वैश्वरूप्यसंक्षेपो नाम तृतीयोऽध्यायः
नारदः—-
विश्वास-प्रस्तुतिः - 3.1
षाड्गुण्यं तत् कथं ब्रह्म स्वशक्तिपरिबृंहितम्।
तस्य शक्तिश्च का नाम यया बृंहितमुच्यते॥ 3.1 ॥
मूलम् - 3.1
षाड्गुण्यं तत् कथं ब्रह्म स्वशक्तिपरिबृंहितम्।
तस्य शक्तिश्च का नाम यया बृंहितमुच्यते॥ 3.1 ॥
सर्ववस्तूनां शक्तिरपृथक्सिद्धविशेषणम्
अहिर्बुध्न्यः—-
विश्वास-प्रस्तुतिः - 3.2
शक्तयः 1सर्वभावानामचिन्त्या अपृथक्स्थिताः।
स्वरूपे नैव दृश्यन्ते दृश्यन्ते कार्यतस्तु ताः ॥ 3.2 ॥
मूलम् - 3.2
शक्तयः 1सर्वभावानामचिन्त्या अपृथक्स्थिताः।
स्वरूपे नैव दृश्यन्ते दृश्यन्ते कार्यतस्तु ताः ॥ 3.2 ॥
शक्तीनामपर्यनुयोज्यत्वम्
सर्वैरननुयोज्या हि शक्तयो भावगोचराः।
परब्रह्मणोऽपि शक्तिरपृथक्सिद्धविशेषणम्
एवं भगवतस्तस्य परस्य ब्रह्मणो मुने ॥ 3.4 ॥
विश्वास-प्रस्तुतिः - 3.5
सर्वभावानुगा शक्तिर्ज्योत्स्नेव हिमदीधितेः।
भावाभावानुगा तस्य सर्वकार्यकरी विभोः ॥ 3.5 ॥
मूलम् - 3.5
सर्वभावानुगा शक्तिर्ज्योत्स्नेव हिमदीधितेः।
भावाभावानुगा तस्य सर्वकार्यकरी विभोः ॥ 3.5 ॥
विश्वास-प्रस्तुतिः - 3.6
स्वातन्त्र्यरूपा सा विष्णोः प्रस्फुरत्ता जगन्मयी।
उदितानुदिताकारा निमोषोन्मेषरूपिणी॥ 3.6 ॥
मूलम् - 3.6
स्वातन्त्र्यरूपा सा विष्णोः प्रस्फुरत्ता जगन्मयी।
उदितानुदिताकारा निमोषोन्मेषरूपिणी॥ 3.6 ॥
भगवच्छक्तेरानन्दादिशब्दाभिधेयत्वम्
विश्वास-प्रस्तुतिः - 3.7
निरपेक्षतयानन्दा स्वतन्त्रा नित्यपूरणात्।
स्वात्मभित्तिसमुन्मीलत्परावरजगत्स्थितिः6 ॥ 3.7 ॥
मूलम् - 3.7
निरपेक्षतयानन्दा स्वतन्त्रा नित्यपूरणात्।
स्वात्मभित्तिसमुन्मीलत्परावरजगत्स्थितिः6 ॥ 3.7 ॥
विश्वास-प्रस्तुतिः - 3.8
नित्या कालापरिच्छेदात् पूर्णाकारावियोगतः।
व्यापिनी देशविभ्रंशाद्रिक्ता पूर्णा च सर्वदा ॥ 3.8 ॥
मूलम् - 3.8
नित्या कालापरिच्छेदात् पूर्णाकारावियोगतः।
व्यापिनी देशविभ्रंशाद्रिक्ता पूर्णा च सर्वदा ॥ 3.8 ॥
विश्वास-प्रस्तुतिः - 3.10
अव्यक्तकालपुंभावात्7 सा पद्मा पद्ममालिनी।
कामदानाच्च कमला पर्याप्तसुखयोगतः ॥ 3.10 ॥
मूलम् - 3.10
अव्यक्तकालपुंभावात्7 सा पद्मा पद्ममालिनी।
कामदानाच्च कमला पर्याप्तसुखयोगतः ॥ 3.10 ॥
विश्वास-प्रस्तुतिः - 3.11
विष्णोः सामर्थ्यरूपत्वाद् विष्णुशक्तिः प्रगीयते।
पालयन्ती हरेर्भावं विष्णुपत्नी प्रकीर्तिता ॥ 3.11 ॥
मूलम् - 3.11
विष्णोः सामर्थ्यरूपत्वाद् विष्णुशक्तिः प्रगीयते।
पालयन्ती हरेर्भावं विष्णुपत्नी प्रकीर्तिता ॥ 3.11 ॥
विश्वास-प्रस्तुतिः - 3.12
जगदाकारसंकोचात् स्मृता 8कुण्डलिनी बुधैः।
अनाहता बुधैः प्रोक्ता मनोवागाद्यनाहतेः ॥ 3.12 ॥
मूलम् - 3.12
जगदाकारसंकोचात् स्मृता 8कुण्डलिनी बुधैः।
अनाहता बुधैः प्रोक्ता मनोवागाद्यनाहतेः ॥ 3.12 ॥
विश्वास-प्रस्तुतिः - 3.14
सर्वपुण्यकरीभावान्महीयस्यपि सा मही।
तथानाहतशीर्ष्णी चानाहतोऽभ्युदयो यतः ॥ 3.14 ॥
मूलम् - 3.14
सर्वपुण्यकरीभावान्महीयस्यपि सा मही।
तथानाहतशीर्ष्णी चानाहतोऽभ्युदयो यतः ॥ 3.14 ॥
विश्वास-प्रस्तुतिः - 3.16
त्रायन्ती गायतः सर्वान् गायत्त्रीत्यभिधीयते।
प्रकुर्वती जगत् स्वेन प्रकृतिः परिगीयते ॥ 3.16 ॥
मूलम् - 3.16
त्रायन्ती गायतः सर्वान् गायत्त्रीत्यभिधीयते।
प्रकुर्वती जगत् स्वेन प्रकृतिः परिगीयते ॥ 3.16 ॥
विश्वास-प्रस्तुतिः - 3.17
मिमीते च तता चेति सा माता परिकीर्तिता।
सर्वेषामविपर्यासाच्छिवंकरतया शिवा ॥ 3.17 ॥
मूलम् - 3.17
मिमीते च तता चेति सा माता परिकीर्तिता।
सर्वेषामविपर्यासाच्छिवंकरतया शिवा ॥ 3.17 ॥
विश्वास-प्रस्तुतिः - 3.18
तरुणी काम्यमानत्वात् तारा 9संसारतारणात्।
अविपर्यासरूपत्वात् सत्या सत्यद्वयान्वयात् ॥ 3.18 ॥
मूलम् - 3.18
तरुणी काम्यमानत्वात् तारा 9संसारतारणात्।
अविपर्यासरूपत्वात् सत्या सत्यद्वयान्वयात् ॥ 3.18 ॥
विश्वास-प्रस्तुतिः - 3.19
शान्ताशेषविकारत्वाच्छान्ता सा चिन्त्यते बुधैः।
मोहानपनयन्ती सा मोहिनी मोहनादपि ॥ 3.19 ॥
मूलम् - 3.19
शान्ताशेषविकारत्वाच्छान्ता सा चिन्त्यते बुधैः।
मोहानपनयन्ती सा मोहिनी मोहनादपि ॥ 3.19 ॥
विश्वास-प्रस्तुतिः - 3.20
इडा हविरधिष्ठानादिष्यमाणतयापि च।
रमयन्तीति सा रन्ती रतिश्च परिकीर्तिता ॥ 3.20 ॥
मूलम् - 3.20
इडा हविरधिष्ठानादिष्यमाणतयापि च।
रमयन्तीति सा रन्ती रतिश्च परिकीर्तिता ॥ 3.20 ॥
विश्वास-प्रस्तुतिः - 3.23
उदधेरिव च स्थैर्यं महत्तेव विहायसः।
प्रभेव दिवसेशस्य ज्योत्स्नेव हिमदीधितेः ॥ 3.23 ॥
मूलम् - 3.23
उदधेरिव च स्थैर्यं महत्तेव विहायसः।
प्रभेव दिवसेशस्य ज्योत्स्नेव हिमदीधितेः ॥ 3.23 ॥
विश्वास-प्रस्तुतिः - 3.24
विष्णोः सर्वाङ्गसंपूर्णा10 भावाभावानुगामिनी।
शक्तिर्नारायणी दिव्या सर्वसिद्धान्तसंमता ॥ 3.24 ॥
मूलम् - 3.24
विष्णोः सर्वाङ्गसंपूर्णा10 भावाभावानुगामिनी।
शक्तिर्नारायणी दिव्या सर्वसिद्धान्तसंमता ॥ 3.24 ॥
शक्तिमतः शक्तिर्भिन्ना
विश्वास-प्रस्तुतिः - 3.25
देवाच्छक्तिमतो भिन्ना 11ब्रह्मणः परमेष्ठिनः।
एष चैषा च शास्त्रेषु धर्मधर्मिस्वभावतः॥ 3.25 ॥
मूलम् - 3.25
देवाच्छक्तिमतो भिन्ना 11ब्रह्मणः परमेष्ठिनः।
एष चैषा च शास्त्रेषु धर्मधर्मिस्वभावतः॥ 3.25 ॥
विश्वास-प्रस्तुतिः - 3.26
भवद्भावस्वरूपेण तत्त्वमेकमिवोदितौ।
स्वातन्त्र्येण स्वरूपेण विष्णुपत्नीयमद्भुता ॥ 3.26 ॥
मूलम् - 3.26
भवद्भावस्वरूपेण तत्त्वमेकमिवोदितौ।
स्वातन्त्र्येण स्वरूपेण विष्णुपत्नीयमद्भुता ॥ 3.26 ॥
शक्तेः द्वैविध्यम्; भूतिशक्तेः त्रैविध्यम्
सहस्रायुतकोट्योघकोटिकोट्यर्बुदांशकः ॥ 3.27 ॥
विश्वास-प्रस्तुतिः - 3.28
लक्ष्मीमयः समुन्मेषः स द्विधा व्यवतिष्ठते।
क्रियाभूतिविभेदेन भूतिः सा च त्रिधा मता ॥ 3.28 ॥
मूलम् - 3.28
लक्ष्मीमयः समुन्मेषः स द्विधा व्यवतिष्ठते।
क्रियाभूतिविभेदेन भूतिः सा च त्रिधा मता ॥ 3.28 ॥
विश्वास-प्रस्तुतिः - 3.30
लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते।
स्वातन्त्र्यमूल इच्छात्मा प्रेक्षारूपः क्रियाफलः ॥ 3.30 ॥
मूलम् - 3.30
लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते।
स्वातन्त्र्यमूल इच्छात्मा प्रेक्षारूपः क्रियाफलः ॥ 3.30 ॥
विश्वास-प्रस्तुतिः - 3.31
उन्मेषो यः सुसंकल्पः सर्वत्राव्याहतः कृतौ।
अव्यक्तकालपुंरूपां चेतनाचेतनात्मिकाम् ॥ 3.31 ॥
मूलम् - 3.31
उन्मेषो यः सुसंकल्पः सर्वत्राव्याहतः कृतौ।
अव्यक्तकालपुंरूपां चेतनाचेतनात्मिकाम् ॥ 3.31 ॥
विश्वास-प्रस्तुतिः - 3.32
भूतिं लक्ष्मीमयीं विष्णोः शक्तिं संभावयत्यसौ।
अव्यक्तं परिणामेन कालं कलनकर्मणा ॥ 3.32 ॥
मूलम् - 3.32
भूतिं लक्ष्मीमयीं विष्णोः शक्तिं संभावयत्यसौ।
अव्यक्तं परिणामेन कालं कलनकर्मणा ॥ 3.32 ॥
विश्वास-प्रस्तुतिः - 3.33
पुरुषं 12भोजनोद्योगैः सर्गे संयोजयत्ययम्।
सामर्थ्यत्रितयादानाद् वियोजयति संचरे ॥ 3.33 ॥
मूलम् - 3.33
पुरुषं 12भोजनोद्योगैः सर्गे संयोजयत्ययम्।
सामर्थ्यत्रितयादानाद् वियोजयति संचरे ॥ 3.33 ॥
विश्वास-प्रस्तुतिः - 3.34
विषमे परिणामे यत् सामर्थ्यं त्रिगुणात्मनः।
सृष्टौ दधाति तत् तस्मिन् विपर्यासं च संहृतौ ॥ 3.34 ॥
मूलम् - 3.34
विषमे परिणामे यत् सामर्थ्यं त्रिगुणात्मनः।
सृष्टौ दधाति तत् तस्मिन् विपर्यासं च संहृतौ ॥ 3.34 ॥
विश्वास-प्रस्तुतिः - 3.35
अव्यक्तपुरुषोद्योगसंयोजनविधिक्रमम्।
काले दधाति सर्गादौ विपर्यासं च संहृतौ ॥ 3.35 ॥
मूलम् - 3.35
अव्यक्तपुरुषोद्योगसंयोजनविधिक्रमम्।
काले दधाति सर्गादौ विपर्यासं च संहृतौ ॥ 3.35 ॥
विश्वास-प्रस्तुतिः - 3.36
पुंसश्च 13बुद्धिसामर्थ्यमसामर्थ्यं च भोजने।
संकल्पः कुरुते विष्णोः सर्गप्रतिविसर्गयोः ॥ 3.36 ॥
मूलम् - 3.36
पुंसश्च 13बुद्धिसामर्थ्यमसामर्थ्यं च भोजने।
संकल्पः कुरुते विष्णोः सर्गप्रतिविसर्गयोः ॥ 3.36 ॥
विश्वास-प्रस्तुतिः - 3.37
त्रीनेतान् संहतान् सृष्टौ विहतान् प्रतिसंचरे।
दधाति स्वेन रूपेण गुणो14 मणिगणानिव ॥ 3.37 ॥
मूलम् - 3.37
त्रीनेतान् संहतान् सृष्टौ विहतान् प्रतिसंचरे।
दधाति स्वेन रूपेण गुणो14 मणिगणानिव ॥ 3.37 ॥
विश्वास-प्रस्तुतिः - 3.38
स्थितौ च कुरुते रक्षां तेषां कार्यसमीक्षणात्।
सर्वत्राव्याहतत्वं यत् तत् सुदर्शनलक्षणम् ॥ 3.38 ॥
मूलम् - 3.38
स्थितौ च कुरुते रक्षां तेषां कार्यसमीक्षणात्।
सर्वत्राव्याहतत्वं यत् तत् सुदर्शनलक्षणम् ॥ 3.38 ॥
क्रियाशक्तेः वैविध्येन सर्वभावानुयायित्वम्
विश्वास-प्रस्तुतिः - 3.39
सोऽयं सुदर्शनं नाम [^23]संकल्पः स्पन्दनात्मकः[^24]।
विभज्य बहुधा रूपं भावे भावेऽवतिष्ठते ॥ 3.39 ॥
मूलम् - 3.39
सोऽयं सुदर्शनं नाम [^23]संकल्पः स्पन्दनात्मकः[^24]।
विभज्य बहुधा रूपं भावे भावेऽवतिष्ठते ॥ 3.39 ॥
वैविध्यप्रपञ्चनम्
[^25]व्याप्तिं सुदर्शनस्येमां प्रोच्यमानां मया श्रृणु।
यज्ज्ञात्वा पुरुषो लोके कृतकृत्यत्वमश्नुते ॥ 3.40 ॥
विश्वास-प्रस्तुतिः - 3.41
षाड्गुण्यं यत् परं ब्रह्मा या गतिर्योगिनां परा।
नारायणः स विश्वात्मा भावाभावमिदं जगत् ॥ 3.41 ॥
मूलम् - 3.41
षाड्गुण्यं यत् परं ब्रह्मा या गतिर्योगिनां परा।
नारायणः स विश्वात्मा भावाभावमिदं जगत् ॥ 3.41 ॥
विश्वास-प्रस्तुतिः - 3.43
सर्वभावात्मिका लक्ष्मीरहंता परमात्मनः।
तद्धर्मधर्मिणी देवी भूत्वा सर्वमिदं जगत् ॥ 3.43 ॥
मूलम् - 3.43
सर्वभावात्मिका लक्ष्मीरहंता परमात्मनः।
तद्धर्मधर्मिणी देवी भूत्वा सर्वमिदं जगत् ॥ 3.43 ॥
विश्वास-प्रस्तुतिः - 3.44
निष्कलेन स्वरूपेण सापि [^28]तद्वन्नियच्छति।
तदीयैका [^29]कला भूतिर्जगद्भवनसंज्ञिता[^30] ॥ 3.44 ॥
मूलम् - 3.44
निष्कलेन स्वरूपेण सापि [^28]तद्वन्नियच्छति।
तदीयैका [^29]कला भूतिर्जगद्भवनसंज्ञिता[^30] ॥ 3.44 ॥
विश्वास-प्रस्तुतिः - 3.45
व्यापारो वास्तवस्त8 जगन्नियमनात्मकः।
निष्कला या क्रियाशक्तिर्लक्ष्म्याः सौदर्शनी कला ॥ 3.45 ॥
मूलम् - 3.45
व्यापारो वास्तवस्त8 जगन्नियमनात्मकः।
निष्कला या क्रियाशक्तिर्लक्ष्म्याः सौदर्शनी कला ॥ 3.45 ॥
विश्वास-प्रस्तुतिः - 3.46
भजेने तौ यदा रूपं मनोनयननन्दनम्।
रक्षायै जगतामीशौ चक्रपद्मे तदा क्रिया ॥ 3.46 ॥
मूलम् - 3.46
भजेने तौ यदा रूपं मनोनयननन्दनम्।
रक्षायै जगतामीशौ चक्रपद्मे तदा क्रिया ॥ 3.46 ॥
विश्वास-प्रस्तुतिः - 3.47
रक्षोपकरणं देवौ तौ यावद्यावदिच्छतः।
शङ्खशार्ङ्गादिरूपेण तावत् तावत् सुदर्शनम् ॥ 3.47 ॥
मूलम् - 3.47
रक्षोपकरणं देवौ तौ यावद्यावदिच्छतः।
शङ्खशार्ङ्गादिरूपेण तावत् तावत् सुदर्शनम् ॥ 3.47 ॥
विश्वास-प्रस्तुतिः - 3.49
देवदैत्यादिकान् भावान् यदा तौ भजतः स्वयम्।
तत्तदस्त्रमयी देवी तदा सौदर्शनी क्रिया ॥ 3.49 ॥
मूलम् - 3.49
देवदैत्यादिकान् भावान् यदा तौ भजतः स्वयम्।
तत्तदस्त्रमयी देवी तदा सौदर्शनी क्रिया ॥ 3.49 ॥
विश्वास-प्रस्तुतिः - 3.50
यदा विश्वोपकाराय शास्त्रं नानाफलाश्रयम्।
कुरुतः सा क्रिया तत्र शासनं हृदयस्थितम् ॥ 3.50 ॥
मूलम् - 3.50
यदा विश्वोपकाराय शास्त्रं नानाफलाश्रयम्।
कुरुतः सा क्रिया तत्र शासनं हृदयस्थितम् ॥ 3.50 ॥
विश्वास-प्रस्तुतिः - 3.51
यदा तौ भवतः शास्त्रं विश्वोपकृतये विभू[^32]।
तदा सा[^33] शास्त्रतात्पर्यं क्रिया सौदर्शनी कला ॥ 3.51 ॥
मूलम् - 3.51
यदा तौ भवतः शास्त्रं विश्वोपकृतये विभू[^32]।
तदा सा[^33] शास्त्रतात्पर्यं क्रिया सौदर्शनी कला ॥ 3.51 ॥
विश्वास-प्रस्तुतिः - 3.52
शास्त्राधिकारिणो[^34] नाम यदा [^35]तौ पितरौ ध्रुवौ।
अधिकारस्तदा तेषां क्रियाशक्तिः सुदर्शनम् ॥ 3.52 ॥
मूलम् - 3.52
शास्त्राधिकारिणो[^34] नाम यदा [^35]तौ पितरौ ध्रुवौ।
अधिकारस्तदा तेषां क्रियाशक्तिः सुदर्शनम् ॥ 3.52 ॥
विश्वास-प्रस्तुतिः - 3.53
यदा शास्त्रार्थभूतौ तौ फलसाधनसंश्रयात्[^36]।
फलप्रसवसामर्थ्यं[^37] क्रिया त8 सुदर्शनम् ॥ 3.53 ॥
मूलम् - 3.53
यदा शास्त्रार्थभूतौ तौ फलसाधनसंश्रयात्[^36]।
फलप्रसवसामर्थ्यं[^37] क्रिया त8 सुदर्शनम् ॥ 3.53 ॥
विश्वास-प्रस्तुतिः - 3.54
पुरुषार्थास्तु चत्वारो यदा तौ भवतः[^38] स्वयम्।
आत्मतर्पणसामर्थ्यं तदा चक्रं सुदर्शनम् ॥ 3.54 ॥
मूलम् - 3.54
पुरुषार्थास्तु चत्वारो यदा तौ भवतः[^38] स्वयम्।
आत्मतर्पणसामर्थ्यं तदा चक्रं सुदर्शनम् ॥ 3.54 ॥
विश्वास-प्रस्तुतिः - 3.55
यदा मन्त्रमयीं रक्षां भजतो जगतां हिते।
मन्त्रयन्त्रमयी देवी क्रियाशक्तिस्तदा त्वियम् ॥ 3.55 ॥
मूलम् - 3.55
यदा मन्त्रमयीं रक्षां भजतो जगतां हिते।
मन्त्रयन्त्रमयी देवी क्रियाशक्तिस्तदा त्वियम् ॥ 3.55 ॥
विश्वास-प्रस्तुतिः - 3.56
वैश्वरूप्यस्य संक्षेपः क्रियाशक्तेः प्रदर्शितः।
सुदर्शनात्मिकायास्ते किं भूयः श्रोतुमिच्छसि ॥ 3.56 ॥
मूलम् - 3.56
वैश्वरूप्यस्य संक्षेपः क्रियाशक्तेः प्रदर्शितः।
सुदर्शनात्मिकायास्ते किं भूयः श्रोतुमिच्छसि ॥ 3.56 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां क्रियाशक्तेर्वैश्वरूप्यप्रदर्शनं नाम तृतीयोऽध्यायः
आदितः श्लोकाः 192
————-****—————