०१

प्। १अ) ॐ स्वस्ति श्रीगणेशाय नमः । ॐ नमः श्रीरामाय ।

ॐ अगस्त्योनाम देवर्षि सत्तमो गौतमीतटे ।
कदाचिद्दण्डकारण्ये सुतीक्ष्णस्याश्रमं ययौ ॥

प्रत्युञ्ज?गामतं भक्त्या गन्धपुष्पाक्षतोदकैः ।
पाद्यार्घायर्हणं चक्रे तस्मै ब्रह्मविदे मुनिः ॥

सुतीक्ष्णस्तं प्रणम्याह सुखासीनं तपो निधिम् ।
श्रीमदागमनेनैव जीवितं सफलं मम ॥

अद्य जन्म सहस्रेण तपः फलति वाङ्क्षितम् ।
कामक्रोधादिभिर्भूयः सदाहं पीडितो मुने ॥

नाद्राक्ष्यं सम्यगिष्ट्वापि क्रतुभिर्भूरि दक्षिणैः ।
सत्पात्रे सर्वदानानि दत्वापि मुनिसत्तम ॥

भवाब्धेस्तरणे याजं तपस्तप्त्वापि दुःकरम् ।
किं करिष्याम्यहं तात क्वयास्यामि च मे वद ॥

इत्युक्तः सो ब्रवीत्तेन कुम्भ भूवि गतस्पृहः ।
क्षणं विचार्य तत्पौर्वापर्येण मुनि पुङ्गवः ॥

अगस्त्य उवाच

अस्ति वक्ष्यामि ते सर्वं रहस्यं वृषभध्वजः ।
यत् प्रत्ययादयत्पूर्वं पार्वत्यै कृपयात्मवित् ॥

ईश्वर उवाच

कामक्रोधादिभिर्दोषैर्दुष्टास्तत्र पुनः पुनः ।
उत्पद्यन्ते प्रलीयन्ते पुनर्व्यामोहितास्तथा ॥

रौरवां दिषु पच्यन्ते पुनः संसारिणो भुवि ।
कर्मशेषात्प्रजायन्ते पग्वन्धवधिरादयः ॥

कृमि कीटादयो भूत्वा पुनः संसारिणो भुवि ।
कुष्टाद्युपहता केचिच्चौरव्याघ्रादिभिर्हताः ॥

प्रविशन्ति जलेग्नौ वा देशाद्देशं व्रजन्ति वा ।
परस्त्रीधनहर्तारस्तापयन्ति स तः सदा ॥

देव ब्राह्मण वित्तैस्तु ये वां जीव ममन्वहम् ।
राजसस्तामसा ये च हन्तारो वन जीविनः ॥

पुत्रदारादिभिर्युक्ता दुःखावर्ते भ्रमन्त्यहो ।
कलौपायेण सर्वेपि राजसास्तामसास्तथा ॥

निषिद्धाचरिणः सन्तो मोहयन्त्यपरान्वहून् ।
प्। १ब्) यथाभूतः प्रभुर्लोके सेवकाः स्युस्तथा विधाः ॥

अतो मदीयाः सर्वे * हिंसका स्युः प्रियाप्रिये ।
वश्याकर्षण विद्वेषस्तम्भनोच्चाटनादिषु ॥

शश्वदावां समाराध्य भवन्ति फलभागिनः ।
आवाभ्यां पिशितं रक्तं सुरां वापि सुरेश्वरि ॥

वर्णाश्रमोचितं धर्ममविचार्याप्रयन्ति ये ।
भूतप्रेतपिशाचासी भवन्ति ब्रह्मराक्षसाः ॥

पुनस्तदन्ते जायन्ते विप्रा वेदाधिकारिणः ।
न तद्रूपेण जायन्ते स्वस्वदोषानुरूपतः ॥

पार्वत्युवाच

नायं धर्मो हि देवेश परेषामुपकारकृत् ।
अतो मे ब्रूहि देवेश धर्मो यस्तं कृपा निधेः ॥

ईश्वर उवाच

सत्यं वदाम्यहं देवि यन्मां त्वं परिपृछसि ।
हन्ताहं सर्वलोकानामतोहं सैव मे प्रिया ॥

ये वा भूतानि निघ्नन्ति विधिना विधिनापि वा ।
समर्पयन्ति भूतेभ्यो मत्प्रियास्ते सदा प्रिये ॥

अहं तमो पयो नित्यं हन्मि भूतानि भाविनि ।
मत्कर्म हननं यस्मात् ततो हिंसैव मे प्रिया ॥

मत्कृत्याचारिणः सर्वे वल्लभा मम वल्लभे ।
लोका स्वाम्यनुरूपेण सेवां कुर्वन्ति सेवकाः ॥

भक्त्या पर्यन्ति ये मह्यं तवापि पिशितादिकम् ।
उत्पादयन्ति चानन्दमङ्गेभ्योपि सुरेश्वरि ॥

तवापि ये मदीयानामस्माकं पिशितादिकम् ।
तृप्तिमुत्पादयन्त्येव विधिना विधिनार्पितम् ॥

ब्रह्मा सृजति भूतानि विष्णुस्तान्येव पालयेत् ।
तान्यहं हन्मि भूतानि कृतिरस्माकमीदृशीम् ॥

रजो गुणालयो ब्रह्मा विष्णुः सत्त्वगुणालयः ।
तमो गुणालयोहं स्म स्वस्वकर्माणि कु * हे ॥

तत्तद्गुणानुगुण्येन कृयते स्माभिरीदृशम् ।
भवब्धेस्तरणं देवि हिंसकानां सुदुर्लभम् ॥

कामादि ग्रहचित्तानां कुतो मुक्तिर्वद प्रिये ॥ ३९ ॥

इति श्री अगस्तिसंहितायां प्रथमोध्यायः ॥ १ ॥