - ३६-१
भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम् ।
प्रवर्तकास्तथा मन्त्रास्तथैव च निवर्तकाः ॥ ३६-१ ॥
मूलम् - ३६-१
भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम् ।
प्रवर्तकास्तथा मन्त्रास्तथैव च निवर्तकाः ॥ ३६-१ ॥
विश्वास-प्रस्तुतिः - ३६-२
एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा ।
सौदर्शनं महायन्त्रमर्चनीयं महात्मभिः ॥ ३६-२ ॥
मूलम् - ३६-२
एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा ।
सौदर्शनं महायन्त्रमर्चनीयं महात्मभिः ॥ ३६-२ ॥
विश्वास-प्रस्तुतिः - ३६-३
उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः ।
राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् ॥ ३६-३ ॥
मूलम् - ३६-३
उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः ।
राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् ॥ ३६-३ ॥
विश्वास-प्रस्तुतिः - ३६-४
उभयं चास्य यन्त्रस्य मुखमाराधयेदिति ।
कथमस्यापराङ्गं च ध्यायेत् कुर्याच्च वा कथम् ॥ ३६-४ ॥
मूलम् - ३६-४
उभयं चास्य यन्त्रस्य मुखमाराधयेदिति ।
कथमस्यापराङ्गं च ध्यायेत् कुर्याच्च वा कथम् ॥ ३६-४ ॥
छेत्तुमर्हसि सन्देहमिमं मम महेश्वर ।
प्। ३४४) तदुत्तरकथनम्
अहिर्बुध्न्यः �
एवं ध्यात्वार्चयेद्राजा यन्त्रमेतन्महाद्युति ॥ ३६-५ ॥
तत्र पूर्वाङ्गे यन्त्रमध्ये सुदर्शनध्यानम्
विश्वास-प्रस्तुतिः - ३६-६
यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम् ।
ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् ॥ ३६-६ ॥
मूलम् - ३६-६
यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम् ।
ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् ॥ ३६-६ ॥
विश्वास-प्रस्तुतिः - ३६-७
तिष्ठन्तमष्टभिर्युक्तं भुजैः परमशोभनैः ।
चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः ॥ ३६-७ ॥
मूलम् - ३६-७
तिष्ठन्तमष्टभिर्युक्तं भुजैः परमशोभनैः ।
चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः ॥ ३६-७ ॥
विश्वास-प्रस्तुतिः - ३६-८
समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम् ।
शङ्खचक्राब्जमुसलपाशाङ्कुशगाधरम् ॥ ३६-८ ॥
मूलम् - ३६-८
समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम् ।
शङ्खचक्राब्जमुसलपाशाङ्कुशगाधरम् ॥ ३६-८ ॥
सर्वाभरणसंयुक्तं पुष्पमालाविभूषितम् ।
परितः केशवादिद्वादशमूर्तिध्यानम्
सुदर्शनमिमं ध्यात्वा परितश्चिन्तयेत् ततः ॥ ३६-९ ॥
विश्वास-प्रस्तुतिः - ३६-१०
तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान् ।
उक्तेनैव प्रकारेण भूषणैरायुधैर्युतान् ॥ ३६-१० ॥
मूलम् - ३६-१०
तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान् ।
उक्तेनैव प्रकारेण भूषणैरायुधैर्युतान् ॥ ३६-१० ॥
प्रधानभूतान् परमान् यथाकामनिवेशितान् ।
ततो विष्ण्वादिषोडशमूर्तिध्यानम्
ततः षोडशभिर्देवैर्विष्ण्वाद्यैरायुधान्वितैः ॥ ३६-११ ॥
मूर्तिमद्भिश्च सोद्योगैः सर्वाभरणसंयुतैः ।
प्। ३४५) एतैः पञ्जरितं ध्यायेद्यन्त्रराजमनुत्तमम् ॥ ३६-१२ ॥
परितो मूर्तिमत्संहारास्त्रध्यानम्
विश्वास-प्रस्तुतिः - ३६-१३
परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च ।
संहारास्त्राणि सर्वाणि साञ्जलीन्यद्भुतानि च ॥ ३६-१३ ॥
मूलम् - ३६-१३
परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च ।
संहारास्त्राणि सर्वाणि साञ्जलीन्यद्भुतानि च ॥ ३६-१३ ॥
अकुतोभयशालीनि शक्तिमन्ति समन्ततः ।
ततो मूर्तिमत्प्रवर्तकास्त्रध्यानम्
ततः प्रवर्तकान्येवं ध्यायीतास्त्राणि नारद ॥ ३६-१४ ॥
मूर्तान्यत्तुमिवाशेषभुवनान्युज्ज्वलानि च ।
ततो नारसिंहध्यानम्
एवं चक्रक्रमेणैतदभिध्यायोपरि स्मरेत् ॥ ३६-१५ ॥
विश्वास-प्रस्तुतिः - ३६-१६
दधानं नारसिंहस्य वपुर्नारायणं परम् ।
मूलकोशं परं देवमधोभागेऽथ चिन्तयेत् ॥ ३६-१६ ॥
मूलम् - ३६-१६
दधानं नारसिंहस्य वपुर्नारायणं परम् ।
मूलकोशं परं देवमधोभागेऽथ चिन्तयेत् ॥ ३६-१६ ॥
विश्वास-प्रस्तुतिः - ३६-१७
यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिसमन्वितम् ।
नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् ॥ ३६-१७ ॥
मूलम् - ३६-१७
यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिसमन्वितम् ।
नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् ॥ ३६-१७ ॥
विश्वास-प्रस्तुतिः - ३६-१८
चक्रकौमोदकीशार्ङ्गखड्गहस्तान् स्मरेत् क्रमात् ।
एवमेकमुखं ध्यायेद्यन्त्रस्यास्य महाद्युतेः ॥ ३६-१८ ॥
मूलम् - ३६-१८
चक्रकौमोदकीशार्ङ्गखड्गहस्तान् स्मरेत् क्रमात् ।
एवमेकमुखं ध्यायेद्यन्त्रस्यास्य महाद्युतेः ॥ ३६-१८ ॥
अपराङ्गध्यानम्
विश्वास-प्रस्तुतिः - ३६-१९
अपराङ्गं महामन्त्रैः सर्वतः समलङ्कृतम् ।
प्। २४६) अन्तस्तारं समारभ्य यदि वा विष्णुपञ्जरम् ॥ ३६-१९ ॥
मूलम् - ३६-१९
अपराङ्गं महामन्त्रैः सर्वतः समलङ्कृतम् ।
प्। २४६) अन्तस्तारं समारभ्य यदि वा विष्णुपञ्जरम् ॥ ३६-१९ ॥
पूर्वोक्तं तद्विना मूर्तेस्तत्तन्मन्त्रसमुच्चयम् ।
अपराङ्गे सर्वास्त्राणां मन्त्रमात्रध्यानम्
यथास्थानं स्मरेत् तस्य पर्यन्ते चिन्तयेत् ततः ॥ ३६-२० ॥
विश्वास-प्रस्तुतिः - ३६-२१
सर्वसंहरणास्त्राणां मन्त्रानेव च केवलम् ।
तदनन्तरमन्येषामस्त्राणां च प्रवर्तकम् ॥ ३६-२१ ॥
मूलम् - ३६-२१
सर्वसंहरणास्त्राणां मन्त्रानेव च केवलम् ।
तदनन्तरमन्येषामस्त्राणां च प्रवर्तकम् ॥ ३६-२१ ॥
विश्वास-प्रस्तुतिः - ३६-२२
मन्त्रजालमभिध्याय सुनेमि सुरपूजितम् ।
महायन्त्रं महाशक्ति चक्ररूपमनुत्तमम् ॥ ३६-२२ ॥
मूलम् - ३६-२२
मन्त्रजालमभिध्याय सुनेमि सुरपूजितम् ।
महायन्त्रं महाशक्ति चक्ररूपमनुत्तमम् ॥ ३६-२२ ॥
विश्वास-प्रस्तुतिः - ३६-२३
उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम् ।
अस्य चक्रस्य मध्ये यद्वर्तते पुरुषः परः ॥ ३६-२३ ॥
मूलम् - ३६-२३
उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम् ।
अस्य चक्रस्य मध्ये यद्वर्तते पुरुषः परः ॥ ३६-२३ ॥
तस्मान्निगद्यते लोके चक्रवर्तीति सूरिभिः ।
एतद्यन्त्राभ्यर्चनाद्राज्ञां चक्रवर्तित्वलाभः ।
तस्मादभ्यर्चयेदेतद्यो राजा भक्तिसंयुतः ॥ ३६-२४ ॥
सोऽचिरेणैव कालेन चक्रवर्तित्वमाप्नुयात् ।
अन्यैरपि राजहितैषिभिरेतदर्चनं कार्यम्
राजा वा राजभृत्या वा मन्त्रिणो वाथवा परे ॥ ३६-२५ ॥
राज्ञां हितैषिणः सर्वे पूजयेयुरिदं परम् ।
अन्येषामपि श्रीकामानामेतदभ्यर्चनम्
अन्ये च ये तु विपुलां श्रियमिच्छन्ति मानवाः ॥ ३६-२६ ॥
विश्वास-प्रस्तुतिः - ३६-२७
प्। २४७) तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम् ।
राज्ञामेव विशेषेण यदेतत् समुदीरितम् ॥ ३६-२७ ॥
मूलम् - ३६-२७
प्। २४७) तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम् ।
राज्ञामेव विशेषेण यदेतत् समुदीरितम् ॥ ३६-२७ ॥
विश्वास-प्रस्तुतिः - ३६-२८
तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः ।
तेषां विभूतिर्महती राज्ञा सम्पत्स्यते ध्रुवम् ॥ ३६-२८ ॥
मूलम् - ३६-२८
तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः ।
तेषां विभूतिर्महती राज्ञा सम्पत्स्यते ध्रुवम् ॥ ३६-२८ ॥
विश्वास-प्रस्तुतिः - ३६-२९
लोहैर्वा शिलया वापि यो हि निर्माय पूजयेत् ।
विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति ॥ ३६-२९ ॥
मूलम् - ३६-२९
लोहैर्वा शिलया वापि यो हि निर्माय पूजयेत् ।
विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति ॥ ३६-२९ ॥
आरोग्यं चाश्नुते सर्वे तद्वंश्या दीर्घजीविनः ।
द्विमुखयन्त्रार्चने मन्त्रोपदेष्टुर्ब्राह्मणस्यैवाधिकारः
परं मन्त्रोपदेष्टैव ब्राह्मणो द्विमुखं यजेत् ॥ ३६-३० ॥
विश्वास-प्रस्तुतिः - ३६-३१
ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः ।
स एव शक्रुयात् तस्य प्रभावं परमं मुने ॥ ३६-३१ ॥
मूलम् - ३६-३१
ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः ।
स एव शक्रुयात् तस्य प्रभावं परमं मुने ॥ ३६-३१ ॥
आदित्यमण्डलाक्ष्यादिस्थानां पुरुषाणामभिन्नत्वम्
विश्वास-प्रस्तुतिः - ३६-३२
योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः ।
हिरण्मयो य एवान्तरक्षिण्यपि च दृश्यते ॥ ३६-३२ ॥
मूलम् - ३६-३२
योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः ।
हिरण्मयो य एवान्तरक्षिण्यपि च दृश्यते ॥ ३६-३२ ॥
सोऽप्ययं नाभिचक्रस्य मध्ये यो वर्तते पुमान् ।
तस्यैव कालचक्रादिप्रवर्तकत्वम्
योऽयं कालाख्यचक्रस्य प्रेरकः पुरुषोऽव्ययः ॥ ३६-३३ ॥
विश्वास-प्रस्तुतिः - ३६-३४
प्। ३४८) युगचक्रस्य नेतारमेनमेव विदुर्बुधाः ।
एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् ॥ ३६-३४ ॥
मूलम् - ३६-३४
प्। ३४८) युगचक्रस्य नेतारमेनमेव विदुर्बुधाः ।
एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् ॥ ३६-३४ ॥
विमाने संस्थाप्य तस्यैव
समभ्यर्चनमैहिकामुष्मिकफलसाधकम्
विश्वास-प्रस्तुतिः - ३६-३५
सर्वलोकैककर्तारं सर्वलोकैकसाक्षिणम् ।
एनं विमाने संस्थाप्य चक्रवर्तिनमव्ययम् ॥ ३६-३५ ॥
मूलम् - ३६-३५
सर्वलोकैककर्तारं सर्वलोकैकसाक्षिणम् ।
एनं विमाने संस्थाप्य चक्रवर्तिनमव्ययम् ॥ ३६-३५ ॥
यः पूजयति तस्यायं लोकश्चामुष्मिको भवेत् ।
विमानकरणारम्भस्यापि महाफलकत्वम्
सुदर्शनविमानं यः प्रारभेत महामुने ॥ ३६-३६ ॥
इह सर्वानवाप्यार्थान् विष्णुलोकं स यास्यति ।
विमानकरणार्थस्य कर्षणस्यापि सर्वसम्पत्साधनत्वम्
सुदर्शनविमानस्य कर्षणं यः करोति वै ॥ ३६-३७ ॥
तस्यामित्रा विनश्यन्ति सन्ति सर्वाश्च सम्पदः ।
आरब्धापरिसमाप्तस्यापि विमानकरणस्यान्ततो मुक्तिसाधनता
आरभ्यायतनं मध्ये विच्छित्त्या विघ्नितो यदि ॥ ३६-३८ ॥
विश्वास-प्रस्तुतिः - ३६-३९
स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले ।
पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति ॥ ३६-३९ ॥
मूलम् - ३६-३९
स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले ।
पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति ॥ ३६-३९ ॥
अन्ते वैकुण्ठमासाद्य विष्णुसायुज्यमाप्नुयात् ।
साङ्गप्रतिष्ठादिकर्तुः फलपरम्परानिरूपणम्
प्। ३४९) विमानं परमं कृत्वा प्रतिष्ठाप्य सुदर्शनम् ॥ ३६-४० ॥
विश्वास-प्रस्तुतिः - ३६-४१
ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान् ।
तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः ॥ ३६-४१ ॥
मूलम् - ३६-४१
ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान् ।
तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः ॥ ३६-४१ ॥
विश्वास-प्रस्तुतिः - ३६-४२
पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान् ।
नित्यं योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् ॥ ३६-४२ ॥
मूलम् - ३६-४२
पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान् ।
नित्यं योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् ॥ ३६-४२ ॥
विश्वास-प्रस्तुतिः - ३६-४३
तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते ।
नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः ॥ ३६-४३ ॥
मूलम् - ३६-४३
तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते ।
नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः ॥ ३६-४३ ॥
विश्वास-प्रस्तुतिः - ३६-४४
जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम् ।
भुक्त्वा कालेन महता तदनन्तरजन्मनि ॥ ३६-४४ ॥
मूलम् - ३६-४४
जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम् ।
भुक्त्वा कालेन महता तदनन्तरजन्मनि ॥ ३६-४४ ॥
विश्वास-प्रस्तुतिः - ३६-४५
त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम् ।
ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः ॥ ३६-४५ ॥
मूलम् - ३६-४५
त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम् ।
ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः ॥ ३६-४५ ॥
तदन्ते परमं धाम वैष्णवं प्रतिपद्यते ।
सुदर्शनपुरुषमनाराधयतो नृपत्वं दुर्लभम्
देवमेनमनाराध्य न कश्चिज्जायते नृपः ॥ ३६-४६ ॥
एतदाराधनतारतम्यात् फलतारतम्यम्
विश्वास-प्रस्तुतिः - ३६-४७
एतदाराधनस्यैव तारतम्येन नारद ।
भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् ॥ ३६-४७ ॥
मूलम् - ३६-४७
एतदाराधनस्यैव तारतम्येन नारद ।
भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् ॥ ३६-४७ ॥
तस्माद्राज्ञामन्येषां चैतदाराधनावश्यकता
विश्वास-प्रस्तुतिः - ३६-४८
तस्मात् सर्वप्रयत्नेन राजैवैनं समर्चयेत् ।
प्। ३५०) जात्यायुर्भोगकामाश्च ये चान्ये भुवि मानवाः ॥ ३६-४८ ॥
मूलम् - ३६-४८
तस्मात् सर्वप्रयत्नेन राजैवैनं समर्चयेत् ।
प्। ३५०) जात्यायुर्भोगकामाश्च ये चान्ये भुवि मानवाः ॥ ३६-४८ ॥
तेऽप्येतत्पूजया सर्वं काङ्क्षितं प्राप्नुवन्ति च ।
शेषिणः केशवादेः शेषभूतं सुदर्शनं प्रति
परिवारतादिकथन्ताप्रश्नः
नारदः �
सिद्धं सुदर्शनं विष्णोः शेषमायुधसञ्ज्ञितम् ॥ ३६-४९ ॥
विश्वास-प्रस्तुतिः - ३६-५०
कथमस्य परीवाराः केशवाद्याः समीरिताः ।
विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः ॥ ३६-५० ॥
मूलम् - ३६-५०
कथमस्य परीवाराः केशवाद्याः समीरिताः ।
विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः ॥ ३६-५० ॥
विश्वास-प्रस्तुतिः - ३६-५१
कथं वा भगवन्मन्त्राः परिवारत्वमागताः ।
इमं च संशयं देव च्छेत्तुमर्हसि साम्प्रतम् ॥ ३६-५१ ॥
मूलम् - ३६-५१
कथं वा भगवन्मन्त्राः परिवारत्वमागताः ।
इमं च संशयं देव च्छेत्तुमर्हसि साम्प्रतम् ॥ ३६-५१ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः �
विश्वास-प्रस्तुतिः - ३६-५२
शृणु तात महाप्राज्ञ रहस्यमिदमुत्तमम् ।
त्वदृते शक्नुयात् प्रष्टुमिममर्थं न कश्चन ॥ ३६-५२ ॥
मूलम् - ३६-५२
शृणु तात महाप्राज्ञ रहस्यमिदमुत्तमम् ।
त्वदृते शक्नुयात् प्रष्टुमिममर्थं न कश्चन ॥ ३६-५२ ॥
भगवत इव तत्सङ्कल्परूपस्य
सुदर्शनस्याप्यनादित्वापरिच्छेद्यत्वे
विश्वास-प्रस्तुतिः - ३६-५३
यथा नारायणो देवः पुरुषः पुष्करेक्षणः ।
अनादिरपरिच्छेद्यस्तथायमपि नारद ॥ ३६-५३ ॥
मूलम् - ३६-५३
यथा नारायणो देवः पुरुषः पुष्करेक्षणः ।
अनादिरपरिच्छेद्यस्तथायमपि नारद ॥ ३६-५३ ॥
तदुपपादनाय परमात्मशक्तेर्द्वेधा विभागः
विश्वास-प्रस्तुतिः - ३६-५४
द्वे शक्ती तस्य विद्येते विष्णोः सर्वार्थसाधने ।
प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् ॥ ३६-५४ ॥
मूलम् - ३६-५४
द्वे शक्ती तस्य विद्येते विष्णोः सर्वार्थसाधने ।
प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् ॥ ३६-५४ ॥
प्। ३५१) एका त्विच्छात्मिका तस्य तथान्या तु क्रियात्मिका ।
तत्रेच्छारूपिण्याः शक्तेर्लक्ष्मीरूपत्वम्
प्रथमा परमा लक्ष्मीर्जगत्त्रातुः कुटुम्बिनी ॥ ३६-५५ ॥
क्रियारूपायाः शक्तेः सुदर्शनरूपत्वम्
तत्त्वविद्भिरिदं प्रोक्तं द्वितीयेह सुदर्शनम् ।
ताभ्यां शक्तिभ्यां विना भगवतोऽप्यकिञ्चित्करत्वम्
तस्माल्लक्ष्म्या विना देवः सङ्कल्पे न प्रभुर्हरिः ॥ ३६-५६ ॥
अनेनापि विना कर्तुं किञ्चिन्नार्हति केशवः ।
तस्य शक्तिद्वयस्य सृष्टिस्थितिसंहाराद्युपकरणत्वम्
अनेन सर्वं सृजति देवोऽनेनैव पाति च ॥ ३६-५७ ॥
विश्वास-प्रस्तुतिः - ३६-५८
अनेन संहृतिं देवो विश्वस्यान्ते करोति च ।
अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः ॥ ३६-५८ ॥
मूलम् - ३६-५८
अनेन संहृतिं देवो विश्वस्यान्ते करोति च ।
अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः ॥ ३६-५८ ॥
क्रियतेऽनेन तत्कर्म सर्वं सर्वगतेन वै ।
रक्षकं परमात्मानं प्रति शक्तिद्वयस्यापि
रक्ष्यकोट्यन्तर्भावः
तस्मात् सर्वात्मना चैनं स्वबुद्ध्या परिरक्षति ॥ ३६-५९ ॥
विशिष्य लक्ष्म्या अपि रक्ष्यकोट्यन्तर्भावप्रतिपादनम्
विश्वास-प्रस्तुतिः - ३६-६०
यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि ।
एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् ॥ ३६-६० ॥
मूलम् - ३६-६०
यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि ।
एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् ॥ ३६-६० ॥
चतुर्धा व्यूह्य चात्मानं स्वभूतां परिरक्षति ।
अतः केशवादीनां परिवारत्वादिकल्पनाया युक्तत्वम्
तत् केशवादिमूर्तीनां परिवारत्वकल्पना ॥ ३६-६१ ॥
विश्वास-प्रस्तुतिः - ३६-६२
विष्ण्वादीनां च मूर्तीनां पञ्जरत्वं च युज्यते ।
सर्वेषामपि मन्त्राणां रक्षकत्वं च साम्प्रतम् ॥ ३६-६२ ॥
मूलम् - ३६-६२
विष्ण्वादीनां च मूर्तीनां पञ्जरत्वं च युज्यते ।
सर्वेषामपि मन्त्राणां रक्षकत्वं च साम्प्रतम् ॥ ३६-६२ ॥
प्रकारान्तरेणापि गुणप्रधानभावोपपादनम्
विश्वास-प्रस्तुतिः - ३६-६३
अथवा भगवानेव स्वयं चक्रस्वरूपधृत् ।
अवस्थित इति प्राज्ञैः कथ्यते पुरुषोत्तमः ॥ ३६-६३ ॥
मूलम् - ३६-६३
अथवा भगवानेव स्वयं चक्रस्वरूपधृत् ।
अवस्थित इति प्राज्ञैः कथ्यते पुरुषोत्तमः ॥ ३६-६३ ॥
विश्वास-प्रस्तुतिः - ३६-६४
प्रतित्रेतायुगं देवः साधुत्राणकृते हरिः ।
रामलक्ष्मणशत्रुघ्नभरताद्यात्मना स्वयम् ॥ ३६-६४ ॥
मूलम् - ३६-६४
प्रतित्रेतायुगं देवः साधुत्राणकृते हरिः ।
रामलक्ष्मणशत्रुघ्नभरताद्यात्मना स्वयम् ॥ ३६-६४ ॥
विश्वास-प्रस्तुतिः - ३६-६५
चतुर्धावस्थितस्तद्वच्चक्रत्मा हरिरेव हि ।
गुणप्रधानभावस्तु रामादेरिव युज्यते ॥ ३६-६५ ॥
मूलम् - ३६-६५
चतुर्धावस्थितस्तद्वच्चक्रत्मा हरिरेव हि ।
गुणप्रधानभावस्तु रामादेरिव युज्यते ॥ ३६-६५ ॥
विश्वास-प्रस्तुतिः - ३६-६६
तदात्मनैव चात्मानं रक्षत्येव जनार्दनः ।
स्वमूर्तिरक्षणे स्वेन विनान्यन्न भवेद्यतः ॥ ३६-६६ ॥
मूलम् - ३६-६६
तदात्मनैव चात्मानं रक्षत्येव जनार्दनः ।
स्वमूर्तिरक्षणे स्वेन विनान्यन्न भवेद्यतः ॥ ३६-६६ ॥
एतद्रहस्यश्रवणादेरपि क्रमशः परमपुरुषार्थसाधनत्वम्
य इदं शृणुते परिपृच्छति वा
पठति स्मरतीह नरः सततम् ।
विपुलामिह भूतिमवाप्य परा-
मथ याति पदं परमं स हरेः ॥ ३६-६७ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां राज्ञां
सुदर्शनयन्त्राराधनविधानकेशवादिगुणप्रधानभावव्य-
वस्थापनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
आदितः श्लोकाः २३१९