२४

अगस्त्य उवाच ॥

अयमेव पुरोमार्गा कर्माप्येतत्परात्परम् ।
राम एव परञ्ज्योतिः सच्चिदानन्द परञ्ज्योतिः
प्रपञ्चात्मातयेषद्वन्द्वमीडायोः ।

श्रुतिःस्मृति पुराणानि सम्यगालोच्य निश्चितम् ।
वसिष्टवामदेवाद्यैर्नारदाद्यैर्य्यतस्ततः ॥

यज्ञोयमस्माद्भूतानि जङ्गमाजङ्गमं ततः ।
इतरेतर मिश्रेभ्यस्तेभ्यो भूतानि यज्ञिरे ॥

सर्वप्रकाशमानोयं तत एव विनिर्गतः ।
व्यस्त एषैव शारिरः परः सार विलक्षणः ॥

पञ्चात्मावर्णभेदेन सोप्यमेक विधो भवेत् ।
यदवाक्यादिना यस्य सर्वस्यान्तो न विद्यते ॥

तस्य कारणरूपत्वादभिधानाभिधेययोः ।
उपास्यः सपरंलोके तस्मिन् सर्वप्रतिष्टितम् ॥

यान्यं प्रकाशयेत् सर्वं परञ्ज्योतिः स्वतःपरम् ।
यादिरभ्युदयात्मत्वा सर्वदाभ्युदयोपकृत् ॥

अतो यत्नेन जप्यं तु मुक्तिभुक्ति परीप्सुना ।
अतः ततः परं नास्ति तदेतद्वाचको मनुः ॥

मनूनामपि सर्वेषामयमेव विशिष्यते ।
अयमेवान्तमुत्सृज्यकारमेकाक्षरो मनुः ॥

उपास्यमानो यज्ञोयमुत्पादयति तत्परम् ।
यद्येतत्त्रितयं प्या * नत्या सह समुछ्रितम् ॥

मायामन्मय वेदादिपूर्वोप्युत्क्रमपूर्वकः ।
पञ्चवर्णात्मकस्तस्माद्यज्ञात्सर्वं प्रजायते ॥

चन्द्रान्तः परमो मन्त्रो भद्रान्तश्चतुरक्षरः ।
एहिकां मुष्पिकां चास्य उक्तमेवफलं विदुः ॥

श्रीमायामन्मथैकैक बीजाद्यन्त गतो मनुः ।
षडक्षरः स एवायं मन्त्रः स्याच्चतुरक्ष्रः ॥

तारमायारमानङ्ग बीजपूर्वः स एव हि ।
अक्षरोनेकधा प्रोक्तः सर्वाभीष्टफलप्रदः ॥

चन्द्रभद्र नमस्कारैस्तत्तद्बीजैश्च योजितः ।
प्। ३४ब्) षट्सप्ताष्टनवादित्वे नैवं भिन्नोप्यनेकधा ॥

एकादित्वेन बहुधा स्वयं रामेत्ययं परम् ।
सर्वाभीष्टं प्रयछन्ति नान्तत्वेनापि भिद्यते ॥

पादाद्यात्मा पदाद्यात्मा तद्विशेषाद्विशिष्यते ।
स एव भिद्यतेनन्तो भेदेनाप्यधिकारिणम् ॥

मन्त्राणामृषिरेतेषां ब्रह्मागस्त्यः शिवोप्यहम् ।
छन्दो गायत्र्य मे बाहु देवता राम उच्यते ॥

पूर्वापरं बीजशक्तिं भुक्ति मुक्ति प्रयोजनम् ।
आद्यन्तयुक्तबीजेन षडङ्गं प्रणवैः सह ॥

वामदक्षिणयो वाम दक्षिणायो भ्रुवोर्दृशोः ।
कर्णयोर्गण्डयोर्हन्वोरोष्टयोर्दन्तमूलयोः ॥

जिह्वा तन्मूलयोः कण्ठ ककुदोः कुचयोरपि ।
अंशयोर्भुजयोः पाण्योः पार्श्वयो पृष्टहृत्कणै ॥

पृष्टिनाभ्योः शक्यि उर्वो जान्वोश्च जङ्घयोः पदौ ।
विन्यसेच्छक्तिबीजेन सीताराम स्वरूपकम् ॥

विन्यसेत् संहृतिन्यासं पादादिक शिरोवधि ।
उत्पत्तिन्यासमप्यत्र नाभ्यादिमधरोत्तरम् ॥

न्यसेत् प्रत्यक्षरं न्यासं मूर्तिन्यासमतःपरम् ।
तत्त्वन्यासं केशवादितन्न्यासमपि विन्यसेत् ॥

सर्वाङ्गमपि सर्वेण मन्त्रेणापि प्रविन्यसेत् ।
ध्यायेद्धृत्पुण्डरीकान्तं परं ज्योतिः परात्परम् ॥

तत्रैव देवमभ्यर्च्य मानसैरुपचारकैः ।
जपेत् क्वचन चैकान्ते रामं ध्यायनन्यधीः ॥

घनजीमूतसङ्काशं विद्युद्वर्णांवरावृतम् ।
सन्तप्तकाञ्चन प्रख्यां सीतामङ्कगतां पुनः ॥

अन्योन्याश्लिष्ट हृद्वाहु नेत्रं पश्यन्तमादरात् ।
दक्षिणेन कराग्रेण चिबुकं कुटिलालकम् ॥

स्पृशन्तं च स्तनोत्सङ्गं परिहासै मुहुर्मुहुः ।
विनोदयन्तं ताम्बूल चर्वणैक परायणम् ॥

सर्वरूपो ज्वलं द्वन्द्वं योषित्पुरुषयोरिव ।
श्रीरामसीतयोः सर्व सम्पन्मुक्तिफलप्रदम् ॥

जपहोमार्चनादीनि कुर्यात्कर्माणि सन्ततः ।
प्। ३५अ) यत्किञ्चिदप्यनन्तं स्यात् सत्यं सत्यं न संशयः ॥

तदेतद्वाचको मन्त्रः सर्वस्यार्थस्य साधकः ।
सतसद्वाचकश्चायं मन्त्रो विजयते परः ॥

रामात्मनो मनः सद्यः कीर्तना स्मरणादपि ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वापि कल्मषम् ॥

सञ्चिनोति ततो मोहाद्यद्यत्तदपि नाशयेत् ।
ग्रामारण्य पशुघ्नत्वं सञ्चितं दुरितंश्च यत् ॥

निःशेषान्नाशयत्येव रामात्माद्व्यक्षरो मनुः ।
उन्मृष्यवाचकोणादि भवोद्भव कृतार्चितः ॥

मद्यपानेन यत्पापं तदप्याशुविनाशयेत् ।
अभक्ष्य भक्षणात्पापं मिथ्याज्ञान समुद्भवम् ॥

सर्वं विलयते राम मन्त्रस्यास्य सुकीर्तनात् ।
श्रोत्रिय स्वर्णहरणात् यच्च पापमुपार्जितम् ॥

रत्नादेरपहारेण तदप्येवं विनाशयेत् ।
गत्वा तु मातरं मोहादगम्यायाश्च योषितः ॥

उपस्यानेन मन्त्रेण रामस्तदपि नाशयेत् ।
महापातक पापिष्ट सङ्गत्या सञ्चितं च यत् ॥

नाशयेत् तत्कथालापशयनाशनभोजनैः ।
पितृमातृवदोत्पन्नै बुद्धि पूर्वमघं च यत् ॥

निःशेषं नाशयत्येव कालत्रय समुद्भवम् ।
भ्रातृमित्र स्वसृघ्नानां यद्वा विश्वासघातकः ॥

यदि बालवधोत्पन्नं विष शस्त्रश्च घातकम् ।
गुरुपुत्रकलत्रादि वधोत्पन्नं दुरात्मनाम् ॥

तदनु ध्यानमात्रेण सर्वमेतत्प्रलीयते ।
तत्सद्गुरुपदिष्टेन वर्त्मनानुष्टितः पुनः ॥

रामात्मामनुरेवायं पापराशि विनाशकृत् ।
यत्प्रयागादि तीर्थेषु प्रायश्चित्तादिकैरपि ॥

नैवापनुद्यते पापं तदप्याशु विनाशयेत् ।
आत्मतुल्य सुवर्णादि दानै बहुविधैरपि ॥

किञ्चिदपि परीक्षायां पापं तदपि नाशयेत् ।
न याति सञ्चितं पापं बहुमूलमघं च यत् ॥

तन्मन्त्रस्मरणादेव निःशेषं तत्प्रणाश्यति ।

इति श्री अगस्तिसंहितायां चतुर्विंशोध्यायः ॥ २४ ॥