अगस्त्य उवाच
पुरोदितस्य मन्त्रस्य प्रयोगमपि चाञ्जसा ।
कथयामि यथाशक्तिः सरहस्यं सुविस्तरम् ॥
प्रयोगायैव मन्त्रोयमुपदिष्टो हि शार्गिणा ।
अर्जुनस्य पुरासम्यगे तेनैव धनञ्जयः ॥
दिशो विजित्य सकलाः शत्रूंश्चैव बहून्यपि ।
प्रात्तिष्ट यद्धर्म राजं पैतृके राज्य उत्तमे ॥
जय प्रधानो मन्त्रोयं राज्यप्राश्लैकसाधनम् ।
योजयेन्नियतो मन्त्र लक्षमेकं समाहितः ॥
सोचिरान्नष्टराज्यः सन्प्राप्नोत्यैव न संशयः ।
अभिषिक्तमयो ध्यायां ध्यायेन् राम्राममन्यधीः ॥
पञ्चायुतमिमं जप्त्वा नष्टराज्यमवाप्नुयात् ।
नागपाशविनिर्मुक्त ध्यायन्नेकान्त आस्थितः ॥
अयुतं प्रजपन् मुच्येन्निगडाद्यैस्तथैव हि ।
आञ्जनीय समानीत महौषधि गत व्यथम् ॥
ध्यायेन्न युत जाप्येन अपमृत्यु जयेन्न्रः ।
४४अ) इन्द्रजित्प्राणहन्तारं ध्यायन्नेव समाहितः ॥
दुर्जयं चापि वेगेन जयेद्वैरिकुलं बहु ।
सूर्य नखास्तानासाग्रछेदनोद्युक्तमानसम् ॥
ध्यायन् सहस्रजाप्येन पुरुहुतादिकान् जयेत् ।
रामपादाब्ज सेवार्थ नित्य सत्व मनुस्मरन् ॥
जपत्तद्युतमेकान्ते महारोगान्वहूनपि ।
क्षयापस्मार कुष्टादि नाशयत्येव तत् क्षणात् ॥
त्रिमासं नियताहारो जपेत् सप्तसहस्रकम् ।
दिने दिने विधानेन पूजयेद्धि जितेन्द्रियः ॥
अष्टोत्तरशतैः पुष्पैः निछिद्रैः शतपत्रकैः ।
पायसं शर्करोपेतं नैवेद्यं विधिवन्मुने ॥
घनसारसमायुक्तं चन्दनं नानुलिप्य च ।
देवो दशेन नित्यं च सम्पूज्यैवं द्विजोत्तम ॥
कुष्टरोगान् प्रमुच्येतदुश्चिकित्सादनेकशः ।
त्वग्दोषजा बहुविधाः मण्डलादि प्रभेदकाः ॥
ते सर्वे नाशमायान्ति दुश्चिकित्सा अपि क्षणात् ।
एकान्ते नियताहारः षण्मासान्विजितेन्द्रियः ॥
जपन्नेव विधानेन क्षयरोगात् प्रमुच्यते ।
माषापूपान्न नैवेद्यै जपेन् मन्त्रं समाहितः ॥
वातरोगान् प्रमुच्येत बहुभेदादपि क्षणात् ।
अभिमन्त्र्य जलं नित्यं मन्त्रेण त्रिःसमाहितः ॥
पीत्वा सन्ध्यासु सम्भक्त्यामुच्यते सर्वरोगतः ।
दारिद्र्यं नाशयित्वा तु श्रियमाप्नोत्यनुत्तमाम् ॥
विषादिदोषसंस्पर्शो न भवेच्च कदाचन ।
प्रक्षाल्यैव प्रतिदिनं मुखं भक्त्या समाहितः ॥
मुखनेत्रादि सम्भूतान् जयेद्रोगान् सुदारुणान् ।
पीत्वाभिमन्त्रितजलं कुक्षिरोगान्बहुन् जयेत् ॥
देवस्य प्रतिमादानं कृत्वा भक्त्या विधानतः ।
सर्वेभ्योप्यथ रोगेभ्यो मुच्यते नात्रसंशयः ॥
कन्यार्थी चोर्मिलापाणी ग्रहणी सक्तमानसम् ।
ध्यायन् लक्षं जपित्वा तु हुत्वा लाजैर्दशांसतः ॥
ईप्सितां प्राप्नुयात् कन्यां शीघ्रमेव तपोधन ।
प्। ४४ब्) दीक्षितं स्तम्भनात् स्त्रीणां मन्त्रेषु नियत व्रतः ॥
संस्मरन् विधिवन्नित्यं मासत्रय मनन्यधीः ।
पूजा पुरःसरं सप्तसहस्रनियत्रेन्द्रियः ॥
जपन्निखिलविद्यानां तत्त्वज्ञो भवति ध्रुवम् ।
विश्वामित्र क्रतुवरे क्रत्वाद्भुत पराक्रमम् ॥
ध्यायन्न युत जाप्येन भयेभ्यो मुच्यते चिरात् ।
सन्ध्यां चोपास्य विधिवन् मूलमन्त्रेण मन्त्रवित् ॥
त्रिकालं नियतो भूत्वा कृत नित्यविधिः स्वयम् ।
दीक्षायुतो यथा न्यायं गुर्वनुज्ञा पुरःसरः ॥
मुच्यते सर्वपापेभ्यो याति विष्णौः परं पदम् ।
एहिकाननयन्त्येव निष्कामो यार्चयेद्धरिम् ॥
दीक्षां प्राप्यविधानेन गुरोर्विगत कल्मषात् ।
स्वाचारनिरताद्वाताद् गृहस्थाद्विजितेन्द्रियात् ॥
तदनुज्ञानसारेण पुरश्चर्या यथाविधिः ।
ससर्वान् पुण्य पापौ चान्दग्धा निर्मल मानसः ॥
पुनरावृत्तिरहितं शाश्वतं पदमाप्नुयात् ।
सकामो वाञ्छितान् कामान् भुक्ता भोगान्मनोरमात् ॥
जाति स्मरश्चिरं भूत्वा याति विष्णोः परम्पदम् ।
यथा श्रीराममन्त्राणां प्रयोक्तः पापसम्भवः ॥
न तथा लक्ष्मणमनोः किन्तु यान्ति पराङ्गतिम् ।
मन्त्रोयं ब्रह्मणा पूर्वं तुष्टेन मनसा चिरम् ॥
सूर्यग्रहे कुरुक्षेत्रे मह्यं दत्तो हि सादरम् ।
मयोप्युपासितोयं वै भक्ति युक्तेन चेतसा ॥
गुरुभक्ति समालोक्य मामेवास्यात्करो दृषिः ।
उपास्य बहवो लोके मनुमेतमनेकशः ॥
सम्प्राप्य वाञ्छितानर्था न गमद्वैष्णवं पदम् ।
नानेन सदृशो मट्रो मया दृष्टो हि कुत्रचित् ॥
शैव वैष्णव शैरेषु गाणपत्येषु वा मुने ।
केचित्तुष्ट्यर्थमेव स्युः केचिदौहिक साधनाः ॥
भुक्तिमुक्तिप्रदश्चायमेको विजयते परम् ॥ ४० ॥
इति श्री अगस्तिसंहितायामेकत्रिंशोध्यायः ॥ ३१ ॥