३०

सुतीक्ष्ण उवाच

कथं दशाक्षरादीनां मार्गो वै मुनिसत्तम ।
व्याचक्ष्वसरहस्यं मे त्वयि भक्तस्य सत्तम ॥

अगस्त्य उवाच ॥

साधु वक्ष्यामि सत्यन्ते शृणुष्वावहितो मम ।
प्। ४२ब्) सीतालङ्कृत वामाङ्कं द्विभुजं चाहलोचनम् ॥

वामहस्तेन सीतायाः स्पृशन्तं स्तनमण्डलम् ।
ज्ञानमुद्रायतेनान्येनार्पितं लोकसुन्दरम् ॥

धनुर्द्धरय पुनापि लक्ष्मणेन सुशोभितम् ।
कोटिकन्दर्पसङ्काशं राघवं करुणाकरम् ॥

उपविष्टं पद्ममध्ये वीरासन मनोहरम् ।
हनुमत्सेवितं चाग्रे कुर्यादेवं मनोहरम् ॥

दशाक्षरो यं कथितो विधिना मुनिपुङ्गवैः ।
नीलोत्पलदल श्यामं पीताम्बरधरं विभुम् ॥

द्विभुजं कञ्जनयनं दिव्यसिंहासने स्थितम् ।
वशिष्टाद्यैः परिवृतं हाररत्न किरीटिनम् ॥

सीतासंलाप चतुरं दिव्यगन्धादि शोभितम् ।
चापद्वयकरेणारात्सेवितं लक्ष्मणेन च ॥

शत्रुघ्न भरताभ्यां च पार्श्वयो रुपशोभितम् ।
ध्यापयन्ननधी रामं द्वादशाक्षरमन्वहम् ॥

प्रजपेद्दीक्षितो नित्यं श्रीरामं न्यासपूर्वकम् ।
मन्त्रसन्ध्या विधायैव त्रिकालं पूजयेत् सदा ॥

क्रीडन्तं सीतया साकं नीलजीमूतसन्निभम् ।
वृषाकपीन्द्र क्रुर्द्धं यं वसिष्टेन स्मृतं विभुम् ॥

तद्वधायसु सौमित्रे चापवाणगृहोदितम् ।
चापद्वयभृता पश्चाल्लक्ष्मणेन सुशोभितम् ॥

सर्वलोकहितोद्युक्तं पीताम्बरधरं विभुम् ।
ध्यायन् सप्ताक्षरं जप्त्वा सर्वपापैः प्रमुच्यते ॥

सजलाम्बुदसङ्काशं धनुर्बाण करं मुने ।
ध्यायन्नष्टाक्षरं जप्त्वा राम एव भवेत् ततः ॥

ज्ञानमुद्रालंसम्बाहुं हनुमत् सेवितं पुनः ।
शत्रुघ्नभरताभ्यां च लक्ष्मेणेन समावृतम् ॥

ध्यायन्नेकाक्षरं जप्त्वा भुक्तेर्भवति भाजनम् ।
अन्याश्च मूर्तयः सन्ति बह्वो वै मुनिसत्तम ॥

आसामन्यत मा मूर्तीः स्थापनीया प्रयत्नतः ।
मन्त्राश्च वैष्णवा उत्त्का मूलमन्त्रस्य मञ्जसा ॥

देवस्यापि प्रकुर्वीत ततो हनुमतः परम् ।
प्राणप्रतिष्ठात्तन्न्यासान् यथाविधि विचक्षणः ॥

लक्ष्मणस्यापि मन्त्रस्य ततो देवस्य मारुतेः ।
प्। ४३अ) शत्रुघ्न भरतादीनां कुर्याद्यत्नेन दैशिकः ॥

सुतीक्ष्ण उवाच

लक्ष्मणादिमनूनां च विधानं लक्ष्मणं मुने ।
वक्तु मर्हसि मे सर्वं भक्तस्येदं दया निधे ॥

अगस्त्य उवाच

शृणु वक्ष्यामि ते सर्वं सुविस्तरमनेकधा ।
रेफपूर्वं समुद्धृत्य बिन्दु लक्ष्मणसंयुतम् ॥

ङे तोयं लक्ष्मणमनुत्तम सा च समन्वितः ।
ऋषिः स्यान्महमेवास्य गायत्र्यं छन्द उच्यते ॥

लक्ष्मणो देवता प्रोक्ता लं बीजं शक्तिरस्य हि ।
नमस्तु विनियोगो हि पुरुषार्थ चतुष्टये ॥

द्विभुजं स्वर्णरुचिरतनुं पद्मनिभे क्षणम् ।
धनुर्बाणकरं राम सेवा संसक्तमानसम् ॥

रामवत्स्वर्णपीठस्तु मूर्मिलेशमहम्भुजे ।
पूजापि वैष्णवी प्रोक्ता साङ्गावरणवर्जिते ॥

सप्तलक्ष पुरश्चर्या ततः सिद्धिस्तु साधयेत् ।
देव्यास्तु पूर्वमेवोक्तं सहरामेण तद्भवेत् ॥

भरतस्यैवमेवास्य शत्रुघ्नस्याप्ययं विधिः ।
श्रीरामपूजानिरतमेतेन विजयेत् सदा ॥

आदौ वाप्यं ततो वापि पूजाया राघवस्य तु ।
एतेषामपि कर्तव्य भुक्तिमुक्ति फलेप्सुभिः ॥

प्राधान्येन पृथक्त्वेन अङ्गत्वे रामपीढके ।
हनूमतोप्येवमेव पूजां कुर्यादतन्द्रितः ॥

पूर्वं नमः पदं चोक्ता ततो हनुमते पदम् ।
आञ्जनेय पदं ङेतं महाबल पदं तथा ॥

वह्नि जायान्त एव स्यान्मन्त्रो हनुमतः परम् ।
सर्वसिद्धिकरः प्रोक्तं सर्वेषामपि सिद्धिदः ॥

मालाख्यः परमो मन्त्रो मारुतः सर्वसिद्धिदः ।
लक्ष्मणस्तु सदापूज्यः प्राधान्येनैव नित्यशः ॥

वैष्णवं न्यासजालं तु सर्वं कृत्वा समाहितः ।
भूतशुद्धिं विधायैव मातृकामपि यत्नतः ॥

विधायमानसी पूजां बाह्यपूजामपि स्वयम् ।
त्रिकालमेककालं वा नित्यमेकान्तसेवितः ॥

साफल्य रामपूजायां यदीछति सवैजनः ।
तेन यत्नेन कर्तव्या लक्ष्मणस्तु सुविस्तरात् ॥

प्। ४३ब्) श्रीराममन्त्रभेदास्तु बहवः सन्ति वै मुने ।
तत्साधकैः सदाकार्या सौमित्रेरपि नित्यशः ॥

परं ब्रह्मापि लोकेस्मि यथासेव्यो मुमुक्षुभिः ।
तथैव लक्ष्मण मनु सदा सेव्यो भवेदिह ॥

दशाक्षरादि मन्त्राणां साफल्यमपि वाञ्छता ।
सेव्योयं हि सदामन्त्र एहिकामुष्मिक प्रदः ॥

अजप्त्वा लक्ष्ंअणमनु राम मन्त्रं जपन्ति ये ।
तज्जाप्यस्य फलं नैव प्रयान्ति कुशला अपि ॥

अरिमित्रविवेकोपि नैव कार्यो भवेदिह ।
रामपूजापरैर्नित्यं सदासेव्यो यमञ्जसा ॥

योजये लक्ष्मण मनुं नित्यमेकान्तमास्थितः ।
मुच्यते सर्वपापेभ्यः सकाम न श्रुतेखिलात् ॥

मनोवाक्काय कर्मोत्थैरभ्यस्तैरप्यनेकधा ।
महद्भिरपि पापौघै मुच्यते नात्रसंशयः ॥

सर्वान्कामानवाप्नोति विष्णोः परं पदम् ॥ ४४ ॥

इति श्री अगस्तिसंहितायां त्रिंशोध्यायः ॥ ३० ॥