०३

पार्वत्युवाच ॥

सर्वज्ञ सर्वलोकेश सर्वदुःखनिसूदन ।
सर्वेषां सुगमः पन्था को मे वद दया निधे ॥

ईश्वर उवाच

शृणुष्वावहितो देवि यदे तत्प्रतिपद्यते ।
सर्वेश्वरः सर्वमयः सर्वभूतहितेरतः ॥

सर्वेषामुपकाराय सा करो भून्निराकृतिः ।
सभक्तवत्सलो लोके स्वयमेव विचेष्टते ॥

भक्तानुरूपया देवो दुःखसुखमिवानुभूत् ।
यदा यदा च भूतानां भयमुत्पद्यते तदा ॥

तत्तद्भय विघाताय यत्तद्भूयो व्यजायत ।
मत्स्यकूर्मवराहादि रूपेण परमार्थ दृक् ॥

तत्तत्कालेषु सम्भूय सर्वेषामप्यपाकरोत् ।
साधूनामाश्रमाणां च भक्तानां भक्तवत्सल ॥

उपकर्ता निराकारस्तदाकारेण जायते ।
अजोयं जायतेनन्तः शान्तोभूद्भूतभावनः ॥

कदाचिदवतीर्थोयं सदभुक्तानुकम्पया ।
क्षीराब्धे देवदेवेशो लक्ष्मीनारायणो भुवि ॥

सशेषः शङ्खचक्राभ्यां देवैर्ब्रह्मादिभिः सह ।
प्। ३अ) त्रेतायुगे दाशरथि भूत्वा नारायणो बभौ ॥

शेषोभूल्लक्ष्मणां लक्ष्मीः शङ्खचक्रे च जानकी ।
जातौ भरतशत्रुघ्नौ देवाः सर्वेपि वानराः ॥

बभूवुरेवं सर्वेपि देवर्षि भयशान्तये ।
तत्र नारायणो देवः श्रीराम इति विश्रुतः ॥

सर्वलोकोपकाराय भूमौ सोयमवातरत् ।
तपः कुर्वन्ति तं केचिदपरोक्षं निरीक्षितुम् ॥

पञ्चाग्नि मध्ये ग्रीष्मे तु वर्षासु भुवि शेरते ।
शिशिरेषु जलेष्वेवं ततः केचन तेपिरे ॥

केचिद्भिक्षां पर्य्यटन्ति कृत्वा धारण पारनम् ।
शेषयन्ति पुनर्देहमपरे कृच्छ्रचर्यया ॥

कालश्चान्द्रायणे नैव केचित् पार्वति नीयते ।
शाकमेवापरे देहमश्नन्तः शेषयन्त्यहो ॥

इह केचिदुरारोहो नक्त पाचक भोजकाः ।
चिन्तयन्ति चिरं तत्त्व वनेष्वेकेब्दिने हृदि ॥

अनन्य मनसः शश्वद्गणयन्त्यक्षमान्वया ।
जयन्तो रामरामेति स्वधामनि निधौ मनः ॥

प्रविलीयां मृतीभूय सुखं तिष्टन्ति केचन ।
मत्पश्चिमाभिमुख्येन केचित् प्रासादिके वरे ॥

भावयन्ति चिरं देवि भगवान् प्राप्तये बुधाः ।
परिचर्य्यापरा केचित्प्रासादेष्वेव शेरते ॥

मनुष्य विमतं द्रष्टं विवहर्तुं च बन्धुवत् ।
अध्यापनाय विद्यानां योद्धमप्यपरे त * ॥

चक्रिरे वैरिणो भूत्वा केचिद्वेष्येषु तेपिरे ।
क्षीराहाराष्यरेष्वब्देस्तीरेष्वेव निषेविरे ॥

चञ्चलाक्षथ केषाञ्चित् तपः स्मर्तं न शक्यते ।
किं करिष्यति देवोयं रवं दृष्ट्वा सुदारुणम् ॥

तपस्तपस्विना मेतत् कृपयानुग्रहादिह ।
मानुषीं भूय सर्वेषां भक्तानां भक्तवत्सलः ॥

ध्यानमात्रेण देवेशि महापातक नाशकृत् ।
कीर्तनस्मरणादेव हत्या कोटि निवारणः ॥

राम रामेति रामेति ये वदन्त्येपि पापिनः ।
पापकोटिसहस्रेभ्यस्तानुद्धरति नान्यथा ॥

प्। ३ब्) उग्रेण तपसा तेषां सो भूदेवं दयानिधिः ।
यतो वाचोनिवदति मनोभिः सहयोगिनाम् ॥

भागधेयेन सर्वेषां स प्रत्यक्ष मता यत ।
अहो भाग्यातिरेकेण मनुष्योयं व्यवाहरन् ॥

तपो ददाति सौभाग्यं तपो विद्यां प्रयच्छति ।
तपसा दुर्लभं किञ्चिन्नास्ति भाविनि देहिनाम् ॥

अवाप्त सर्वकामोपि वां मनो गोचरे विभुः ।
मनुष्य इव मानुष्यमादाय भुवि मोदते ॥

अहो कृपातिरेकेण सर्वं च समुपैति वै ।
एतस्मिदपि किं लाभादधिकं गजगामिनी ॥

तपोधनं तपोभाग्यं तपः सर्वत्र सिद्धिदम् ।
अतस्तपस्विनां देवि दासत्वमपि दुर्लभम् ॥

इति श्री अगस्तिसंहितायां तृतीयोध्यायः ॥