अगस्त्य उ०
सुतीक्ष्णमन्त्रवर्येषु श्रेष्टो वैष्णव उच्यते ।
गाणपत्येषु शैवेषु शक्तिसौरेष्वभीष्टदः ॥
वैष्णवेष्वपि सर्वेषु राममन्त्र फलाधिकः ।
गाणपत्यादि मन्त्रेषु कोटि कोटि गुणाधिकः ॥
मन्त्रस्तेष्वप्यनाया सफलदोयं षडक्षरः ।
षडक्षरोयं मन्त्रस्तु सर्वाघौघविनाशनः ॥
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ।
दैनं दिनं तु दुरितं पक्षमासर्तु वर्षजम् ॥
सर्वं दहति निःशेष सूर्णाचलमिवानलः ।
ब्रह्महत्या सहस्राणि ज्ञानाज्ञानकृतानि च ॥
स्वर्णस्तेय सुरापान गुरुतल्पायुतानि च ।
कोटि कोटि सहस्राणि उपपातक जान्यपि ॥
सर्वाण्यपि समं यान्ति राममन्त्रानुकीर्तनात् ।
भूतप्रेतपिशाद्याः कुष्मान्द ग्रहराक्षसाः ॥
दूरादेव प्रधावन्ति राममन्त्र प्रभावतः ।
मालिन्यमपि साङ्कर्य यद्यद्यावच्च दूषितम् ॥
सर्वं विलयमाप्नोति राममन्त्रेनुकीर्तिते ।
आब्रह्मबीजदोषाश्च नियमाति क्रमोद्भवाः ॥
स्त्रीणां च पुरुषाणां स्युर्मन्त्रेणानेन नाशिताः ।
येषु येष्वपि देशेषु रामः परमुपास्यते ॥
दुर्भिक्षादि भयान्येषु न भवन्ति कदाचन ।
शान्तः प्रसन्नो वरदोऽक्रोधनो भक्तवत्सलः ॥
अनेन सदृशो मन्त्रो जपत्स्वपि न विद्यते ।
अनेनाराधितो रामः प्रसीदत्येव सत्त्वरम् ॥
ददात्या पुष्पमैश्वर्यं समानोत्तमतामपि ।
य एवमुक्तमात्रेण मन्त्राराधन तत्परः ॥
सकामो भुक्तिमाप्नोति निष्कामो मुक्तिरेव च ।
प्राप्नोत्य भय कामोस्तु भुक्तिं मुक्तिं न संशयः ॥
प्। २६ब्) सुतीक्ष्ण उवाच
श्रुतिस्मृतिपुराणार्थ निश्चय ज्ञानवित्तमः ।
सन्देहं छिन्दिपृछामि नानात्रानुग्रहं कुरु ॥
आत्मानुभवरूपेण साक्षात्कारेण केवलम् ।
पुनरावृत्तिरहितं शाश्वतं ब्रह्मयात्यपि ॥
इति श्रुत्यादि तत्त्वज्ञाः प्रवदन्ति मनीषिणः ।
श्रीमताभिहितं रामं मन्त्रानुष्टान तत्पराः ॥
भुक्तिं मुक्तिं च विन्दन्ति कथमेति निबोधय ।
निवृत्तिरेव मुक्तिस्तु प्रवृत्तिर्भुक्तिरुच्यते ॥
उभयोरप्येकरेव कथं मार्गाभवेद्वद ।
त्वया चैव यदुक्तं तत् सत्यं सत्यं वदांवर ॥
सर्वजन्यसुखोछित्तिर्दुःखोछित्तिश्च तत्त्वतः ।
निवृत्तिलक्षणा ह्येता मुक्तिरित्यभिधीयते ॥
विषयात्यन्त संसर्गं करणानां हृदा सह ।
भुक्तिं प्रचक्षते लोके वैषम्यमुभयोरिह ॥
तथाप्यात्मान सन्धानमुभयत्रापि दृश्यते ।
मुक्तिरात्मानुसन्धानेनात्मावस्थानमेव हि ॥
एतदस्तेव तत्त्वज्ञ सर्वतत्त्वविदां सताम् ।
प्रवृत्तौ च निवृत्ताश्च सर्वदात्मानुभाविनाम् ॥
किं च रामोहमित्येव सर्वदानुसरन्ति वै ।
न ते संसारिणो नूनं राम एव न संशयः ॥
राम एवात्र भोक्ता च भोज्यमार्य्य भुजिक्रिया ।
एकस्मिन्नेव शिष्टे तु किम सत्स प्रसञ्जनम् ॥
अतो न मुक्तिमार्गस्य रोधिनी भुक्तिरिष्यते ।
अनेन विधिना रामं य एनमनुतिष्टति ॥
सभुक्तिमपि मुक्तिं च लभते नात्र संशयः ।
यथाविधि निषेधौ तु मुक्तिं चैव पसर्पतः ॥
तथा न स्पृशता रामो पासकं विधिपूर्वकम् ।
सदा रामोहमित्येव चिन्तयेदप्य नन्यधीः ॥
न तस्या विहितं लोके निषिद्धं च न विद्यते ।
अतो रामोहमित्येव तात्पर्येण वदन्ति ये ॥
रामो नामत एव स्युन्न तेषां विहितादिकम् ।
दातव्यमस्मै ददति ये यावत्कि यदन्वहम् ॥
उदकौदन वस्त्राणि रामायैव न शंसयः ।
अतो ब्रह्मविदेदत्त मानन्त्या यैव कल्प्यते ॥
प्। २७अ) ये द्विषन्त्यपि निन्दन्ति तत्पाप फलभाजनाः ।
कुण्टुम्बिनो दरिद्रा स्युर्दुःखिन्नः स्युर्न संशयः ॥
ततः सुतात्समुत्पाद्य स्वयमेव दहेदपि ।
कारागृहेषु सर्वेषु निर्निमित्तं न गृह्यते ॥
अहोस्य मन्दभाग्यस्य यावत्तद्विक्षयं भवेत् ।
अतो ब्रह्मविदां द्वेषो न कर्तव्य फलेप्सुभिः ॥
निन्दा च नैव कर्तव्या हितमेव समाचरेत् ।
ये स्तुवन्त्यनुमोदन्ति ददन्त्यस्मै मनीषिणः ॥
तत्पुण्यमखिलं लब्धा तद्गतं प्राप्नुवन्त्यपि ।
ज्ञात्वा तमेवमात्मानं कृत्यं कुरु निरन्तरम् ॥
एतेनैव तवाभीष्टं सर्वं भवति नान्यथा ।
त्यज दर्शन गोष्टीं च विहारेछां समाचर ॥
हितमेव सतां नित्यमहिंसा परमो भव ।
तत्प्राप्तिसाधनान्यष्टौ तानि वक्ष्यामि तच्छृणु ॥
यमो नियमसञ्ज्ञश्च आसनं च तृतीयकम् ।
प्राणायामश्चतुर्थं स्यात्प्रत्याहारस्तु पञ्चमः ॥
धारणा च तथा ध्यानं समाधिरिति सत्ततः ।
प्रत्येकमेषां वक्ष्यामि लक्षणान्यपि सुव्रत ॥
तद्विभज्य प्रवक्ष्यामि तत्तल्लक्षणमप्यहौ ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥
क्षमाधृतिमिताहारः शौचं वेत्ति यमादश ।
सर्वेषामपि जन्तूनाम क्लेशजननं पुनः ॥
वाम्मनः कर्मभिर्नूनमहिंसीत्यभिधीयते ।
तृणादेरप्यनादानं परस्वस्य तपोधन ॥
अस्तेयमेतदप्यङ्गं ब्रह्मप्राप्त्यै सनातनम् ।
अवस्थास्वपि सर्वासुकर्मणा मनसागिरा ॥
स्त्रीसङ्गति परित्यागो ब्रह्मचर्यं प्रचक्ष्यते ।
परेषां दुःखमालोक्य स्वस्यैवालोच्य तस्य तु ॥
तत्साधनानुसन्धानं दयेति प्रोच्यते बुधैः ।
व्यवहारेषु सर्वेषु मनोवाक्काय कर्मभिः ॥
सर्वेषामपि कौटिल्यं राहित्यं ह्यार्जवं भवेत् ।
सर्वात्मना सर्वदापि सर्वत्रैवापकारिपु ॥
प्। २७ब्) बन्धुष्विव समाचारः क्षान्ति स्यान्मुनि सत्तम ।
इच्छाप्रयत्नराहित्यं जातेषु विषयेष्वपि ॥
लोभवत्सुधृतिं धीराः प्रवदन्ति सतांवरः ।
भोज्यस्यैव चतुर्थांश भोजनं स्वस्य चेतसः ॥
अत्युक्त कटुतिक्ताम्ललवणादि विवर्जितम् ।
हितं मेध्यं सुतीक्ष्णं तत् मिथ्याहारं प्रचक्ष्यते ॥
निर्गतं रोमकूपेभ्यो नवरन्ध्रेभ्य एव च ।
मलं वदन्ति द्वाराणां क्षालनं शौचमुच्यते ॥
मृज्जलाभ्यां वहिः सम्यक् निर्मलीकरणं पुनः ।
पूर्वोक्त भूतशुध्यन्तं शौचमाचक्षते बुधाः ॥
एते दशयमा ब्रह्मस्तद्ब्रह्मप्राप्ति हेतवः ।
तपश्चतुष्टिरास्तिक्यमीश्वराराधनं तथा ॥
सिद्धान्तावेक्षणं चैव लज्जादानमतिस्तथा ।
जपो व्रतं दशैतानि सुतीक्ष्णनियमा स्मृताः ॥
प्रत्येकमेषां वक्ष्यामि लक्षणानि तपोधन ।
तपस्त्वनशनन्नाम विधिपूर्वकमिष्यते ॥
अनायासोपवासेन तृप्त्यर्थेनैव जीविनम् ।
तुष्टिरेषा च धार्येत तत्प्राप्तिर्नान्ययाविना ॥
श्रुत्यायुक्ते तु विश्वास आस्तिक्य सम्प्रचक्ष्यते ।
इष्टदेवार्चनं सम्यक् विधिपूर्वकमन्वहम् ॥
त्रिसन्ध्यमेकदा वा तु भवत्येवेश्वरार्चनम् ।
वैष्णवागमसिद्धान्त श्रवणं मननं तथा ॥
श्रुतिस्मृति पुराणादि मध्याह्नानोर्क दर्शनम् ।
सिद्धान्त श्रवणं ह्येतत् प्रोच्यते तत्त्वदर्शिभिः ॥
श्रुत्यादिभिर्लौकिकैश्च यद्यदत्यन्त निन्दितम् ।
तत्रा प्रवर्तनं लज्जा वां मनःकर्मणामपि ॥
यदिष्टदेवतां ध्यात्वा तदर्प्पणधियान्वहम् ।
तत्पात्रै दीयतेन्नादि तद्ध्यानमभिधीयते ॥
गुरोर्लब्धस्य मन्त्रस्य शश्वदावर्तनं च यत् ।
अन्तरङ्गाक्षराणां च न्यासपूर्वं जपो भवेत् ॥
कर्तव्यस्य समग्रस्य नियमग्रहणं व्रतम् ।
नियम व्यतिरेकेण सकलं निष्कलं भवेत् ॥
प्। २८अ) यमैश्च नियमश्चैव कृतं यत्सफलं भवेत् ।
अतो नियमतः सर्वं कृतं साफल्यमाप्नुयात् ॥ ६५ ॥
इति श्री अगस्तिसंहितायामेकोविंशोध्यायः ॥ १९ ॥