सुतीक्ष्ण उवाच ॥
योगोनाम किमेतन्मे ब्रूहि योगविदांवर ।
चेतसो विजयष्केनोपायेन स्यान्मुनीश्वर ॥
अगस्त्य उवाच
समीरणः शरीरान्त निरुद्ध्येत पदा ततः ।
मनोप्येवं निरुद्वंसन्तदात्मनि समीहते ॥
ज्ञानानन्द रसास्वाद तस्मान्नैव निवर्तते ।
अनायासेन मनसो निश्चलत्वमपेक्ष्यसे ॥
तदापानं समुत्कृष्य प्राणीनोन्निय योज्यताम् ।
प्राणापानौ समौ कृत्वा चित्तमप्यात्मनि स्थितम् ॥
सुखमास्वादयन्त्येव द्वादशान्त विधि स्मृतम् ।
तदस्त्वादपरः सम्यक् कदाचिदपि न त्यजेत् ॥
आदावेतानि जानीहि शरीरोत्पत्ति कारणम् ।
उत्पन्नमप्यच्यवनं क्रमं कर्तारमात्मनः ॥
अनादिरेव संसारो दृष्टमात्रं तु कारणम् ।
विधिस्तदनुरूपेण विधत्तेनुग्रहेत्किल ॥
सुस्वादिष्टैश्च बहुधा नानारूपेण भेदिताः ।
सर्वेषामपि सङ्ख्यातस्तेषां नास्ति तपोनिधे ॥
आत्मनो बहुधानन्ता श्रुतिरित्येवमब्रवीत् ।
संसारमप्यनादित्वात् सम्यग्ज्ञानो दयानिधेः ॥
एतावदप्यतोहन्त दुःखमेवानुभूयते ।
तद्बीजान्यण्डजान्याहुः स्वेदजानि विपश्चिताः ॥
जरायुजानि बहुधा चतुर्द्धा बहुधान्यथ ।
सम्यं महीमधिष्टायोद्भिद्यजायन्त इत्यथ ॥
पञ्चभौतिकरूपाणि तृणादीनिततान्यपि ।
तत्र पुष्पफलस्कन्ध शाखाभेदेन बोधत ॥
अण्डजान्यपि गोधादि रूपेणैवाव्यवस्थितिः ।
सुप्रसिद्धानि चान्यानि स्वेदजानि तपोनिधे ॥
प्। ३१ब्) यूकाकीटादिरूपेण प्रक्षीयन्ते क्षणे क्षणे ।
जरायुजान्यथोत्पत्तिं प्राप्नुवन्ति प्रभावतः ॥
स्वस्या दृष्टस्य पक्वस्य भुक्तिक्षीणस्य वात्मनः ।
स्त्रीपुंसौ ग्राम्यधर्मेण जायते शुक्रशोणिते ॥
तद्भक्तरसरूपेण तत्त्वमस्य प्रजायते ।
यथाग्निरनिलं प्राप्य स्वीकारमधि गछति ॥
एवं शुक्रमयो जीवः शोणितं स्वस्य कर्मणा ।
सम्प्राप्य योजितः सम्यक् वापुनो भय देहजः ॥
योषातः पुरुषोत्पन्न मलाभ्यामपि तत्ववान् ।
सोयं प्रविश्य गर्भोत मरुदग्न्यद्भिरत्र तु ॥
क्लिद्यते क्वापिते सम्यक् शुक्रशोणित वृद्धितः ।
तत्सामान्येन जायन्ते नरनारी नपुंसकाः ॥
सोयमेवं विधाकारो मातुर्गर्भः प्रवर्तते ।
प्रतिक्षणं प्रतिदिनं प्रतिमासं यथाविधिः ॥
घनीभूतस्तदङ्गैव मातुर्भक्तरसात्मवान् ।
अङ्गुष्टजलदाया मे जलबुद्बुधवद्दिने ॥
द्वितीयेप्येवमेवायं वर्द्धते प्रतिवासरम् ।
अवां मुखाप्यथो वृत्ता नाडीकाश्चिदृजुर्भवेत् ॥
वामाङ्गे पिङ्गलासास्याद्दक्षिणा स्यात् तथोत्तरा ।
गान्धारी हस्तिजिह्वा च सपुष्पालम्बुका तथा ॥
नत्यक्षोद्भवसम्बन्धवाहनात् सप्तनाडयः ।
तासु या प्रथमा जाता सासुषुम्नेति गीयते ॥
यशस्विनी शङ्खिनी चक्रुहूरिति दश क्रमात् ।
जातास्त्वमध्यमा स्वस्याः सुषुम्नाया पृथक् पृथक् ॥
भवन्ति पञ्चपर्वाणि तेभ्यो लक्षत्रयं पुनः ।
लक्षार्द्धंवशिरो जाताः शरीरं व्याप्नु यान्ति च ॥
अस्थ्यां शतत्रयं षष्ट्याधिकं स्यान्मुनिसत्तम ।
तत्तदंशेषु चाङ्गत्वं शय्यां गान्धारयन्ति च ॥
देहेस्मिन्दशविज्ञेया जलस्यां जलयो यथा ।
रसस्य नवसप्तैव पुरीषस्य प्रकीर्तिताः ॥
रक्तस्यां जलयोप्यष्टौ षट्श्लेष्मण उदाहृता ।
पित्तस्यापि तथा पञ्च मूत्रस्यापि शरीरके ॥
प्। ३२अ) चत्वारोन्नवसायाश्च त्रयो द्वे मेधसस्तथा ।
एकोर्द्धं मस्तके मज्जा रेतसस्तावदेव तु ॥
सूक्ष्मौजसौप्येवमेव मेमिर्देहो निबध्यते ।
दिने दिनेप्येवमेव वर्द्धतेङ्गं तपोधन ॥
पूर्वं नाभिर्भवत्येव शिरः पादौ करावपि ।
आधिः स्यान्महती तस्य षडङ्गेष्वेतरेव तु ॥
वमाक्षि नासिका कर्ण कपोलं च हनुद्वयम् ।
चिबुकं दन्तपङ्क्तिश्च जिह्वा चैवोपजिह्विका ॥
शिरःकेशास्तथा कण्ठ स्कन्ध कूर्प्पर पाणयः ।
नखाश्चाङ्गुल यः कक्षौ उरू पार्श्वद्वयं तथा ॥
पृष्टमभ्युदरन्नाभिलिङ्गस्फिग गुदादिकम् ।
उरू च जानुनीं जङ्घे द्वौ पादाङ्गुलयस्तथा ॥
रोमाण्ये तच्छरीरं तु चर्मणाछादितं मुने ।
बहिरन्तश्च रन्तो वै वायवश्चालयन्ति च ॥
देशादेशान्तरं देहे सप्तधातूनपि द्रुतम् ।
वायवः पञ्चदेहेस्मिन् पृथगेव प्रकीर्तिताः ॥
प्राणाख्यौ हृदये वायुरपानाख्यो गुदे स्थितः ।
समानाख्योपि नाभौ स्यादुदानः कण्ठदेशजः ॥
आपादमस्तकं व्यानः समग्रं व्याप्य तिष्टति ।
नागः कूर्मश्च कृकरी देवदत्तो धनञ्जयः ॥
वायवो दशदेहेस्मिन् सप्तधातुषु संस्थिताः ।
सप्तैवान्येषु देशेषु स्वेदक्लेदान्त गामिनः ॥
एवं शरीरमासाद्य प्रसूति समये भृशम् ।
मातरं व्यथयत्यं तु रुदरे विनिवर्तते ॥
नवमे दशमे मासि शरवद्भ्रश्यते भुवि ।
पूयशोणित विण्मूत्र परीताङ्गोपि सत्त्वरः ॥
योनेरवनिमासाद्यक्लेशातिशयमोहिताः ।
आत्मानमपि विस्मृत्य बहिरेव प्रधावति ॥
क्षुत्पिपासातुरो नित्यं स्तनमेव किलेछति ।
दिने दिने वर्द्धमानः पक्षमास ऋताविह ॥
तत्त्वकालोक्त विषयैः सम्यगाविष्कृतो भवेत् ।
पितृभ्यां बन्धुभिः सम्यक् प्रियं नित्यं प्रमोदते ॥
संवर्द्धितः शश्वदेव वर्षे वर्षे प्रवर्द्धितः ।
प्। ३२ब्) यदितं स्वस्य सततं तदानी मायतावपि ॥
तत्सर्वं सम्परित्यज्य बहिरेव प्रवर्तते ।
यद्ययं सर्वमुत्सृज्य पश्येदात्मानमात्मनि ॥
एतावन्यैव संसार भयदुःखैर्विमुच्यते ॥ ४९ ॥
इति श्री अगस्तिसंहितायां द्वाविंशोध्यायः ॥ २२ ॥