३२

प्। ४५अ) सुतीक्ष्ण उवाच

सर्ववेदार्थतत्त्वज्ञ मुने निश्चितमानसः ।
सम्यक्संशिक्षितंश्चाहं बहुधापि कृपालुना ॥

त्वया कारुण्यनिधिना पूर्वमज्ञस्तथा जडः ।
त्वत्प्रसादेन सञ्जात ज्ञानोस्मिगत कल्मषः ॥

रामात्मन्नि परम्ब्रह्मण्या सक्तं मम मानसम् ।
लक्ष्मणेपि तथा रामे किञ्चिद्वेदोस्ति नैव हि ॥

हनुमन्मन्त्र इत्युक्त त्वया वै मुनिपङ्गव ।
तस्यानुष्टानमेवाहं ज्ञातुमिछामि ते प्रभोः ॥

त्वयि प्रसन्ने सकले माचक्षुसुदया निधे ।

अगस्त्य उवाच

स्मारितः सम्यगेवाहं त्वया श्रद्धावता मुने ।
आञ्जनेय मनुर्लोके भुक्तिमुक्त्यैक साधनम् ॥

प्रकाशितः शङ्करेण लोकानां हितमिछता ।
भूतप्रेतपिशाचादि डाकिन्यो ब्रह्मराक्षसाः ॥

दृष्ट्वा च प्रपलायन्ते मन्त्रानुष्टान तत्परम् ।
ऋषिरीश्वर एवस्यादनुष्टुप्छन्द उच्यते ॥

हनुमान् देवता प्रोक्ताह बीजं शक्ति रन्त्यजैः ।
कीलकं हात्रयं प्रोक्तं वेदकं तु हसौ पुनः ॥

हनुमत्प्रीणनं चैव फलमाद्य मुदीरितम् ।
सर्वेप्सितानां दातृत्वमस्यैवाजिन चान्यतः ॥

प्रणवं पूर्वमुश्चार्य नमो भगवते पदम् ।
डेन्तं प्रकटसंयुक्तं पराक्रमपदं तथा ॥

यथाक्रान्त पदोपेतं दिक्मण्डलमुदीरयेत् ।
यशोविता न धवली कृत जगतृतीयकम् ॥

वज्रे देहेति च पदं रुद्रावतार पदं तथा ।
सम्बुद्व्यन्त परां लङ्कापुरीदहनमीरयेत् ॥

उदधिर्लङ्घनं चापि दशग्रीव कृतान्त कृत् ।
सीतायाश्वासनपदं मञ्जनीगर्भसम्भवः ॥

श्रीरामलक्ष्मणानन्द कर कपि सैन्य प्राकार ।
सुग्रीव साधारणपदं सर्वतोच्चाटनं तथा ॥

बालब्रह्मचारिन्निति तथा गम्भीरशब्दपदं तथा ।
डाकिनी ध्वंसनपदं ततस्तारमुदीरयेत् ॥

मायाहात्रयमुश्चार्य भस्मन्नेहि वदेत्ततः ।
सर्वविषं हर पह बलं क्षोभय मे सर्वकार्याणि साधयेति द्विरुश्चरेत् ।

प्। ४५ब्) हूं फट् स्वाहेति मन्त्रोयं मालाख्यः सर्वकामधुक् ।
नमो भगवते चाञ्जनेयायेत्यङ्गुष्ठाभ्यामुदीरितः ॥

रुद्रमूर्तय इत्येव तर्ज्नीभ्यामनन्तरम् ।
रामपूताय च तथा कनिष्ठाभ्यां विचक्षणः ॥

ब्रह्मास्त्रनिवारणाय च तथा अस्त्रमन्त्रो यमीरितः ।
एवं षडङ्गं च मुने कृत्वा ध्यायेदनन्यधीः ॥

स्फुटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वय संशोभिर्मुखां भोजं मुहुर्मुहुः ॥

अयुतं तु पुरश्चर्या रामस्याग्रे शिवस्य वा ।
पूजां च वैष्णवे पीठे शैवे वा विदधीत वा ॥

आवृत्तिभि पुनर्नित्यं नक्ताशीविजितेन्द्रियः ।
क्षुद्ररोगनिवृत्त्यर्थमष्टोत्तरशतं मुने ॥

दिनत्रयमथो जप्त्वा भूतानां मुच्यते भयात् ।
भूतप्रेतपिशाचादि शान्त योष्टोत्तरं शतम् ॥

जप्त्वा च तन्भयान्मुक्तो भवत्येव न संशयः ।
महारोगादि शान्त्यर्थमष्टोत्तरसहस्रकम् ॥

जप्ता तस्मात् प्रमुच्येत निश्चितं नियताशनः ।
जयाभिकाङ्क्षिणां राज्ञामस्मादन्यो न विद्यते ॥

ध्यायेद्राक्षसहन्तारं नियतं नियताशनः ।
जपेन्नियमवांश्चैव जयेद् दुर्जयमप्यरिम् ॥

सन्धानाय तु सुग्रीव सन्धातारं स्मरन्नपि ।
अयुतेनैव बलिना सन्धिमाप्नोत्यसंशयः ॥

लङ्कायादाहकं ध्यायेज्जपनयुतमञ्जसा ।
शत्रुराष्ट्रं दहत्येव दुग्धाब्दिमपि चानघ ॥

जयार्थे रिपु सिंहानाम् अस्यादन्यो न विद्यते ।
यस्तु गेहे हनूमन्तं सर्वदैव प्रपूजयेत् ॥

वदन्ते तस्य मन्त्रेण तस्य लक्ष्मीरचञ्चला ।
दीर्घमायुर्भवेदेवं सर्वत्र विजयी भवेत् ।
मयादि भूतसङ्क्षोभ तद्देशेनैव जायते ॥

शैवानां वैष्णवानां च षट्क्रमोत्र प्रदर्शितः ।
नान्यत्साधनमस्त्येव मन्त्रादस्माद्धनूमतः ॥

प्। ४६अ) चौरे व्याघ्रगजादीनामयमेव परायणम् ।
परापहृतराज्यानां बाधितानां परैः पुनः ॥

सन्नाहभाजे पुरुषं युद्धाय परसैनिकः ।
यात्राकाले हनूमन्तं स्मरन् यस्तु स्वकाद्गृहात् ॥

निर्गछति सवेगेन इष्टार्थमधिगच्छति ।
स्वापकाले स्मरेन्नित्यं चौरभूतान् दिकान् जयेत् ॥ ४० ॥

इति श्री अगस्तिसंहितायां द्वात्रिंशोध्यायः ॥ ३२ ॥

समाप्तोयं ग्रन्थः ॥