अगस्त्य उवाच
विधिवत्संस्कृतेप्यग्नौ देवमावाह्य पूजयेत् ।
पूर्वोक्तेनैव विधिना साङ्गावरण वाहनम् ॥
विधिं तस्य प्रवक्ष्यामि ये नेष्टं साध्यते फलम् ।
विहितं येन तिष्टन्तित एव फलभाजनाः ॥
सर्वेषामीप्सितानां च अन्यथा चेत्तथा न हि ।
न्यायार्जितैः साधनैश्च दानहोमार्चनादिकम् ॥
कुर्यामचेदधो याति भक्त्या कुर्वन्नपि द्विजः ।
भूमिस्थानं समीकृत्य षट्चतुष्काङ्गुलान्तरम् ॥
तावत्तु निषनेदन्त चतुष्कोणं तथात्ततः ।
दिशि दिश्यन्तर चैव पार्श्वस्थल चतुष्टयम् ॥
एवं सलक्षणं कृत्वा वहिः कुर्याच्च मेखलाम् ।
द्वादशाष्ट चतुर्मानां स्वाङ्गुलैश्च क्रमात्मने ॥
एवमुत्सेधमायाम चतुरङ्गुलमेव तत् ।
आयामोत्सेधरूपेण चतुष्काधिक्यतः क्रमात् ॥
चतुष्क त्रितयं कुर्यादेवं स्यान्मेखला क्रमः ।
कुण्डस्य पश्चिमे भागे योनिं कुर्यात् सलक्षणम् ॥
अश्वत्थपत्रसदृशीं कुण्डे किञ्चित्प्रतिष्टिताम् ।
षट्चतुव्यङ्गुला सा च क्रमात्तिप्ता भवेत् पुनः ॥
विस्तारेणापि सायोनिर्भवत्येवं दशाङ्गुला ।
मूलं नालं तथाग्रं च व्युत्क्रमात् षट्चतुस्त्रिकम् ॥
तन्मानाङ्गुलिमानं स्यात्तदेतत्कुण्डलक्षणम् ।
एकहस्तस्य कुण्डस्य प्रकारोयं प्रदर्शितः ॥
द्विहस्तकुण्डमप्येवं द्विगुणीकृत्य मेखलाम् ।
नाभिरप्यथवा कुण्डमेकमेखलकं भवेत् ॥
सङ्क्षेपकर्मसु तथा वर्तुलस्यापि लक्षणम् ।
चतुष्कोणैक हस्तस्य मध्ये कुण्डललाञ्छनम् ॥
समन्निधाय सूत्रेण भ्रामयेदभितो मुने ।
प्। १७ब्) कोणेषु यद्वाप्यधिकं तद्विक्ष्वेव विनिर्दिशेत् ॥
इदं तु वर्तुलं कुण्डं ततः स्यादर्द्धचन्द्रकम् ।
दिशि चोत्तरतः कुण्ड पाणिभागार्द्धभागतः ॥
बहिरैन्द्र्याश्च वारुण्या यत्नामध्ये तु लाञ्छयेत् ।
संस्थाप्य भ्रामयेदेतदर्द्धचन्द्रं शुभप्रदम् ॥
मेखला स्वष्टपत्राणि वर्तुलस्य तपो निधे ।
पद्माकारं भवेदेतत् कुण्डं सर्वफलप्रदम् ॥
शतहोमे रत्निमात्रे तदर्द्धं मुष्टिसम्मितम् ।
सहस्रेप्ययुतेप्यर्द्ध लक्षे लक्षेपि च क्रमात् ॥
पञ्चपञ्चाङ्गुलाधिक्याद्वर्द्धते रत्नि मात्रतः ।
कुण्डं च कोटि होमेपि तदर्द्धेपि कषाष्टकम् ॥
मुष्ट्यरत्नि मिते तच्च दश द्वादशषोडश ।
तत्क्रमेणां कुलीनां च प्रथमामेखला भवेत् ॥
द्वितीये च तृतीये च त्र्यंशे त्र्यंशे विनिर्दिशेत् ।
सर्वेषामपि कुण्डानामङ्गुलिद्वय वृद्धिजः ॥
प्रथमामेखलाकार्या त्र्यंशेप्यन्या तु पूर्ववत् ।
कण्टोष्टं यवमात्रं स्यात् कुण्डे च करमात्रके ॥
कुण्डे षट् यवमात्रं स्यात् कण्ठो रत्नि प्रमाणके ।
तथा चतुर्यवैः कण्ठो मुष्टिमात्रे विनिर्दिशेत् ॥
सर्वेषामपि कुण्डानामङ्गुलिद्वय वृद्धितः ।
प्रथमामेखलाकार्या त्र्यंशेप्यन्या तु पूर्ववत् ॥
कण्ठोष्टं यवमात्रं स्यात् कण्ठो रत्नि प्रमाणके ।
तथा चतुर्य्यवैः कण्ठो मुष्टिमात्रे विनिर्दिशेत् ॥
सर्वेषु कुण्डमानेषु अङ्गुलिद्वय वृद्धितः ।
कण्ठो यत्नेन कर्तव्यो भुक्ति मुक्ति फलेप्सुभिः ॥
सात्त्विकी राजसी चैव तामसी च क्रमाद्भवेत् ।
प्रथमा च द्वितीया च तृतीया च क्रमाद्भवेत् ॥
प्रथमा च द्वितीया च तृतीया च क्रमाद्भवेत् ॥
योनुकुण्डानुसारेण कुर्यादाद्यन्त मध्यतः ।
उक्ताङ्गुलि प्रमाणेन द्विगुणं च चतुर्गुणम् ॥
होमसङ्ख्यान विधिना सर्वलक्षणलक्षितम् ।
प्। १८अ) स्रुवं बाहु प्रमाणेन होमार्थं विदधीत वै ॥
चतुरस्रं विदायादौ सप्तपञ्चाङ्गुल क्रमात् ।
तृतीयांशेन वर्तः स्यात् तदन्तर्वित्तसम्मितम् ॥
खात्वा समं तिर्यगूर्द्धं तदधः शोधयेद्बहिः ।
चतुर्थांशं चाङ्गुलस्य रेखात्वर्द्धं तदन्ततः ॥
रम्यां च मेखलात् तस्य शिष्टेनार्द्धेन कारयेत् ।
कुर्याद्विभागविस्तारामङ्गुलेन समावृताम् ॥
सार्द्धमङ्गुष्टकं वा स्यात्तदग्रं तु मुखं भवेत् ।
चतुरङ्गुल विस्तारं पञ्चाङ्गुलमथापि वा ॥
त्रितयाङ्गुलकं तस्य मध्यान्तं तु सुशोभनम् ।
शुषिरं कुम्भदेशे स्याद्विशेद्यावत्कनीयसी ॥
शेषं कुण्डं तु कर्तव्य यथा रुचि विचित्रिकम् ।
चतुःकोण समायुक्तो हस्तमात्रः सुचो भवेत् ॥
दुष्टकं शोभनं वृत्तं द्व्यङ्गुलं विदधीतवै ।
यथाल्पपङ्के गौः पादं रुचिरं दृश्यते यथा ॥
पलाशपत्रे निःक्षिद्रे रुचिरे स्रुक् स्रुवौ मुने ।
विदध्याद्वाशुत्थपत्रे सङ्क्षिप्ते होमकर्मणि ॥
ततः कुण्डस्थलं सम्यक् वायव्ये विदधीतवै ।
तत्राष्टपत्रकमलं वृत्त त्रय परिवृतम् ॥
सोमसूर्याग्नि बिम्बे तु तथा कुर्याद्विचक्षणः ।
चतुरस्रं बहिस्थाप्य षट्कोणं कर्णिकान्तरे ॥
पीतं पूर्वं सितं देयं पश्चिमेप्युत्तरं तथा ।
रक्तं तु दक्षिणे कृष्णं पाटलं वह्नि संस्थितम् ॥
नैनृते नीलवर्णं तु वायव्ये धूम्रवर्णकम् ।
एशैगौरं विनिर्दिष्टमष्टपत्रेष्वयं क्रमः ॥
शङ्खं चक्रं गदां पद्मं धनुर्बाणांश्च मण्डले ।
विलिखेद्वर्णकैः सम्यक् तत्र रामं समर्चयेत् ॥
कुण्डान्तरेप्येव मेव आराध्य जुहुयान्मुने ।
आदौ वह्नि मुखं कुर्यादुपविष्टः सुविष्टरे ॥
प्राणानायम्य मनसा जपेन्मन्त्रमनन्यधीः ।
यावन्मरुत्सञ्चरति सर्वाङ्गेष्वपि निश्चलः ॥
सङ्कल्प स्थण्डिले कुण्डे कृत्वा लेखाश्च मध्यतः ।
ऊर्द्धं तिर्यक् तिस्र एव वह्निमन्त्रादधीतवै ॥
प्रोक्ष्योपसार्यतत्पश्चाद्धृत्वा विष्टरमादरात् ।
प्। १८ब्) लक्ष्मीम् ऋतुमती तत्र प्रभोर्नारायणस्य च ॥
ग्राम्यधर्मेण सञ्जातमग्निं तत्र विचिन्तयेत् ।
प्रमथ्य विधिनैवाग्नि माहिताग्ने गृहादपि ॥
आनीय चादधीत्तत्र कुशैः प्रक्षाल यत्नतः ।
सम्प्रेक्ष्य याज्ञिकैः काष्टैः पुनः प्रक्षालयेदपि ॥
प्राणायामं ततः क्रुयात् परिस्तीर्य कुशाङ्करैः ।
स्वगृह्योक्त विधानेन वासुदेवादिभिर्मुने ॥
पात्राण्य साध्यविधिवद्विधामन्त्रेण तन्त्रवित् ।
तान्यवीक्ष पवित्रेण चोत्तानानि विधानि च ॥
पुनः प्रोक्षणयेत् पात्रं पवित्रे पूर्य शुभाम्बुना ।
दत्त्वाक्ष त्वान्यवित्रं च ततोन्य त्रिविधानि च ॥
दिश्युत्तरस्यां तत्पात्रं प्रणीतेत्युच्यते बुधैः ।
तत्रार्चयेत् प्रभुं विष्णुं ब्रह्माणं चार्कमर्चयेत् ॥
आज्य संस्कृत्य विधिवत् स्वसम्पन्नमिति ब्रुवन् ।
गर्भदानादिकं वह्ने विवाहं तं समाचरेत् ॥
अष्टावष्टौ च तरणे ह्येकैकस्य तु कर्मणः ।
जुहुयादर्चिते वह्नौ वौषडन्तं समाप्य च ॥
कर्मान्तरं समारभ्य तदन्ते च समापयेत् ।
एवमग्नौ स्वसम्पन्ने वैष्णवं जुह्वयात्चरुम् ॥
इध्माधानाद्यग्निमुखाऽज्य भागौ जुहुयात् पुनः ।
सङ्गावाहनमन्त्राग्नौ पूजयेद्रघुनन्दनम् ॥
समिदाज्यचराणां च प्रत्येक षोडशाहुतिः ।
जुहुयान् मूलमन्त्रेण परिवारेभ्य एव च ॥
तिस्रो विनायकादिभ्य सर्वेभ्योप्याहुतीर्मुने ।
द्वाराणा परिवारेभ्य सुरेभ्यो जुहुयात् पुनः ॥
हुत्वाज्येनाहुतिस्तत्र प्रदद्यात्तत्तदाप्तये ।
तत्तद्रव्यैश्च जुहुयात् प्रत्येकं च मनोहरम् ॥
द्वारपीठ सुरेभ्यश्च हुत्वादौ जुहुयात् ततः ।
अङ्गादि वैष्णवेभ्यश्च आज्याहुती पृथक् पृथक् ॥
ततः स्विष्टिकृतं हुत्वा घृतेन मुनिसत्तम ।
जलेन विधिना सम्यक् परिषिच्य समन्ततः ॥
प्रणीता मार्जनं कृत्वा दद्याच्च ब्रह्मदक्षिणाम् ।
स्वस्ववित्तानुसारेण लोभमोह विवर्जितः ॥
प्। १९अ) ततो ब्रह्माणमुद्वास्य ब्राह्मणान् भोजयेत् ततः ।
अग्निमध्यं गतं देवं पुनः स्वात्मनियोजयेत् ॥
एकीभूतं विचिन्त्यैव वाचयेत् स्वस्ति वाचनम् ।
आशीर्वचोभिर्विदुषा मध्यमानः सुखी भवेत् ॥
हुत शेषं ततः प्राश्य कुक्कुटाण्ड प्रमाणकम् ।
मन्त्रिवाम गायत्र्या ततः तस्यै बलिं हरेत् ॥
सन्निधावपि देवस्य बाह्यान्तर्दिक्षु चान्धसा ।
नित्ये नैमित्तिके काम्येप्येतदग्नि मुखं स्मृतम् ॥
सर्वत्राभ्युदयन् श्राद्धमङ्कुरारोपणं तथा ।
आदावेव प्रकुर्वीत कर्मणोभ्युदयार्थतः ॥
इति श्री अगस्तिसंहितायां चतुर्दशोध्यायः ॥ १४ ॥