१३

अगस्त्य उवाच

सुतीक्ष्णपात्राण्यासाद्य ततः पूजार्थमादरात् ।
शङ्खमस्त्रेण संशोध्य सदाधारे निधाय च ॥

पूजयेदग्नि सूर्येदुं बीजैस्तत्त्वफलान्वितैः ।
तत्तत्कलानां सङ्ख्याभिर्दशद्वादश षोडशः ॥

आधारशङ्खतीर्थेषु तत्तदात्मानमर्चयेत् ।
तीर्थावाहन मन्त्रैश्च तीर्थान्या बाह्य पूजयेत् ॥

गन्धपुष्पाक्षतैर्धूपैर्दीपाद्यैरपि भक्तितः ।
शङ्खमुद्रां च मुद्रां च गारुडाख्यां प्रदर्शयेत् ॥

परमीकृत्य यत्नेत पावनं तद्विचिन्तयेत् ।
देवस्य मुर्ध्नि तत्सिञ्चेत्पूजाद्रव्येषु चात्मनः ॥

अवेक्षणं प्रोक्षणं च वीक्षणं ताडनं तथा ।
अर्चनं चैव सर्वेषां पावनत्वं प्रकल्पयेत् ॥

पूतमेवाखिलं पूजायोगोयं भवति साधनम् ।
अर्चपात्रे प्रदानार्थं मधुपर्कार्थमप्यथ ॥

तथैवाचमनार्थं च न्यसेत्पात्रचतुष्टयम् ।
आत्मनः पुरतः शङ्खं पूर्वतः साधयेत् ततः ॥

अर्घपात्रे पाद्यपात्रे सम्पूज्य सलिलं शुभम् ।
तत्रार्घ पात्रे दातव्याः गन्धपुष्पाक्षतायवः ॥

कुशाग्रतिलपूर्वाश्च सर्षपाश्चार्थसिद्धये ।
पाद्यपात्रेपि दातव्यं श्यामाकं दूर्वमेव च ॥

प्। १६अ) अब्जं च विष्णुक्रान्तां च पाद्यसिद्ध्यै प्रयोजयेत् ।
तथा चमनमात्रेपि दद्याज्जातीफलं मुने ॥

लवङ्गमपि कक्कोलं शस्तमाचमनीयकम् ।
दध्ना च मधुसर्पिभ्यां मधुपर्क्को भविष्यति ॥

स्नानपुरुषसूक्तेन शुद्धशङ्खोदकेन च ।
क्षीरदध्याज्य मधुभिः खण्डेन च पृथक् पृथक् ॥

नालिकेरोदकेनापि तथा तालफलाम्बुना ।
गन्धद्रव्यैश्च बहुभिस्तथा गन्धोदकेन च ॥

ऐक्षवेनोदकेनापि सुकर्पूरादि गन्धिता ।
शतं सहस्रमयुतं शक्त्यावाप्यभिषेचयेत् ॥

शङ्खं सम्पूर्यतेनैव सुपुष्पेण रघूत्तमम् ।
सकृष्णा गुरुधूपेन धूपयन्नन्तरान्तरा ॥

ततः शुद्धजलेनैव स्नापयेतमनन्यधीः ।
राज्यार्थे राज्यसिद्ध्यर्थं नित्यं वत्सरमादरात् ॥

एवमेवभिषेच्यैव राजा भवति नान्यथा ।
दत्त्वाप्याचमनीयं च वाससी परिधापयेत् ॥

ततो भूषणदानं च सोत्तरीयेन वाससा ।
यज्ञोपवीतं दत्त्वा च दद्याच्चन्दनमादरात् ॥

पुष्पाणि गन्धमाल्यानि विविधानि समर्पयेत् ।
धूपं दीपं च नैवेद्यं ताम्बूलं च प्रदक्षिणम् ॥

नमस्कारं च पूजायाम् उपचारास्तु षोडश ।
आवाहनादिका ह्येते तथैकादशपञ्च च ॥

भवन्त्यैः वोपचारैस्तैः पूजां कुर्यादहर्निशम् ।
वाद्यैरपि च गन्धाद्यैः शक्त्या भक्त्यापकल्पितैः ॥

द्वारपीठामरामादावभ्यर्च्यैवं पुरस्ततः ।
राममाराध्य विधिना सर्वैरप्युपचारकैः ॥

अर्च्याङ्गा वरणादेवाः सम्पूज्यान्यायुधानि च ।
एवं सम्यक्समाराध्य साङ्गावरण वाहनम् ॥

स्तोतव्यमति यत्नेन राम सम्यक् प्रणम्य च ।
यन्त्रस्या अपि मन्त्रैश्च सम्यक् पूज्या प्रयत्नतः ॥

एवमेव यजेदग्नौ होमादावपि राघवम् ।
तर्पणादावपि जलेप्येवमाराध्य तर्पयेत् ॥

शालग्रामशिलायां च तुलसी तुलसीदल कल्पिता ।
प्। १६ब्) पूजा श्रीरामचन्द्रस्य कोटि कोटि गुणाधिका ॥

प्रतिमायां च * * * भूमावग्नौ विवस्वनि ।
जले वा हृदये वापि विधायद्रह * * * ॥

कीले चैपोपचाराणां पूजयेत् तुलसीदलैः ।
घण्टां च वादयेद्दयाद्देवायाचमनीयकम् ॥

मध्ये मध्ये च तत्तच्च नत्वा नत्वा समर्पयेत् ।
मुकुलैः पतितश्चैव षण्डितैश्शोणितैरपि ॥

अनर्हैरपि पुष्पैश्च दलैः पत्रै च नार्चयेत् ।
येन केनाथ पुष्पेर * त्रेणाथ दलेन वा ॥

यतः कुतश्चिदानीय यत्र कुत्रोद्भवेन वा ।
भवार्थं जीवनार्थं च नार्चयेद्गर्हिते स्थले ॥

गङ्गायां गोप्रदानेन दिव्य वर्षशतत्रयम् ।
यत्फलं प्राप्यते नित्यमाराध्याप्नोति तद्धरिम् ॥

पत्रं पुष्पं फलं चापि रामाराधनसाधनम् ।
दद्यादाराधितो यो वै तस्य पुण्यफलं शृणु ॥

कुरुक्षेत्रे च गङ्गायां प्रयागे पुरुषोत्तमे ।
गो सहस्र प्रदानेन यत्तत्फलमवाप्यते ॥

तदेतदखिलं पुण्यं प्राप्नोत्येव न संशयः ।
समग्रमसमग्रं वा यो दद्यात् पूजितं हरेः ॥

कदाचिदपि नित्यं वा यो दद्यात् पूजितं बहु ।
किं तीर्थसेवया दानिरन्यै बहुभिरीरितैः ॥

आराधना समर्थश्च दद्यादर्चनसाधनम् ।
प्रदातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥

निस्ताराय च देवानां भवाब्दे मुनिसत्तम ।
नैकं च यस्य विद्येत सौधायात्येव नान्यथा ॥

नियम व्यतिरेकेण यः कुर्याद्देवतार्चनम् ।
किञ्चिदप्यस्य न फलं भस्मनी बहुतं यथा ॥

योर्चयेद्विधिवद्भक्त्या परानीतैश्च साधनैः ।
पूजाफलार्द्धमेवास्य न समग्रफलं लभेत् ॥

यस्तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् ।
साधनं चार्चयेद्विद्वान् स समग्र फलं लभेत् ॥

परारोपित वृक्षेभ्यः पुष्पाण्यानीय चार्चयेत् ।
तत्तन्मुद्रान्तराण्येव दर्शयेच्चैव सादरम् ॥

प्। १७अ) प्रासाद्य सुमुखी कृत्य सन्निधाप्य च पूजयेत् ।
सकलीकृत्य तत्प्राणास्तदानीमिन्द्रियाण्यपि ॥

यद्येवं पूजयेद्रामं भुक्तिं मुक्तिं च विन्दति ॥ ५१ ॥

इति श्री अगस्तिसंहितायां त्रयोदशोध्यायः ॥ १३ ॥