२०

अगस्त्य उवाच

एकत्रैव स्थितिभावः पूर्वोक्तैर्नियमैः सह ।
शूलार्पितशरीरस्य नैतदासन मुच्यते ॥

प्राणायामानथौवक्ष्ये मुमुक्षोरुपकारकान् ।
यैः कृतै दह्यते घौचः शुष्केन्धन गिरिर्यथा ॥

इन्द्रियेष्वपि दोषाः वातपित्तकफोद्भवाः ।
त्वगसृम्मांसमेदोत्थ मज्जास्थिसित सम्भवाः ॥

एते सर्वेपि दह्येते प्राणस्यान्तर्निरोधनात् ।
प्रायश्चित्तमघौघानां मुख्यमेतद्वदन्ति हि ॥

पुनरावृत्तिरहित शाश्वत ब्रह्मकाङ्क्षिभिः ।
प्राणायामश्च सततं कर्तव्यो विधिवन्मुनै ॥

सम्यङ्निरुध्य च प्राणानन्तःकरणमात्मनिः ।
स्वयमेवावसिष्टः सन् ब्रह्मभूयाय कल्पते ॥

जानुविम्ब कराग्रेण त्रिपरामृष्य सत्त्वरम् ।
प्रदद्याच्छोटिकामेकामियं मात्रा कनीयसी ॥

मध्यमा द्विगुणा चैव सा ज्येष्टा त्रिगुणामता ।
अधमो मध्यमश्चैव प्राणायामस्तथोत्तमः ॥

अधमः पञ्चदशभिस्त्रिंशद्भिर्मध्यमो मतः ।
मात्राभिरुत्तमः पञ्चचत्वारिंशद्भिरुच्यते ॥

प्राणायामैः कृतैः शश्वन्नित्यं षोडशभिर्मुने ।
दैनन्दिनं च यत्पापं तत्सर्वं नश्यति ध्रुवम् ॥

परोपतापजं पापं परद्रव्यापहारजम् ।
परस्त्रीमैथुनोत्पन्नं प्राणायामशतं दहेत् ॥

महापातक जातानि ब्रह्महत्या शतानि च ।
सर्वाण्यपि प्रणशन्ति प्राणायामैश्चतुः शतैः ॥

आदावन्ते च यत्नेन प्राणायामात् समाचरेत् ।
कर्मस्वपि समस्तेषु अशुभेशुशुभेष्ववा ॥

प्राणायामैर्विनायद्यत्कृतं कर्म निरर्थकम् ।
अतो यत्नेन कर्तव्याः प्राणायामा शुभार्थिभिः ॥

यावच्छक्यं नियम्यासून्मनसैव जपेन् मनुम् ।
प्। २८ब्) रामं रामं मुहुर्मुहुर्ध्यायन् पूर्वोक्तविधिवत् सुधीः ॥

धारयन्नन्तरे वासून्नेत्रे किञ्चिन्निमील्य च ।
परञ्ज्योतिः परन्ध्यायनन्तरे वा मनुं जपेत् ॥

आपादमस्तकं सम्यक् प्रविशत्यनलो यथा ।
यावतीभिस्तु मात्राभिरिन्द्रियार्थेभिधावतः ॥

प्रक्षुम्यते शरीरं च तावन्मात्रोस्तु संयमः ।
प्राणायामै विनायस्य जपहोमादिका क्रियाः ॥

न भवन्त्येव ताः सर्वाः यत्नेनापि कृता अपि ।
इन्द्रियाणां कृता सार्द्धं विषयेभ्यो निवर्तनम् ॥

प्रत्याहारो भवेदेतत् सम्यङ्गिन्द्रिय निग्रहः ।
जीवस्य ब्रह्मरूपेण निरोधो वाथ युक्तिभिः ॥

पूर्वोक्तायां तु मात्रा स्यात् प्राणायाम त्रयोद्भवा ।
आत्मन्यपि स्थिरीभावश्चित्तस्यैव धारणा ॥

सम्यगालोचनं ध्यानं रामं हृदि निधाय च ।
अङ्गानि भूषणैः सार्द्धं चाह्वाना चरणैरपि ॥

सत्यज्ञानसुखेकत्व प्राप्ति ये प्राप्ति साधने ।
समाधिर्द्धर्म चिन्तास्याद्भवान्तरष्वतेष्वपि ॥

समाधिरथवा जीव ब्रह्मणोरैक्य चिन्तनम् ।
ब्रह्मीभूय स्वयं जीवो निरुद्धासु विलीनभूः ॥

सतोप्यनन्य सद्भाव स्वस्वमेवावशिष्यते ।
मुहूर्तावस्थितो वापि समाधिरथ चोच्यते ॥

एवमष्टाङ्गसंयुक्तो योगयुक्तः सुसंयतः ।
सूर्यस्य मण्डलं भित्वा याति ब्रह्म सनातनम् ॥

य एवमभ्यसेन्नित्यं वीतमीः शान्त एव च ।
वशीकृतेन्द्रिय ग्रामः सोमृतत्वाय कल्प्यते ॥

निरस्ता शेष दुरितः कामक्रोधविवर्जितः ।
एवमभ्यासयोगेन योगीयाति पराङ्गतिम् ॥

कर्मयोगिनवाज्ञा योगे नाथोभयेन वा ।
प्राप्यते पुनरावृत्तिरहितं ब्रह्मशाश्वतम् ॥

करोत्यनुदिनं यस्तु तत्तत्फलगत स्पृहा ।
जपहोमात्मकं कर्मससन्निय च तत्फलम् ॥

सगुणं निर्गुणं वाथ ध्यायेद्यो रघुवंशजम् ।
प्। २९अ) कर्मानुपेक्ष ज्ञानेन सयात्येव परम्पदम् ॥

ध्यानेन कर्मणा चैव यो भ्यसेद्योग मन्वहम् ।
सयात्येवोत्तमं स्थानं यद्गत्वा न निवर्तते ॥

अतः सुतीक्ष्णयत्नेन योगी भव तपोनिधे ।
व्रतोपवास नियमै जन्मकोट्यनुनुष्टितैः ॥

यज्ञैश्च विविधैः सम्यक् भक्तिर्भवति राघवे ।
संसारसागरस्यास्यपारं प्राप्तुं छदीससि ॥

कर्मयोगीथवा ज्ञान योगे प्रविशसत्त्वरम् ।
सर्वभूतानि भूतानां भ्रान्तानां गत चेतसाम् ॥

त्रातास एकः संसारे राघवः स्वयमेव हि ।
प्रक्षीणा शेषपापानां ज्ञानयोगः प्रशस्यते ॥

कर्मयोगस्तु सर्वेषां भवे निर्वाणसाधनम् ।
ज्ञानेन कर्मणा वापि रामं सम्यगिहार्चयेत् ॥

सुतीक्ष्णं तछरीरं तु क्षयीत्यपि पतिष्णु च ।
त्वगासृं मांसमज्जास्थि मेदः शुक्रमयं तनु ॥

शास्त्रोपपादितं सम्यक् तस्य प्राहु विशोधनम् ।

कर्मयोगं तथा ज्ञानं योगं वा योगवित्तम ।
स्वकरिष्यामि कर्तव्यमिति कश्चिद्विचिन्तयेत् ॥

स्वस्यास्ये स्वयमेवायं मन्दोधूलिं विनिःक्षिपेत् ।
सम्यग्वैराग्यनिष्टस्य स्थिरतत्त्वस्य चेतसः ॥

छर्दितान्ननिभाः सर्वे दृश्यन्ते विषयाः स्वयम् ।
शरीरत्त्वमिव प्राणैःर्विरक्तस्यैव शोभते ॥

विरक्तस्य तदप्याशु त्याज्यं सर्वात्मना भवेत् ।
अन्त्य मेध्य शरीरस्थं विष्टामध्यगतादपि ॥

तत्त्वनिष्टो विशेषेण प्राणिनां मन्यते हितम् ।
शरीरेस्मिन्नमेध्यत्वं मीदृशन्नाम देहिनाम् ॥

त्वगाद्येकैक संस्पर्शे स्नानमेव विधीयते ।
शृगालैरपि गृध्रैश्च नीयते यद्यहो विधि ॥

विधत्ते चर्मणा नैव शरीरारि शरीरिणाम् ।
तत्तु प्रतिपदं सम्यक् अपदां पदमीदृशम् ॥

ततः शरीरं विश्वस्य य उदास्ते समूढधीः ।
दुःखैकानुभवार्थाय विधिनै तत्कृतं वपुः ॥

परमार्थ विदप्येतद्वीक्ष्यमाणो न वीक्ष्यते ।
प्। २९ब्) व्यामोहित्ये जगत्यस्मिं माययैव महात्मनः ॥

विष्णोस्तु सातनुर्भूत्वा मोहयत्यखिलं जगत् ।
स तु माया मयो भूत्वा कुटुम्ब भरणा कुलः ॥

भ्रमत्येवान्तरो भूत्वा दुःखावर्ते पुनः पुनः ।
दुःखमित्येव जानाति सुखं नैव तपोधन ॥

सर्वात्मना परित्याज्यं सर्वेषामपि दुःखदे ।
प्रविशेत्कोहतो मन्दोहतोप्यादौ पुनर्हतः ॥

न किञ्चिदपि कर्मात्र निष्फलं विद्यते मुने ।
तच्चेत्पुनः प्रवेशाय भवेन्मुक्तोपि वध्यते ॥

अतो न कर्म कर्तव्यं फलार्थि त्वेन सूरिभिः ।
यदि कुर्युः फलं तत्तदनुपेक्षार्चनादिकम् ॥

न चेत्पतति संसारे दुःखावर्ते विमोहितः ।
ईश्वरोपि समुद्धर्तुं शक्तो भवति नान्यथा ॥ ५३ ॥

इति श्री अगस्तिसंहितायां विंशोध्यायः ॥ २० ॥