२६

अगस्त्य उवाच

सर्वानुष्टानसारन्ते सर्ववानोत्तमोत्तमम् ।
रहस्यं कथयिष्यामि सुतीक्ष्ण मुनिसत्तम ॥

चैत्रे नवम्यां प्राक्पक्षे दिवा पुष्पे पुनर्वसौ ।
उदये गुरुगौरांसे सोचस्थे ग्रहपञ्चके ॥

मेष पूषाणि सम्प्राप्ते लग्ने कर्कट काह्वके ।
प्। ३७अ) आवीरासीत्सकलया कौशल्यायां परः पुमान् ॥

तस्मिन् दिने तु कर्तव्यमुपवासं व्रतं सदा ।
तत्र जागरणं कुर्याद् रघुनाथ परो भुवि ॥

प्रातर्दशम्यां कृत्वा तु सन्ध्यायां कालिका क्रियाः ।
सम्पूज्यविधिवद् रामं भक्त्या वित्तानुसारतः ॥

ब्राह्मणात्मो जयेद्भक्त्या दक्षिणाभिश्च तोषयेत् ।
गोभूति लहिरण्याद्यै वस्त्रालङ्करणैस्तथा ॥

रामभक्तान् प्रयत्नेन पूजयेत् परया मुदा ।
एवं यः कुरुते भक्त्या श्रीरामनवमी व्रते ॥

अनेकजन्मसिद्धानि पातकानि बहून्यपि ।
भस्मीकृत्य व्रजत्येव तद्विष्णोः परमं पदम् ॥

सर्वेषामप्ययं धर्मो भुक्तिमुक्त्यैक साधनः ।
अशुचिर्वापि पापिष्ट कृत्वेदं व्रतमुत्तमम् ॥

पूज्यः स्यात् सर्वभूतानां यथा रामस्तथैव सः ।
यस्तु रामनवम्यां तु भुङ्क्ते स च नराधमः ॥

कुम्भीपाकेषु चोरेषु पच्यते सनराधमः ।
त्रैलोक्यपापमश्नाति सधर्मो निष्फलो भवेत् ॥

यस्तु रामस्य नवमी मनाहृत्य नराधमः ।
नास्तिक्यान्न परङ्गछेद्यावदा चन्द्रतारकम् ॥

अकृत्वा रामनवमी व्रतं सर्वोत्तमोत्तमम् ।
व्रतान्यन्यानि कुरे तेन तेषां फलभाग्भवेत् ॥

रहस्य कृत पापानि प्रख्यातानि बह्वन्यपि ।
महान्ति च प्रणश्यन्ति श्रीरामनवमी व्रतात् ॥

एकामपि नरो भूत्वा श्रीरामनवमीं मुने ।
उपोष्य कृत कृत्यः स्यात् सर्वपापैः प्रमुच्यते ॥

नरो रामनवम्यां तु श्रीराम प्रतिमा प्रदः ।
विधानेन मुनिश्रेष्ट समुक्तो नात्र संशयः ॥

सुतीक्ष्ण उवाच ॥

श्रीरामप्रतिमादान विधानं च कथं मुने ।
कथय त्वं हि रामस्य भक्तस्य मम विस्तरात् ॥

अगस्त्य उवाच ॥

कथयिष्यामि तद्विद्वन् प्रतिमादानमुत्तमम् ।
प्। ३७ब्) विधानं चापि यत्नेन यतस्त्वं वैष्णवोत्तमः ॥

अष्टम्यां चैत्रमासे तु शुक्लपक्षे जितेद्रियः ।
दन्तधावनपूर्वं तु प्रातःस्नायाद्यथा विधिः ॥

नद्यां तडागे कूपे वा ह्रदे प्रस्रवणे तथा ।
ततः सन्ध्यादिकं कुर्यान् संस्मरन् राघवं हृदि ॥

गृहमागत्य विप्रेन्द्र कुर्यादौ मासनादिकम् ।
दान्तं कुटुंविनं विप्रं वेदशास्त्रपरायणम् ॥

श्रीरामपूजां निरतं सुशीलं दम्भ वर्जितम् ।
विधिज्ञं राममन्त्राणां राममन्त्रैक साधनम् ॥

आहूय भक्त्या वृणुयात् सम्पूज्य प्रार्थयन्निति ।
श्रीरामप्रतिमादानं करिष्येहं द्विजोत्तम ॥

तत्राचार्यो भव प्रीतः श्रीरामोपि त्वमेव मे ।
इत्युक्ताज्येन तं विप्रं स्नापयित्वा ततः परम् ॥

तैलेनाभ्यर्च्य स्नायाश्च चिन्तयन् राघवं हृदि ।
श्वेताम्बर धरः शीत गन्धमाल्यानि धारयन् ॥

अर्चितो भूषितश्चैव कृतमाध्याह्निक क्रियः ।
आचार्यभोजयेद्भक्त्या सात्विकान्नैः सुविस्तरम् ॥

भुञ्जीत स्वयमप्यैवं हृदि राममनुस्मरन् ।
एकभुक्तवती तत्र सहाचार्यो दृढव्रतः ॥

शृणुनामकथां दिव्यामहः शेषं नयेन्मुने ।
सायं सन्ध्यादिकाः कार्यात्क्रिया राममनुस्मरन् ॥

आचार्य सहितस्तत्र अर्थः शायी जितेन्द्रियः ।
स्वपेत् स्वयं स चैकान्ते श्रीरामार्पित मानसः ॥

ततः प्रीतः समुत्थाय स्नात्वा सन्ध्या यथाविधेः ।
प्रातः कर्माणि सर्वाणि शीघ्रमेव समापयेत् ॥

ततः स्वस्थमना भूत्वा विद्वद्भिः सहितो नघ ।
स्वगृहे चोत्तरे देशे दानस्योत्तममुण्डपम् ॥

चतुर्द्वारं पताकाद्यं सवितानं सुतोरणम् ।
मनोरमं महोत्सेद्यं पुष्पाद्यैः समलङ्कृतम् ॥

शङ्खचक्रहनुमद्भिः प्राग्द्वारे समलङ्कृतम् ।
गरुन्मत् शार्ङ्गबाणैश्च दक्षिणे समलङ्कृतम् ॥

गदा खट्वाङ्गदैश्चैव पश्चिमे समलङ्कृतम् ।
प्। ३८अ) पद्मस्वस्तिक नीलैश्च कौबेरे समलङ्कृतम् ॥

मद्यहस्तं चतुष्काद्यं वेदिकाहस्तमायतम् ।
वृत्तिवादित्र गीतैश्च अन्यैश्चापि सुसंयतम् ॥

पुण्याहं वाचयेत् तत्र विद्वद्भिः प्रीतमानसः ।
ततः सङ्कल्पयेदेवं राममेव स्मरन्मुने ॥

अस्यां रामनवम्यां तु रामाधन तत्परः ।
उपेष्याष्टसु याम्येषु पूजयित्वा यथाविधिः ॥

इमां स्वर्णमयीं राम प्रतिमां समलङ्कृताम् ।
श्रीरामप्रीतयेदास्ये रामभक्ताय धीमते ॥

प्रीतो रामोहरत्वाशु पापानि सुबहूनि मे ।
अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च ॥

ततः स्वर्णमयी राम प्रतिमां पलमानतः ।
निर्मितां हि भुजां दिव्यां वामाङ्क स्थित जानकी ॥

विभ्रतीं दक्षिणकरे ज्ञान मुद्रां महामुने ।
वामेणाधः करेणाथ देवीमालिङ्ग्य संस्थिताम् ॥

सिंहासने राजतेत्र पलद्वय विनिर्मिते ।
ततः पञ्चामृतस्नानं सम्पूज्य विधिवत्ततः ॥

मूलमन्त्रेण नियतो न्यासपूर्वमतन्द्रितः ।
दिवैवं विधिवत्कृत्वा रात्रौ जागरणं ततः ॥

दिव्यां राम कथां श्रुत्वा रामभक्तैः समन्वितः ।
नृत्यगीतादिभिश्चैव रामस्तोत्रैरनेकधा ॥

पूजयन्विधिवद्भक्त्या दिवारात्रनयेद्बुधः ।
ततः प्रातः समुत्थाय स्नानसन्ध्यादिकाः क्रियाः ॥

समाप्य विधिवद्रामं पूजयेत् सुसमाहितः ।
ततो होमं प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥

पूर्वोक्त पद्म कुण्डे वा स्थण्डिले वा समाहितः ।
लौकिकाग्नौ विधानेन शतमष्टोत्तरं ततः ॥

साज्येन पायसेनैव स्मरन्नाम मनन्यधीः ।
तु तो भक्त्यासुसन्तोष्य आचार्यं पूजयेन्मुने ॥

कुण्डलाभ्यां सरत्नाभ्यामङ्गुरीयैरनेकधा ।
गन्धपुष्पाक्षतैर्वस्त्रैः विचित्रैः सुमनोहरैः ॥

प्। ३८ब्) ततो रामं स्मरन्दद्यादेनं मन्त्रमुदीरयन् ।
इमां स्वर्णमयीं राम प्रतिमां समलङ्कृताम् ॥

पीतवस्त्रयुगछन्नां रामोहं राघवायते ।
श्रीरामप्रीतयेदास्ये रामभक्ताय धीमते ॥

प्रीतो रामो हरत्वाशु पापानि सुबहून्यपि ।
अन्येभ्यश्च यथान्याय्यं गो हिरण्यादि शक्तितः ॥

दध्याद्वासौ युगन्धान्यं यथाविभवमाहितः ।
ब्राह्मणैः सहभुञ्जीत तेभ्योदद्याश्च दक्षिणाम् ॥

ब्रह्महत्यादिपापेभ्यो मुच्यते नात्रसंशयः ।
तुलापुरुषदानानि फलं प्राप्नोति सुव्रत ॥

अनेकजन्मसंसिद्ध पापेभ्यो मुच्यते ध्रुवम् ।
बहूना किमिहोक्तेन मुक्तिस्तस्य करे स्थिताः ॥

कुरुक्षेत्रे महापुण्ये सूर्यपर्वण्य शेषतः ।
तुलापुरुषदानाद्यैः कृतैर्यल्लभते फलम् ॥

तत्फलं लभ्यते मर्त्यैर्दाने नानेन सुव्रत ॥ ५६ ॥

इति श्री अगस्तिसंहितायां षड्विंशोध्यायः ॥ २६ ॥