०२

प्। २अ) पार्वत्युवाच

किमुपास्य लभेन्मुक्तिं क्रियया वा क्रिया प्रभो ।
मुमुल्लोःपुनरावृत्ति दुर्लभं भव भञ्जनम् ॥

ईश्वर उवाच

शृणु देवि महाभागे रहस्यं कथयामि ते ।
यज्ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥

अपाणिपादोजवनो गृहीत्वापीक्षतोप्यदृक् ।
अकर्णः सशृणोत्येव शब्दरूपं परं महः ॥

वेत्ति वेद्यं स सर्वज्ञैरवेद्यो वेद्यतो प्रभुः ।
स महापुरुषः पुंषां स्त्रीणां पुं व्यक्ति लक्षणः ॥

स्त्रीपुन्नपुंसकाकार रहितः पुरुषोत्तमः ।
सर्वेश्वरः सर्वरूपः सर्वदेवमयो हरिः ॥

सत्य ज्ञानमयोनन्तो नादिरानन्दविग्रहः ।
अजः स्मरणमात्रेण जन्मादि क्लेशभञ्जनः ॥

तस्यात्मनाधीः सर्वेषां पुनरावर्ति कर्तिनी ।
नियमे नैव वर्णानां स्वाश्रमोक्तेन स प्रभुः ॥

ध्येयः संसारनाशायन चैवावर्तते पुनः ।
स्वाश्रमोक्तं परित्यज्य आत्मानमुपासते ॥

तद्रूपेण न ते देविमुच्यन्ते भव बन्धनात् ।
श्रुति स्मृति पुराणेषु यो यो नियम उच्यते ॥

यस्य यस्याश्रमे पाल्यो न मुक्तव्यो मुमुक्षुभिः ।
अतो नियममादृत्य कुर्याद्ध्यानमनन्यधीः ॥

एतच्चराचरं विश्वं स्वप्न प्रत्ययवत्सुधीः ।
मिथ्या दृग्व्यतिरिक्तं यद्दृश्यत्वा वा यथा प्रिये ॥

दृग्रूपेणात्मनात्मानं विज्ञानपरिकल्पितम् ।
एतत् स्वव्यतिरिक्तं यत् सत्यानन्दात्मनः स्वयम् ॥

एकाकी यत चित्तात्मा चिन्तयेत्तदनन्यधीः ।
सोहमित्यात्मनात्मान स्वाज्ञानपरिकल्पितम् ॥

एतत् स्वव्यतिरिक्तं यद्यतः स्वेनैव कल्पयेत् ।
न पारमार्थिकं देवि यद्यस्यालोपि कल्पयेत् ॥

बालाक्षयो हिका भेदः कल्पते तत्त्व चक्षुषा ।
अस्तं पन्थाः पुराणस्यादनुवृत्तः पुरातनैः ॥

अध्यात्मविद्भिरंर्वाचो ज्ञापिताः सपराः स्मृताः ।
आब्रह्मशुद्धवंशानां मातापित्रो कुलो च ये ॥

न स्त्रियो व्यभिचारिण्यः पुरुषाश्चैव धार्मिकाः ।
प्। २ब्) यज्ञाश्च वेदाध्ययिनं सेवन्ते प्रतिपूरुषम् ॥

पूज्यन्तेति ययो यत्र गुरुशिष्यपरम्परा ।
स्वापेषु स्खलते नैव स्त्रिष्वपि ब्रह्मचारिषु ॥

नियमोप्याश्रमस्तेषु कदाचिदपि भाविनि ।
तत्कालेषु तु दानानि तदार्थिभ्यः प्रदीयते ॥

येषु वंशेषु सर्वेषां तेषामेव प्रकाशयेत् ।
ब्रह्म ब्रह्मविदां देवि गुरुशिक्षोपशिक्षया ॥

स्वयमेव परम्ब्रह्म ततोन्यं नास्ति किञ्चन ।
तदेतदखिलं ब्रह्म सत्यं सत्यं प्रकाश्यते ॥

जन्मकोटिसहस्रेषु प्रक्षाणां शेष किल्विषैः ।
कश्चिदेव नियम्याशू न परोक्षं निरीक्ष्यते ॥

सुखामृत रसा स्वाद सत्यैक ज्ञानरूपता ।
भागधेयेन विदुषा स्वयमेवानुभूयते ॥

अहो पुण्यमहौधर्मो नातः परतरं प्रिये ।
अकृतेष्वपि सर्वेषु प्रायश्चित्तमिदं परम् ॥ २५ ॥

इति श्री अगस्तिसंहितायां द्वितीयोध्यायः ॥ २ ॥