११

अगस्त्य उवाच

शरीरं शोधयेदादावधिकार्य्यार्थमन्वहम् ।
तीर्थावगाहनं वाह्ये प्यन्तर्भूतविशोधनम् ॥

मातृको न्यासयोगश्च शोधयेद्विध्यनुक्षितः ।
पूजाद्रव्याणि च ततः शोधयेत् प्रोक्षणादिभिः ॥

पूजापात्राणि शङ्खं च शोधयेत् क्षालनादिभिः ।
शुद्धश्च शुद्धद्रव्यैश्च पूजयेत् पुरुषोत्तमम् ॥

एवमाराधितो देवः सम्यगाराधितो भवेत् ।
न चेन्निरर्थकं सर्वं सिन्धुसैकतवृष्टिवत् ॥

शौचाचमनविहीनस्य स्नान सन्ध्यादिकाः क्रियाः ।
निःफलं स्युर्य्यदा चैतदन्तरेण भवेत् तथा ॥

संशोध्य पूजाद्रव्याणि स्वस्यापि बहिरन्तरम् ।
शङ्खं च पूजयेत् सर्वं पूज्यं पूज्यार्हतां व्रजेत् ॥

पूजकस्याथ पूजास्यात् पावनस्य कृतं तथा ।
अपावनान्य पूजनानि साधनानि वर्जयेत् ॥

अतः स्नात्वा प्रकुर्वीत भूतशुद्धि विधाय च ।
विन्यस्य मातृका पूर्वं वैष्णवीं विधिवन्मुने ॥

प्। १२ब्) विधाय तत्त्वन्यासं तन्मूर्ति पञ्जरं तथा ।
तदृषिछन्दसो न्यासस्तथा तन्मन्त्र दैवतम् ॥

विन्यस्यैवं षडङ्गानि तत्तद्वीजाक्षराणि च ।
अतोथा देवता ध्यानं ततः पूजनमन्ततः ॥

ततो निवेद्य तत्सर्वं जपेन्मन्त्रमनन्यधीः ।
ततो विज्ञाप्य देवेशं परिवारांश्च पूजयेत् ॥

एवं सम्पूजितो देवः सर्वान् कामान् प्रयछति ।
बाह्य पूजां ततः कुर्य्याद्दौहिकाभ्युदयायवैः ॥

विलिख्य वेदिकासम्यं मण्डलं तत्र कारयेत् ।
शालितण्डुलचूर्णैश्च नीलपीतैः सितासितैः ॥

लिखेदष्टदलं पद्मं चतुरस्रं समावृतम् ।
षट्कोणकर्णिकामध्ये कोणाग्रे वृत्तमुत्तमम् ॥

साध्यमेव ततः शोभा रेखाभिरुपशोभितम् ।
सम्पूज्यमण्डलं चैव तत्र सिंहासनं न्यसेत् ॥

चन्द्रातपपताकैश्च तोरणैरपि सर्वतः ।
विचित्रं तत्र तत्रापि भित्तिस्तम्भ गृहादिषु ॥

एवं संशोभितस्थाने सर्वमङ्गलसंवृते ।
पुण्यस्त्रीभिर्गृहस्थैश्च परितो व्यवहर्तृभिः ॥

गायद्भिरपि नृत्यद्भिर्वदद्भिः स्तुति पूर्वकम् ।
भेरीमृदङ्गं वंशादि कांस्पतालादिभिर्बहुः ॥

वादयद्भिश्च बहुधा सम्यगाराधितो यदि ।
रघुनाथः स्वयं तत्र प्रसन्नो भगवन् भवेत् ॥

सम्पाद्य विविधैः पुष्पैः पूरयेत् पुष्पजालिका ।
तुलसीपद्मजात्पाद्यैर्माल्यैर्बहुविधैरपि ॥

स्वपुरो दक्षिणे तीर्थे शुद्धवारि सुपूरितम् ।
कलुषं स्वपुरोधाय भोगेषु विनियोजयेत् ॥

अन्यानि पूजाद्रव्याणि पुरस्तादेवनिःक्षिपेत् ।
आराधनाय देवस्य वेदिकाधः सुखासने ॥

कुशास्तरण वैयाघ्रचर्मवासो विनिर्मिते ।
उपविश्य शुचिर्भोगी भूत्वा पूजां समाचरेत् ॥

तथा मलकमालां च सम्यक् पुष्करमालिकाम् ।
निर्माल्य तुलसीमालां शिरस्यपि निधाय वै ॥

प्। १३अ) निर्माल्य चन्दनेनाङ्गमङ्कयेत्तस्य नामभिः ।
तस्यायुधानि बाह्वोश्च तेनैव द्विजसत्तम ॥

पापिष्टो चाप्यपापिष्टः सर्वज्ञोप्यज्ञ एव वा ।
भवेदेवाधिकार्यत्र पूजाकर्मण्य संशयः ॥

पद्मं स्वस्तिक भद्रादि रूपेणाकुण्ठ्यपद्वयम् ।
विनायकं नमस्कृत्य सव्यांशे च सरस्वतीम् ॥

दक्षिणांशे पूर्ववच्च दुर्गां च क्षेत्रपं पुनः ।
ओमस्त्राय फट् प्रोक्ता भ्रामयेद्दक्षिणं करम् ॥

ततस्तु चिन्तयेदन्तर्देवं स्थानत्रयान्तरे ।
ज्योतिर्मयमनस्यन्तं सत्यज्ञान सुखात्मकम् ॥

आत्मनः परितो वह्नि प्राकारत्राणनाय च ।
भूतप्रेतपिशा * भ्यां विधाय तदनन्तरम् ॥

अद्भिः पुष्पाक्षतैश्चैव वह्निबीजास्त्रमन्त्रितैः ।
प्रल्लिपेत्परितो मन्त्री भयविघ्न निवृत्तये ॥

हृदम्बुजे ब्रह्मकन्दसम्भूते ज्ञाननालके ।
आराग्रमात्रो जीवस्तु चिन्तनीयो मनीषिभिः ॥

नेतव्योहंस मन्त्रेण द्वादशान्ते स्थितः परः ।
तेन संयोज्य विधिवद्भूतशुद्धिमथाचरेत् ॥

भूतानि नाम पृथिवीजलं तेजो वियन्मरुत् ।
यद्यतो जायते तस्मिन् प्रलयोत्पादनं पुनः ।
शरीराकारभूतानां भूतानां शोधनं पुनः ॥

मरुदग्नि सुधाबीजैः पञ्चाशन्मातृ मातृका ।
प्राणान्निरुध्यात्मदेहं शोषयेत्तत्पुनर्दहेत् ॥

तद्देहं पुनराप्लाव्य पुनर्जीवमिहानयेत् ।
जीवेन पुनरात्मानं चिन्तयेत् पुरुषाप्तये ॥

जीवस्य तनु सिद्ध्यै च तस्याप्यात्मत्वसिद्धये ।
नयना नयनार्थं च हंसः सोहमितीरयेत् ॥

भूतशुद्धिरयं नाम कर्तव्यानाम सार्थकृत् ।
भूतशुद्धिं विनायस्य जपहोमादिकाः क्रियाः ॥

भवन्ति निःफलाः सर्वाः प्रकारेण प्रतिष्टिताः ।
गृहोपसर्पणं चैव तथानुगमनं हरेः ॥

भक्त्या प्रदक्षिणं चैव पादयोः शोधनं विदुः ।
प्। १३ब्) पूजार्थं यन्त्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥

करयोः सर्वशुद्धीनामियं शुद्धिरुदाहृता ।
यन्नामकीर्तनं चैव गुणानमपि कीर्तनम् ॥

भक्त्या श्रीरामचन्द्रस्य वचसः शुद्धिरिष्यते ।
तत्कथा श्रवणं चैव तस्योत्सव निरीक्षणम् ॥

श्रोत्रयोर्नेत्रयोश्चैव बुद्धि सम्यगिहाच्यते ।
पादोदकस्य निर्माल्यं मालानामपि धारणम् ॥

उच्यते शिरसः शुद्धिः प्रणतस्य हरे पुनः ।
आघ्राणं गन्धपुष्पादेरर्चितस्य तपोधन ॥

विशुद्धिः स्यादनं तस्य घ्राणस्येवाविधीयते ।
पत्र पुष्पादिकं यद्यद्रामपाद युगार्पितम् ॥

विशुद्धये भवत्येव स्वात्मनाधार्य्यते यदि ।
अधुनाप्यथवा पूर्वं यद्यद्विष्णु समर्पितम् ॥

तदेव पाटनं लोके तद्धि सर्वं विशोधयेत् ॥ ४७ ॥

इति श्री अगस्तिसंहितायामेकादशोध्यायः ॥ ११ ॥