२८

अगस्त्य उवाच ॥

चैत्रे मासि नवम्यां तु जातो रामः स्वयं हरिः ।
पुनर्वस्वर्क्षु संयुक्ता स्वल्पापि यदि दृश्यते ॥

चैत्रशुक्ले नवम्यां तु सा पुण्या सर्वकामदा ।
श्रीरामनवमी प्रोक्ता सूर्यकोटि गृहाधिका ॥

चैत्रशुक्ले तु नवमी पुनर्वसु युता यदि ।
तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ॥

यत्किञ्चित्क्रियते कर्म तद्भवत्पक्षयं शुभम् ।
उपोषणं जागरणं तस्मात्कुर्याद्विशेषतः ॥

यस्तु रामनवम्यां तु दद्याद्वित्तानुसारतः ।
यत्किञ्चिदपि तत्सर्व महादान समं भवेत् ॥

प्। ४०अ) यस्तु रामनवम्यां तु कुर्याद् रामव्रतं यदि ।
तुलापुरुष दानादि फलमाप्नोति मानवः ॥

सूर्यग्रहे कुरुक्षेत्रे महादानैः कृतैर्मुहुः ।
यत्फलं तदवाप्नोति श्रीरामनवमीव्रतम् ॥

कुर्याद्रामनवम्यां तु उपोषणमतन्द्रितः ।
मातुर्गर्भमवाप्नोति नैव रामो भवेत् स्वयम् ॥

नवमी चाष्टमी विद्वात्याज्याद् विष्णु परायणैः ।
उपोषणं नवम्यां तु दशम्यामेव पारणम् ॥

नीलोत्पलदलश्यामं पीताम्बरधरं विभुम् ।
द्विभुजं कान्तनयनं दिव्यसिंहासने स्थितम् ॥

वसिष्टाद्यैश्च परितो वृत्तं रत्नकिरीटिनम् ।
सीतासंलाप चतुरं दिव्यगन्धादि शोभितम् ॥

चापद्वयकरेणारात्सेवितं लक्ष्मणे नव ।
शत्रुघ्न भरताभ्यां च पार्श्वयोरथ सेवितम् ॥

ध्यायन्ननन्य हृदयो द्वादशाक्षरमन्वहम् ।
प्रजपेद्वीक्षितो नित्यं श्रीराम न्यास पूर्वकम् ॥

मन्त्रसन्ध्यां विधायैव त्रिकालं पूजयेत् सदा ।

सुतीक्ष्ण उवाच

भगवन्योगिनां श्रेष्ट सर्वशास्त्रविशारद ।
किं तत्त्वं किं परं जाप्यं किं ज्ञानं मुक्ति साधनम् ॥

ज्ञातुमिछामि तत्सर्वं ब्रूहि मे मुनिसत्तम ।

अगस्त्य उवाच

सुतीक्ष्णत्वं महाभाग शृणु वक्ष्यामि तत्त्वतः ।
यत्परं यमुनातीतं यज्योतिरमलं फलम् ॥

तदेव परमं तत्त्वं कैवल्यपदकारणम् ।
श्रीरामेति परञ्जाप्यं तारकं ब्रह्मसञ्ज्ञितम् ॥

ब्रह्महत्यादि पापघ्नमिति वेदविदो विदुः ।
श्रीराम रामरामेति ये वदन्ति च सर्वदा ॥

तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ।
नमस्कृत्य प्रवक्ष्यामि रामकृष्णमनामयम् ॥

अयोध्यानगरे रम्ये रत्नमण्डलमध्यगे ।
स्मरेत् कल्पतरो मूले रत्नसिंहासनं शुभम् ॥

तन्मध्येष्टदलं पद्मं नानारत्न प्रवेष्टितम् ।
सौवर्णं राजतं वापि कारयेद् रघुनन्दनम् ॥

पार्श्वो भरतशत्रुघ्नो छत्रचामरधारिणौ ।
प्। ४०ब्) चाप द्वय समायुक्तं लक्ष्मणा कारयेत् सुधीः ॥

पितुरङ्कगतं श्यामम्मिन्द्रनील समप्रभम् ।
कोमलाङ्गं विशालाक्षद्विद्युद्वर्णां वरां वृतम् ॥

भानुकोटि प्रतीकाश किरीटिन विराजितम् ।
रत्नग्रैवेय केयूर रत्नकुण्डलमण्डितम् ॥

रत्नकङ्कणमञ्जीर कटिसूत्रैरलङ्कृत ।
श्रीवत्सकोस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥

सौवर्णे राजते वापि षट्कोणं च समुल्लिखेत् ।
अभावे बिल्वपीठे च स्थापयेद् रघुनन्दनम् ॥

वस्त्रद्वयसमायुक्तं दिव्यरत्नविभूषितम् ।
अष्टशक्तिसमायुक्तं देवेशं पूजयेत् क्रमात् ॥

प्रणवं पूर्वमुश्चार्य नमः शब्दं ततो वदेत् ।
भगवत्पदमाभाष्य वासुदेवाय इत्यपि ॥

ततः सर्वभूतात्मने योगपीठात्मने नमः ।
इति मन्त्रेण तन्मध्ये कुर्यात् पुष्पाञ्जलिं ततः ॥

एवं सम्पूजिते पीठे देवमावाह्य पूजयेत् ।
अर्घान्त धूपदीपान्तमुपचारान् विधाय च ॥

ततोनुज्ञाप्य देवेश परिवारां च पूजयेत् ।
सर्वं षट्कोणकोष्टेषु हृदयादीन षट्क्रमात् ॥

मूलमन्त्रेण कर्तव्यो उपचारास्तु षोडश ।
इन्द्रादि लोकपालांश्च वसिष्टादि मुनीनपि ॥

सर्वदिक्पालमन्त्रेण पूजयेद् भक्तिसंयुतः ।
अशोककुसुमैर्युक्तमर्घ्य देवस्य दापयेत् ॥

दशाननवधार्थाय धर्मसंस्थापनाय च ।
दानवानां विनाशाय दैत्यानां निधनाय च ॥

परित्राणाय साधूनां रामोजातः स्वयं हरिः ।
गृहाणार्घं मयादत्तं भ्रातृभिः सहितोनघ ॥

प्रतियामं विशेषेण अर्चयेद् रघुनन्दनम् ।
पुराणै स्तोत्र पात्रैश्च वेदपारायणेन च ॥

सुनृत्यैर्गीतवाद्यैश्च रात्रिशेषं व्यपोह्य च ।
प्रात स्नात्वा च गायत्रीं जप्त्वा सन्ध्यामुपास्य च ॥

दशाक्षरेण मन्त्रेण देवेश मनसा स्मरेत् ।

प्। ४१अ) देवदेवं प्रणम्याथ पूर्ववत् पूजयेद् हृदि ॥ ४० ॥

इति श्री अगस्तिसंहितायाम् अष्टाविंशोध्यायः ॥ २८ ॥