२३

अगस्त्य उवाच

अद्वैतानन्द चैतन्य शुद्धसत्त्वैकलक्षण ।
बहिरन्तः सुतीक्ष्णात्र बहिरात्माप्रकाशते ॥

अनाद्यदृष्टमेवात्र कारणं तत्र गोपते ।
न्यूनं वा व्यतिरिक्तं वा सर्वत्रापि तपोनिधेः ॥

आधिक्यैर्विषयैर्नित्यं बहिरेव प्रतीयते ।
न्यूनोपि विषयाद्यन्तः प्राप्य तस्याद्वहिर्भवेत् ॥

अतो जानीहि चात्मानमात्मन्येव निरन्तरम् ।
अन्यक्तो विषयैर्न्नित्यं स्वस्वादृष्टोपकल्पितम् ॥

यद्यदत्र प्रपञ्चेस्मिन् जङ्गमाजङ्गमात्मकम् ।
तत्र सर्वत्र चैतन्यं तिष्टत्येव निरन्तरम् ॥

कार्यात्मना प्रपञ्चो यं चैतन्यं कारणात्मना ।
अनुस्यूतं हि सर्वत्र भूतानां चात्र भौतिकैः ॥

अयमेवात्र चैतन्यं तस्मादन्यत्र किञ्चन ।
परमात्मा च जीवात्मा ब्रह्मसत्यं तदोमिति ॥

ज्ञानमानन्दमित्ये तत्सर्वचैतन्यवाचकम् ।
चैतन्न्यान्नपरं किञ्चिदृश्यते सर्वजन्तुषु ॥

प्रबुद्धस्या प्रमत्तस्य पृथिवीवद्घटादिषु ।
अन्तस्तत्त्वं पृथिव्यादौ दृश्यते सर्वदेहिनाम् ॥

अदृष्टं कल्पयेद्यत्र स्वांयेस्मिन्भवेदिह ।
प्रेमाभिजायते लोके स्वस्मिन्नात्स्वोपकारके ॥

न चेन्नैव समीचीनं यदन्याद्वा विलोक्यते ।
विलक्षणानि भूतानि तत्कार्यं च तथाविधम् ॥

स्वीयेस्वस्मिन्निवाचारः कथं तत्परिशोधयन् ।
श्रुतिस्मृतिपुराणेषु सर्वत्र प्रतिपादितम् ॥

सर्वात्मनापि चैतन्य सर्वमात्मनि नापरम् ।

सुतीक्ष्ण उवाच ॥

लोके तत्त्वं न जानाति यद्यदेवा विमर्शितम् ।
प्। ३३अ) तत् ज्ञानादृष्टहान्या तु तत्रैवान्तर्हितं तपः ॥

वुभुत्सु सर्वतत्त्वज्ञो नष्टवान प्रमादतः ।
यदि पश्येत्परञ्ज्योतिरेकं सर्वत्र पश्यति ॥

तदनन्यमनाः पश्येदिदृक्षुर्विषयेष्वपि ।
तच्चैतन्यं परं पश्येन्नान्यत्किञ्चिदपि स्वपि ॥

पापिष्टाः क्रूरकर्मानः ततो नित्यं बहिःकृताः ।
तत्तत्फलार्थिनः सर्वे कथं पश्यन्ति तद्वद ॥

करस्थं नैव जानाति प्रमादादेव निश्चयः ।
अत्यन्ता गर्हितं वेत्ति विजिज्ञासुस्तथा विधः ॥

पश्य सर्वात्मना सर्वं सर्वत्रापि तपोनिधेः ।
प्रकाश्यते स्वयं साक्षात्सच्चिदानन्दलक्षणम् ॥

ततोस्ति न परङ्किञ्चित् सद्वासत्तद्विलक्षणम् ।
तत्तिरस्करणीं प्राहुरविद्यां ज्ञानिनामपि ॥

यामे भवति चेतांसि विषयेष्वेव चामुने ।
दृष्टस्यात्सर्वजन्तूनां सुखदुःखादिलक्षणाम् ॥

अदृष्टान्तर्हिताः सर्वानापि सर्वत्रसंस्थिताः ।
पश्यन्ति पुरतः साक्षाच्चैतन्यं सर्वगोचरम् ॥

शुद्धिमान प्रमत्तो यः कदाचिद्विषयैरपि ।
नैव प्रलोभितः साक्षादात्मानं परिमीक्षते ॥

एवं विधोपि यः कश्चित् सच्चिदानन्दलक्षणम् ।
आत्मानं सर्वगं सम्यक् जानात्येव निराकुलः ॥

सजीवन्नेव मुक्तः स्याद्यद्येवं वा स्वचिन्तयेत् ।
बहिः सर्वगमानीय चैतन्यं स्वगतं पुनः ॥

पूरकेनैव योगेन सर्वतः स्थितमन्ततः ।
सम्यगाधाय चाधारे ध्यायेद्राममनन्यधीः ॥

शरीरान्तर्गतं वायुं दशधा तत्र तत्र तु ।
एकीकृत्यप्रयत्नेन सम्यक् सर्प्यमुखाङ्कृतिः ॥

वायुना पूरकाभ्यासः कर्तव्यः साधयेत् ततः ।
ग्रन्थिभेदक्रमेणैव चैतन्याग्नि समीरणैः ॥

उत्तिय पवनं यत्नात् कुर्यात्तन्मुखगोचरम् ।
विद्युतानन्द चैतन्य समीरस्तन्मुखागतः ॥

नयेदूर्ध्वं परं नुन्नः पुनः पुनरपि स्वयम् ।
अभ्यासातिशयेनैवभिनयत्पद्यमनन्यधीः ॥

प्। ३३ब्) तत्परं परया तत्र निःसृतान्तरगोचरः ।
भूमौ वीरासनं बद्धमन्तरालं भवेदपि ॥

पुनर्यद्येयमेवाय द्वितीयमपि भेदयेत् ।
तदन्तान्तर्गतो वायुः शरीरे चोर्द्धमानयेत् ॥

हृदयग्रन्थिभेदेन सम्यगभ्यासयोगतः ।
तत्र सन्धिषु सम्बन्ध तत्राद्यन्त गतो महत् ॥

सम्यक्संशोध्यतद्देह भ्रूमध्यमुपसर्पति ।
तत्रास्य द्विदले पद्मे सुधानिधिरलौकिकम् ॥

अमृतं वाहयन्नैव अमृतत्वाय कल्प्यते ।
भिन्देतं पञ्चमस्यैव पर्वस्योग्रे गतं पुनः ॥

तदेवं निखिलं ज्ञानं जन्मापि सफलं ततः ।
वैराग्येण तदप्येति त्यागेनैव हि तत्परम् ॥

सन्न्यासे नैव योगीन्द्र नान्योमार्गोस्ति तस्य तु ।
बहिरन्तर्गतं कृत्वा मूलाधाराच्च चिन्मयम् ॥

द्वादशान्तं समुत्क्रम्य यावन्नावर्तते पुनः ।
योगीन्द्रनान्योमार्गोयं सर्वस्मिन्नपि दर्शने ॥

नैवाप्यनुमतम्भिन्नं सर्वैरपि सुशोभितम् ।
विरजेन्मन्यसेद्ब्रह्मसाक्षात्कुर्यात् सुखी भवेत् ॥

पुरुषार्थोयमेवात्र अतः किञ्चिन्न विद्यते ।
अखण्डानन्दयोगेन नैवात्मानं वियोजयेत् ॥

इदं सत्यमिदं सत्यं सत्यं नैवापि वर्तते ।
रामः सत्यं परम्ब्रह्म रामात्किञ्चिन्न विद्यते ॥

सर्वशास्त्ररहस्याक्ष मया तव महात्मना ।
अगस्त्यसंहितानाम प्रोक्ते यं सर्वकामधुक् ॥

अध्यात्मलोकने दीप कलिका ज्ञाननाशिनी ।
भोगमोक्षप्रदा नित्यमायुरारोग्यवर्द्धिनी ॥

श्रुतादृष्टापि लिखिता वहिरन्तश्च पावयेत् ।
आदिमध्यावसानान्ते यः शकृद्वा निरीक्ष्यते ॥

पापात्मापि विमुक्तः स्याद्ब्रह्मभूयायकल्पते ।
सर्वदा लोचयेद्यस्तु ब्रह्मविद्योगसञ्ज्ञितम् ॥

प्राप्नोति लोकमखिलं लब्धाभीतिमवाप्नुयात् ।
पुस्तकं लिखितं यस्य गेहे तिष्टति पूजितम् ॥

प्। ३४अ) आयुरारोग्यमैश्वर्यं वर्द्धतेस्य दिने दिने ।
पुत्रपौत्रप्रपौत्राद्यैः कलमस्य विवर्द्धते ॥ ५० ॥

इति श्री अगस्तिसंहितायां त्रयोविंशोध्यायः ॥ २३ ॥