०१ शास्त्रावतारः

श्रीपाञ्चरात्रे अहिर्बुध्न्यसंहिता
शास्त्रावतारो नाम प्रथमोध्यायः

मङ्गलाचरणम्

विश्वास-प्रस्तुतिः

1शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशान्तये॥

मूलम्

1शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशान्तये॥

विश्वास-प्रस्तुतिः

2अक्षरत्रितयाव्यक्तविकाराक्षादिरूपिणे।
परव्यूहादितत्त्वाय नमश्चक्राय चक्रिणे ॥ 1.1 ॥

मूलम्

2अक्षरत्रितयाव्यक्तविकाराक्षादिरूपिणे।
परव्यूहादितत्त्वाय नमश्चक्राय चक्रिणे ॥ 1.1 ॥

विश्वास-प्रस्तुतिः - 1.2

सोमसूर्यानलाकल्पामकल्पामिन्दुशेखराम्।
पञ्चबिन्दुं हरेः शक्तिं पञ्चकृत्यकरीं नुमः ॥ 1.2 ॥

मूलम् - 1.2

सोमसूर्यानलाकल्पामकल्पामिन्दुशेखराम्।
पञ्चबिन्दुं हरेः शक्तिं पञ्चकृत्यकरीं नुमः ॥ 1.2 ॥

भरद्वाजस्य दुर्वाससं प्रति सुदर्शनमाहात्म्यकारणप्रश्नः

विश्वास-प्रस्तुतिः - 1.3

आप्लुतं दिव्यगङ्गायामुपासीनं परं पदम्।
भरद्वाजोऽथ पप्रच्छ दुर्वाससमकल्मषम् ॥ 1.3 ॥

मूलम् - 1.3

आप्लुतं दिव्यगङ्गायामुपासीनं परं पदम्।
भरद्वाजोऽथ पप्रच्छ दुर्वाससमकल्मषम् ॥ 1.3 ॥

भरद्वाजः—

विश्वास-प्रस्तुतिः - 1.4

अनसूयाहृदानन्द भगवंस्तपसां निधे।
अस्ति मे संशयः कश्चित् तं मे व्याख्यातुमर्हसि ॥ 1.4 ॥

मूलम् - 1.4

अनसूयाहृदानन्द भगवंस्तपसां निधे।
अस्ति मे संशयः कश्चित् तं मे व्याख्यातुमर्हसि ॥ 1.4 ॥

विश्वास-प्रस्तुतिः - 1.5

अग्नीषोमक्रियायोगिन्याथर्वणविनिर्णये।
महोदयेऽस्त्रसंघे च प्रवर्तकनिवर्तके ॥ 1.5 ॥

मूलम् - 1.5

अग्नीषोमक्रियायोगिन्याथर्वणविनिर्णये।
महोदयेऽस्त्रसंघे च प्रवर्तकनिवर्तके ॥ 1.5 ॥

विश्वास-प्रस्तुतिः - 1.6

लोकपालास्त्रसंघे च तत्तत्सामर्थ्यसंभृते।
महोदयासु शक्तीषु3 वह्निसूर्येन्दुवर्त्मनाम्4॥ 1.6 ॥

मूलम् - 1.6

लोकपालास्त्रसंघे च तत्तत्सामर्थ्यसंभृते।
महोदयासु शक्तीषु3 वह्निसूर्येन्दुवर्त्मनाम्4॥ 1.6 ॥

विश्वास-प्रस्तुतिः - 1.7

अस्त्राश्रये च शस्त्रौधे ब्रह्मरुद्रादिनिर्मिते।
त्रैलोक्यत्राणसंहारजनिकर्मविचक्षणे॥ 1.7 ॥

मूलम् - 1.7

अस्त्राश्रये च शस्त्रौधे ब्रह्मरुद्रादिनिर्मिते।
त्रैलोक्यत्राणसंहारजनिकर्मविचक्षणे॥ 1.7 ॥

विश्वास-प्रस्तुतिः - 1.8

महर्षिगणसंदृष्टे मन्त्रग्रामे महोदये।
वैष्णवे च गदाशार्ङ्गशङ्खखड्गादिपूर्वके ॥ 1.8 ॥

मूलम् - 1.8

महर्षिगणसंदृष्टे मन्त्रग्रामे महोदये।
वैष्णवे च गदाशार्ङ्गशङ्खखड्गादिपूर्वके ॥ 1.8 ॥

[^5]लाक्ष्मे च [^6]दलगण्डाब्जपूर्वेस्त्रौघे महोदये। अन्यत्रोच्चावचेऽप्येवं कीर्त्यमाने प्रभावतः ॥ 1.9 ॥
विश्वास-प्रस्तुतिः - 1.10

सुदर्शनाश्रयत्वं तु तत्र तत्र निरूपितम्।
किंकृतं तस्य माहात्म्यं स्वतः संसर्गतोऽपि वा ॥ 1.10 ॥

मूलम् - 1.10

सुदर्शनाश्रयत्वं तु तत्र तत्र निरूपितम्।
किंकृतं तस्य माहात्म्यं स्वतः संसर्गतोऽपि वा ॥ 1.10 ॥

विश्वास-प्रस्तुतिः - 1.11

किं तत् सुदर्शनं नाम 5कश्च शब्दार्थ इष्यते।
तेन किं क्रियते कर्म जगद् व्याप्नोति तत् कथम् ॥ 1.11 ॥

मूलम् - 1.11

किं तत् सुदर्शनं नाम 5कश्च शब्दार्थ इष्यते।
तेन किं क्रियते कर्म जगद् व्याप्नोति तत् कथम् ॥ 1.11 ॥

विश्वास-प्रस्तुतिः - 1.12

कियन्तः कीदृशाः के च व्यूहास्तस्योदिता मुने।
प्रयोजनं च किं तेषां व्यूही6 तेषां च कीदृशी ॥ 1.12 ॥

मूलम् - 1.12

कियन्तः कीदृशाः के च व्यूहास्तस्योदिता मुने।
प्रयोजनं च किं तेषां व्यूही6 तेषां च कीदृशी ॥ 1.12 ॥

विश्वास-प्रस्तुतिः - 1.13

विष्णुना तस्य संबन्धः कश्च कीदृक् च संमतः।
किं तेन नियतं नित्यमुतान्यत्रापि दृश्यते ॥ 1.13 ॥

मूलम् - 1.13

विष्णुना तस्य संबन्धः कश्च कीदृक् च संमतः।
किं तेन नियतं नित्यमुतान्यत्रापि दृश्यते ॥ 1.13 ॥

विश्वास-प्रस्तुतिः - 1.14

एष मे संशयो जातो नानाशास्त्रनिरीक्षणात्।
छिन्द्ध्येनं भगवन् सम्यगुपसन्नोऽस्म्यधीहि भोः ॥ 1.14 ॥

मूलम् - 1.14

एष मे संशयो जातो नानाशास्त्रनिरीक्षणात्।
छिन्द्ध्येनं भगवन् सम्यगुपसन्नोऽस्म्यधीहि भोः ॥ 1.14 ॥

दुर्वाससः प्रश्नप्रशंसापूर्वकं तत्प्रतिवचनम्

दुर्वासाः—

विश्वास-प्रस्तुतिः - 1.15

उपपन्नमिदं वत्स यत् त्वयैवं विमृश्यते।
तानि तानि तपांस्यद्य व्युच्छन्ति तव सुव्रत ॥ 1.15 ॥

मूलम् - 1.15

उपपन्नमिदं वत्स यत् त्वयैवं विमृश्यते।
तानि तानि तपांस्यद्य व्युच्छन्ति तव सुव्रत ॥ 1.15 ॥

पक्वकषायस्यैव परतत्त्वजिज्ञासोदयः [^9]आन्तः करणिके तैस्तैः क्षयं नीते कषायके। मनीषा जायते पुंसां परतत्त्वविमर्शिनी[^10] ॥ 1.16 ॥

अत्र ब्रह्मादीनामपि संशयः

विश्वास-प्रस्तुतिः - 1.17

न संशयी भवानेव पूर्वोपन्यस्तवस्तुनि।
ब्रह्माद्याश्च [^11]यतन्तेऽत्र संशयाना मनीषिणः ॥ 1.17 ॥

मूलम् - 1.17

न संशयी भवानेव पूर्वोपन्यस्तवस्तुनि।
ब्रह्माद्याश्च [^11]यतन्तेऽत्र संशयाना मनीषिणः ॥ 1.17 ॥

स्वस्याहिर्बुध्न्यात् तत्त्वनिर्णयप्राप्तिः

विश्वास-प्रस्तुतिः - 1.18

निर्णयोऽत्र मया प्राप्तो नारदाय सुरर्षये।
साक्षात् कथयतः पृष्टाच्छंकराल्लोकशंकरात् ॥ 1.18 ॥

मूलम् - 1.18

निर्णयोऽत्र मया प्राप्तो नारदाय सुरर्षये।
साक्षात् कथयतः पृष्टाच्छंकराल्लोकशंकरात् ॥ 1.18 ॥

नारदस्योत्कर्षः

विश्वास-प्रस्तुतिः - 1.19

प्राप्याग्र्यां [^12]तपसो व्युष्टिं नारदो देवसंमतः ।
छिन्दानः संशयान् सर्वान् ब्रह्मदेवमहर्षिषु ॥ 1.19 ॥

मूलम् - 1.19

प्राप्याग्र्यां [^12]तपसो व्युष्टिं नारदो देवसंमतः ।
छिन्दानः संशयान् सर्वान् ब्रह्मदेवमहर्षिषु ॥ 1.19 ॥

तस्यापि तत्त्वविषयसंदेहादहिर्बुध्न्याभिगमनम्

विश्वास-प्रस्तुतिः - 1.20

स्वयं तु संशयं प्राप्य गहनं दुर्विदं सुरैः।
अरागरोगकलुषस्तपस्वी संयतेन्द्रियः ॥ 1.20 ॥

मूलम् - 1.20

स्वयं तु संशयं प्राप्य गहनं दुर्विदं सुरैः।
अरागरोगकलुषस्तपस्वी संयतेन्द्रियः ॥ 1.20 ॥

विश्वास-प्रस्तुतिः - 1.21

पदवाक्यप्रमाणानां याथातथ्यविधानवित्।
ब्रह्मचारी दमावासः 7परापरविभागवित् ॥ 1.21 ॥

मूलम् - 1.21

पदवाक्यप्रमाणानां याथातथ्यविधानवित्।
ब्रह्मचारी दमावासः 7परापरविभागवित् ॥ 1.21 ॥

विश्वास-प्रस्तुतिः - 1.22

शुश्रूषूरनहंवादी यथार्थज्ञानतत्परः।
नारदो मुनिशार्दूलस्त्रीन् लोकाननुसंचरन् ॥ 1.22 ॥

मूलम् - 1.22

शुश्रूषूरनहंवादी यथार्थज्ञानतत्परः।
नारदो मुनिशार्दूलस्त्रीन् लोकाननुसंचरन् ॥ 1.22 ॥

छेत्तारं संशयस्यास्य दुर्विदस्य सुरर्षिभिः देवादनभिगम्यान्यं सर्वज्ञाच्चन्द्रशेखरात् ॥ 1.23 ॥

कैलासवर्णनम्

विश्वास-प्रस्तुतिः - 1.24

प्रभाभिः स्वाभिरखिलान् प्रहसन्तमिवाचलान्।
उन्मेषमिव सत्त्वस्य प्रकृष्टज्ञानकारिणः8 ॥ 1.24 ॥

मूलम् - 1.24

प्रभाभिः स्वाभिरखिलान् प्रहसन्तमिवाचलान्।
उन्मेषमिव सत्त्वस्य प्रकृष्टज्ञानकारिणः8 ॥ 1.24 ॥

विश्वास-प्रस्तुतिः - 1.25

सिद्धविद्याधराकीर्णं देवगन्धर्वसेवितम्।
कैलासं शंकरावासं शंकरं द्रष्टुमाययौ ॥ 1.25 ॥

मूलम् - 1.25

सिद्धविद्याधराकीर्णं देवगन्धर्वसेवितम्।
कैलासं शंकरावासं शंकरं द्रष्टुमाययौ ॥ 1.25 ॥

अहिर्बुध्न्यवर्णनम्

विश्वास-प्रस्तुतिः - 1.26

रुद्रैर्वसुभिरादित्यैः सिद्धैः साध्यैर्मरुद्गणैः।
ऋषिभिर्योगिभिर्दिव्यैर्भूतैर्नानाविधैरपि ॥ 1.26 ॥

मूलम् - 1.26

रुद्रैर्वसुभिरादित्यैः सिद्धैः साध्यैर्मरुद्गणैः।
ऋषिभिर्योगिभिर्दिव्यैर्भूतैर्नानाविधैरपि ॥ 1.26 ॥

विश्वास-प्रस्तुतिः - 1.27

ददर्श सेवितं तत्र समासीनं सहोमया।
त्र्यक्षं वरदमीशानं शूलिनं चन्द्रशेखरम् ॥ 1.27 ॥

मूलम् - 1.27

ददर्श सेवितं तत्र समासीनं सहोमया।
त्र्यक्षं वरदमीशानं शूलिनं चन्द्रशेखरम् ॥ 1.27 ॥

विश्वास-प्रस्तुतिः - 1.28

पतिं पशूनामनिशं भवपाशविभेदिनम्।
स्थितं मूर्तिभिरष्टाभिरवष्टभ्य जगत्त्रयम्9 ॥ 1.28 ॥

मूलम् - 1.28

पतिं पशूनामनिशं भवपाशविभेदिनम्।
स्थितं मूर्तिभिरष्टाभिरवष्टभ्य जगत्त्रयम्9 ॥ 1.28 ॥

तं दृष्ट्वा देवमीशानं नारदो देवदर्शनः प्रणिपत्याथ तुष्टाव गीर्भिरग्र्याभिरादरात् ॥ 1.29 ॥

नारदकृताहिर्बुध्न्यस्तुतिः

नारदः–

विश्वास-प्रस्तुतिः - 1.30

नमस्ते देवदेवेश नमस्ते वृषकेतन।
वृषप्रवरवाहाय 10वृष्णे कामप्रवर्षिणे ॥ 1.30 ॥

मूलम् - 1.30

नमस्ते देवदेवेश नमस्ते वृषकेतन।
वृषप्रवरवाहाय 10वृष्णे कामप्रवर्षिणे ॥ 1.30 ॥

विश्वास-प्रस्तुतिः - 1.31

ओजीयसे परस्मै ते मीढुष्टम नमोऽस्तु ते।
सर्वज्ञाय स्वतन्त्राय नित्यतृप्ताय11 ते नमः ॥ 1.31 ॥

मूलम् - 1.31

ओजीयसे परस्मै ते मीढुष्टम नमोऽस्तु ते।
सर्वज्ञाय स्वतन्त्राय नित्यतृप्ताय11 ते नमः ॥ 1.31 ॥

विश्वास-प्रस्तुतिः - 1.32

अनादिबोधरूपाय नमस्ते नित्यशक्तये।
कर्त्रे 12हर्त्रे च जगतां षडङ्गाय नमोस्तु ते ॥ 1.32 ॥

मूलम् - 1.32

अनादिबोधरूपाय नमस्ते नित्यशक्तये।
कर्त्रे 12हर्त्रे च जगतां षडङ्गाय नमोस्तु ते ॥ 1.32 ॥

विश्वास-प्रस्तुतिः - 1.33

दशाव्यय नमस्तुभ्यं नमस्ते कृत्तिवाससे।
अघोरायाथ घोराय 13घोरघोरतराय 14च ॥ 1.33 ॥

मूलम् - 1.33

दशाव्यय नमस्तुभ्यं नमस्ते कृत्तिवाससे।
अघोरायाथ घोराय 13घोरघोरतराय 14च ॥ 1.33 ॥

[[^21]सद्योजाताय देवाय वामदेवाय ते नमः। नमो ज्येष्ठाय रुद्राय भवोद्भव नमोऽस्तु ते ॥ 1.34 ॥
विश्वास-प्रस्तुतिः - 1.35

नमो बलविकाराय बलप्रमथनाय ते।
नमः……………य ते नमः] ॥ 1.35 ॥

मूलम् - 1.35

नमो बलविकाराय बलप्रमथनाय ते।
नमः……………य ते नमः] ॥ 1.35 ॥

विश्वास-प्रस्तुतिः - 1.36

नमः कलविकाराय कालाय कलनात्मने।
नमस्ते सर्वभूतानां 15दमनाय मनोन्मन ॥ 1.36 ॥

मूलम् - 1.36

नमः कलविकाराय कालाय कलनात्मने।
नमस्ते सर्वभूतानां 15दमनाय मनोन्मन ॥ 1.36 ॥

विश्वास-प्रस्तुतिः - 1.37

नमः शर्वाय शान्ताय शंभवे शंभवे नमः।
विद्येश्वर नमस्तुभ्यं भूतेश्वर नमोऽस्तु ते ॥ 1.37 ॥

मूलम् - 1.37

नमः शर्वाय शान्ताय शंभवे शंभवे नमः।
विद्येश्वर नमस्तुभ्यं भूतेश्वर नमोऽस्तु ते ॥ 1.37 ॥

विश्वास-प्रस्तुतिः - 1.38

महादेव नमस्तेऽस्तु नमस्तत्पुरुषाय ते।
ज्ञानरूप नमस्तुभ्यं नमो वैराग्यवारिधे ॥ 1.38 ॥

मूलम् - 1.38

महादेव नमस्तेऽस्तु नमस्तत्पुरुषाय ते।
ज्ञानरूप नमस्तुभ्यं नमो वैराग्यवारिधे ॥ 1.38 ॥

विश्वास-प्रस्तुतिः - 1.39

ऐश्वर्यगुणपूर्णाय नमस्ते तपसां निधे।
नित्यसत्य नमस्तेऽस्तु क्षमासार नमोऽस्तु ते ॥ 1.39 ॥

मूलम् - 1.39

ऐश्वर्यगुणपूर्णाय नमस्ते तपसां निधे।
नित्यसत्य नमस्तेऽस्तु क्षमासार नमोऽस्तु ते ॥ 1.39 ॥

विश्वास-प्रस्तुतिः - 1.40

धृतिसार नमस्तुभ्यं स्रष्ट्रे ते जगतां नमः।
आत्मसंबोधपूर्णाय त्रीन् लोकानधितिष्ठते ॥ 1.40 ॥

मूलम् - 1.40

धृतिसार नमस्तुभ्यं स्रष्ट्रे ते जगतां नमः।
आत्मसंबोधपूर्णाय त्रीन् लोकानधितिष्ठते ॥ 1.40 ॥

दशाव्ययाय ते नित्यमव्ययाय नमो नमः। [^23]क्षोण्यम्ब्वनलवाय्वभ्रचन्द्रादित्यात्मने नमः[^24] ॥ 1.41 ॥ नमः सर्वोपकाराय त्रिलोकीमधितस्थुषे। दुर्वासाः-- इति स्तुवानमग्र्याभिर्वाग्भिर्देवर्षिसत्तमम् ॥ 1.42 ॥ प्रसादमधुरं वाक्यमित्युवाच वृषध्वजः

अहिर्बुध्न्यः—-
स्तोत्रेणानेन भक्त्या च तुष्टोऽस्मि मुनिपुंगव ॥ 1.43 ॥
ब्रूहि किं करवाण्यद्य यद्यपि स्यात् सुदुर्लभम्16
नारदः—–
17किमन्यदिह वक्तव्यं यदि तुष्टो जगत्पतिः ॥ 1.44 ॥
एतदेव हरि काड्क्षन्ति यतमाना विपश्चितः।
अहिर्बुध्न्यः—-
प्रसन्नोऽस्मि तवाद्यास्तु दर्शनं सफलं मम ॥ 1.45 ॥
ब्रूहि नारद तत्त्वेन यत् ते मनसि वर्तते।

कालनेमि-संग्रामे नारदस्य सुदर्शन-महिम-दर्शनम्

नारदः—-
तारकामयसंकाशे संग्रामे कालनेमिनः ॥ 1.46 ॥

विश्वास-प्रस्तुतिः - 1.47

संप्रवृत्ते जगद्धातुर्देवदेवस्य शार्ङ्गिणः।
देवदानवगन्धर्वयक्षरक्षोभयावहे ॥ 1.47 ॥

मूलम् - 1.47

संप्रवृत्ते जगद्धातुर्देवदेवस्य शार्ङ्गिणः।
देवदानवगन्धर्वयक्षरक्षोभयावहे ॥ 1.47 ॥

विश्वास-प्रस्तुतिः - 1.48

मध्याह्नार्कसहस्राभशस्त्रास्त्रगणसंकुले।
सुरासुरेन्द्रसैन्येषु निकृतेषु महास्त्रतः ॥ 1.48 ॥

मूलम् - 1.48

मध्याह्नार्कसहस्राभशस्त्रास्त्रगणसंकुले।
सुरासुरेन्द्रसैन्येषु निकृतेषु महास्त्रतः ॥ 1.48 ॥

[^27]भीतविस्मितसंभूतहृतसंगतसंप्लुतैः। पिशाचप्रेतवेतालभूतसंघैः समाकुले[^28] ॥ 1.49 ॥
विश्वास-प्रस्तुतिः - 1.50

उद्यन्तीष्वतिघोरासु ह्रादिनीष्वशनीषु च।
देवदानवदेहेभ्यः क्षरद्भिः क्षतजैस्तथा ॥ 1.50 ॥

मूलम् - 1.50

उद्यन्तीष्वतिघोरासु ह्रादिनीष्वशनीषु च।
देवदानवदेहेभ्यः क्षरद्भिः क्षतजैस्तथा ॥ 1.50 ॥

विश्वास-प्रस्तुतिः - 1.51

स्यन्दमानासु वेगेन स्यन्दिनीषु18 समन्ततः।
विद्रुतैः सर्वतो भीतैर्हतशेषैः19 सुरासुरैः ॥ 1.51 ॥

मूलम् - 1.51

स्यन्दमानासु वेगेन स्यन्दिनीषु18 समन्ततः।
विद्रुतैः सर्वतो भीतैर्हतशेषैः19 सुरासुरैः ॥ 1.51 ॥

विश्वास-प्रस्तुतिः - 1.52

गरुडस्थे जगन्नाथे सुदर्शनकराम्बुजे।
प्रादुश्चक्रे कालनेमिरस्त्रग्रामानशेषतः ॥ 1.52 ॥

मूलम् - 1.52

गरुडस्थे जगन्नाथे सुदर्शनकराम्बुजे।
प्रादुश्चक्रे कालनेमिरस्त्रग्रामानशेषतः ॥ 1.52 ॥

विश्वास-प्रस्तुतिः - 1.53

भृशाश्वतनया ये ते ये ते त्वन्मुखनिः सृताः।
ये ते ब्रह्ममुखोद्भूता ये ते संवर्तकालजाः ॥ 1.53 ॥

मूलम् - 1.53

भृशाश्वतनया ये ते ये ते त्वन्मुखनिः सृताः।
ये ते ब्रह्ममुखोद्भूता ये ते संवर्तकालजाः ॥ 1.53 ॥

विश्वास-प्रस्तुतिः - 1.54

लोकपालोद्भवा ये ते ये ते पातालवासिनः।
महाभूतमया ये ते ये ते वैकारिकोद्भवाः ॥ 1.54 ॥

मूलम् - 1.54

लोकपालोद्भवा ये ते ये ते पातालवासिनः।
महाभूतमया ये ते ये ते वैकारिकोद्भवाः ॥ 1.54 ॥

गुणत्रयमया ये ते ये ते गन्धर्वयोनयः [^31]रक्षोयक्षोद्भवा ये ते ये ते विद्याधराह्वयाः ॥ 1.55 ॥ ये ते द्वन्द्वगुणोद्भूता ये ते शक्तिसमुद्भवाः। [^32]अथर्वाङ्गिरसा ये ते ये ते मन्त्रान्तरोद्भवाः ॥ 1.56 ॥
विश्वास-प्रस्तुतिः - 1.57

सर्वकार्यकरा ये ते प्रवर्तकनिवर्तकाः।
यष्टयः शक्तयो यास्ता ये ते 20दण्डादिरूपकाः ॥ 1.57 ॥

मूलम् - 1.57

सर्वकार्यकरा ये ते प्रवर्तकनिवर्तकाः।
यष्टयः शक्तयो यास्ता ये ते 20दण्डादिरूपकाः ॥ 1.57 ॥

विश्वास-प्रस्तुतिः - 1.58

महाबला महावीर्यास्त्रैलोक्यक्षपणोद्यताः।
शैलेन्द्रसंनिभाः केचित् केचिन्नागेन्द्रसंनिभाः ॥ 1.58 ॥

मूलम् - 1.58

महाबला महावीर्यास्त्रैलोक्यक्षपणोद्यताः।
शैलेन्द्रसंनिभाः केचित् केचिन्नागेन्द्रसंनिभाः ॥ 1.58 ॥

विश्वास-प्रस्तुतिः - 1.59

पारावारनिभाः केचित् केचिद् गगनसंनिभाः।
ज्वलज्ज्वालाशतलीढा रोदसीमध्यवर्तिनः ॥ 1.59 ॥

मूलम् - 1.59

पारावारनिभाः केचित् केचिद् गगनसंनिभाः।
ज्वलज्ज्वालाशतलीढा रोदसीमध्यवर्तिनः ॥ 1.59 ॥

विश्वास-प्रस्तुतिः - 1.60

नृत्यन्तश्च हसन्तश्च क्ष्वेलन्तः पतयालवः।
अनिर्देश्या अनोपम्या गौराः श्वेतारुणासिताः21 ॥ 1.60 ॥

मूलम् - 1.60

नृत्यन्तश्च हसन्तश्च क्ष्वेलन्तः पतयालवः।
अनिर्देश्या अनोपम्या गौराः श्वेतारुणासिताः21 ॥ 1.60 ॥

विश्वास-प्रस्तुतिः - 1.61

नानासंस्थानवर्णाश्च नानाविभ्रमरोचिषः।
सर्वे संभूय संयत्ताः22 कालनेमिप्रचोदिताः ॥ 1.61 ॥

मूलम् - 1.61

नानासंस्थानवर्णाश्च नानाविभ्रमरोचिषः।
सर्वे संभूय संयत्ताः22 कालनेमिप्रचोदिताः ॥ 1.61 ॥

सर्वास्त्राणां सुदर्शनेन पराभवः

विश्वास-प्रस्तुतिः - 1.62

सप्रयोगोपसंहारैः 23सरहस्यैश्च संगतैः।
अस्त्रग्रामैरशेषैस्तैर्नारायणकरोद्यते ॥ 1.62 ॥

मूलम् - 1.62

सप्रयोगोपसंहारैः 23सरहस्यैश्च संगतैः।
अस्त्रग्रामैरशेषैस्तैर्नारायणकरोद्यते ॥ 1.62 ॥

विश्वास-प्रस्तुतिः - 1.63

सुदर्शनमहावह्नौ संभूय शलभायितम्।
पूर्णाहुतिरभूत् तस्मिन् कालनेमिर्महासुरः ॥ 1.63 ॥

मूलम् - 1.63

सुदर्शनमहावह्नौ संभूय शलभायितम्।
पूर्णाहुतिरभूत् तस्मिन् कालनेमिर्महासुरः ॥ 1.63 ॥

अत्यद्भुतमहिमदर्शनात् संशयोदयः

विश्वास-प्रस्तुतिः - 1.64

तं दृष्ट्वा विस्मयाविष्टः संग्रामं महदद्भुतम्।
अन्तर्हितं क्षणात् कृष्णं प्रणिपत्य जगद्गुरुम् ॥ 1.64 ॥

मूलम् - 1.64

तं दृष्ट्वा विस्मयाविष्टः संग्रामं महदद्भुतम्।
अन्तर्हितं क्षणात् कृष्णं प्रणिपत्य जगद्गुरुम् ॥ 1.64 ॥

विश्वास-प्रस्तुतिः - 1.65

इमं संदेहसंदोहं हृदयेन वहन् गुरुम्।
तवान्तिकमिह प्राप्तः संशयच्छेदनाय वै ॥ 1.65 ॥

मूलम् - 1.65

इमं संदेहसंदोहं हृदयेन वहन् गुरुम्।
तवान्तिकमिह प्राप्तः संशयच्छेदनाय वै ॥ 1.65 ॥

न हि सर्वज्ञमीशानं विना छेत्तास्य विद्यते।

अहिर्बुध्न्यः—
देवर्षे संशयान् ब्रूहि ये वर्तन्ते तवान्तरे ॥ 1.66 ॥
अप्यनिर्वचनीयास्ते सर्वांश्छेत्तास्मि सांप्रतम्।
दुर्वासाः—-
अथ प्रश्नान् क्रमेणोक्तान् नारदेन [^37]सुरर्षिणा ॥ 1.67 ॥
व्याचष्ट भगवान् शर्वः सर्वतः[^38] प्रीतमानसः।

संहितावतरणम्

संहिता सेयमाख्याता [^39]नानामन्त्रार्थगोचारा ॥ 1.68 ॥

विश्वास-प्रस्तुतिः - 1.69

पञ्चरात्रमयी दिव्या नाम्नाहिर्बुध्न्यपूर्विका[^40]।
अर्थैः परकृतिप्रायैः पुराकल्पैश्च संयुता ॥ 1.69 ॥

मूलम् - 1.69

पञ्चरात्रमयी दिव्या नाम्नाहिर्बुध्न्यपूर्विका[^40]।
अर्थैः परकृतिप्रायैः पुराकल्पैश्च संयुता ॥ 1.69 ॥

विश्वास-प्रस्तुतिः - 1.70

नानासिद्धान्तसंभेदा नानाविद्योपशोभिता[^41]।
शतद्वयमिहाध्यायाश्चत्वारिंशच्च दर्शिताः ॥ 1.70 ॥

मूलम् - 1.70

नानासिद्धान्तसंभेदा नानाविद्योपशोभिता[^41]।
शतद्वयमिहाध्यायाश्चत्वारिंशच्च दर्शिताः ॥ 1.70 ॥

विश्वास-प्रस्तुतिः - 1.71

ततो द्वापरवेलायां मनुष्याणां हिताय वै।
अध्यायानां शतेनाथ विंशत्या च समन्विता ॥ 1.71 ॥

मूलम् - 1.71

ततो द्वापरवेलायां मनुष्याणां हिताय वै।
अध्यायानां शतेनाथ विंशत्या च समन्विता ॥ 1.71 ॥

विश्वास-प्रस्तुतिः - 1.72

अतिविस्तरमुत्सृज्य [^42]गुह्येन प्रतिसंस्कृता।
ततोऽपि बुद्धिसंकोचान्मनुष्याणां हिताय वै ॥ 1.72 ॥

मूलम् - 1.72

अतिविस्तरमुत्सृज्य [^42]गुह्येन प्रतिसंस्कृता।
ततोऽपि बुद्धिसंकोचान्मनुष्याणां हिताय वै ॥ 1.72 ॥

याति द्वापरसन्ध्यंशे व्यासस्यानुमतेर्मया[^43]। [^44]षष्ट्यध्यायैरियं भूयः संहिता प्रतिसंस्कृता ॥ 1.73 ॥
विश्वास-प्रस्तुतिः - 1.74

उपन्यास्थद्यथाप्रश्नं नारदो भगवानृषिः।
निरुवाच यथा शर्वस्तान्[^45] सर्वांस्त्वं निबोध मे ॥ 1.74 ॥

मूलम् - 1.74

उपन्यास्थद्यथाप्रश्नं नारदो भगवानृषिः।
निरुवाच यथा शर्वस्तान्[^45] सर्वांस्त्वं निबोध मे ॥ 1.74 ॥


  1. श्लोकोऽयं E F G J पुस्तकेषु दृश्यते ↩︎ ↩︎

  2. अक्षरत्रितव्यक्त D. ↩︎ ↩︎

  3. ALL MSS.read thus. ↩︎ ↩︎

  4. वर्त्मना D. ↩︎ ↩︎

  5. काल A B C J. ↩︎ ↩︎

  6. व्यूहा J. ↩︎ ↩︎

  7. परात्पर A B C E F J. ↩︎ ↩︎

  8. कारणम् A B C E F J. ↩︎ ↩︎

  9. त्रयीम् D. ↩︎ ↩︎

  10. वृष्णिकामप्रधर्षिणे A E F; विष्णो कामप्रधर्षिणे B ↩︎ ↩︎

  11. वृत्ताय D. ↩︎ ↩︎

  12. भर्त्रे A B C J ↩︎ ↩︎

  13. घोरघोराय ते नमः D ↩︎ ↩︎

  14. ते E.F. ↩︎ ↩︎

  15. आनन्दाय नमो नमः A B C E F J. ↩︎ ↩︎

  16. सुदुष्करम् D. ↩︎

  17. यदि स्यादिह J. ↩︎

  18. स्यन्दनीषु J. ↩︎ ↩︎

  19. हतिशिष्टैः F; हतशिष्टैः E.J ↩︎ ↩︎

  20. दग्धादि D. ↩︎ ↩︎

  21. श्वेतारुणाः सिताः J ↩︎ ↩︎

  22. संयुक्ताः J ↩︎ ↩︎

  23. सरहस्यैः ससंग्रहेः D.J. ↩︎ ↩︎