प्। २४ब्) अगस्त्य उवाच
अथ पूजाविधानानां लक्षणान्यपि वच्महे ।
अम्बु चन्दन पुष्पाणि धूपदीप निवेदनम् ॥
हविरेतानि मुखानि साधनानि मुनीश्वर ।
स्थूलमप्यर्द्ध पात्राणि शङ्खं चैषां च लक्षणम् ॥
अन्यानि वेदित शुद्धिं प्रकृतिस्थं सुशीतलम् ।
हेमादि कलशं तस्य पूजासाधनमिष्यते ॥
अनन्यार्पित पूतानि गन्धवन्ति सितानि च ।
पीतान्यपि मनोज्ञानि छिद्रेण रहितानि च ॥
पुष्पाण्येवात्र शंसन्ति न चेत्सर्वं निरर्थकम् ।
चन्दनं मलयोत्पन्न मनाघ्रातं सुशीतलम् ॥
कर्पूरागुरु कस्तूरी हिमाछादि विवासितम् ।
पूजायां शस्यते धूपस्ताम्रकांस्यादि निर्मिते ॥
पात्रेपि द्विपदे लग्न नाले पद्माकृतौ मुने ।
साराङ्गार विनिःक्षिप्ते गुग्गुलागर वृक्षजे ॥
निर्यासाद्युत्थितैर्धूपैर्गन्धद्रव्यैश्च चोत्तमैः ।
अनन्यार्पित गन्धोयं शस्यतेर्चन कर्मणि ॥
दीपोपि पूर्ववत्पात्रे मण्डलाकार कारितः ।
प्रतिपूर्व प्रदीप्तश्च वर्त्यागव्य घृतादिना ॥
अन्यानि वेदितः पूजा कर्मण्येव प्रशस्यते ।
पायसा पुष्पसम्पाद्यं फलोर्पेतं हरिर्मुने ॥
शुद्धं च पड्रसोपेतमनन्यार्पितमिष्यते ।
नैवेद्यमर्चनेनान्यं सताम्बूल निवेदितम् ॥
स्थलं प्रसाद विपिन नदीतीर गतं समम् ।
चतुरस्रं चतुर्हस्तं हस्तोन्नत सुवेदिकम् ॥
चन्द्रातपपताकादि तोरणैर्प्रोलसच्छुचिः ।
विविक्तं च विशेषेण शस्यतेर्चन कर्मणि ॥
पात्राणि ताम्र हेमादि निर्मितानि जलान्तरे ।
जलजानीव निर्माय पाद्याद्यर्चार्हणादिषु ॥
उपचाराणि शुद्धानि शस्यन्तेत्र विशेषतः ।
शङ्खो नाम समावर्तः पृष्टमध्यनुनालकः ॥
सितैश्च पूरितो नीरैः शस्यतेर्चन कर्मणि ।
एतान्यन्यानि पूजायां साधनानि बहूनि च ॥
तान्युत्तमानि मध्यानि न्यूनानि विधिवन्ति वै ।
प्। २५अ) सुख्यः समर्थः कुर्वीत चोत्तमैरेव साधनैः ॥
मध्यमो मध्यमैरेव न्यूनोन्यूनैस्तपोधन ।
आपन्नश्चेत्समर्थोपि न्यूनैरेव समाचरेत् ॥
पूजाकर्मविशेषेण देशकालानुसारतः ।
यथाशक्ति यथान्यायं यथथालोकविगर्हितम् ॥
एकेन वान्यत्सकला कुर्याद्देवार्चनं रहः ।
मुद्राश्च दर्शयेत् पश्चाद्देवसान्निध्यकारिणी ॥
दर्शितास्ताश्च देवानां द्रावकान्मोदकान्मुने ।
दर्शनीयाः सुतीक्ष्णातो देवतायागकर्मणि ॥
आवाहनी स्थापनी च सान्न्निधीकरिणी तथा ।
सुसन्निरोधिनी मुद्रा सम्मुखी करणी तथा ॥
सकलीकरणं चैव महामुद्रा तथैव च ।
शङ्ख चक्र गदा पद्म धनुः कौस्तुभ गारुडः ॥
श्रीवत्सवनमाले च योनिमुद्रां च दर्शयन् ।
मूलाधार द्वादशान्तमानीतः कुसुमाञ्जलिः ॥
त्रिस्थानगत तेजोभि विनीत प्रतिमादिषु ।
आवाहनीयं मुद्रास्यादेवार्चन विधौ मुने ॥
एषैवास्यैव मुद्रास्या * * * त्सन्निरोधिनी ।
उत्तानमुष्टि युगला सम्मुखी करिणी मता ॥
अन्येष्वेवाङ्ग विन्यासः सकली करणं भवेत् ।
अन्योन्याङ्गुष्टसंलग्ना विस्तारित कर द्वयी ॥
महामुद्रेयमाख्याता न्यूनाधिक समापनी ।
कनिष्टानामिकामध्या तर्जनी मुकुलीकृता ॥
करद्वयेन मुद्रास्याच्छङ्खाख्येयं सुरार्चने ।
अन्योन्याभिमुखं पृष्टाङ्गुलि प्रोन्नतमध्यमाः ॥
अथाङ्गुष्टद्वयं मध्ये दत्वापि परितस्करौ ।
मण्डलीकरणं सम्यगङ्गुलीनां तपोधन ॥
पद्ममुद्राभवेदेषा धेनुमुद्रा ततः परम् ।
अनामिके कनिष्टाभ्यां तर्जनीभ्यां च मध्यमे ॥
अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभसञ्ज्ञकाः ।
कनिष्टे न्योन्यसंलग्ने सम्मुखेपि परस्परम् ॥
वामस्य तर्जनी मध्ये मध्यानामिकयोरपि ।
वामानामिक संस्पृष्टा तर्जनी मध्यम गता ॥
प्। २५ब्) पर्यायेण नमाङ्गुष्ट द्वयी कौस्तुभलक्षणा ।
कनिष्टान्योन्यसंलग्ना विपरीतान्नियोजिता ॥
अधस्थात्प्रापिताङ्गुष्टा मुद्रा गरुडसञ्ज्ञता ।
तर्जन्यङ्गुष्टमध्यस्था मध्यमानामिका द्वयी ॥
कनिष्टानामिका मध्य तर्जन्यग्रकर द्वयी ।
मुने श्रीवत्समुद्रेयं वनमाला भवेत् ततः ॥
कनिष्टानामिकामध्यामुष्टिरुन्नित तर्जनी ।
परिभ्रान्ता शिरस्युच्चैस्तर्जनीभ्यां दिवौकसः ॥
मुद्रायोनिः समाख्याता तत्करद्वयदर्शिनी ।
तर्जन्याकृष्टमध्या च ततो नामिक युग्मकाः ॥
मध्ये मूलस्थिताङ्गुष्टा ज्ञेया शास्त्रार्चने मुने ।
एताभिर्दशमुद्राभिः पूर्वोक्ताभिश्च सप्तभिः ॥
यो राममर्चयेन्नित्यं मोदयेत्स सुरेश्वरम् ।
द्रावयेदपि विपेन्द्र ततः प्रार्थित माप्नुयात् ॥
लक्षणान्यासनानां हि वक्ष्यामि मुनि सत्तम ।
तानि स्वस्तिक वज्राब्ज वीरादीनि भवन्ति वै ॥
कृतोत्तानौ क्षितौ पादौ तत्रैवोरुद्वयं समम् ।
निधाय निश्चलं ह्येतत् शेष्टं सर्वेषु कर्मसु ॥
वामाङ्काग्रे कृतं ह्येतद्वीरासनमुदाहृतम् ।
योगासनं च मुष्काधः पार्ष्णि दत्वा पदान्तरम् ॥
यद्याङ्कयोर्निधायै तद्योगीभीष्टं प्रयछति ।
वामाङ्क पार्श्वपार्ष्णी च दक्षिणां चेद्द्वयं पुनः ॥
पार्ष्ण्यन्तरं निधायैकं कुर्याज्जानुद्वयं समम् ।
गोमुखासनमेतत्स्यात् सर्वाघौघ विनाशनम् ॥
आसनानि बहूनि स्युरेवमेव जपादिषु ।
येन केनासने धीने धीरः स्थित्वा जपादिषु ॥
कुर्वीत भक्ति युक्तस्तु भावयेत् पुरुषोत्तमम् ।
एवं यः कुरुते पूजां जपहोमादिकं मुने ॥
सर्वेषामिह पूज्यो * मिहलोके परत्र च ।
पूजा जपश्च होमश्च मन्त्राणामाहुतिस्तथा ।
दीक्षाभिषेकमार्गोपि दर्शितस्ते तपोधन ।
पूजोपकरणादीनां लक्षणान्यपि सुव्रत ॥
प्। २६अ) दर्शितानि प्रयत्नेन सर्वभक्त्यावधारय ।
सुतीक्ष्णाभिहितं यद्वद्वैष्णवं भुक्तिमुक्तिदम् ॥
ना वैष्णवेभ्यो वक्तव्यं न श्राव्यमिति मे मतिः ।
यत्नेन विष्णुभक्ताय अर्थिते देयमेव हि ॥ ५६ ॥
इति श्री अगस्तिसंहितायामष्टादशोध्यायः ॥ १८ ॥