२७

सुतीक्ष्ण उवाच

प्रायेण हि नराः सर्वे दारिद्राः कृपणा मुने ।
असमर्था हि दानेस्मिन् कथं तेषां वद प्रभो ॥

अगस्त्य उवाच

अशक्तासु महाभाग स्वस्ववित्तानुसारतः ।
पलार्द्धेन तदर्धेन तदर्द्धार्द्धेन वा पुनः ॥

वित्तशाठ्यमकृत्वैव कुर्याद्धेतद्व्रतं मुने ।
यदा घोरतरां द्रष्टुं यातनां नेहते क्वचित् ॥

अकिञ्चिनोपि नियमादुपोष्य नवमी दिने ।
कृत्वा जागरणं भक्त्या रामभक्तैः समन्वितः ॥

स्मरन् रामधिया भक्त्या पूजयेद्विधिवन्मुने ।
जपन् राममनुं माया रमानङ्ग समन्वितम् ॥

एकाक्षरं वा विधिवत् सर्व न्यास कृतोन्नतिः ।
प्रातःस्नात्वा च विधिवत्कृत्वा सन्ध्यादिकाः क्रियाः ॥

गो भू तिल हिरण्यादि दद्याद्वित्तानुसारतः ।
श्रीरामचन्द्रभक्तेभ्यो विद्वद्भ्यः श्रद्धयान्वितः ॥

प्। ३९अ) पारणं च प्रकुर्वीत ब्राह्मणैः सह भक्तितः ।
य एवं कुरुते भक्त्याः सर्वपापैः प्रमुच्यते ॥

प्राप्ते श्रीरामनवमी दिने मर्त्यो विमूढधीः ।
उपोषणं न कुरुते कुम्भीपाके निमज्जति ॥

यत्किञ्चिद् राममुद्दिश्य नो ददाति स्वशक्तितः ।

सुतीक्ष्ण उवाच

यामाष्टकेषु पूजायै त्वया प्रोक्ता महामुने ।
मूलमन्त्रेण चेत्युक्तं तत्कथं वद सुव्रत ॥

अगस्त्य उवाच

सर्वेषां राममन्त्राणं मन्त्रराज षडक्षरः ।
तारक ब्रह्मचेत्युक्तं तेन पूजा प्रशस्यते ॥

दशमाध्याय विधिना पूजाकार्या प्रयत्नतः ।
द्वारपीठाङ्ग देवानामावृतीनां तथैव च ॥

सन्निरोधनमेवात्र ऽवगुण्ठनमञ्जसा ।
तत्तन्मुद्राभिरेवं स्यादेवं सप्रार्थ्य भक्तितः ॥

शङ्खपूजां प्रकुर्वीत पूर्वोक्तविधिना मुने ।
कलशं वामभागस्थं पूजाद्रव्याणि चादरात् ॥

पात्रसम्प्रोक्षयेद् भक्त्याप्यात्मानं मनुमुश्चरेत् ।
प्रतियामं शङ्खपूजा कुर्यादेवमनुस्मरन् ॥

पात्रासाधनमप्येवं कुर्याद्याम्येषु तन्द्रितः ।
नवाम्बराणि देवाय प्रार्थयत् तर्पयेत् सुधीः ॥

स्वर्णयज्ञोपवीतानि दद्याद्देवाय शक्तितः ।
नानारत्नविचित्राणि दद्यादाभरणानि च ॥

हिमाम्बु घृष्टरुचिर घनसार समन्वितम् ।
गन्धं दद्यात् प्रयत्नेन सरागं च सकुङ्कुमम् ॥

मूलमन्त्रेण सकलानुपचारान् प्रकल्पयेत् ।
कल्हारकेतकी जाती पुन्नागाद्यैः प्रपूजयेत् ॥

चपकैः शतपत्रैश्च सुगन्धैः सुमनोहरैः ।
घण्टां च वादयन् धूपं दीपं चास्मै निवेदयेत् ॥

भक्ष्य भोज्यादिकं भक्त्या देवाय विधिनार्पयेत् ।
एवं सोपस्करं देवं दत्वा पापैः प्रमुच्यते ॥

जन्मकोटिकृतैर्घोरैः नानारूपैः सुदारुणैः ।
विमुक्तस्तत्क्षणा देव राम एव भवेन्मुने ॥

प्। ३९ब्) श्रद्दधानस्य ते प्रोक्तं श्रीरामनवमी व्रतम् ।
सर्वलोकहितार्थाय पवित्रं पापनाशनम् ॥

लोहेन निर्मिता वापि शिलया दारुणापि वा ।
येन केन प्रकारेण यस्मै कस्मै क्रमान्मुने ॥

चैत्रशुक्लनवम्यां तु दत्वा विप्राय शक्तितः ।
महादानादि तुल्यं स्याद्रामोद्देशेन कल्पिता ॥

वित्तशाठ्यमकृत्वैव सर्वं कुर्यात् सुभक्तितः ।
जपेदेकान्त आसिन यवस्याद्दशमी दिनम् ॥

तेनैव स्यात् पुरश्चर्याद्दशम्यां भोजयेद्दिजान् ।
भक्ष्यभोज्यै बहुविधै दद्याच्छक्त्या च दक्षिणाम् ॥

कृतकृत्यो भवेत् तेन सद्योरामः प्रसीदतिः ।
तूष्णीं तिष्टन्नधो याति पुनरावृत्ति गर्भितम् ॥

द्वादशाष्टशतेनापि यत्पापं नापनुद्यते ।
विलयं यान्ति तत्सर्वं श्रीरामनवमीदिने ॥

जपं च राममन्त्राणां यो न जानाति तस्य तु ।
उपोष्य च स्मरन् रामं न्यासपूर्वमनन्यधीः ॥

गुरोर्लब्धमनुर्य्यस्तु तस्य न्यास पुरःसरम् ।
यामे यामे च विधिवत् पूजां कार्यात् समाहितः ॥

मुमुक्षवोपि हि सदा श्रीरामनवमीव्रतम् ।
मुच्यते सर्वपापेभ्यो याति ब्रह्मसनातन ॥ ३४ ॥

इति शी अगस्तिसंहितायां सप्तविंशोध्यायः ॥ २७ ॥