सुतीक्ष्ण उवाच
सर्वेतिहासतः प्राज्ञ श्रुतिः स्मृति विदांवर ।
न्यासा बहुविधा प्रोक्तास्त्वयादौ मन्त्रयोगतः ॥
तन्नाशक्तः कथं कुर्यात् कथयस्व महामुने ।
अगस्त्य उवाच
न्यासः स्यान्मन्त्रसन्नाहो न्यासहीनो न सिद्धिदः ।
तस्मान्न्यासाः प्रयत्नेन कर्तव्याः सिद्धिमिछता ॥
अवैष्णवानां च मन्त्राणां सर्वेषां च विशेषतः ।
न्यासः केशव कीर्त्यादिस्तत्वन्यासस्ततः परम् ॥
न्यासः परमहंसाख्यः प्रणवन्यास ईरितः ।
मातृकां बिन्दुसंयुक्तां शुद्धां मन्मथसंयुताम् ॥
मायावेदादिसंयुक्तां प्रणवादिं तथैव च ।
आभ्यन्तरी मातृकां च कृत्वानुष्टानमाचरेत् ॥
अस्यानुष्टानमखिलं कर्तव्यं मुनिसत्तम ।
अशक्तश्चेन्मन्त्रमात्रमुश्चरन्नियतोन्वहम् ॥
सर्वान् कामानवाप्नोति सरामो राममाप्नुयात् ।
सुतीक्ष्ण उवाच
श्रुतं त्वत्तो मया ब्रह्मन् रामस्याद्भुतकर्मणः ।
विधानं सरहस्यं च पूजादीनामनेकशः ॥
दशाक्षरादिमन्त्राणाविधानं च विशेषतः ।
शतं च विधिवत् सम्यग्ब्रह्मप्राप्तैकसाधनम् ॥
इदानीं श्रोतुमिछामि प्रतिष्टाविधि मञ्जसा ।
कदा कुत्र कथं चेति सर्वज्ञस्त्वा मतो हिमे ॥
ब्रूहि श्रद्दधतः स्वामिन् यतस्कारुणिको भवान् ।
अगस्त्य उवाच
सम्यक्पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यतरं परम् ।
यः पश्यति परां पुण्यां प्रतिष्टा विधिवत्कृताम् ॥
सोपि पुण्यतमो लोके पापात्सद्यो विमुच्यते ।
श्रीरामस्य प्रतिष्टायाः फलं वक्तुं पितामहः ॥
न शक्तः स्यान्महेशोपि सहस्रवदनोपि च ।
येन केन प्रकारेण यत्र कुत्रापि वा मुने ॥
यैः कैश्चिद्वा कृतं चेत्स्याल्लोके धन्यतमाहिते ।
कालप्रतीक्षानो कुर्याद्विधिं चापि विशेषतः ॥
प्। ४१ब्) यदैव भक्तिरुत्पन्ना तदास्थाप्यो रघु द्वहः ।
अथ वाहो नवम्यां तु माघशुद्धदिनेपि च ॥
चन्द्रतारादि सम्पन्ने प्रतिष्टाप्योरघुत्तमः ।
मार्गशीर्षेथवा पूर्णे वैशाखे वा समाहित ॥
मूढादि दोषरहिते प्रतिष्टां राघवस्य तु ।
प्रकुर्याच्च विधानेन भक्त्या शक्त्या प्रयत्नतः ॥
श्रीगोपालप्रतिष्टाया श्रावणः शस्यते सदा ।
नरसिंहस्य वैशाखे केशवस्यापि शस्यते ॥
चैत्रे तु रामचन्द्रस्य माघे चापि बलान्विते ।
अनन्तस्यापि माघे स्यादन्येषां तु यथा रुचिः ॥
सर्वकालेपि सर्वत्र प्र्तिष्ठाप्योरघूत्तमः ।
लग्नं न तिथि वारो वा न नक्ष्त्र बलं तथा ॥
चैत्रशुक्लनवम्यां तु स्थाप्यो रामो मुमुक्षुभिः ।
सर्वान् कामानवाप्नोति माघे शुभ बलान्विते ॥
कुर्वन् श्रीरामचन्द्रस्य प्रतिष्टां भाग्यवान्नरः ।
मार्गशीर्षे च वैशाखेप्येवमेव यथाविधि ॥
सूर्यग्रहे महापुण्ये कुरुक्षेत्रे विधानतः ।
कृतैर्यत्पुण्यमाप्नोति तुलापुरुषकादिभिः ॥
तत्पुण्यं प्राप्नुयामर्त्यः प्रतिष्टाप्यरथूत्तमम् ।
यः कुर्याद् रामचन्द्रस्य प्रतिष्टां विधिवन्नरः ॥
एहिकानखिलान्भोगान् भुत्त्का नारायणो भवेत् ।
वर्द्धते च कुलं भूयः कल्पकोटि शताधिकम् ॥
नापण्डितो न वा मूर्षो न दरिद्रोपि तत्कुले ।
नावैष्णवोपि जायन्ते कदाचिदपि कुत्रचित् ॥
लोहेन निर्मिता वापि दारुणा वा यथाविधि ।
कारयेत् प्रतिमां रम्यां श्रीरामस्य शुभे दिने ॥
लक्ष्मणस्य च सीताया मारुतेश्च विशेषतः ।
सीता स्वर्णनिभा कार्या लक्ष्मणोपि तथा भवेत् ॥
संशोध्य देवतागारं निर्माणस्थानमुत्तमम् ।
शालालोष्टादि वर्ज्यं च कुर्याद्यत्नेन शोधयेत् ॥
खनेतद्भद्रदेशं च जलोत्पत्तिर्यथा भवेत् ।
प्। ४२अ) पाषाणसिकताद्यैश्च पूरयेत् पूर्ववत्सुधीः ॥
कुट्टिमं च प्रकुर्वीत निर्वासस्थानमुत्तमम् ।
शुद्धरम्य शिलोपट्टैरनेकैश्च सुविस्तरैः ॥
देवावास प्रदेशे तु पूर्ववद् भूमिकोन्नतम् ।
हस्तद्वयोत्ततं कुर्यात् सुविस्तीर्ण मनोहरम् ॥
प्राकारं कारयेत्तत्र चतुर्गोपुरसंयुतम् ।
पीठं रम्यं प्रकुर्वीत शिलायां चोत्तमोन्नतम् ॥
हस्तद्वयायतं कुर्याच्चतुरस्रं सुशोभनम् ।
अग्रभागे हनूमन्तं पीठस्य विलिखेन्मुने ॥
पीठशुद्धिं प्रकुर्वीत वक्ष्यमाणविधानतः ।
लिखेदाग्नेयि विभागे सुग्रीवं द्विभुजं पुनः ॥
दक्षिणे भरतं चैव नै-ऋते च विभीषणम् ।
पश्चिमे लक्ष्मणं चैव वायव्येङ्गदमेव च ॥
शत्रुघ्नं चोत्तरे कुर्यादीशानी ऋक्षनायकम् ।
ततः श्रीरामचन्द्रं च पीठस्योपरिसंलिखेत् ॥
सौवर्णराजते वापि ताम्रे वापि यथाविधिः ।
शिलायां वा प्रकुर्वीत चतुरस्रं सुशोभनम् ॥
द्वात्रिंशदङ्गुलं वापि षोडशाङ्गुलमेव वा ।
देवस्य स्थापन स्थाने तद्यन्त्रं स्थापयेन्मुने ॥
अङ्कुरार्पणमादौ तु सप्तपञ्चत्रिवासरे ।
यथाविधि प्रकुर्वीत चन्द्रतारा बलान्विते ॥
गणेशप्रार्थनं कुर्यात् सर्वविघ्नोपशान्तये ।
सौवर्णप्रतिमां पूज्य वस्त्रद्वयसमन्विताम् ॥
कुटिम्बिने दरिद्राय ब्राह्मणाय निवेदयेत् ।
एकाक्षर गणेशस्य ध्यानमार्गेण यत्नतः ॥
श्रीरामप्रतिमा चापि दशाक्षर विधानतः ।
अनुष्टुभेन वा चापि द्वादशाक्षरमार्गतः ॥
येन केनापि मार्गेण कारयेद्विधिवन्मुने ॥ ३७ ॥
इति श्री अगस्तिसंहितायामूनत्रिंशोध्यायः ॥ २९ ॥