१२

अगस्त्य उवाच

अथातो मातृकान्यासक्रमोत्रापरिपठ्यते ।
नियम्यासूनृषिछन्दो देवताबीजयोषितः ॥

शिरो वदनहृद्गुह्य पादेषु न्यास उच्यते ।
कराङ्गुलीनां रेखासु स्वरेकैकं प्रविन्यसेत् ॥

विन्यसेत्प्रणवं पाणिः तलयोः पृष्टयोरपि ।
ह्रस्वं दीर्घस्वरान्तायाष्कादयः पञ्चपञ्चकाः ॥

अमश्चाद्यं तयोर्य्यादिलान्तश्च दशवर्णकः ।
अङ्गुष्टाद्यङ्गुलीनां च तथैव तलपृष्टयोः ॥

न्यासस्तुतः षडङ्गानां भवत्येवं प्रकल्पना ।
हृदिमूर्द्ध्नि शिखायां च सर्वाङ्गे नेत्रयोरपि ॥

दिक्षुस्त्रं च नमः स्वाहा वषट् हूं वौषडप्यथ ।
तथास्त्राया फटित्येव षडङ्गानां च पल्लवम् ॥

तत्रस्थाने चतुर्थ्यं ते तत्तत्पल्लव यो गतः ।
तत्तदङ्गगतो न्यासस्तत्तत्स्थानेषु युज्यते ॥

अथान्तर्मातृका न्यासः कण्ठ हृन्नाभि गुह्यके ।
पायौ भ्रूमध्यके पद्मे षोडश द्वादशछदे ॥

प्। १४अ) दशपत्रे च षट्पत्रे चतुष्पत्रे द्विपत्रके ।
पञ्चाशद्वर्णविन्यासः पत्रसंस्थाक्रमाद्भवेत् ॥

एकैकवर्णमेकैक पत्रान्ते विन्यसेन्मुने ।
एवमन्तः प्रविन्यस्य मनसातो वहिर्न्यसेत् ॥

शिरो वदनवृत्ते च चक्षुः श्रोत्रषुगे तथा ।
नासा कपोलयुगले तथोष्टाधरयोरपि ॥

ऊर्ध्वान्धो दन्तपङ्क्त्योश्च मूर्द्धास्ये षोडशस्वरान् ।
क च वर्गद्वयं वाहोः पञ्चसन्धितले न्यसेत् ॥

ट त वर्गद्वयं पाद सन्ध्यग्रेपि तथा न्यसेत् ।
प वर्गं पार्श्वयुगलपृष्टनाभ्युदरेषु च ॥

हृदोमूलक कुत्कुक्षि हृदादि करपद्वये ।
जठराननयोश्चैव व्यापकं विनियोजयेत् ॥

पञ्चाशदक्षरं न्यासः क्रमेणैव विधीयते ।
ओमाद्यन्तो नमोन्तो सबिन्दुं बिन्दुं विवर्जितः ॥

मायालक्ष्मी कामबीज पूर्वोन्यस्तव्य उच्यते ।
केशवाय च कीर्त्यै च तथा नारायणाय च ॥

कान्त्यै तथा माधवाय तुष्ट्यै नम इति न्यसेत् ।
गोविन्दाय च पुष्ट्यै च विष्णुर्धृत्यैर्वदेत्ततः ॥

मधुसूदनाय शान्त्यै त्रिविक्रमाय क्रियायै ।
वामनाय दयायै च श्रीधराय वदेत्तथा ॥

मेधायै हृषीकेशाय हर्षायै च नमत्तथा ।
पद्मनाभाय श्रद्धायै तथादराय च ॥

लज्जायै नम इत्युक्तं वासुदेवाय चैव हि ।
लक्ष्म्यै नम इत्युक्ता सङ्कषणाय वदेत्ततः ॥

सरस्वत्यै प्रद्युम्नाय रत्यै प्रीत्यै इतीरयेत् ।
अनिरुद्धाय रत्यै च खरान्ते प्रवदेदथ ॥

चक्रिणे विजयायै च शार्ङ्गिणे गदिने तथा ।
दुर्गायै च प्रभायै च खड्गिने विन्यसेदथ ॥

सत्यायै शङ्खिने चैव चण्डायै च नमस्तथा ।
हलिने च तथा वाण्यै नमो मुशलिने वदेत् ॥

विलासिन्यै शूलिने च विजयायै तदनन्तरम् ।
पाशिने विरजायै च तथा चाङ्कुशिने वदेत् ॥

विश्वायै च मुकुन्दाय विनदायै नमस्तथा ।
नन्दजाय सुनन्दायै नन्दिने स्मृतये नमः ॥

प्। १४ब्) नराय ऋद्ध्यै तद्वत् नरकघ्ने तथा वदेत् ।
समृद्ध्यै हरये शुद्ध्यै कृष्णाय च भुक्ते तथा ॥

सत्वाय बुद्ध्यसात्वतायमत्यै नम इतीरयेत् ।
शौरये च क्षमायै च शूराय च रमायै नमः ॥

जनार्दनाय चोमायै ततः शार्ङ्गधराय च ।
क्लेदिन्यै विश्वमूर्तये क्लिन्नायै तदनन्तरम् ॥

वैकुण्ठाय नमस्तद्वद्वसुदायै नमस्तथा ।
पुरुषोत्तमाय वसुधायै परायै बलिने तथा ॥

बालानुजाय परायणायै नम इतीरयेत् ।
बलाय वदसूक्ष्मायै सन्ध्यायै च वृषघ्नते ॥

वृषाय च प्रज्ञायै हंसायै प्रभायै तथा ।
वाराहायै निशायै च विमलाय वदेत्ततः ॥

अमोघायै नमस्तद्वन्नरसिंहाय विद्युते ।
क्रमेण कामबीजं च मातृकाक्षर एव च ॥

एकं दैवं तथा शक्तिरेकन्नम इति क्रमः ।
केशवं चापि कीर्तिं च नमोन्ते विन्यसेत् पुनः ॥

शिरो वदनवृत्तादि स्थानेष्वेवं विधिः स्मृतः ।
ओङ्कारमारबीजं च मातृकाक्षर एव च ॥

एकं दैवं तथा शक्तिरेकं नम इति क्रमः ।
केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् ॥

अच्युतत्त्वं ददात्येव सत्यं सत्यं न संशयः ।
सुतीक्ष्णतत्त्वं वक्ष्यामि तथा न्यासमतः शृणु ॥

यत्तत्व न्यासमात्रेण तत्त्वमेव प्रजायते ।
यादपः प्रतिलोमेन काताः स्युः सर्वसञ्ज्ञकाः ॥

नमः पराय पूर्वे तु प्रणवान्ते व्यवस्थिताः ।
जीवः प्राणश्च बुद्धिश्च प्यहङ्कारो नमस्तथा ॥

सर्वाङ्गे हृदिविन्यस्य श्रोत्रादी निन्द्रियाण्यपि ।
मूर्द्ध्नि प्राणे च हृदयेप्युपस्थे पादयोरपि ॥

श्रोत्रत्वक् चक्षुषी जिह्वा घ्राणरूपादि देहिनाम् ।
ज्ञानेन्द्रियापिपञ्चापि तत्तत्स्थाने न्यसेत् पुनः ॥

वाक्पाणि पादपायू च करमुख्यानि ह्युपस्थके ।
तथैव तत्तत्स्थानेषु तत्तदेव प्रविन्यसेत् ॥

शिरो मुखे च हृदये तथा गुह्येपि पादयोः ।
प्। १५अ) आकाशानिलतेजांसि सलिलं पृथिवीं तथा ॥

विन्यसेत् पूर्ववच्चैव न्यासवद्भिरुदीरितम् ।
शाहोसैरामखा वापि यश्च राजबला अपि ॥

क्षौं चेति दशवर्णां च प्रणवान्ते च पूर्ववत् ।
हृत्पद्मसोमसूर्याग्नि स्वकलायुक्कमण्डले ॥

त्रयं हृद्येव विन्यस्य वासुदेवादयस्तथा ।
परमेष्टी च पुरुषो विश्वस्यापि निवृत्तिकाः ॥

नारायणो नृसिंहश्च सर्वकोपास्य पूर्वकौ ।
मूर्ध्न्यास्ये हृदि गुह्ये च पादयोर्व्यापकं ततः ॥

तदात्मने नम इति तत्र स्थाने न्यसेच्च तत् ।
अतस्तस्याप्य पूज्यस्य तत्प्राप्तेर्हेतुना ततः ॥

त्वया न्यासमिति प्राहुर्न्यासस्तत्वविदोजनाः ।
यः कुर्यात्तत्त्वदन्यासं स एव भवति ध्रुवम् ॥

तदात्मनानुप्रविश्य भगवानिह तिष्टति ।
यतः स एव सत्त्वानि सर्वं तस्मिन्प्रतिष्टितम् ॥

तन्मूर्तिपञ्जरं न्यासस्तस्य तन्मूर्ति सिद्धये ।
आकर्णयैक चित्तःसन्यतोस्ति न फलान्तरम् ॥

नमो भगवते ब्रूयाद्वासुदेवाय इत्यपि ।
ओमादेवस्य मन्त्रस्य आदायैकाक्षरं ततः ॥

एकैकमक्षरं तद्वच्छ्रीरामाख्य मनोरपि ।
द्विरावृत्याक्षरादानं विष्णोर्दशसु नामसु ॥

नामैकैकमुपादाय सूर्यस्यापि च नामसु ।
ॐ ततः स्वरस्तद्वद्वासुदेवाक्षरं ततः ॥

श्रीराममन्त्रवर्णश्च ततः स्युः केशवादयः ।
धात्रादयो नमोन्ताय सूर्यस्यापि च नामसु ॥

न्यस्तव्यो न्यासयोगतः

ललाटनाभिहृदयं कण्ठ पार्श्वासकन्धरे ।
पार्श्वोतरांसे स्कन्धे च पृष्टे ककुदि च क्रमात् ॥

केशवं च ततो ब्रूयान्नारायण इति स्वयम् ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥

त्रिविक्रमो वामनश्च श्रीधरो नवमः स्मृतः ।
हृषीकेशः पद्मनाभः तथा दामोदरः प्रभुः ॥

विष्णोर्द्वादशनामानि चेमानि मुनिसत्तम ।
धातार्य्यमा च मित्रश्च वरुणांशो भगस्तथा ॥

प्। १५ब्) विवस्वानिन्द्रपूषा च पर्जन्यो दशमः स्मृतः ।
त्वष्टा च विष्णुरेतानि नामानि द्वादशात्मनः ॥

तन्मूर्तिपञ्जरन्न्यासोभिहितः परमेष्टिना ।
शिरोभ्रूमध्य हृदये नाभि गुह्य पदस्तने ॥

मूलमन्त्राक्षरा न्यासं षडङ्गमपि विन्यसेत् ।
एवं विन्नस्य विधिवत् साक्षान्नारायणो भवेत् ॥

ज्वररोगाभिचाराद्याः प्रलयं यान्ति नान्यथा ।
भूतप्रेतपिशाचाश्च तथैव ब्रह्मराक्षसाः ॥

कूष्माण्डाश्चैव डाकिन्यो नैव द्रष्टमपिक्षरम् ।
य एवं विन्यसेद्धीमान्रामः साक्षात्स्वयं भवेत् ॥

नातः परतरं किञ्चित्पावनं पुण्यमस्तिहि ॥ ६५ ॥

इति श्री अगस्तिसंहितायां द्वादशओध्यायः ॥ १२ ॥