षाड्गुण्यब्रह्मविवेको नाम द्वितीयोऽध्यायः
अहिर्बुध्न्यं प्रति नारदप्रश्नः
नारदः—-
विश्वास-प्रस्तुतिः
मन्त्र-ग्रामान् अशेषांस् तान्1
सूर्य-वैश्वानरोपमान्।
अनायासेन जग्राह
हरेश् चक्रं सुदर्शनम् ॥ 2.1 ॥
मूलम्
मन्त्रग्रामानशेषांस्तान्1 सूर्यवैश्वानरोपमान्।
अनायासेन जग्राह हरेश्चक्रं सुदर्शनम् ॥ 2.1 ॥
विश्वास-प्रस्तुतिः
सांसिद्धिक-प्रभावो ऽयम्
अस्य सांसर्गिकोऽपि वा।
2किं तत् सुदर्शनं नाम
कश् च शब्दार्थ उच्यते ॥ 2.2 ॥
मूलम्
सांसिद्धिकप्रभावोऽयमस्य सांसर्गिकोऽपि वा।
2किं तत् सुदर्शनं नाम कश्च शब्दार्थ उच्यते ॥ 2.2 ॥
अहिर्बुध्न्येन संकर्षणात् स्वस्य ज्ञानप्राप्तिकथनम्
अहिर्बुध्न्यः—
विश्वास-प्रस्तुतिः
श्रृणु नारद तत्त्वेन
यत् तज् ज्ञानम् अनुत्तमम्।
वर्षायुत-गणान् घोरं
तपस् तप्त्वा मया पुरा ॥ 2.3 ॥
मूलम्
श्रृणु नारद तत्त्वेन यत् तज्ज्ञानमनुत्तमम्।
वर्षायुतगणान् घोरं तपस्तप्त्वा मया पुरा ॥ 2.3 ॥
विश्वास-प्रस्तुतिः
3प्राप्तं संकर्षणात् साक्षाद्
विज्ञान-बलवारिधेः।
ब्रह्मादिषु यद् अन्येषु
4न महर्षिषु विद्यते ॥ 2.4 ॥
मूलम्
3प्राप्तं संकर्षणात् साक्षाद् विज्ञानबलवारिधेः।
ब्रह्मादिषु यदन्येषु 4न महर्षिषु विद्यते ॥ 2.4 ॥
विश्वास-प्रस्तुतिः
सुदर्शन-स्वरूपं तत्
प्रोच्यमानं मया श्रृणु।
श्रुते 5यत्राखिलाधारे
संशयास् ते न सन्ति वै6 ॥ 2.5 ॥
मूलम्
सुदर्शनस्वरूपं तत् प्रोच्यमानं मया श्रृणु।
श्रुते 5यत्राखिलाधारे संशयास्ते न सन्ति वै6 ॥ 2.5 ॥
परब्रह्मस्वरूपसंक्षेपः
विश्वास-प्रस्तुतिः
अनाद्यन्तं परं ब्रह्म
यत् तद् अक्षरम् अव्ययम्।
अ-नाम-रूप-संभेद्यम्
अ-वाङ्-मनस-गोचरम् ॥ 2.6 ॥
सर्व-शक्ति समस्ताख्यं7
षाड्-गुण्यम् अजरं ध्रुवम्।
मूलम्
अनाद्यन्तं परं ब्रह्म यत् तदक्षरमव्ययम्।
अनामरूपसंभेद्यमवाङ्मनसगोचरम् ॥ 2.6 ॥
सर्वशक्ति समस्ताख्यं7 षाड्गुण्यमजरं ध्रुवम्।
सुदर्शन-शब्दार्थ-निरूपणम्
विश्वास-प्रस्तुतिः
“तस्य स्याम्” इति संकल्पो
भावतो ऽभावतो ऽपि वा ॥ 2.7 ॥
स्वातन्त्र्याननुयोज्येन
रूपेण परिवर्तते।
यत् तत् 8प्रेक्षणम् इत्य् उक्तं
दर्शनं तत् प्रगीयते ॥ 2.8 ॥
मूलम्
तस्य स्यामिति संकल्पो भावतोऽभावतोऽपि वा ॥ 2.7 ॥
स्वातन्त्र्याननुयोज्येन रूपेण परिवर्तते।
यत् तत् 8प्रेक्षणमित्युक्तं दर्शनं तत् प्रगीयते ॥ 2.8 ॥
विश्वास-प्रस्तुतिः
वस्तुतः कालतो देशात्
तस्य 9त्व् अव्याहतिर् यथा।
पूजा सा ऽत्र सु-शब्दार्थस्
तत् सुदर्शनम् ईर्यते ॥ 2.9 ॥
मूलम्
वस्तुतः कालतो देशात् तस्य 9त्वव्याहहिर्हि या।
पूजा सात्र सुशब्दार्थस्तत् सुदर्शनमीर्यते ॥ 2.9 ॥
सर्वस्य सुदर्शनाधीनत्वम्
कारणं जगतो यत् तदाधारो जगतश्च यः10।
प्रमाणं जगतो यत् तत् प्रमाणार्थोऽखिलश्च यः ॥ 2.10 ॥
तत्राधिकारिणो ये च विभागा ये च तद्गताः।
रक्षाविधिश्च यस्तस्य स च यस्य प्रकीर्तितः ॥ 2.11 ॥
सर्वं सुदर्शनायत्तं सुदर्शनमयं च यत्।
इति सांसिद्धिकं रूपं तस्य सर्वातिशायि च ॥ 12 ॥
अस्त्रग्रामेष्वशेषेषु यत् तत् सामर्थ्यमैश्वरम्।
एतदीयमशेषं तदित्याप्तं स्वेन तत् स्वकम्11 ॥ 2.13 ॥
पुनर्नारदकृताः प्रश्नाः
नारदः—
देवदेव जगन्नाथ लोकत्रितयशंकर।
विमुह्यतीव चित्तं मे संशयो बहुलीकृतः ॥ 2.14 ॥
षाड्गुण्यं किं परं ब्रह्मा किंप्रकारं12 च तद्भवेत्।
संकल्पः कीदृशस्तस्य कथं दर्शनतास्य च ॥ 2.15 ॥
कथं चाविहतिस्तस्य 13सर्वदेशातिगोचरा।
किं कारणं च जगतः कीदृशं किंविधं च तत् ॥ 2.16 ॥
को वा जगत आधारः कीदृक् कतिविधश्च सः।
किं तत् प्रमाणमित्युक्तं कीदृक् कतिविधं च तत् ॥ 2.17 ॥
प्रमामार्थश्च को नाम कीदृक् कतिविधश्च सः।
के तेऽधिकारिणो नाम कीदृशाः किंविधाश्च ते ॥ 2.18 ॥
सर्वस्यास्य च का रक्षा तद्विधिः कश्च किंविधः।
कश्च तत्राधिकार्यर्थः स च किंगुण इष्यते ॥ 2.19 ॥
एतन्मे भगवन् ब्रूहि प्रश्नजातमशेषतः।
उपसंगृह्य चरणावुपसन्नोऽस्म्यधीहि भोः ॥ 2.20 ॥
दुर्वासाः—–
ततो दर्शनपूताय प्रणिपत्याभियाचते।
उपसन्नाय मुनये सर्वं व्याचष्ट शंकरः ॥ 2.21 ॥
विस्तरेण परब्रह्मस्वरूपनिरूपणम्
अहिर्बुध्न्यः—
एकं निर्दुः खनिः सीमसुखानुभवलक्षणम्।
अनाद्यन्तं परं ब्रह्म नारायणमनामयम् ॥ 2.22 ॥
सर्वभूतकृतावासं सर्वं व्याप्य व्यवस्थितम्।
निरवद्यमविक्षिप्तमतरङ्गार्णवोपमम् ॥ 2.23 ॥
परब्रह्मणः हेयप्रतिभटत्वं कल्याणगुणाकारत्वं च
अप्राकृतगुणस्पर्शमप्राकृतगुणास्पदम्।
भवोदधेः परं पारं निष्कलङ्कं निरञ्जनम् ॥ 2.24 ॥
आकाराद् देशतः कालादनवच्छेदयोगतः।
पूर्णं नित्योदितं व्यापि हेयोपादेयतोज्झितम् ॥ 2.25 ॥
इदमीदृगियत्ताभिरपरिच्छेद्यमञ्जसा।
परब्रह्मणः परमात्मादिसकलशब्दवाच्यत्वम्
उपर्युपरि तत्त्वानां पूर्वपूर्वात्मभाविनाम् ॥ 2.26 ॥
पारम्येणात्मभावित्वात् परमात्मा प्रकीर्तितः।
ओमित्यापन्नयोगेन सर्वतत्त्वप्रवेशतः14 ॥ 2.27 ॥
षाड्गुण्यगुणयोगेन भगवान् परिकीर्तितः।
समस्तभूतवासित्वाद् वासुदेवः प्रकीर्तितः॥ 2.28 ॥
आप्नोति 15जगदित्येवमात्मत्वेन निरूपितः।
रूपात् प्रकारतोऽव्यक्तेरव्यक्तः परिगीयते ॥ 2.29 ॥
सर्वप्रकृतिशक्तित्वात् सर्वप्रकृतिरीरितः।
प्रधीयमानकार्यत्वात्16 प्रधानः परिगीयते ॥ 2.30 ॥
नेतृत्वादनितृत्वाच्च नित्य इत्यपि पठ्यते।
अननाददनाच्चापि ह्यनन्तः परिपठ्यते ॥ 2.31 ॥
परितो मित्यभावाच्च प्रोक्तोऽपरिमितो बुधैः।
अक्षयादक्षरः प्रोक्तो ह्यरिष्टो रिष्टवर्जनात् ॥ 2.32 ॥
अविकार्यस्वभावत्वादव्याप्यत्वात् तथाच्युतः।
रागादिदोषनिर्मुक्तेः समधीगोचरत्वतः ॥ 2.33 ॥
सर्वोपादानतासाम्यात् समः संपरिकीर्तितः।
ध्यानवर्त्मबहिर्भावात् स्वभावाननुयोगतः ॥ 2.34 ॥
इयत्तयाप्यचिन्त्यत्वादचिन्त्यः परिकीर्तितः।
जगन्ति प्रबवन्त्यस्मात् सर्वत्र प्रभवत्यपि ॥ 2.35 ॥
प्रकृष्टश्च भवो यस्मात् प्रभवः परिकीर्तितः।
सर्वप्रलभूमित्वादव्ययो व्ययनाशनात्॥ 2.36 ॥
बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मोति श्रुतिगह्वरे।
कपिलः श्रेष्ठविद्यत्वात् तेजिष्ठत्वाच्च कापिलः ॥ 2.37 ॥
हितश्च रमणीयश्च गर्भो हृदयनामवान्।
हिरण्यगर्भ इत्येवं योगिभिः समुदाहृतः ॥ 2.38 ॥
अपनाशतपोयोगादपान्तरतपाः श्रुतः।
17शिवंकरतया प्रोक्तः शिवः पाशुपते स्थितैः ॥ 2.39 ॥
अदूरविप्रकर्षस्थैर्वस्तुतोऽनवगाहिभिः।
इत्येवमादिभिः शब्दैस्तत्त्वं तदुपलक्ष्यते॥ 2.40 ॥
प्रतिबन्धविगमे ब्रह्माभवसंभवः
18अनेकजन्मसंसिद्धपुण्यपापरिक्षये।
निकृत्ते वासनाजाले सम्यग्विज्ञानशस्त्रतः ॥ 2.41 ॥
19त्रैगुण्योपरमे तत्तु स्वेनानुभवितुं क्षमम्।
साक्षादिदमिति20 व्यक्तं वाचा वक्तुं न शक्नुमः ॥ 2.42 ॥
ब्रह्मणः प्रयत्नलभ्यत्वविरहः
संवत्सरसहस्राणि पक्षिराडिव संपतन्।
नैवान्तं कारणस्यैति यद्यपि स्यान्मनोजवः ॥ 2.43 ॥
उपर्युपरि गच्छन्तो 21विशिक्षन्तस्तथा तथा।
ज्ञानोद्यमदशायास्ते न व्यक्तिमधिकां गताः ॥ 2.44 ॥
ब्राह्मणः त्रिविधपरिच्छेदशून्यत्वम्
22सर्वप्रत्यक्षदर्शित्वात् सर्वात्मा तत् परं पदम्।
अतीतानागते काले मध्यतः प्रतिसंहृते23 ॥ 2.46 ॥
वर्तमानं न तद् ब्रह्मा नातीतं नैव भावि तत्।
अग्रतः पृष्ठतो नैव नोर्ध्वतः24 पार्श्वयोर्द्वयोः ॥ 2.47 ॥
न कल्माषं न विकलं न कृष्णं न च पिङ्गलम्।
न 25सारङ्गं पिशङ्गं न कपिलं नारुणं न च ॥ 2.48 ॥
26न बभ्रु नकुलं नैव न श्यामं न च रोहितम्।
न दीर्घं नैव च ह्रस्वं न स्थूलं नैव चाप्यणु॥ 2.49 ॥
न वृत्तं नाप्यपावृत्तं नाश्रितं तदनाश्रितम्।
नैव भावो न चाभावस्तद्भावार्चितये न च27 ॥ 2.50 ॥
न शीतं नापि चैवोष्णं नानुष्णाशीतमप्युत।
न दुःखं न सुखं नैव निर्दुःखं सुखमव्रणम् ॥ 2.51 ॥
न मूलं नापि तन्मध्यं नैवान्तं कस्याचिन्मुने।
न शेते तन्न चैवास्ते न तिष्ठति न गच्छति ॥ 2.52 ॥
सर्वद्वन्द्वविनिर्मुक्तं सर्वोपाधिविवर्जितम्।
षाड्गुण्यं तत् परं ब्रह्म सर्वकारणकारणम् ॥ 2.53 ॥
नारदः—
किं तत् षाड्गुण्यमित्युक्तं देवदेव जगत्पते।
कथं च गुणहीनं तत् षाड्गुण्यं परिगीयते ॥ 2.54 ॥
ब्रह्मणः षाड्गुण्यप्रपञ्चनम्
अहिर्बुध्न्यः—
अप्राकृतगुणस्पर्शं निर्गुणं परिगीयते।
श्रृणु नारद षाड्गुण्यं कथ्यमानं मयानघ ॥ 2.55 ॥
ज्ञानस्वरूपनिरूपणम्
अजडं स्वात्मसंबोधि नित्यं सर्वावगाहनम्।
ज्ञानं नाम गुणं प्राहुः प्रथमं गुणचिन्तकाः ॥ 2.56 ॥
ब्रह्मणो ज्ञानस्वरूपत्वं ज्ञानगुणकत्वं च
स्वरूपं ब्रह्मणस्तच्च गुणश्च28 परिगीयते।
शक्तिस्वरूपनिरूपणम्
जगत्प्रकृतिभावो यः सा शक्तिः परिकीर्तिता ॥ 2.57 ॥
ऐश्वर्यस्वरूपनिरूपणम्
कर्तृत्वं नाम यत् तस्य स्वातन्त्र्यपरिबृंहितम्।
ऐश्वर्यं नाम तत् प्रोक्तं गुणतत्त्वार्थचिन्तकैः ॥ 2.58 ॥
बलस्वरूपनिरूपणम्
श्रमहानिस्तु या तस्य सततं कुर्वतो जगत्।
बलं नाम गुणस्तस्य कथितो 29गुणचिन्तकैः ॥ 2.59 ॥
वीर्यस्वरूपनिरूपणम्
तस्योपादानभावेऽपि विकारविरहो हि यः।
वीर्यं नाम गुणः सोऽयमच्युतत्वापराह्वयम् ॥ 2.60 ॥
तेजःस्वरूपनिरूपणम्
सहकार्यनपेक्षा या तत् तेजः समुदाहृतम्।
शक्त्यादिगुणपञ्चकस्य ज्ञानगुणप्रकारत्वम्
एते शक्त्यादयः पञ्च गुणा ज्ञानस्य कीर्तिताः ॥ 2.61 ॥
ज्ञानमेव परं रूपं ब्रह्मणः परमात्मनः।
षाड्गुण्यं तत् परं ब्रह्म स्वशक्तिपरिबृंहितम्।
बहु स्यामिति संकल्पं भजते तत् सुदर्शनम् ॥ 2.62 ॥
इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां षाड्गुण्यब्रह्मविवेको नाम द्वितीयोऽध्यायः
आदितः श्लोकाः 136
-
यत् D. ↩︎
-
इत्याप्तस्वेन तत् स्वकम् A B C D ↩︎
-
किंप्रकारश्च A B C. ↩︎
-
सर्वदेवा A B C D. ↩︎
-
प्रवेशितः A B C. ↩︎
-
मितमित्येवम् E.J. ↩︎
-
कारित्वात् प्रधानं D. ↩︎
-
शिवः शिवंकरतया प्रोक्तः पाशुपतस्थितैः D ↩︎
-
अनेकजन्मसंसिद्धैः All MSS ↩︎
-
त्रैगुण्योपरमो यत्तत् B C J ↩︎
-
अति A B C E F ↩︎
-
विशिड्क्षन्त A B C E F
तत्र सर्वाणि तत्त्वानि निषीदन्ति परात्मनि।
भावाभावावुभौ प्रोतौ ज्ञानसूत्रमयात्मना ॥ 2.45 ॥ ↩︎ -
सर्वप्रत्यवमर्शित्वात् E.F. ↩︎
-
संहृतम् A B C J ↩︎
-
नोर्ध्वाधः B ↩︎
-
सारङ्गपिशङ्गं A.B. ↩︎
-
इदं श्लोकद्वयं D पुस्तक एव दृश्यते ↩︎
-
इत्थमेव पाठः सर्वत्र ↩︎
-
गुणं च A B C D E F. ↩︎
-
गुणसत्तमैः A B C E F. ↩︎