१५

अगस्त्य उवाच

अथ प्रयोगं वक्ष्यां च चतुर्णामिष्टदं मुने ।
मन्द भाग्योपि यै नष्ट्वा वाञ्छितं लभते फलम् ॥

विधाय विधिवत् सम्यगाग्निभागेन्न मुक्तिवत् ।
ततस्तदेवमावाह्य पूजयेदुपचारकैः ॥

पञ्चभिर्वा षोडशभिः पूजोपकरणैः पृथक् ।
पालाशाश्वत्थ खदिरो दुम्बराश्च वटे धनैः ॥

अग्निं प्रज्वालयेत् सम्यग्याज्ञकैवापवेधनैः ।
तत्रैव पूजयेत् सम्यग् लक्षं जुहुयापि राघवम् ॥

लक्षं तदर्धमथवा जपित्वा तद्दशांशतः ।
तिलैर्वा कमलैर्हुत्वा यद्यदिष्टं समश्नुते ॥

बिल्वप्रसूनैरैश्वर्य मर्चितेग्नौ हुते भवेत् ।
पालाशकुसुमैर्हुत्वा मेधावी देवविद्भवेत् ॥

दूर्वाभिश्च गुडूचीभिः प्रत्येकमपि चाक्षतैः ।
निरामयोपि दीर्घायुर्भवत्येव तपोधन ॥

सम्यक् चन्दनतोयेन प्रत्युग्रश्च समुक्षितैः ।
जाजीप्रसूनैर्हुत्वा तु राजानं वशमानयेत् ॥

ध्यात्वा तु मन्मयं रामं सीतां चापि रतिं स्मरेत् ।
सर्ववश्य प्रयोगेषु जपहोमादि कर्मसु ॥

रामं नरोपयन्तारं स्मरेदाराध्य भक्तितः ।
उपैति सदृशीं कन्यां लाजा होमेन साधकः ॥

वाञ्छितं धनमाप्नोति हुत्वा रक्तोत्पलैर्नवैः ।
प्। १९ब्) हुत्वा नीलोत्पलैः सम्यक् वशयेदखिलं जगत् ॥

रामं विधिवदाराजन् ज्वलितोग्नौ प्रयोगवित् ।
मधुरत्र प्रयुक्तेन पायसेन गुडेतुतः ॥

सर्वाधिपत्यं वैदुष्यं भवत्येव न संशयः ।
तिलैश्च तण्डुलै राज्यै हुत्वा लोकस्य राजताम् ॥

अरात्संवत्सरं यावत् षड्सहस्रं दिने दिने ।
जपे * जुहुयादग्नौ दशांसं च घृतान्धसाम् ॥

अयमेवानदोलोके सर्वेषामेव जायते ।
बिल्वैः प्रसूनै कुसुमै तथा बिल्वफलैरपि ॥

हुत्वा सलभते लक्ष्मीमचिरान् मन्त्रसाधकः ।
आराध्य रामचन्द्राशु मण्डले वत्सरे मुने ॥

उदयादस्तमानान्तं जपेन् मन्त्रमनन्यधीः ।
फलं भवति तस्याशु देवानामपि दुर्लभम् ॥

वैदुःखेनाधिपत्येन सभ्यानामुत्तमो भवेत् ।
पूर्णिमासुनिशीथिस्यामुदयास्त मनं व्रतम् ॥

संवत्सरं प्रकुर्वीत जपहोमादिकं विभोः ।
रात्रौ जपेद्दिवा होमं कुर्यादेवापरेहनि ॥

ब्राह्मणान्भोजयित्वा तु व्रतमेतत्समापयेत् ।
सोमसूर्यात्मकं यस्तु व्रतं कुर्वीत मानवः ॥

इह भुक्तिं मुक्तिं च लभते नात्र संशयः ।
रत्नपद्मैश्च बन्धूकैः तथा रत्नोत्पलैरपि ॥

अभीष्टलोकवश्यार्थी जुहुयादर्चिते नले ।
राज्यैश्वर्योपभोगार्थि गिरौश्वक्ष्यमनन्यधीः ॥

पद्मैः बिल्व प्रसूनैर्वा दशांसं जुहुयान्मुने ।
समुद्रतीरे गोष्टे वा लक्षजापी भवेन्नरः ॥

पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ।
परिक्षीणाधिपत्योयः शाकाहारे जलान्तरे ॥

प्। २०अ) जपेल्लक्षं च जुहुयाद्बिल्वपत्रैर्दशांसतः ।
तदेव पुनरायाति स्वाधिपत्यं न संशयः ॥

उपोष्य गङ्गादि जलान्तरस्थो
रामं समाराध्य जपेच्च लक्षम् ।
हुत्वा दशांसं कमलैस्तिलैवी
बिल्वप्रसूनैः मधुरत्रयाक्तैः ॥

राज्यः श्रियं विन्दति मन्दभाग्यो
प्यमुख्यदास्यं परवाञ्छितं स्यात् ।

राममाराध्य विधिवदर्चितेग्नौ जपेदपि ।
सूर्यबिम्बोपि तोयस्थे जुहुयादिक्षु दण्डकैः ॥

राज्यलक्ष्मीमवाप्नोति शरत्काले तपोधन ।
वैशाखे राघवं सूर्ये पश्यन्न निषेक्षणः ॥

निराहारो जपेल्लक्षं मौनी पञ्चाग्निमध्यतः ।
दशांशं कमलैर्हुत्वा सार्वभौमो भवोध्रुवम् ॥

माघमासे जले स्थित्वा कन्दमूल फलाशनः ।
जपेल्लक्षं च जुहुयात् पायसेनार्चिते नले ॥

दशांशं पुत्रपौत्राप्त्यै तच्छेषं प्राशयेत् स्तिर्यम् ।
श्रीरामसदृशः पुत्रः पौत्रोप्यस्य प्रजायते ॥

बलिष्टैः शत्रुभिर्मन्त्री पारिभूतोवमानितः ।
तदाहनहनेत्युक्त्वा नामान्ते वैरिणो भवेत् ॥

ध्यात्वा रघुपतिं शुद्धं कालानलमिवापरम् ।
आकर्णसशराकृष्ट कोदण्डभुजमण्डलम् ॥

रणाङ्गणे रिपून्सर्वान्तीक्ष्णमार्गेण वृष्टिभिः ।
संहरन्तं महावीर सेन्द्ररथ्यै व्यवस्थितम् ॥

लक्ष्मणादि महावीरैर्युतं मदादिभिः ।
कोटि कोटि महावीरैः शैलवृक्षकरोद्धृतैः ॥

वेगात्कराल हुङ्कार भो भो कार महारवैः ।
नदद्भिरभिधावद्भिः समरे रावणं प्रतिः ॥

एवं ध्यात्वा निराहारो मारणाय रिपो पुनः ।
जुहुयाच्छाल्मली पुष्पैर्दशांसं साधकोत्तमः ॥

प्। २०ब्) ऐश्वर्येण समृद्धोपि न शत्रुरवशिष्यते ।
वैरिणं रावणं ध्यात्वा तथात्मानं रघूद्वहम् ॥

विधाय पूर्ववत् सर्वमनायासेन मारयेत् ।
येनैव संसृतः कोपात् सयात्येवयमालयम् ॥

सीताहरणशोकाद्धि सुसम्भूतमचेतनम् ।
जपेद्रघुपतिं ध्यायन् जलाहारो जले वसन् ॥

दशांशतस्तिलैर्होमस्तम्भये छत्रु संहतिम् ।
निधाय वायुबीजान्ते तन्नामभ्रामयेति च ॥

जपेल्लक्षं निराहारो जुहुयाच्च तिलैरपि ।
रामं ध्यात्वा विषण्णं च सीतान्वेषण तत्परम् ॥

भ्रामयेत्पचिरं साक्षाद्धेमाद्रिमपि वैरिणम् ।
समुद्रतीरे लङ्कायां हेमप्राकारसन्निधौ ॥

सुग्रीवादिभिरन्यैश्च देवैर्जीव वदादिभिः ।
उपास्यमानं सदसि ध्यात्वा राम सलक्ष्मणम् ॥

विभीषणाय चायात्रे प्रसन्नं शरणार्थिनम् ।
वरदत्तं जपेल्लक्षं जुहुयात्पङ्कजैरपि ॥

स्वस्थान मानयेच्छीघ्रं राजानमथवा प्रभुम् ।
निमील्य चक्षुषी स्नेहादुपलभ्य पुनः पुनः ॥

प्रमोदयन्तं सहसा विनोद मैथिली प्रियम् ।
रामं ध्यात्वा जपेल्लक्षं हुत्वा रक्ताम्बुजैरपि ॥

सम्मोहयति वेगेन राजानमथवा प्रभुम् ।
निमील्य चक्षुषी स्नेहादुपलभ्य पुनः पुनः ॥

सुतीक्ष्णमनिर्वय्यात्र षट्प्रयोगे प्रदर्शनम् ।
सर्वाभीष्टार्थ तत्त्वस्य द्योतनाय मुनेः पुनः ॥

नेव कर्तव्यमित्येव मुक्तिर्दूरतरायतः ।
किं च प्रयोगवन्नृणां परलोको न विद्यते ॥

प्रयोग * सिरे तेषां फलं नान्यद्भविष्यति ।
निःकामानां च लोकानां जपहोमार्चनादिभिः ॥

प्। २१अ) मुक्तिरेव फलं तेषामिह किञ्चिन्न विद्यते ।
एकैकस्य विधानस्य न कुत्रापि फलद्वयम् ॥

सुतीक्ष्णदृश्यते तस्मान्निष्कामो राममर्चयेत् ।
विद्वन्ब्रह्मासुमादाय शशादौन विमोचयेत् ॥

नायं मुक्ति प्रदो मन्त्रो मारणादौ प्रयोज्यताम् ॥

इति श्री अगस्तिसंहितायां पञ्चदशोध्यायः ॥ १५ ॥