१६

अगस्त्य उवाच

अथ वक्ष्ये विधानानि पौरश्चरणिके विधौ ।
विनायेन न सिद्धिस्यात् मन्त्रो वर्षशतैरपि ॥

भक्तिश्रद्देष्टदानादिराप्तोसि प्रसादितात् ।
गुरोमन्त्रवरं लब्धा सर्वाभीष्टप्रदंवधः ॥

पूर्ववत् पूजयेन्नित्यं जपेच्च नियतव्रतः ।
षट्सहस्रं सहस्रं वा शतमष्टोत्तरं शुचिः ॥

एवमाराधितो रामो यदा भक्तिः प्रबोधयेत् ।
पुरश्चरण कृत्याय पूर्वसेवा विधीयते ॥

यथाशक्ति नियम्यान्त बहिरात्मानुमात्मवित् ।
पुरश्चरणवत् सर्वं कुर्याद्धोमं विहाय तत् ॥

ततः सङ्कल्प कुर्वित पुरश्चरणमादरात् ।
चिरं निरन्तरेणैवन्नियतात्मा दृढव्रतः ॥

शैलाग्रे जलमध्ये वा नीरे वा लवणं बुधेः ।
नदीतीरश्वत्थमूले रम्ये बिल्ववनान्तरे ॥

प्रत्यम्मुख शिवस्थाने वृषभादि विवर्जिते ।
अश्वत्थ बिल्व तुलसीवने पुष्पान्तरावृते ॥

गवाङ्गोष्टेषु तीर्थेषु पुण्यक्षेत्रेषु शस्यते ।
वैदिकाचार युक्तानां शुचीनां श्रीमतां सताम् ॥

सत्कुलस्थान जातानां भिक्षाशी चाग्रजन्मनाम् ।
भुञ्जानो वाहविष्पात्तं शाकयावकमेव वा ॥

फलं मूलं पयो वापि यद्यत्रोपपद्यते ।
प्। २१ब्) उपस्तीर्याभिधीर्यैतत्संस्कृत्य प्रोक्षणादिभिः ॥

पावयैर्वैदिकैर्मन्त्रैः पुनर्मन्त्रेण मन्त्रवित् ।
नित्यं नैमित्तिकं यत् कुर्वीतै वा श्रमोर्चितम् ॥

वर्जयेत् काम्य कर्माणि स्वाश्रमाविहितं च यत् ।
लवणं चपलं चैव क्षारं क्षौद्रं रसान्तरम् ॥

माषमुद्गमसुराद्यान्को द्रवांश्चणकानपि ।
असम्भाषणमन्योन्यं वर्जयेदन्यपूजनम् ॥

तदेव कर्म कुर्वीतस्तन्मनास्तत्परायणः ।
अधः शयानः शुद्धात्मा जितक्रोधो जितेन्द्रियः ॥

असत्यभाषणं जिह्म भाषणं परिवर्जयेत् ।
सभ्यैरपि न भाषेत जपहोमार्चनादिषु ॥

यदि भाषेत तत्काले सभ्यैः प्रस्तुत साधकः ।
अन्यथा तुष्टितं सर्वं भवत्येव निरर्थकम् ॥

वाम्मनः कर्मभिश्चैव निस्पृहो वनितादिषु ।
वर्जयेद्गीतकाम्यादि दर्शनं श्रवणं तथा ॥

ताम्बूलगन्धलेपं च पुष्पधारणमेव च ।
मैथुनं तत्कथालापं तद्गोष्टीरपि वर्जयेत् ॥

कौटिल्यक्षीरमभ्यङ्गमनिवेदित भोजनम् ।
असङ्कल्पित कृत्यं च वर्जयेन् मर्दनादिकम् ॥

त्यजेदुष्णादक स्नानं सुगन्धा मलकादिकम् ।
शिरोगं पञ्चगव्येन पावयेद्बहिरन्तरम् ॥

स्नायाश्च पञ्चगव्येन केवलामलकेन वा ।
श्रुतिस्मृति पुराणोक्त मन्त्रैः स्नायादनन्तरम् ॥

अनुतिष्टेदनुष्टेयं शुचि व्रततमो निशम् ।
सितं हैमन्तिकं चैव शाल्पन्नं स्वीयसम्भृतम् ॥

अशूद्रावहतं पद्भ्यां मनुक्तोभ्यहतं च यत् ।
दधिक्षीरघृतं चैव पेक्षवं गुडवर्जितम् ॥

तिलाश्चैव सिताः मुद्गाः कन्दः केमुक वर्जितः ।
नारिकेर फलं चैव कदलीलवली तथा ॥

आम्रमामलकं चैव पनसाद्रहरीतकी ।
व्रतान्तर प्रशस्तं च हविष्यं मन्यते बुधैः ॥

अवैष्णवमसभ्यं च न प्रशस्ते व्रतान्तरे ।
त्याज्यमेवात्र तत्सर्वं यदीछेत्सिद्धिमात्मनः ॥

क्षमा हींसा दयाशीले गृहीत स्थिर निश्चयः ।
प्। २२अ) यदैतद्वैष्णवं कर्म स्थिरधीः कर्तुमा स्थितः ॥

जपेच्च नियतो नित्यं त्रिकालं पुरुषोत्तमम् ।
अर्चयेन्मन्त्रमव्यग्रो जीवत् षट्लक्षमादितः ॥

तर्पयेच्च विधानेन दशांशं शुद्ध चारिणा ।
पुष्पाक्षतादि युक्तेन जले सम्पूज्य पूर्ववत् ॥

ततो बिल्वफलैः पुष्पैः पत्रैरपि हुतासने ।
राममावाह्य चाराध्य पूर्ववज्जुहुयात् स्वयम् ॥

मधुरत्रययुक्तं च पत्रैर्वा पायसेन वा ।
तिलैर्वान्य तमैरेषां ब्राह्मणान् भोजयेत् ततः ॥

पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मण भुक्तिश्च पुरुश्चरणमुच्यते ॥

गुरोर्लब्धस्य मन्त्रस्य प्रसन्ना च यथाविधि ।
पञ्चाङ्गोपासनं सिद्धेः पुरश्चैतद्विधीयते ॥

निष्कामानामनेनैव साक्षात्कारो भवेदपि ।
अर्थसिद्धिः सकामानां सर्वं तन्निष्फलं भवेत् ॥

पञ्चाङ्गमेतत्कुर्वीत यः पुरश्चरणं बुधः ।
सर्वै विजयते लोके विद्यैश्वर्य सुतादिभिः ॥

दाताभोक्तावरिष्टोयं जायते जातिषु स्वयम् ।
व्याख्याता श्रुतशास्त्रस्य श्रुतानामपि भूतले ॥

चिरायुर्भाग्यवान्पुत्र पौत्र सौभाग्यवान्सुधीः ।
विधानमयमेवस्याद्धर्मस्य यशसः श्रियः ॥

यदिछन्ति लभेत्तत्तन्मनसापि तपोधन ।
असाध्यमपि देवानां द्वीपान्तर गतं च यत् ॥

पञ्चाङ्गोपासनं कृत्वा यद्यदिष्टं तदाप्नुयात् ।
आदावन्ते च मध्ये च ब्राह्मणान् बहुभोजयेत् ॥

दिने दिने यथाशक्त्या राममुद्दिश्य भक्तितः ।
पञ्चागोपासनं भक्त्या पुरश्चरणमुच्यते ॥

एतद्विदुषां श्रेष्ट संसारो छेदकारणम् ।
नानेन सदृशो धर्मो नानेन सदृशं तपः ॥

नानेन सदृशं किञ्चिदिष्टार्थस्य तपोधन ।
यदि होमेत शक्तिश्च पूजायां तर्पणेपि वा ॥

तावत्सङ्ख्यजपेनैव ब्राह्मणाराधनेन च ।
प्। २२ब्) भवेदंशद्वयेनैव पुरश्चरणमार्य्यवैः ॥

यद्यदङ्गंविहीये तत्तत्सङ्ख्या द्विगुणो जपः ।
कर्तव्यसाङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ॥

न चेदङ्गं विहीयेत ततो वेष्टमवाप्नुयात् ।
अङ्गहीनं भवेद्यद्यत्कर्मनेष्टार्थसाधकम् ॥

सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ।
विप्राराधनमात्रेण व्यङ्गं साङ्गत्वमाप्नुयात् ॥

न्यूतानिरिक्तकर्माणि न फलन्ति मनोरथान् ।
पूजये युश्चतेनैव समस्तानि फलन्ति च ॥

अतो यत्नेन विदुषो भोजयेत् कर्म सर्वसु ।
यानि यान्यपि कर्माणि हीयन्ते द्विजभोजनैः ॥

निरर्थकानि तानि स्युः पृथ्व्यां बीजाङ्कुराणि च ।
तस्यैव स्तुति लक्षेषु शस्यते बहिरर्चनम् ॥

रामराधनको मन्त्रस्स ध्यान जप उत्तमः ।
मन्त्रार्थलोचनामोयं स्वयमेवेष्टसाधकः ॥

योर्चयद्विपुषो नित्यं रामं तेष्वेव चिन्तयेत् ।
इह भुक्तिश्च मुक्तिश्च भवेत् तस्य न संशयः ॥ ५१ ॥

इति श्री अगस्तिसंहितायां षोडशोध्यायः ॥ १६ ॥