अगस्त्य उवाच
अथातोहं प्रवक्ष्यामि गुह्याद्गुह्यतरं मुने ।
यदशेषेण दुःखघ्नं तछृणुष्व तपोनिधे ॥
तत्प्राप्तिसाधनेनैव कर्मापीत्यपि चिन्तयेत् ।
कर्मणामेव यस्माद्धि विहितं सुकृतां सताम् ॥
रहस्यमेकता नास्ति तदसन्मुक्तये कथम् ।
यो यत्र वाधिकारित्वे चोदितस्तादृशो न हि ॥
जगत्यपि धनं न्याय्येनागतं कुत्र मे वद ।
ऋत्विजः कर्मतत्त्वज्ञा यजमान हितैषिणः ॥
क्व वा तिष्टन्ति मन्त्राश्च नियम्या ध्यापिता पुनः ।
अधीता नियमेनापि सम्यग्वा पाठनं कुतः ॥
कथमेवं विधं कर्म फलसाधनमिष्यते ।
यद्यत्र साधनत्वेन यस्य यस्य प्रचोदिताः ॥
तत्रैवोक्तं प्रयत्नेन व्यङ्गं चेत्तद साधनम् ।
कर्तुं कारयितुं वापि ब्रह्माविष्णुर्महेश्वरः ॥
न शक्नोतीति मे बुद्धि विहितं विधिवत् स्वयम् ।
को वान्यो विधिवत्कर्म कृत्वेष्टं साधयेत् फलम् ॥
कर्मकर्ता विधिश्चैव साधनानि बहूनि च ।
प्। ३०अ) एतत् साध्यं फलं तेन सुखी भवति देहवान् ॥
तेषां न्यूनातिरेकाभ्याम्म तथा चोदिता सती ।
विपरीत फलस्यैव दात्री स्यात् कृत्तिरञ्जसा ॥
निर्मलीकरणं कर्म वदतीत्यपि चेतसः ।
तत्फलानर्थिभिः सम्यक् विहितं सदनुष्टितम् ॥
योगाभ्यासदशायां तु नित्यं कर्म च नित्यशः ।
नैमित्तिकं निमित्तेषु काम्यं नैवं समाचरेत् ॥
सम्यगुत्पन्नवैराज्ञो यदा भवति देहवान् ।
तदा सर्वं परित्यज्य कर्ममोक्षाय कल्पते ॥
योगाभ्यासरतः शान्तो निर्द्धूता शेष कल्मषः ।
ब्रह्मविद्ब्रह्म भवति परिवाडे वने रतः ॥
सर्वात्मना परित्यागो नास्तेषां च यतस्ततः ।
ब्रह्मचारि गृहारण्य वासिनां योगिनामपि ॥
सर्वात्मना भृतत्वेन ब्रह्मभावो यतेः परम् ।
परित्यक्तात्म देहादि पत्नी पुत्रादि मानिनः ॥
स्वदेहमपि चामेध्यं विण्मूत्रमिव चिन्तयेत् ।
यतिरुत्पन्न वैराग्यो ब्रह्मेति ब्रह्मवित्तमः ॥
कर्मावकाशलेशोपि मोक्षे नास्ति ततो मुने ।
परमार्थविदो नूनं विरक्तस्य स्वचेतसः ॥
अमेध्यं दृश्यते सर्वं जगत्स्थावरजङ्गमम् ।
कैश्चित्किमर्थ यत्किञ्चित्कुर्याद्भ्रान्त इवात्मवान् ॥
को वा मेध्यं परित्यक्तुं पुनरङ्गैः विनिःक्षिपेत् ।
विष्टांशनः शूकरोपि न स्वविष्टाशनो भवेत् ॥
स्वेनासनेन मुक्तस्य सञ्चितं किं करिष्यति ।
जगत्यभ्युदयार्थं यद्भवेत्कर्म तथा विधम् ॥
एतत् कृत्य विदो नूनं न भ्रान्तिश्च कदाचन ।
इन्द्रियाणि शरीरं च कर्तव्यं मनसा समम् ॥
विषयेष्विवतोयानि स्वतो न्यून स्थलेष्विव ।
दुःखमुत्पादयन्त्येव तदानीमायतावपि ॥
यो यस्य दुःखकृद्वैरी स तस्येति स्थितिर्भुवि ।
उदास्ते वैरिणं ज्ञात्वा समीपेप्यपकारिणम् ॥
सतेनैव हतो भूत्वा प्राणानपि विमुञ्चति ।
यतो यत्नेन देहादीन् कृछ्र चान्द्रायणादिभिः ॥
प्। ३०ब्) शोषयेद्विधिना सम्यक् न चैतेरभीभूयते ।
यदितेरभिभूतः स्यात् स्वस्यापि प्रियमप्रियम् ॥
न वेत्ति किञ्चित्पापिष्टो नरकं प्रतिपद्यते ।
ततः कर्मविपाकेन तरुगुल्मलतादिकम् ॥
सम्प्राप्य क्रिमिकीटादि जन्तुत्वं प्रतिपद्यते ।
भूयो भूयोप्येवमेव चक्रवत् परिवर्तते ॥
विहितं च निषिद्धं च यत्कर्मविदधीतवै ।
संसारान्न निवर्तेत कदाचिदपि दुःखितः ॥
न ज्ञानव्यतिरेकेण मुक्तये साधनान्तरे ।
सुतीक्ष्ण विद्यते सत्यं ज्ञाननिष्टो भवा न च ॥
तद्योगैरेव भवति योगोप्यभ्यासपूर्वकः ।
अभ्यासोपि यमाद्यैश्च जायते नान्यथा मुने ॥
अधीत्य वेदशास्त्रार्थं विरक्तैः सात्त्विकैश्चते ।
यमादयोनुष्टीयं ते त्यक्त देहाभिमानिनः ॥
स्वदेहाद्यभिमानोपि तेषामेवानुविद्यते ।
नित्यानित्यार्थ तत्त्वज्ञाः शान्ताश्च यतयोपि ये ॥
मुक्तयेन परो मार्गो मुक्तयेन परन्तपः ।
मुक्तयेन परं ध्यानं ततोन्यङ्गास्ति किञ्चन ॥
यतित्वमुपपद्यैव देहादौ ममतामपि ।
त्यजकर्माखिलं सम्यक् यदि मुक्तिमपेक्षसे ॥
जानीहि सम्यगात्मानं सम्यगेव निरन्तरम् ।
देहादिषु गतेष्वेवं स्वयमेवावशिष्यते ॥
ततः स्वतः परं किञ्चिद्विद्यतेन तपोधन ।
एवं च सति दुःखोत्र संसारोप्यस्तिनो मुने ॥
यतित्व व्यतिरेकेण योय तेन समूढधीः ।
दुःखात्यन्त विमुक्तौ च विना वा ब्रह्म विद्यते ॥
सर्वात्मनापि सर्वेभ्यो विषयेभ्यो निवर्तनम् ।
ब्रह्मविद्यासमायुक्तं यतित्वं ब्रह्मसाधनम् ॥
तत्त्वतो न परं किञ्चित् साधनं मुक्तयोस्ति हि ।
अतस्तदयनं सर्वं मङ्गलं सर्वसिद्धिदम् ॥
यथा भागीरघी गङ्गा सागरेण समागता ।
पुनाति पतितान् ब्रह्म विद्यापि भुवनत्रयम् ॥
प्। ३१अ) यदि दर्शनमात्रेण योगाभ्यासपरायणः ।
सम्यग्ब्रह्मविदां श्रेष्टनिर्मली कुरुते जगत् ॥
प्रायश्चित्तं पुनात्याशु यद्वा द्वादशवार्षिकम् ।
विधिवत्स्वीकृतं सम्यग्यति त्वं च तथा मुने ॥
अतः सर्वात्मना ब्रह्म कैवल्यं नित्यमभ्यसेत् ॥ ४३ ॥
इति श्री अगस्तिसंहितायामेकविंशोध्यायः ॥ २१ ॥