सुतीक्ष्ण उवाच
कथं मन्त्र वरभूमौ केन चादौ प्रतिष्टितम् ।
उपाधि देशकः कस्मै तन्मे ब्रूहि तपोधन ॥
अगस्त्य उवाच
ब्रह्माददौ वसिष्टाय स्वसुताय मनुं ततः ।
स वेदव्यासमुनये ददावित्थं गुरुक्रमः ॥
वेदव्यासमुखेनात्र मन्त्रो भूमौ प्रकाशितः ।
वेदव्यासो महातेजाः शिष्येभ्यः समुपाविशत् ॥
गुरुशिष्य गुणानादौ शौनकाय ब्रवीन्मुनिः ।
स शौनकेन पृष्टः सत्ताह मन्त्रान्तराणि च ॥
यन्त्रपूजार्विधिर्होम तथा तर्पण लक्षणम् ।
पुरश्चरणसङ्ख्या च होमद्रव्यान्तराणि च ॥
तपः स्थानानि सिद्धिं च यदुक्तं ब्रह्मणा पुरा ।
तत्तदुक्तं प्रवक्ष्यामि यदि श्रोतुमिहेछसि ॥
सुतीक्ष्ण उवाच
देवतोपासकः शान्तो विषयेष्वपि निस्पृहः ।
अध्यात्मवित् ब्रह्मवादी वेदशास्त्रार्थको विदः ॥
उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः ।
मन्त्रज्ञो यन्त्रमन्त्राणां यन्त्रवेत्ता रहस्यवित् ॥
प्। ९अ) पुरश्चरणसङ्ख्या च होमद्रव्यान्तराणि च ।
तपः स्थानानि सिद्धिं च यदुक्तं ब्रह्मणा पुरा ॥
तत्तदुक्तं प्रवक्ष्यामि यदि श्रोतुमिहेछसि ।
सुतीक्ष्ण उवाच
देवतोपासकः शान्तो विषयेष्वपि निस्पृहः ।
अध्यात्मवित् ब्रह्मवादी वेदशास्त्रार्थको विदः ॥
उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः ।
मन्त्रज्ञो यन्त्रमन्त्राणां यन्त्रवेत्ता रहस्यवित् ॥
पुरश्चरण कृति * मन्त्रसिद्धो प्रयोगवित् ।
तपस्वी सत्यवादी च गृहस्थो गुरुरुच्यते ॥
आस्तिको गुरु भक्तश्च जिज्ञासुः श्रद्धया सह ।
कामक्रोधादि दुःखोत्थ वैराग्यो वनिता दिषु ॥
सर्वात्मनातितीर्षुश्च भवाब्दे भव दुःखवित् ।
ब्राह्मणोधर्म मोक्षार्थ कामार्थ विगतस्पृहः ॥
किं वा धर्मार्थमोक्षार्थ निष्कामश्चाथवा द्विजः ।
मनोवाक्काय धर्मैस्तु नित्यं शुशूषिको गुरौः ॥
सुवर्णाश्रम धर्मोक्त कर्मनिष्टः सदा शुचिः ।
शुचिव्रत तमाशूद्राः धार्मिका द्विज सेवकाः ॥
स्त्रियः पतिव्रताश्चान्ये प्रतिलोमानुलोमजाः ।
लोकाश्चाण्डाल पर्यन्ताः सर्वप्यत्राधिकारिणः ॥
स्वजातिधर्मनिरताः भक्ताः सर्वेश्वरस्य ये ।
उपदेशः समस्तेषां तत्तज्जात्यनुसारतः ॥
अलसा मलिना क्लिष्टाः दाम्भिकाः कृपणास्तथा ।
दरिद्रा द्रोगिणोत्कृष्टा रोगिणो भोगलालसाः ॥
असूयामत्सरग्रस्ताः शटाः परुष वा दिनः ।
अन्यायो पार्जित धनाः परदाररताश्चये ॥
विदुषां वैरिणश्चैव ह्यज्ञा पण्डितमानिनः ।
भ्रष्टव्रताश्च ये कष्ट वृत्तयः पिशुना खला ॥
वह्वाशिनः क्रूरचेष्टाः क्रूरात्मानश्च निन्दिताः ।
इत्येवमादयोप्यन्ये पापिष्टा पुरुषाधमाः ॥
न तेषां नरक्लेशा निस्तारो मुनि सत्तम ।
क्षुद्धाः प्रलोभिनस्तैते निन्दितेभ्यो दि शन्ति ये ॥
विनश्यत्येव तत्सर्वं सैकते शालिबीजवत् ।
प्। ९ब्) यैः शिष्यैः शिश्वदावात्तु गुरवोऽवमानिताः ॥
पुत्रमित्रकलत्रादि सम्पद्भ्यः प्रच्युता हिते ।
अकृतेभ्यो निवार्यश्च गुरुशिक्षा सहिष्णवः ॥
एवं भूताः परित्याज्याः शिख्यत्वेनोप कल्पिताः ।
यदि तेप्युपकल्पेरन् देवता क्रोशकाजनाः ॥
भवन्तीह दरिद्रास्ते पुत्रदार विवर्जिताः ।
नरकाश्चैव देहास्ते तिर्यक्षुः प्रभवन्ति ये ॥
ये गुर्ववज्ञां कुर्वन्ति पापिष्टाः पुरुषा धमाः ।
अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये ॥
शूकरत्वं भवत्येव तेषां जन्म शतोद्भवम् ।
ये गुरुऽद्रोहिणो मूढाः सततं पापकारिणः ॥
तेषां चर्यावत्सुकृतं तद्भस्म स्यान्नसंशयः ।
तारादि मुक्तये लक्ष्मी बीजादिमुक्तयेत्तथा ॥
वाक् सिद्धये च वाग्बीजं प्रणवान्ते विनिक्षिपेत् ।
मान्मथं सर्ववश्याय यदेतत्त्रितयं पुनः ॥
तारान्ते चैव रामादौ सर्वार्थं विनियोजयेत् ।
रामाय नम इत्येष मन्त्रः पञ्चाक्षरः स्मृतः ॥
रामित्येकाक्षरो मन्त्रो राम इत्यपरो मनुः ।
चन्द्रान्तश्चैव भद्रान्तः पुनर्वेदा विभज्यते ॥
पञ्चाशन्मातृकावर्णः प्रत्येकं राम पूर्वकः ।
लक्ष्मीवान्मथादिश्च सर्वत्र प्रणवादिकाः ॥
रामश्च चन्द्र भद्रान्तश्चतुर्थ्यन्ती हृदा सह ।
बहुधा भिद्यते तार सहितोयं षडक्षरः ॥
एकधा च द्विधा त्रेधा चतुर्धा पञ्चधा तथा ।
षट्सप्तधाऽष्टधा चैव बहुधायं व्यवस्थितः ॥
मन्त्रोयदुपदेष्टव्यो ब्राह्मणाद्यनुरूपतः ।
सम्पूज्य विधिवत्तत्र संस्थाप्य कलशं नवम् ॥
तत्सामर्थ्यानुरूपेण मृत्सुवर्णमयस्तथा ।
दात्रा प्रदीयते यद्वन् मन्त्रो देयस्तथा मुने ॥
इत्यगस्तिसंहितायाम् अष्टमोध्यायः ॥ ८ ॥