अगस्त्य उवाच
अथाभिषेक वक्ष्यामि दीक्षाविधिमनुत्तमम् ।
उपासन शतेनापि विनायेन न सिध्यति ॥
उपासकस्तु शुद्धात्मा गुरुं यत्नेन तोषयेत् ।
सुवित्तचित्तकामैश्च भक्तिश्रद्धा समन्वितः ॥
यथा ददाति सन्तुष्टः प्रसन्न वदनो मनुः ।
स्वयमेव तथा चैवमिति कर्तव्यता मियात् ॥
विशुद्धं काल देशेषु शुद्धात्मा नियतो गुरुः ।
सङ्कल्पो पोष्य कर्तव्यमङ्कुरारोपणं मुने ॥
कुर्यान्नान्दीमुखश्राद्धमादौ च स्वस्ति वाचन ।
स्वगृह्योक्त विधानेन तदेतद्विदधीतवै ॥
मधुमासे भवेदुःखं माधवे रत्नसञ्चयः ।
मरणं भवति ज्येष्टे आषाढे बन्धुनाशनम् ॥
समृद्धिश्रावणे नूनं भवेद्भाद्रपदेक्षयः ।
प्रजानामाश्विने मासि सर्वतः शुभमेव हि ॥
ज्ञानं स्यात् कार्तिके सौख्यं मार्गशीर्षे भवत्यपि ।
पौषे ज्ञानक्षयो माघे भवेन्मेधा विवर्द्धनम् ॥
फाल्गुनेपि समृद्धिः स्यान्मलमासं विवर्जयेत् ।
प्। २३अ) रवौ गुरौसिते सोमे * * व्यं बुध सौरयोः ॥
अश्विनी रेवती स्वाती विशाखा हस्तभेषु च ।
ज्येष्टोत्तरात्रयोष्वेवं कुर्यान्मन्त्राभिषेचनम् ॥
पूर्णिमा पञ्चमे चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ताः सर्वकामदाः ॥
पचाङ्गशुद्धदिवसे स्वोदयो तिथि वारयोः ।
गुरुशुक्रोदये शुद्ध लग्ने द्वादशशोधिते ॥
चन्द्रतारानुकूले च शस्यते सर्वकर्मसु ।
सूर्यग्रहणकालेन समानो नास्ति कश्चन ॥
यत्र यद्यत्कृतं सर्वमनन्त फलदं भवेत् ।
न ग्रास तिथिवाराणां शोधनं सूर्य पर्वणि ॥
ददातीष्टं गृहं यत्तत्तस्मिन्काले मुनीश्वर ।
सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः ॥
अतस्तत्रैव रामस्य मन्त्रतीर्थाभिषेचनम् ।
कर्तव्यं सर्वयत्नेन मन्त्रसिद्धिमभीप्सुभिः ॥
चतुर्भिर्वर्णकैः सम्यक् नीलपीतसितासितैः ।
पूर्ववन्मण्डलं कृत्वा तत्र धान्याञ्जलि द्वयम् ॥
निधाय कलशं तत्र तीर्थतोय सुपूरितम् ।
नालिकेलिफिलोपेतं मङ्गलैः परितो ज्वलत् ॥
सर्वोत्सवसमायुक्तं कृत्वा तत्रार्चयेद्धरिम् ।
ऋग्यजुः सामसूक्तैश्च स्मार्तै पौराणिकैरपि ॥
मन्त्रैरागमिकश्चैव वैष्णवैर्देवमर्चयेत् ।
वरयेद्ब्राह्मणानुवासः कुण्डलाङ्गुलिभूषणैः ॥
श्रावयैतैस्स्वसूक्तेन मन्त्रान् विष्णोत्सवै मुने ।
गुरुः पूर्वोक्तविधिना भूतशुद्ध्या यथाचरेत् ॥
न्यासजालं प्रविन्यस्य पूजयेत् तत्र पूर्ववत् ।
पूजनीयश्च पूर्वोक्त साधनैः पुरुषोत्तमम् ॥
गन्धपुष्पांवुताम्बूलं सद्वासीभूषणादिकम् ।
भोजनं चान पानीयैरन्येभ्योपि तपोनिधे ॥
एवं तत्रोत्सवं कृत्वा रात्रौ जागरणं चरेत् ।
एवं दिवा च रात्रौ च त्रिकालं पूजयेत् प्रभुम् ॥
षट्सहस्रं जपेत् तत्र पूजान्तेहर्निशं मुने ।
परेहनि तथा प्रातः पूर्वत्सर्वमाचरेत् ॥
सम्पूज्यविधिद्राममग्निकार्यं यथाचरेत् ।
पूर्ववत्कुण्डमुख्याय कुर्यात् तत्रापि मण्डलम् ॥
तत्राप्यग्निं समाधाय रामं तत्रार्चयेत् प्रभुम् ।
प्। २३ब्) साङ्गावरणमावाह्य पूर्ववच्च यथाविधि ॥
तदग्निस्थापनाद्यं च सर्वं पूर्ववदाचरेत् ।
दधिदुग्धाज्य संयुक्तैर्दशांशं जुहुयात्तिलै ॥
हुत्वा पूर्णाहुतिं कृत्वा तत्रस्थं कुम्भमर्चयेत् ।
ततो दिक्षु बलिं कृत्वा कृतमेतत्समाचरेत् ॥
ततः शिष्यमुपानीय भक्तिनम्रमकल्मषम् ।
प्राणनायस्य विधिवद्भूतशुद्धिं विधाय च ॥
सुरास्तामिति मन्त्रेण बहुभिर्ब्राह्मणैः सह ।
अभिषिञ्चेच्च तत्मुर्द्ध्नि तदेतत्कलशोद ॥
नारायणः स्वयं रामः शिष्ये सन्निदधीतवै ।
सर्वतः सर्वगोप्यस्ति प्रसीदति दयानिधिः ॥
इति संस्कृत्य सम्मृत्य तज्जलैरभिषेचयेत् ।
परिधाय च वासांसि चन्दनादि विलिप्य च ॥
कुण्डल्यान्यङ्गुरीयं च धारयित्वा न्यसेत् ततः ।
वैष्णवीं मातृकां चैव तत्वन्यासं तथैव च ॥
तन्मूर्तिपञ्जरं न्यास मृष्यादि न्यासमेव च ।
पूर्ववद्विधिवच्छिष्य तनावेव प्रविन्यसेत् ॥
ततस्तच्छिरसि स्वस्य हस्तं दत्वा शतं जपेत् ।
अष्टोत्तरशतं मन्त्रो दद्यादुदक पूर्वकम् ॥
प्रयत्नेन वदस्तस्मै शिष्याय मुनिपुङ्गव ।
स्वतो ज्योतिर्मयीं विद्यां गच्छन्ती भावयेद्गुरुः ॥
आगतां भावयेच्छिष्यो धन्योस्मीति विशेषतः ।
कृतकृत्यस्ततः शिष्यस्तस्मै सर्वं निवेदयेत् ॥
यच्च यावच्च यद्भक्त्या गुरवे हृष्टचेतनः ।
गो भू हिरण्यविपिन गृहक्षेत्रादिकं मुने ॥
न चेदर्द्धं तदर्धं वा दशांशमथवापि वा ।
अक्लेशादन्न वस्त्रादि दद्याद्वित्तानुसारतः ॥
प्रकारान्तरमालम्ब्य गुरुं यत्नेन तोषयेत् ।
गुरुपुत्रकलत्रादींस्तोषयेद्बहुभिः स्वयम् ॥
अर्हणादिश्च बहुभिर्भक्त्याछादन भूषणैः ।
एवमुक्तप्रकारेण गुरवे दत्त दक्षिणाः ॥
कृतकृत्यं तथात्मानं * * विप्रांश्च भोजयेत् ।
तेभ्योपि दक्षिणां दत्त्वा सर्वतत्परितोषयेत् ॥
ब्राह्मणीर्वचोभिश्च गुर्वाशीर्भिः समेधितः ।
विसर्जयेच्च गुर्वादीन् स्ततो भुञ्जीत मन्त्रवित् ॥
एवं लब्धमनुर्विप्नः कृतार्थस्यान्न संशयः ।
प्। २४अ) तदाति सन्ध्यां कुर्वीत नियतो गुर्वनुज्ञया ॥
सायं प्रातश्च मध्याह्ने रामं ध्यात्वा मनुं जपेत् ।
जलं मन्त्रेण संशोध्य कवचेनांवगुण्ठ्य च ॥
चक्री कृत्य जले सम्यक् दर्भमूलेन मन्त्रवित् ।
आवहनादि मुद्राभिस्तीर्थमावाह्य पूजयेत् ॥
ब्रह्माण्डोदर तीर्थानि करैः सृष्टानि तेरवेः ।
तेन सत्येन मे देव तीर्थं देहि दिवाकरः ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरी जलेस्मिन्सन्निधिं कुरु ॥
एवं चाराध्यमावाह्य विधिवत्तज्जलं मुने ।
आदायाञ्जलिना सम्यक् जपेन् मालामनुं सकृत् ॥
जलं दक्षिण हस्तस्थं सव्यहस्ते विनिःक्षिपेत् ।
ततो रामोहमस्मीति गायत्रीं नियतो जपेत् ॥
जन्मप्रभृति यत्पापं दशभिर्वापि सञ्चितम् ।
पुराकृतं स तेनापि सहस्रेण जपेन वा ॥
वदेद्दशरथायेति विद्महेति पदं ततः ।
सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥
धीमहित्यपि तन्नौ च रामश्चापि प्रचोदयात् ।
एषा स्याद्राम गायत्री भुक्ति मुक्ति प्रदायिनी ॥
पुरश्चरणमस्यास्ति चतुर्लक्ष जपावधि ।
यच्च यावच्च पूजादि सर्वं पूर्ववदाचरेत् ॥
ओमादिरेषा गायत्री मुक्तिमेव प्रयछति ।
मायादिरपि वैदुष्यं रमादिश्च श्रियं मुने ॥
मदनेनापि संयुक्ता सम्मोहयति मेदिनीम् ।
अनयाराधितो रामः सर्वाभीष्टं प्रयच्छति ॥
तर्पयेच्च ततो मूल मन्त्रोश्चारण पूर्वकम् ।
स्तुवंश्च प्रणमन् रामयया शक्त्या मुनीश्वर ॥
कृत्वैवं प्रत्यहं सम्यक् त्रिसन्ध्यं च यथाविधिः ।
कृतकृत्यो भवेन्मन्त्री सत्यं सत्यं च नान्यथा ॥ ६२ ॥
इत्यगस्त्यसंहितायां सप्तदशोध्यायः ॥ १७ ॥