अगस्त्य उवाच ॥
पूजाविधानं वक्ष्यामि नारदाभिहितं च यत् ।
वाल्मीकये मुनीन्द्राय द्वारपूजादिकं यथा ॥
आकर्णय मुनिश्रेष्ट सर्वाभीष्टफलप्रदम् ।
श्रीरामद्वारपालाङ्ग परिवार तया स्थिताः ॥
ये सुरास्तानि हस्तौमि तन्मूला सिद्धयो यतः ।
वन्दे गणपतिं भानुतिलक स्वामिनं शिवम् ॥
क्षेत्रपालं च धातारं विधातारमनन्तर ।
प्। ११अ) गृहाधीशं गृहं गङ्गां यमुनां कुलदेवताम् ॥
चण्डप्रचण्डौ च तथा शङ्खपद्मनिधी अपि ।
वास्तोष्पतिं द्वारलक्ष्मीं गुरुं वागधिदेवताम् ॥
एताः सम्पूज्य भक्त्याहं श्रीराम द्वारदेवताः ।
महामण्डूक कालाग्नि रुद्राभ्यां प्रणमाम्यहम् ॥
आधारशक्ति कूर्माभ्यां नागाधिपतये तथा ।
पृथिव्यै च तथा क्षीर सागराय नमो नमः ॥
श्वेतद्वीपाय रत्नाद्रौ कल्पवृक्षायते नमः ।
सुवर्णमण्डपायाथ पुष्पकाय महार्हतौ ॥
विमानाष्टक रत्नाय सम्यक्सिंहासनाय च ।
उद्यदादित्य संशोभि पद्माय तदनन्तरम् ॥
नमामि धर्मज्ञानाभ्यां वैराग्यायाग्नितः क्रमात् ।
ऐश्वर्याय ततो धर्मा ज्ञानाभ्यां पूर्वतः क्रमात् ॥
अवैराग्याय च तथा नैश्वर्याय नमो नमः ।
अमर्कमण्डलायाथ उपर्युपरि सर्वदा ॥
ॐ चन्द्रमण्डलायेति ध्यात्वा ध्यात्वा नमाम्यहम् ।
ममग्निमण्डलायेति सम्पूज्यैवं प्रयत्नतः ॥
सत्त्वाय रजसे नित्यं तमसेपि न्मो नमः ।
आत्मान्तरात्मपरमात्मज्ञानात्मने तथा ॥
प्रणवादि * * तेन यजेन्मध्ये विशुध्यति ।
विमलोत्कर्षिनी ज्ञानाक्रियायोगाभ्य इत्यपि ॥
नमामि प्रह्वीं सत्यामीशानायै दलान्तरे ।
पुर्वादितोनुग्रहायै प्रणमामि तदन्तरे ॥
नमो भगवते तद्वद्विष्णवे तदनन्तरम् ।
सर्वभूतात्मने चेति वासुदेवाय इत्यपि ॥
ततः सर्वात्मसंयोग पद्मपीठात्मने नमः ।
यजामहे युवामों ह्रीमात्मना संव्यवस्थितौ ॥
नमोन्ताय च रामाय ससीताय नमो नमः ।
सान्निध्याधारयोगेन नियतेन षडानना ॥
प्। ११ब्) व्यवस्थिताय रामाय नमोप्यन्ताय वह्नये ।
श्रीबीजाद्यपि सीतायै स्वाहान्तोयं षडक्षरः ॥
तदेतन्मन्त्ररूपाय रामाय ज्योतिषे नमः ।
सामुस्वारस्वरान्ताय वह्नये हृदयाय च ॥
नमश्चैवेश्वरान्ताय स्वरान्ताय कृषानवे ।
शिरसेप्यग्नये चोन्तः शिखायैवषडात्मने ॥
एवं नमः षडङ्गात्म रामाय ज्योतिषे नमः ।
आत्मान्तरात्म परमज्ञानात्मभ्योग्नितः क्रमात् ॥
निवृत्यैव प्रतिष्टायै विद्यायै ते नमाम्यहम् ।
शान्त्यै चात्मादि शक्तित्वे स्थितै तद्रूपिणो नमः ॥
वासुदेवाय ते नित्यं तथा सङ्कर्षणाय च ।
प्रद्युम्नाया निरुद्धाय श्रियै शान्त्यै नमो नमः ॥
प्रीत्यै रेत्यै नमो राम द्वितीया वरणात्मने ।
अग्रे हनुमान सुग्रीवो भरतश्च विभीषणः ॥
लक्ष्मणाश्चागदश्चैव शत्रुघ्नौ जाम्बवांस्तथा ।
धृष्टिर्जयन्ति विजयः सुराष्ट्रो राष्ट्रवर्द्धनः ॥
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमन्त्रिणः ।
एतेभ्यो रामरूपेभ्यो युष्मभ्यं प्रणमाम्यहम् ॥
इन्द्रादि यमदेवेभ्यः सायुधेभ्यो नमो नमः ।
वायवेदनदायाथ रुद्राद्यशायते नमः ॥
ब्रह्मणेनन्तरूपाय दिक्पालायात्मने नमः ।
तदायुधाय वज्राय शक्तये दण्डकाय च ॥
नमः खड्गाय पाशाय ध्वजाय च गदात्मने ।
त्रिशूलायाम्बुजायाथ चक्राय सततं नमः ॥
वसिष्टो वामदेवश्च जावालिर्गौतमस्तथा ।
भरद्वाज कौशिकश्च बाल्मीकिर्नारदस्तथा ॥
एतेभ्यो रामरूपेभ्यो युष्मभ्यं प्रणमाम्यहम् ।
नलं नीलं च गवयं गवाक्षं गन्धमादनम् ॥
स्वरभिश्चापि मेन्दम्बद्विविधं च यजेत् क्रमात् ।
शङ्खचक्रगदापद्म शार्ङ्गबाणा युधात्मने ॥
गरुन्मते नमस्तुभ्यं विश्वक्सेनादिकाश्च ये ।
सर्वैश्वर्य स्वरूपाय ज्योतिषे सततं नमः ॥
प्। १२अ) मनोवाक्वाय जनितं कर्म यद्वा शुभाशुभम् ।
तत्सर्वं प्रीतये भूयात् तमो रामाय शार्ङ्गिणे ॥
एतद्रहस्यं सततं प्रत्यूषसि समाहितः ।
यः पठेद्राममाहात्म्यं विद्यैश्वर्य निधिर्भवेत् ॥
विनाशयेदसौभाग्यं दारिद्रौघं निकृन्तयेत् ।
उपद्रवांश्च शमयेत् सर्वलोकं वशं नयेत् ॥
यः पठेत् प्रातरुत्थाय ब्रह्मार्पण धियान्वहम् ।
स याति शाश्वतं ब्रह्म पुनरावृत्ति दुर्लभम् ॥
नारदीयमिदं स्तोत्रं सुतीक्ष्ण मुनिसत्तम ।
पठितव्यं प्रयत्नेन रामार्चन परायणैः ॥
गणपत्यादयैः सर्वै द्वाराङ्गवृत्तिरूपिणः ।
प्रणवादि नमोन्तेनं चतुर्थ्या स्वस्वनामभिः ॥
उपचारैः षोडशभिस्तथैकादशभिर्मुने ।
पञ्चभिर्वा प्रयत्नेन स्वस्वशक्त्यनुसारतः ॥
गणपत्यादयो ह्येते पूजिता पूजयन्त्यपि ॥ ४४ ॥
इति श्री अगस्तिसंहितायां दशमोध्यायः ॥ १० ॥