०६

सुतीक्ष्ण उवाच

किमेतद्भगवन् बूहि हित्वा मध्याङ्गुलिं रहः ।
तक्रं पिवसि माहात्म्यं श्रीः तुलस्याः क्वचित्स्मृतम् ॥

अगस्त्य उवाच

शृणुवक्ष्यामि माहात्म्यं तुलस्याच्च प्रयत्नतः ।
पूर्वमुग्रतपः कृत्वा वरं वव्रे तपस्विनी ॥

तुलसी सर्वपुष्पेभ्यः पत्रेभ्यो वलभा यतः ।
विष्णो त्रैलोक्यनाथस्य रामस्य जनकात्मजा ॥

प्रिया तथैव तुलसी सर्वलोकैक पाविनी ।
प्। ६ब्) तुलसीपत्रमात्रेण योर्चयेद्राममन्वहम् ॥

सयाति शाश्वतं ब्रह्म पुनरावृत्ति दुर्लभम् ।
नीलोत्पल सहस्रेण प्रत्यहं योर्चयेद्धरिम् ॥

फलं वर्षसहस्रेण तदीये नैव लभ्यते ।
विद्वान् सर्वेषु पुष्पेषु पङ्कजं श्रेष्टमुच्यते ॥

तत्पुष्पेष्वपि तन्माल्यं लक्षकोटिगुणं भवेत् ।
विष्णोः शिरसि विन्यस्तमेकं श्रीतुलसीदलम् ॥

अनन्तफलदं विद्वान् मन्त्रोश्चारणपूर्वकम् ।
पुष्पान्तरैरन्तरितं निर्मितं तुलसीदलैः ॥

माल्यं मलयजा लिप्तं दद्याच्छ्रीराममुर्द्धनि ।
किं तस्य बहुभिर्यज्ञैः सम्पूर्णवरदक्षिणैः ॥

किं तीर्थ सेवयादामैरुग्रेण तपसा तथा ।
वाचानियम्य चात्मानं मनो विष्णौ निधाय च ॥

योर्चयेत् तुलसीमाल्यैर्यज्ञकोटिफलं लभेत् ।
भवाब्धिकूपमग्नानामेतदुद्धरकाङ्कुशम् ॥

पत्रं पुष्पं फलं चैव श्रीःतुलस्याः समर्पितम् ।
रामाय मुक्तिमार्गस्य द्योतकं सर्वसिद्धिदम् ॥

माल्यानि ददते लक्ष्मी कुसुमान्तरितानि च ।
तुलस्याः सर्वमानीय निर्मितानि तपोधन ॥

तुलसी वाटिका पुष्प पत्रान्तर शता वृता ।
शोभते राघवस्तत्र सीतयाः सहितः स्वयम् ॥

आरोपयन्ति तद्भक्त्या स्वयमेव मनीषिणः ।
वनत्वेन समावृत्य कण्टकीस्तुलसी दलम् ॥

अथ नान्युत्त देवेशि नायदभ्यर्हितं ततः ।
सालग्रामशिलातीर्थं तुलसीदल वासितम् ॥

ये पिवन्ति पुनस्तेषां तुल्यपानं न विद्यते ।
गाङ्गेयमिव तोयेषु देवेष्विवरलूत्तमः ॥

सरोजमिव पुष्पेषु शस्यते तुलसीदलम् ।
सम्पूज्य भक्त्या विधिवद्रामं श्रीतुलसीदलैः ॥

भवान्तर सहस्रेषु दुःखग्राहाद्विमुच्यते ।
वर्णाश्रमेतराणां च पूजा यस्यैव साधनम् ॥

अपेक्षितार्थ दत्तान्य जगत्स्वपि तपोधन ।
प्। ७अ) पूजायोग्यैर्दलैः पत्रैः पुष्पैर्वायोर्चयेद्धरिम् ॥

यान्ति न्यूनाति रिक्तानि कर्माणि फलितान्यहो ।
न तस्य नरके क्लेशो योर्चयेत् तुलसीदलैः ॥

पापिष्टो वाप्य पापिष्टः सत्यं सत्यं न संशयः ।
गङ्गा तोयेन तुलसीदल युक्तेन योर्चयेत् ॥

रामं निःक्षिप्य शिरसि समन्त्रेण सिञ्चयेत् ।
निमील्यचक्षुषो धीरो रामं हृदि निधाय च ॥

असकृद्वसकृद्वापि य एवमनुतिष्टति ।
ध्येयो भवति सर्वेषां मयमेव विमुक्तये ॥

न सति गुरवो यस्या नैव दीक्षा विधिक्रमः ।
रामरक्षां वदन्ते च तुलसीदलमर्पयेत् ॥

दीक्षान्तर शतेनापि न तत्फलमवाप्यते ।
दीक्षीतेष्वपि सर्वेषु रामदीक्षित उत्तमः ॥

न गुरु नैव कालंश्च न देवान्तर पूजनम् ।
तुलसीदलयुक्तं च रामार्चनमपेक्ष्यते ॥

निर्माल्य तुलसीमाल्य युक्तो यद्यर्चयेद्धरिम् ।
यद्यत्करोति तत्सर्वं मनन्तफलदं भवेत् ॥

यद्य न्यूनं भवत्येव समाराधन साधनम् ।
तुलसीपत्रमात्रेण त्यक्तं तत्परिपूर्यते ॥

शालग्रामशिलायाश्च गङ्गायाश्च तपोधन ।
तुलस्याश्चैव माहात्म्यं नेष्टे वक्तुं हरिः सकृत् ॥

भवभञ्जनमेतच्च सर्वाभीष्टं प्रयच्छति ।
नातः परतरं किञ्चित्पावनं भुवि विद्यते ।
यः कुर्यात् तुलसी काष्ट्यै रक्षमालं स्वरूपिणीम् ॥

वर्णमालां प्रयत्नेन कृं तस्या क्षयं भवेत् ।
सङ्घृष्ट्य तुलसीकाष्टं यो दद्याद्राममूर्धिनि ॥

कर्पूरागुरु कस्तूरी चन्दनं च न तत्समम् ।
तुलसी विपिनस्स्यापि समन्तात्पाचनं स्थलम् ॥

क्रोशमात्रं भवत्येव गङ्गायाः स्रोतसो यथा ।
तुलस्यारोपितासिक्ता दृष्ट्वा स्पृष्ट्वा च पावयेत् ॥

आराधिता प्रयत्नेन सर्वकामफलप्रदाः ।
चत्वर्णामपि वर्णानामाश्रमाणां विशेषतः ॥

स्त्रीणां च पुरुषाणां च पूज्यतेष्टं ददाति हि ।
प्। ७ब्) प्रदक्षिणं तु भूयिष्ट नमस्कुर्वन्ति नित्यशः ॥

न तेषां दुष्कृतिं किञ्चिदक्षीणमिह दृश्यते ।
अनन्यदर्शना प्रातः ये पश्यन्ति तपोधन ॥

न तेषां नरके क्लेशः प्रयान्ति परमं पदम् ।
विधेयमविधेयं वा न्यूनमप्यथवाधिकम् ॥

तुलसीदलमादाय रामं ध्यात्वा समर्पयेत् ।
रामाय नम इत्येव अच्युताय नमस्तुतः ॥

अनन्ताय नमस्तस्मात् प्रणवादि वदेदिदम् ।
सकृतं सफलामेति तुलसी सन्निधौ मुने ॥ ४२ ॥

इति श्री अगस्तिसंहितायां षष्टोध्यायः ॥ ६ ॥