सुतीक्ष्ण उवाच ॥
सर्वाङ्गमेकं तत्त्वज्ञ ब्रह्मनिष्ट तपोधन ।
रामात्मनस्त्वया तत्त्वं ब्रह्मणः परमव्ययम् ॥
प्रदर्शितं सम्यगेव सविस्तृतमनेकधा ।
षडक्षरविधानं तु सम्यग्ज्ञानं त्वया विभो ॥
अन्येषां राममन्त्राणां मनुष्टानं महामुने ।
षडक्षरविधानं तु विधानान्तरमस्ति वा ॥
सर्वमेव समाचक्षुः भक्तस्य मयि सुव्रत ।
अगस्त्य उवाच
सुतीक्ष्ण शृणु वक्ष्यामि श्रद्दधानायते पुनः ।
भक्तस्य तव यत्नेन यतस्तं वैष्णवोत्तमः ॥
ये शृण्वन्ति कथां विष्णोर्वदन्ति चरितं हरेः ।
मुक्तकण्ठाश्च गायन्ति हरि नृत्यन्ति सुस्वरम् ॥
आनन्दाश्रु परीतात्मा गात्रैषु पुलकोर्चितः ।
आनन्दनिर्भरश्चैव प्रस्खलन्ति पदे पदे ॥
उश्चैः श्रीराम रामेति वदन्ति च हसन्ति च ।
एवमादिर्गुणैर्युक्ता आत्मा राम समाहिते ॥
वैष्णवामन्वः सर्वे मुक्तिदाः स्युः क्रमेण हि ।
राममन्त्रास्तु विप्रेन्द्र शीघ्र मुक्ति प्रदाः शृणु ॥
विनैव दीक्षां विप्रेन्द्र पुरश्चर्या विनैव हि ।
वैष्णवन्यासविधिना जपमात्रेण सिद्धिदाः ॥
सामान्येन तु सर्वेषां मनूनां राघवस्य तु ।
अनुष्टान विधि ज्ञेयो विशेषस्तत्र तत्र वै ॥
वक्ष्यते हि महाभाग यथाविधि सुविस्तरम् ।
षडक्षरविधानं तु सर्वेषां प्रकृतिं विदुः ॥
भूतशुद्धिविधातव्या सर्वेषामादितो मुने ।
न्यासाः पूर्वदिताः सर्वे कार्यायत्नेन सुव्रत ॥
मनुष्वेतेषु सर्वेषाम्मधिकारोस्ति देहिनाम् ।
आश्रमस्थाश्च सर्वेपि मन्त्राणामधिकारिणः ॥
मुमुक्षुभिर्विरक्तैश्च सदा सेव्यो रघुत्तमः ।
यतीनां यत चित्तानामुपास्यः प्रणवो यथा ॥
दीक्षाविधिस्तु पूर्वोक्ता विधेयो देशिकोत्तमैः ।
सन्ध्यां च दीक्षितः कुर्य्यत्तत्तन्मन्त्रनुसारतः ॥
प्। ३६अ) प्राणायामस्तु गायत्र्या सर्वेषामपि सत्तम ।
जलाभिमन्त्रणं वापि मूलम्न्त्रेण मार्जनम् ॥
जलस्य प्राशनं वापि क्षेपं चार्घस्य मार्जनम् ।
सीतां मन्त्रेण कुर्वीत मूलमन्त्रजपं तथा ॥
उपस्थानादिकाः कार्या तत्रैव द्विजसत्तमैः ।
सूर्यमण्डलमध्यस्थं सीताराम समन्वितम् ॥
नमामि पुण्डरीकाक्षं माञ्जनेय गुरुं परम् ।
नमोस्तु वामदेवाय ज्योतिषां पतये नमः ॥
साक्षिणे सर्वलोकानां परमानन्दरूपिणे ।
रघुनाथाय दिव्याय महाकारुणिकाय च ॥
नमोस्तु कौशिकानन्द दायिने विश्वरूपिणे ।
त्रिकालमेवं यः कुर्याद्राम एव भवेत्स्वयम् ॥
पुरश्चर्या तु सर्वेषामुक्तमार्गेण चेष्पते ।
एवं सिद्धमनुर्मन्त्री प्रत्यहं नियत व्रतः ॥
चतुर्भुजं शङ्खचक्रगदापद्मधरं विभुम् ।
किरीटि न मुदाराङ्गं वनमालोपशोभितम् ॥
सीतालङ्कृत वामाङ्गं पीताम्बर धरं विभुम् ।
शुद्धस्फटिकसङ्काशं ज्वलन्तं तेजसा मुने ॥
अथवा द्विभुजं देवं नीलोत्पल समद्युतिम् ।
अनेकादित्यसङ्काशं पद्मस्योपरिसंस्थितिम् ॥
काञ्चनप्रभया देव्या वामभागस्थ यान्वितम् ।
लक्ष्मणेन धृतं छत्रं सुवर्णाभेन धीमता ॥
अनेकैः सेवितं दिव्य परिवारैरनेकशः ।
मानसैरूपचारस्तु सम्पूज्य यत्नतः परम् ॥
कल्पवृक्षसमुद्भूतैर्भावितं मनसा चिरम् ।
मूलमन्त्रं जपं कुर्यान्नियतं नियतेन्द्रियः ॥
बाह्यपूजां ततः कुर्यात्साधनैन्यायतोज्जितैः ।
अन्यायेनार्जितैः पूजा निःफला मुनिसत्तम ॥
बाह्यपूजां पुनर्वक्षे सुतीक्ष्ण मुनिसत्तमः ।
स्वगृहे शुद्धभूभागे विलिप्ते गौमयाम्बुना ॥
सुवितान समायुक्ते पुष्पाद्यैः समलङ्कृते ।
गीतवाद्य सुवृत्त्यैश्च सर्वतः समलङ्कृते ॥
शुद्धासने समासीनमुपचरैरनेकधा ।
चन्दना गुरुकस्तूरी कर्पूर कुसुमादिभिः ॥
प्। ३६ब्) हिमाम्बुना सुसङ्घृष्ट्यैः * * पूजां महात्मुने ।
करवीरैश्च सम्फुल्लैः श्वेतरक्तैः सुगन्धिभिः ॥
पुन्नागैः पुष्पकैश्चैव मुकुलैः शतपत्रकैः ।
जातीभिर्मल्लिकाभिश्च कल्हारैः कमलैरपि ॥
पाटलै केतकीपुष्पैः पूजयेद् रघुनन्दनम् ।
वैष्णवेषु च सर्वेषु शङ्खपूजां प्रयत्नतः ॥
कुर्यात्त्रिकालं विधिवद्विधिज्ञः साधकोत्तमः ।
विनापि शङ्खपूजायो वैष्णः पूजयोद्वरिः ॥
ससम्यक् पूजितोपि स्यादपूजित इति ध्रुवम् ।
धूपैश्च बहुभिः सुगन्धै गुग्गुलोद्भवैः ॥
स्नेहसंयुक्त विपुलवर्तिक्यभिरधेकधा ।
आवर्तिभिरनेकाभिः स्थापितभिः प्रयत्नतः ॥
पद्म स्वस्तिकरूपेण हंसाकारेण वा पुनः ।
भ्रामयेद् रघुनाथस्य पुरस्तात्पुरतोन्वहम् ॥
नैवेद्य भक्ष्य भोज्यादि पूजितं पुरतस्थितम् ।
सूपापूपघृतोपेतं पायसा साद्यं सुशर्करम् ॥
बहुपदैशिसंशोभि सघृतं सदधि प्रियम् ।
निवेदयेत् प्रयत्नेन साधितं शुद्धमुज्ज्वलम् ॥
कर्पूरशकलैर्युक्तं पूगीफलमनोरमम् ।
ताम्बूलं रघुनाथाय दत्त्वा कामानवाप्नुयात् ॥
पूर्वोक्तमेव सङ्क्षेपाद्विधानं गदितं मुने ।
सर्वेषां राममन्त्राणाम् एवमेव कृतं पुनः ॥
त्रिकालमेककालं वाय एवं पूजयेत् सदा ।
सार्वभौमेश्वरो भूत्वा राम एव भवेदिह ॥ ४४ ॥
इति श्री अगस्तिसंहितायां पञ्चविंशोध्यायः ॥ २५ ॥