०५

सुतीक्ष्ण उवाच

पुरातन पुराणज्ञ सर्वज्ञानार्थ वित्तम ।
ततष्किमकरोद्विप्र श्रेष्टागस्त्याविका तदा ॥

ईश्वरष्केन रूपेण तामेतामव बोधयत् ।

अगस्त्य उवाच

तदाहि हृदये रामं निधाय कमलेक्षणा ।
मुक्तये निश्चिनोति स्मतमनन्य परायणा ॥

प्। ५अ) हिरण्यगर्भसिद्धान्त रहस्य श्रवणात्परम् ।
कामादिग्रस्ततातत्स्ता चिरमेव न्यवर्तत ॥

ईश्वरस्तां प्रियां सम्यज्ञानमात्रेण संस्थिताम् ।
न्यवर्तत ततो ज्ञात्वा संसारोछिति वाञ्छया ॥

ताम ब्रवीत्स भगवान् ईश्वरः सर्वकामधुक् ।
मूलप्रकृतिरार्य्ये त्वं पुरुषोहं सनातनः ॥

कारणं जगदुत्पत्तेस्तत्वं तदनुवेक्षणम् ।
कुर्वहे स्यात्तदुछित्तिर्य्यदि किं तद्धितं तव ॥

कल्पाणि मम किं तुल्य मा * र्य्यो न तु तत्परम् ।
कार्यं हि कारणाभावे कुत्र सम्पद्यते वद ॥

आवयोः सम्भविष्यन्ति सतो कल्पाणि देवताः ।
त्वत्प्रसादादिदं सर्वं न कदाचिद्भविष्यति ॥

एवं वसति किं देवि सर्वं त्यक्तुमपेक्ष्यसे ।
न युक्तमेतत् किमपि त्यक्तुं देव्यधुना त्वया ॥

इत्युक्ता साब्रवीद्देवीं नीलोत्पलदले क्षणा ।
प्राणनाथा * * किम्मे कर्तव्यमिति सा ब्रवीत् ॥

इयं सद्वासनामत्तो नैवोत्सत्ता भवत्प्रभो ।
कदाचिदपि मे नाथ त्वं तथा तु गृहाणमा ॥

तथोक्तः स ब्रवीदेनां हिमाद्रि तनयां पुनः ।
श्रीरामाराधनं देवि तदर्थं प्रतिवासरे ॥

आराधनोपकरणैरन्यथा मा कृथाः प्रिये ।
एतेनैव भयं किञ्चिदिहामुत्र भविष्यति ॥

कलौ सङ्कीर्तने नैव सर्वाघौघं विनश्यति ।
आराधनेन सङ्गेन गन्धपुष्पाक्षतादिभिः ॥

किं वक्तव्यं प्रिये सर्वं मनसा चिन्तितं च यत् ।
एवमाराधनेनैव भविष्यति न चान्यथा ॥

न गृहीज्ञानमात्रेण परत्रेह च मङ्गलम् ।
प्राप्नोति चन्द्रवदने दान हेमादिभिर्विना ॥

गृहस्थो यदि दानानि न दद्याज्जुहुदादपि ।
पूजयेद्विधिना नैव कः कुर्यादेतदन्वहम् ॥

न ब्रह्मचारिणो दातुमधिकारोस्ति भाविनि ।
प्। ५ब्) गुरुभ्योरत्र सर्वभ्यः को वादास्यत्पपेक्षितम् ॥

नारण्यवासिनां शक्तिर्न ते सन्ति कलौयुगे ।
परिव्राड् ज्ञानमात्रेण दानहोमादिभिर्विना ॥

सर्वदुःख पिशाचेभ्यो मुक्तो भवति नान्यथा ।
परिव्राड विरक्तश्च विरक्तश्च गृही तथा ॥

कुम्भीपाको निमज्जे ते तावुभौ कमलानने ।
पुण्यास्त्रियो गृहस्थाश्च मङ्गले मङ्गलार्थिनः ॥

पूजोपकरणैर्दद्युर्दानानि बहुचार्हणाम् ।
चन्दनागुरुकस्तूरी सकर्पूरहिमांशुभिः ॥

पञ्चामृताभिषेकेश्च पुष्पैस्तामरसैरपि ।
पुष्पमाल्यैश्च बहुभिर्दूर्वाभिश्चाक्षतैस्सह ॥

नीलोत्पल्लैर्मल्लिकाभिष्करवीरैश्च चम्पकैः ।
जातीप्रसूतैर्बिल्वैश्च पुन्न्नागैर्बकुलैरपि ॥

कदली केतकी पुष्पैर्वारुणाशोक किंशुकैः ।
नागरानादि पुष्पैश्च गन्धवद्भिर्मनोहरैः ॥

प्रत्युग्रैष्कोमलैश्चैव पूजयेयुः प्रयत्नतः ।
पल्लवश्चैव पत्रैश्च जलस्थ स्थलसम्भवैः ॥

एवमादिभिरन्यैश्च पुष्पैर्बहुभिरन्वहम् ।
सम्यक् सम्पाद्ययत्नेन यथाशक्त्यारनूत्तमम् ॥

त्रिकालमेककालं वा पूजयेयुरहर्निशम् ।
अत्यादृतैर्बहुविधैः पिष्टकैरिष्टसिद्धये ॥

क्षीरनीराज्य पक्वैश्च फेनापूप वटादिभिः ।
दध्योदनात्तपानीयैः सूपादिव्यं जनैरपि ॥

वटीवटोपशोकादि पदार्थैर्बहुविस्तरैः ।
आरार्तिकैर्धूपदीपै षडावृत्युपकल्पितैः ॥

बहुभि दीपमालाभिरर्चयेयुरहर्निशम् ।
कङ्कोलैलापूगफलैस्तथा जाती फलैरपि ॥

कर्पूरचूर्णसहितैस्ताम्बलैश्च सुवासितैः ।
मर्हाहेरर्हणं कुर्यु क * न्यार्थी तयान्वहम् ॥

स्वस्यशक्त्यानुसारेण सर्वसम्पाद्य यत्नतः ।
ग्रहस्थानां विधिरयं नेतरेषां वरानने ॥

दद्युर्दानानि जुहुयुरर्चितेग्नौ शुभार्थिनः ।
कल्याणं च वरारोहेण रामार्पण धियान्वहम् ॥

प्। ६अ) एवं गृहस्थनियमंस्ततैव ब्रह्मचारिणाम् ।
विधिमप्यनतिक्रम्य यथाशक्त्यनुसारतः ॥

यदि कुर्युः प्रयत्नेन पूजा तत्साधनैरिह ।
सर्वसम्पद्यते तेषां देवानां दुर्लभं च यत् ॥

कल्याणि शुद्धमच्छक्यं यदि कल्याणमिच्छसि ।
राममाराधनाद्याति यावज्जीवं यथाविधि ॥

एतेनैव वरारोहे कल्याणं तव सर्वदा ।
पुण्यस्त्रियो गृहस्था * तथैव ब्रह्मचारिणः ॥

सगणं राममाराध्य पूर्वोक्तैः साधनैरपि ।
शक्त्यासम्पादितैत्कैश्चित्पूजयेयुर्दिवानिशम् ॥

तेषां भुक्तिश्च मुक्तिश्च भवत्येव न चान्यथा ।
वानप्रस्थाश्च यतयो यद्येवं कुर्युरन्वहम् ॥

संसारान्न निवर्तन्ते विद्यति क्रमदोषतः ।
आरूढ पतितो ह्येते भवेयुः दुःखभागिनः ॥

अहिंसा परमो धर्मस्तेषामेषा न पद्धतिः ।
न हिंसा व्यतिरेकेण लभ्यन्ते तानि तानि वै ॥

भवनाकल्पितैः पूजा साधनैरेव पूज्यते ।
न वहिर्योगयुक्तानां मतस्तेषां प्रशस्यते ॥

एतच्छन्दोधियामेव सेव्यते बहुरूपतः ।
ध्यानमप्यर्चना भद्रे भद्रार्थफलदं यतः ॥

आत्मनस्तत्त्व चित्तां तु तस्याप्यात्मानुचिन्तनम् ।
उभयोरैक्य चित्तां तु पुनरावर्तयेन्न तु ॥

आत्मानं सततं रामं सम्भाव्य विहरन्ति ये ।
न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्थान चापदः ॥ ४४ ॥

इति श्री अगस्तिसंहितायां पञ्चमोध्यायः ॥ ५ ॥