पार्वत्युवाच
योगीन्द्र वन्द्य चरणद्वन्द्वानन्दैक लक्षणम् ।
कथमेव मुपास्यैनं भक्तिं सर्वेपि भेजिरे ॥
तदेतद्ब्रूहि देवेश यद्यस्ति करुणामयि ।
ईश्वर उवाच
हिरण्यगर्भसिद्धान्तं रहस्य मनघै शृणु ।
यज्ज्ञात्वा मुच्यते मोहाद्दौर्भाग्य व्याधि सञ्चयात् ॥
भद्रे तदा निदा स्यामि तत्सार ग्राहिणी मम ।
पूर्वं ब्रह्मा तपस्तेपे कल्पकोटि शत त्रयम् ॥
मुनीन्द्रैः वहुभिः सार्द्धं दुद्धर्षानशन व्रतम् ।
पुरस्कृत्याग्निमध्यस्थस्तदाराधन तत्परः ॥
आदरातिशयेनस्य नैरन्तर्य्यार्चनादिना ।
चिराय देवदेवोपि प्रत्यक्षमभवत्तदा ॥
किं च पुण्यातिरेकेण सर्वेषां तस्य च प्रिये ।
नवनीलाम्बुदश्यामः सर्वाभरणभूषितः ॥
शङ्खचक्रगदापद्म जटामुकुटमण्डितः ।
किरीटहारकेयूर रत्नकुण्डल शोभितः ॥
सन्तप्त काञ्चन प्रख्य पीतवासो युगान्वितः ।
तेजोमयः सूर्य सोम विद्युदुल्काग्निकोटयः ॥
मीलित्वाभिर्भवन्तीव प्रादुरासीत्पुरः प्रभुः ।
स्तम्भी भूय तदा ब्रह्मा क्षणं तस्थौ विमोहितः ॥
तुष्टाव मुनिभिः सार्द्धं प्रणम्य च पुनः पुनः ।
प्। ४अ) धन्योस्मिकृत कृत्योस्मि कृताथोस्मिह बन्धुभिः ॥
प्रसत्तो सीह भगवान् जीवितं सफलं मम ।
कथं स्तोष्याम्यहं देवं भगवन्निति चिन्तयन् ॥
ऋग्यजुःसमवेदैश्च शास्त्रै बहुभिरादरात् ।
सर्वैः मन्वादिभिद्धर्म प्रतिपादन तत्परैः ॥
तुष्टावेश्वरमभ्यर्च्य सन्तुष्टो मुनिभिः पुनः ।
त्वमेव विश्वतश्चक्षुर्विश्वतो मुख उच्यते ॥
विश्वतो बाहुरेकः सन् विश्वतष्पात्तथा परः ।
जनयन् भूर्भुवौ लोकौ स्वर्लोकैः सर्वशासकः ॥
अक्षभ्यामपि बाहुभ्यां कर्मभ्यां भुवनत्रयम् ।
पद्भ्यां च नासिकाभ्यां तु सर्वं सर्वत्र पश्यसि ॥
समाधत्से शृणोष्वे तत्सर्वं गछसि सर्वकृत् ।
जिघ्रस्यैव न ते किञ्चिद विज्ञातं प्रभोस्मिह ॥
ब्रह्माविष्णुश्च रुद्रश्च त्वमेव ननु केशव ।
सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् ॥
पृथिव्यप्तेजसो रूपं मरुदाकाशयोरपि ।
कार्यं कर्ताकृतिर्देव कारणत्वं हि केवलम् ॥
अणोरणीयान्महतो महीयान् मध्यतः स्वयम् ।
मध्योसि निर्विकल्पोसि यस्त्वां देवानुगच्छति ॥
एवमादि बहुस्तोत्रैस्तुतः स परमेश्वरः ।
वैदिकैः कृपया विष्णुर्ब्रह्माणमिदमब्रवीत् ॥
स्तुतस्तुष्टोस्मि ते ब्रह्मन् उग्रेण तपसाधना ।
वृणीष्वयदभीष्टं ते दास्यामि कमलोद्भवः ॥
इत्युक्तः सो ब्रवीत्तेन विष्णुना प्रभ विष्णुना ।
तुष्टोसि यदि देवेश दास्यं मे स्वीकरिष्यसि ॥
अभीष्टं देवदेवश यद्यस्ति करुणा मयि ।
असौभाग्येन दारिद्र्य दुःखेनाहं सुदुःखिताः ॥
प्रतिभाति च देवेश सर्वमस्माकमीदृशम् ।
किं करिष्यामि देवेश ब्रूहि मे पुरुषोत्तम ॥
कामक्रोधादिभिर्दोषैर्दुष्टा सर्वापि मे प्रजा ।
पूर्वाजित विशेषेण न कश्चिदवशिष्यते ॥
को वोपायो मनुष्याणां भक्तानां भक्तवत्सल ।
एतच्छरीरपातान्तेन परं मुक्ति सिद्धये ॥
प्। ४ब्) एतदुक्तः स देवोस्मै बुक्तिमुक्ति प्रसिद्धये ।
किञ्चिद्विचार्य कृपयाअ षडक्षरमुपाविशत् ॥
एकैक वर्णविन्यासं क्रमं चाङ्गानि षट्पुनः ।
तद्विधिं विधये प्रादाद्यन्त्रं मन्त्राक्षराणि च ॥
रहस्यं देवदेवोपि तन्मिथः समबोधयन् ।
तस्य तत्प्राप्तिमात्रेण तदानीमेव तत्फलम् ॥
सर्वाधिपत्यं सर्वज्ञ भवोप्यस्याभवत्तदा ।
किं चास्य भगवत्वं च यदिष्टं तदभूदपि ॥
सर्वेश्वर प्रसादेन तपसा किन्न लभ्यते ।
मुनिनामपि सर्वेषां तदा ब्रह्मा तदाज्ञया ॥
उपाधि देश तत्सर्वं ततस्तं विष्णुरब्रवीत् ।
ऋषिर्भवास्य मन्त्रस्य ब्रह्मन् त्वं सर्वमन्त्रवित् ॥
रामोहं देवता छन्दो गायत्रीछन्दसां परा ।
मान्तो यान्तो भवेद्बीजमाद्यमाद्यफलप्रदः ॥
नमः शक्ति तयो दिष्टो नमोन्तो मन्त्रनायकः ।
रामाय मध्यमो ब्रह्मन् सर्वं तस्मै निवेदयन् ॥
इह भुक्तिश्च मुक्तिश्च देहान्ते सम्भविष्यति ।
यदन्यदपि भीष्टं स्यात्तत्प्रसादात् प्रजायते ॥
अन्वतिष्टादरेणैव निरन्तर मनन्यधीः ।
चिरं मद्गत चित्तस्त्वं मामेवाराधयेच्चिरम् ॥
मामेव मनसा ध्यायन् मामैष्यसि नान्यथा ।
सूत्रं तदेतद्विस्तार्य शिष्येभ्यो ब्रूहि विस्तरात् ॥
इत्युक्तों तर्दधे देवस्तत्रैव कमलेक्षणः ।
प्रजापतिश्च भगवान् मुनिभिः सार्द्धमन्वहम् ॥
अन्वतिष्टद्विधानाति निःक्षिप्याज्ञा शिरस्यथ ।
ब्रह्मा तदाभी सर्वेषामुपदेष्टा बभूवह ॥
आर्येत वापि तेनैव सर्वाभीष्टं भविष्यति ॥ ४० ॥
इति श्री अगस्तिसंहितायां चतुर्थोध्यायः ॥ ४ ॥