[[387]]
पञ्चविंशोऽध्यायः
कुण्डस्रुक्स्रुव लक्ष्ण हविःपाक विधानम्
अतः परं प्रवक्ष्यामि कुण्डादीनां च लक्षणम् ।
शृणुध्वमवधानेन चेतसा मुनिपुङ्गवाः । 1 ।
( पुरा मण्डलसिद्ध्यर्थं यथा क्षेत्रं विभाजितम् ।
तथैव भाजितं क्षेत्रं चतुरश्रान्महामते ।
पूर्वोद्दिष्टानि धिष्ण्यानि यथाकार्याणि तच्छृणु। )
पञ्चमं ब्रह्मकर्माद्यं मर्मप्राग्दिश्यवस्थितम् ।
अंशदीर्घेण तत्स्थेन कुर्यात्सूत्रेण लाञ्छनम् । 2 ।
अर्धचन्द्रसमाकारं भागयुग्मस्य चान्तरे।
दक्षिणोत्तरभागाभ्यां तदधस्तत्समं तथा । 3 ।
लाञ्छनद्वितयं कुर्यात्तिर्यक्सुस्थानसंस्थितम् ।
भागद्वादशकम्यैक्यं स्यात्पङ्क्तिद्वितयाद्यथा । 4 ।
ब्रह्मकर्मचतुर्थं यत्सङ्ख्यामानं च पूर्ववत् ।
मर्म तस्य च पक्षन्यावेक मर्मान्तरीकृतौ । 5 ।
ताभ्यामवस्थितेनैव सूत्रेणैन प्रजायते।
पुनर्मध्याद्वितीयं यत्कर्मचोर्ध्वे प्रवर्तते । 6 ।
तस्माद्वै त्र्यन्तरीभूतं चतुर्थं पक्षयोर्द्वये।
मर्म ततस्थेन सूत्रेण वृतार्धे पूर्ववल्लिखेत् । 7 ।
ब्रह्म कर्मणि षष्टस्य प्रत्यग्दिक् संस्थितस्य च ।
मर्मणाप्यथ वै सूत्रं कृत्वा तत्सम्प्रसार्यच । 8
यावद् वृत्तार्ध बुध्नस्थं शृङ्ग कोटेस्तु सन्निधिम् ।
एवं सूत्रद्वये दत्ते धिष्ण्यश्शङ्खा कृतिर्भवेत् । 9
तस्य भागसमा कार्या लाञ्छनैर्मेखला बहिः।
पूर्वोक्तमर्मगैस्सूत्रैर्यथावदवधारय । 10 ।
द्व्यंशदीर्गेण सूत्रेण नवश्चन्द्रकलासमम् ।
चतुर्णामन्तरेशानां प्राग्दिक्कुर्याच्च लाञ्छनम् । 11 ।
ईशवह्निपदाभ्यां तु वृत्तात्तुर्यांशसंस्थिते।
द्वेलाञ्छने समे कुर्यादेकभागादिके ततः । 12 ।
तत्समे ह्यपरे द्वे वै यत्तदा लाञ्छ्यलाञ्छने।
दक्षिणोत्तरभागाभ्यां पक्षात्सूत्रद्वयं क्षिपेत् । 13।
कृत्वा सप्तकमर्मस्थं पूर्वोद्दिष्टक्रमेण तु।
जीवसूत्रस्य पाश्चात्ये भागे पार्श्वद्वये स्थितम् । 14 ।
भागद्वयं लाञ्छनं योऽन्यर्थं चार्धवृत्तवत् ।
तच्छृङ्गकोटिके सूत्रे कृत्वा ते सम्प्रसार्या च । 15 ।
खातभूभागपर्यन्तं तत्पादाद्वटपत्रवत् ।
जायते सर्वकुण्डानां
योनोरेवं विधा शुभा । 16 ।
भागार्धमानसूत्रेण योनेरभ्यन्तरे पुनः।
अर्द्घवृत्तद्वयं दद्यात्तद्वत्सूत्रद्वयान्वितम् । 17 ।
खातस्यान्तर्हतो वर्ज्यश्चतुर्थांशस्तु कोष्टकात् ।
[[388]]
ओष्ठार्थं निखनेच्छेषं तत्समं वा पुरोदितम् । 18 ।
दैर्घ्यात्पादादिका कार्या योनिर्वै पृष्टतोन्नता।
गजोष्ठसदृशी चाग्रात्
स्पृशन्ति दशनच्छदम् । 19 ।
पुरोभागचतुर्थांशं योनेरग्राद्विसृज्य तु।
दद्यात्
प्राक्सूत्रसम्बन्धं सूत्राणां
द्वितयं परम् । 20 अनुपातेन
वै ताभ्यामग्रात्सङ्कोचमाचरेत् ।
भागपङ्क्तित्रयेणैव मेखलात्रितयं बहिः । 21 ।
सम्पाद्य चतुरश्रं तु शङ्खं तत्रितयोपरि।
अशङ्खान्मेखलानां तु प्रोन्नतत्वं सविस्तृतेः । 22 ।
मेखलानां तु शङ्खस्य यन्मध्येऽश्रचतुष्टयम् ।
तच्चक्रचिह्नितं कुर्यात्तल्लक्षणमथोच्यते । 23 ।
ब्रह्मकर्मनिरुद्धेन चतुर्भागसमेन तु।
खातार्थं प्राग्भ्रमं दद्यात्
क्षेत्रमध्ये महामते । 24 ।
बहिर्भागसमानाभिस्तद्बहिर्द्व्यंशविस्तृतम् ।
अरक्षेत्रं च तस्यापि नेमिर्भागसमा बहिः । 25 ।
भागेन तद्बहिस्त्वेका चतुरश्रा च मेखला।
भ्राम्यमध्यादरक्षेत्रं वृत्तेनैकेन वै पुनः । 26 ।
तत्र सूत्राष्टकं दद्याद्दिग्विदिक्संस्थितं पुरा।
तस्य चान्तर्गतं पश्चदष्टकं पातयेत्परम् । 27 ।
ततस्तेषां
समापाद्यमरत्वममलेक्षण।
अन्तर्वृत्तं निरुद्धेन प्रतिसूत्रस्य पक्षयोः । 28 ।
सूत्रेण लाञ्छनं कुर्यान्नाभिनेमिभ्रमावधेः।
एकांशादर्धमानं च नेमिवृत्तस्य चान्तरे । 29 ।
द्वाभ्यां द्वाभ्यामराभ्यां तु मध्ये कुर्यात्प्रधिम्प्रधिम् ।
विस्तारप्रोन्नता नाभिः कूर्मपृष्ठोपमाकर । 30 ।
नेमिर्दर्पणवत्कार्या त्वीषन्निम्नावसानतः।
शिष्टम्
पुरोदितं सर्वमथ पद्माकृतिं शृणु । 31 ।
भागार्थं भ्रामयेन्नाभेर्बहिः केसरसिद्धये।
भ्रामयेदपरं चार्धमरक्षेत्रस्य बाह्यतः । 32 ।
नीत्वा लोपमनेनैव विधिना नेमिमण्डलम् ।
अरसूत्रभ्रमं कुर्यादन्तः पद्मदळाष्टकम् । 33 ।
केसरभ्रमरुद्धेन सूत्रेणार्देन्दुलक्षणम् ।
तच्छृङ्गकोटिसंस्थेन परिधेर्बाह्यतेन तु । 34 ।
सूत्रद्वयेन पत्राग्रं
कुर्याद्बाह्यभ्रमावनेः।
निरन्तराणामामूलात्केसराणां महामते । 35 ।
कर्णिकोच्छ्रायतुल्यानां विभागं जनयेत्स्फुटम् ।
शङ्खकोणचतुष्के तु शेषं पूर्ववदाचरेत् । 36 ।
योनिरेकेन भागेन चतुर्भिर्मेखलागणम् ।
खातं पूर्वसमं किं तु वृत्ते वृत्तास्तु मेखलाः । 37 ।
चतुरश्रे तदाकारा इत्युक्तं कुण्डपञ्चकम् ।
कालमाहुतिसङ्ख्यां च होमद्रव्यं प्रभूतताम् । 38 ।
ज्ञात्वैवमेकहस्तात्तु कुर्यादष्टकरावधि।
ततस्स्रुक्स्रुवयोरद्य लक्षणं चोच्यते द्विजाः । 39 ।
[[389]]
स्वबाहुदण्डमानेन मन्त्रज्ञः कल्पयेत्पुरा।
दैवीस्रुक्सिद्धये काष्ठविस्ताराच्च षडङ्गुलम् । 40।
दैर्घ्याद्भागद्वयेनाथ दण्डमष्टाश्रमुच्यते।
सार्धद्व्यङ्गुलमानं
तु कृत्वा शेषं तु शोधयेत् । 41 अमलं
दण्डमूले तु कुर्यात्पद्माननं शुभम् ।
कर्णिकास्थो यथा दण्डो भवेद्वै मुनिसत्तम । 42 ।
त्रिवळिं त्वथ वा शङ्खं यथादण्डस्तदास्यगः।
कृत्वाग्रस्थं द्विधा भागं समांशेन प्रयत्नतः । 43 ।
द्व्यङ्गुलं चाथ भागस्य वैपुल्यं चाग्रतः क्रमात् ।
दण्डवस्थस्य भागस्य त्र्यङ्गुलं परितस्समम् । 44 ।
दत्वा भ्रमं ततः कुर्यान्निम्नं खातं सुलक्षणम् ।
तन्मध्ये पङ्कजङ्कुर्यात्प्रफुल्लं चोर्ध्वपल्लवम् । 45 ।
आज्यकोशं तु तं विद्धि सप्तपञ्चफलोपमम् ।
पद्ममध्ये निमग्ना च कर्णिका वै सकेसरा । 46 ।
द्वादशारं बहिश्चक्रं पद्मस्याष्टदळस्य च।
पद्मबाह्ये तु कर्तव्यं शङ्खं कोणचतुष्टये । 47 ।
ततोग्रभागस्य मुने पार्श्वयोरुभयोरपि।
एकैकमङ्गुळं शोध्यं संविभज्यत्रिधा ततः । 48 ।
कर्णमेकेन भागेन मध्ये त्वास्यौ द्वयेन तु।
विच्छिन्नं वक्त्रमंसाभ्यां मध्यमेकाङ्गुलेन तु । 49 ।
विस्तारं कर्णतुल्यं तु वर्जयित्वा ततः पुरा।
कर्णदेशात्समारभ्य शेषं तु परिशोधयेत् । 50 ।
क्रमागतेन सूत्रेण स्याद्वराहाननं यथा।
ततः पुष्करपर्णात्तु मुखाग्रं यावदेव हि । 51 ।
कुर्यादाज्यप्रणाळं तु समन्यूनाङ्गुळे मुने।
ईषद्वै क्रमसूक्ष्मं
च नाज्यं याति यथाद्रुतम् । 52 ।
हस्तमात्रं ततः कुर्यात्स्रुवं विप्र मनोरमम् ।
विस्तारं द्व्यङ्गुळं काष्ठं वैपुल्याच्च तदर्धतः । 53 ।
विस्तारमानदग्रे स्याद्वृत्तं
कुर्याद्
द्विरङ्गुळम् ।
क्रमात्तं
निम्नखातं च गोळकेनैव मुद्रितम् । 54 ।
मध्ये मृगपदाकारचिह्नेन तु विराजितम् ।
विस्तारस्य त्रिभागेन ग्रीवा साग्रा त्रिरङ्गुळा । 55 ।
मूले चोभयतः कुर्यात्स्वस्तिकं द्व्यङ्गुळायतम् ।
विचित्ररचनायुक्तदण्डं
श्लक्ष्णं
तु वा भवेत् । 56 ।
स्रुवमेवं
विधं कुर्याद्धोमकर्मणि साधकः।
ततस्तु प्रापणादीनां साधनं शृणुत द्विजाः । 57 ।
शालिमुद्गयवा माषा गोधूमाश्च प्रियङ्गवः।
तिलास्सप्त त्विमे ग्राम्या वै चरुकर्मणि । 58 ।
वेणुश्यामाक नीवारा जर्तिलाश्च गवीधुकाः।
कर्कटाः कनकास्सप्त विज्ञेयास्तु वनोद्भवाः । 59 ।
शालयस्तेषु मुख्यास्स्युस्तदन्यास्तदभावतः।
रक्तशाल्यो महाशाल्यः कळमा गन्धशालयः । 60 ।
श्वेतशाल्यस्सशूकाश्च हेमाभा गर्भशालयः।
[[390]]
सुकुमाराश्च सूक्ष्माश्च दशैते शालयः स्मृताः । 61 ।
अन्तर्भेदाश्च बहवस्सप्त मुद्गा उदाहृताः ।
मुद्गाः कृष्णाश्च हैमाश्च श्वेताः पीताः महत्तराः । 62 ।
अञ्जनाभश्च सप्तैते अन्तर्भेदा उदाहृताः।
श्वेताः कृष्णाश्च पीताश्च वन्याश्चैव महातिलाः । 63 ।
तिलानां पञ्च भेदास्तु ग्राह्यास्स्युः परिकीर्तिताः।
उपाहृतानि केदाराद्दैवीयाश्च कृषीवलैः । 64 ।
शालिमुद्गादि भेदानि कर्मण्यन्यार्चने हरेः।
अवपन्नादिभिर्दोषैरष्टभिर्वर्जितानि च । 65 ।
आनयेदघातार्थमवघातगृहे पुरा।
गोमयेन समालिप्ते सुधाद्यैः परिमण्डिते । 66 ।
शोधिते शतधारेण पवित्रेण कुशाम्बुभिः।
स्थले प्रणवमुच्चार्य प्राम्मुखोवाप्युदम्मुखः । 67 ।
दीक्षितैर्नियतैर्विप्रैर्धृतचक्रादि लक्षणैः।
सुस्नातैर्लोहदार्वाश्म मृन्मयाणि समन्ततः । 68 ।
स्थापयित्वोलूखलानि क्षाळितैः खादिरैर्धृढैः।
मुसलैरवहन्यास्ते द्वादशाक्षरविद्यया । 69 ।
निस्तुषान्निष्कणान्
कृत्वा तण्डुलान्
शूर्पकोटरैः।
तैस्तावदवहन्तव्या यावन्मुक्ताफलप्रभाः । 70 ।
अखण्डिताश्चानणवः कृष्णबिन्दुविवर्जिताः ।
मुद्गभेदास्तथा कार्यास्सारवन्तश्च निस्तुषः । 71 ।
साध्वीभिर्ब्राह्मणीभिर्वा दीक्षितानामभावतः।
शूद्रैर्वा दीक्षितैर्देवदासीभिर्देवसद्मनि । 72 ।
हविःपाकादिकर्मार्थं कार्यावहननक्रिया।
वैष्णवानां गृहेशुद्धे दीक्षितानां गृहेपि वा । 73 ।
तण्डुलांस्तु प्रगृह्णीयाद्द्विधिक्षुण्णांस्तु देशिकः।
अकणानतुषानेव क्रिमिहीनानपि क्रमात् । 74 ।
केशपाषाण हीनां स्तु प्राण्यङ्गरहितांस्तथा।
भस्माङ्गारविहीनांस्तु अभग्नानलघूनपि । 75 ।
कणैस्तु भवतिव्याधिस्तुषैर्दारिद्र्यकं भवेत् ।
क्रिमिभिः पुत्रनाशः स्यात्केशैर्दारविनाशनम् । 76 ।
पाषाणैर्मरणं विद्धि अशन्या वह्निना जलैः।
प्राण्यङ्गैर्व्याधयः प्रोक्ता भस्मना कलहो ध्रुवः । 77 ।
अङ्गारैर्वह्निना बाधो भग्नैर्भङ्गस्तु विग्रहे।
प्रवासो लघुभिश्चैव तस्मात्तान्परिवर्जयेत् । 78 ।
सम्भारानखिलानेवं प्राक्सङ्कल्पितसम्मतान् ।
सम्भृत्य देशिकस्सार्धं साधकैः पाचकैरपि । 79 ।
अवघातगृहं प्राप्य तत्रस्थं तण्डुलादिकम् ।
“ब्रह्मशुक्र मिवे’’त्युक्त्वा नेत्रेणावलोकयेत् । 80 ।
प्राग्वत्संशोधयेत्तानि दहनाप्यायनादिभिः।
वेदळादिष्वशुद्धेषु पात्रेषु विततेष्वपि । 81 ।
पचनार्थं समुद्धृत्य तत्सर्वं तण्डुलादिकम् ।
[[391]]
तत्तत्पात्रसमुद्धारे निपुणैः परिचारकैः । 82 ।
सुस्नातैश्च सुवेषैश्च वस्त्रेणाच्छादिताऽऽननैः।
आनयेत्पचनागारं शङ्खतूर्यादिमङ्गळैः । 83 ।
द्वारस्योत्तरपार्श्वे तु गोमयेनोपलेपिते।
प्रदेशे निक्षिपेत्तानि भाजनानि यथाक्रमम् । 84 ।
गुळोपदंशपूर्वाणि लवणादिरसानि च।
विन्यसेद्
द्वारदिग्भागे दधिक्षीरघृतानि च । 85 ।
निदध्यान्नैर्ऋते भागे होमोपकरणान्यपि।
चतुर्भिर्व्यापकैर्मन्त्रैर्वस्त्रपूतेन वारिणा । 86 ।
क्षाळयित्वा चतुर्धा वै यथा स्यात्तण्डुलादिषु।
शिलाशकलनिर्मुक्तं निस्तुषं
निष्कणं यथा । 87 ।
अपक्वव्रीहिविहित तण्डुलेनैव साधितम् ।
गव्यदुग्दाज्यसम्सिक्तं
गुडखण्डफलान्वितम् । 88 ।
अक्षारलवणोपेतं देवानां हविरुच्यते।
तदेव परमान्नं स्यात्
क्षीराज्यगुळपाचितम् । 89 ।
घृतसिक्तं तु सिद्धान्नमभावे हविरुच्यते।
अक्षारलवणं सिद्धं
गुळक्षीरफलान्वितम् । 90 ।
शान्तये व्रतयज्ञे च सम्साध्यं हविरुत्तमम् ।
पायसान्नं
गुडान्नं च मुद्गान्नं केवलोदनम् । 91 ।
दध्यन्नं
च तिलान्नं च निशान्नं सर्वमिश्रितम् ।
इत्यष्टधासमुद्धिष्टं हविर्देवस्य सम्मतम् । 92 ।
प्रारभेतहविःपाकं वक्ष्यमाणेन वर्त्मना।
आहृत्योदनपाकाग्निं कुण्डादौपासनानलात् । 93 ।
चुल्ल्यां निधाय तारेण “सप्तेतेऽग्न’’ इतीरयन् ।
इन्धनानि विनिक्षिप्य यज्ञदारुमयानि च । 94 ।
क्रिमिकीटादिहीनानि “ ज्योतीरात्रीति’’ मन्त्रतः।
प्रज्वाल्य व्यजनेनैव ततः स्थालीश्च ताम्रजाः । 95 ।
प्रक्षाळ्य तिन्त्रिणीतोयैः केवलैर्मृन्मयांस्ततः।
प्रक्षाळ्य द्वादशार्णेन वीर्यमन्त्रेण मन्त्रवित् । 96 ।
घृतेनालेपयेत्तासामन्तरं व्यूहविद्यया।
तण्डुलान्प्रक्षिपेत्तासु गायत्र्या विष्णुपूर्वया । 97 ।
अम्भस्यपार” इति च मन्त्रेण सहृदा पुनः।
जलेन पूरयेदूर्ध्वे तण्डुलान्प्रतिपात्रकान् । 98 ।
तण्डुलाधिकमानस्य षट्प्रस्थमुदकम्
भवेत् ।
कर्मारम्भेण तास्स्थलाश्चुल्यामारोपयेत्ततः । 99 ।
चक्रमन्त्रेणापिधानैस्तास्सञ्छाद्य यथाक्रमम् ।
पाककाले समुद्घाट्य वीर्यमन्त्रेण तद् ध्वनिम् । 100 ।
निरीक्ष्य नेत्रमन्त्रेण दर्व्यामूलं समुद्धरन् ।
चतुर्धावर्तयेच्चैव चक्रेणाच्छादयेत्पुनः । 101 ।
पक्वे जलमपि स्राव्य द्वादशार्णं समुच्चरन् ।
विद्रावितेन गव्येन हविषा चाभिघार्य च । 102 ।
शुचीं सत्कृतयेत्यादिमन्त्रेणाधारपृष्ठतः।
[[392]]
शोधिते भूतले नाथ व्रीहिभिर्वा प्रसारिते । 103 ।
एवं हवीषि सिद्धानि पाणिभ्यामवरोप्य च।
अस्त्राभिमन्त्रितेनैव बहिः प्रक्षाळ्य वारिणा । 104 ।
तन्मन्त्रितेन शुद्धेन वस्त्रेणावर्तयेत्ततः।
भस्मना मथितेनाब्धिर्वासुदेवादि वाचकैः । 105 ।
तर्जन्याद्यङ्गुळीभिश्च कुर्याद्दिक्षूर्ध्वपुण्ड्रकम् ।
समाच्छाद्य पिधानैश्च वसनैः क्षाळितैस्ततः । 106 ।
इत्युक्तं साधनं वक्ष्ये सम्यक् शुद्धान्नस्य विशेषतः।
अन्येषां साधनं वक्ष्ये परमान्नपुरस्सरम् । 107 ।
तण्डुलस्य तु तुर्यांशं पायसे मुद्गसारकम् ।
तन्मानं घृतमुद्दिष्टं तच्चतुर्गुणितं पयः । 108 ।
नाळिकेरोद्भवं वापि तत्समं कथितं पयः।
चतुर्गुणं तण्डुलाच्च खण्डचूर्णसमन्वितम् । 109 ।
साधयेदुक्तमार्गेण समन्त्रं केवलोदने।
हंसश्शुचिषोदित्यत्र गोक्षीरस्य निषेचनम् । 110 ।
तदभावे नियोक्तव्यं नाळिकेरोद्भवं पयः।
अब्जागोजेति तत्क्षेपः स्याद्गव्यप्रतियोजने । 111 ।
गुळान्नपाचने क्षीरमपहायैक्षवं रसम् ।
कथितं
गुलखण्डं वा क्षीरमानानुसारतः । 112 ।
क्षीरप्रक्षेपमन्त्रेन गुळादीनि नियोजयेत् ।
मुद्गान्ने तण्डुलं सम्यम्मुद्गसारं नियोजयेत् । 113 ।
शुद्धान्ने तु पुरा प्रोक्तं विशेषेण घृताप्लुतम् ।
दध्योदनं दधिक्षेपं क्षीरार्धपरिसम्मितम् । 114 ।
कदळीपनसाम्रादिगुळखण्डसमन्वितम् ।
खण्डचूर्णसमोपेतं कृसरान्ने तु मुद्गकम् । 115 ।
आडकस्य हरिद्रान्ने निशापिष्ठं फलं भवेत् ।
मुद्गसारसमोपेतं शुद्धखण्डादिसंयुतम् । 116 ।
मिश्रान्ने योजयेत्किञ्चित्
क्षीराज्ययुतसम्प्लुतम् ।
शान्त्यर्थं पयसामिश्रं पुष्ट्यर्थे गुळमिश्रितम् । 117 ।
वश्यार्थे मुद्गसारोत्थमाकृष्टौ दधिमिश्रितम् ।
कृसरान्नां
तु प्रीत्यर्थे मारणोच्चाटनेऽपि च । 118 ।
स्तम्भने च हरिद्रान्नं मिश्रान्नं मोहनं भवेत् ।
साधारनं
तु शुद्धान्नं यात्रासु मृगयादिके । 119 ।
विशेषेण तु दध्यन्नं हेमरजतपात्रगम् ।
मरीचिशुण्ठिलिकुच तिन्त्रिणीरसमिश्रितम् । 120 ।
जीर्णेन जीरकोत्थेन संस्कुर्याद्द्रववस्तुभिः।
रसभेदसमुत्थानि पनसद्वितयोद्भवेत् । 121 ।
चूतदेशसमुत्थानि नातिपक्वानि कालतः ।
बृहत्युर्वारु वार्ताक कूश्माण्डप्रभवानि च । 122 ।
कारवल्लीलतोत्थानि कार्कोटप्रभवानि च।
पटोलद्वितयोत्थानि कोशातक्युद्भवानि च । 123 ।
अलाबुकर्करीनिम्ब भेदोत्थं तिन्त्रिणीफलम् ।
[[393]]
क्षुद्रकन्दसमोपेतं च वल्लीकन्दद्वयं तथा । 124 ।
सूरणद्वयकन्दं च तथा पिण्डारकद्वयम् ।
पद्मोत्पलसमुत्थं
च हविर्योग्यं
विशेषतः । 125 ।
उच्छिष्टं क्रिमिदुष्टं
च शिवाद्यैदर्शितं तथा।
घृतं
लालाजलस्पृष्ट ममेध्यस्थलसम्भवम् । 126 ।
पादस्पृष्टमकालोत्थमाहृतं चाशुचिस्थले।
भुक्तशेषं
तथाऽस्पृश्य स्पृष्टं
दत्तावशेषकम् । 127 परीक्ष्य
बहुधा मन्त्री वर्जयेत्पाककर्मणि।
जीवन्तं
वास्तुकं शाकं कारवल्लीदळं
तथा । 128 तुम्बीदळं
च पिण्डीं च चुच्चुमुद्गदळानि च।
शाकिनीं शतपर्वाणं तथैव श्वासमर्दितम् । 129 ।
आगस्त्यं पाचयेच्छाकं विहितम्
ब्राह्मणस्य च।
शाकमूलानि चान्यानि गृह्णीयादनिषेधने । 130 ।
छेदयित्वा लवित्रेण वीर्यमन्त्रं समुच्चरन् ।
निरीक्ष्य क्रिमिकीटादीन्
प्रक्षाल्य बहुधा जलैः । 131 ।
प्राग्वत्
स्थालीषु निक्षिप्य प्रत्येकं वाऽथ मिश्रितम् ।
सेन्दवैस्समरीचैश्च सर्षपैर्जीरकैरपि । 132 ।
श्रीपर्णीदळसम्मिश्रैः पयोभिर्नारिकेळजैः।
तत्फलैरपि सङ्घृष्टैर्मधुभिर्घृतमिश्रितैः । 133 ।
मसूरमाषमुद्गभेदादीनयषान्लवणादिभिः।
रसभेदैस्समेतांश्च साधयेत्तदनन्तरम् । 134 ।
रसभेदसमेतांश्च साधयेत्तदनन्तरम् ।
त्वचोव्यपोह्य मुद्गोत्थैस्सारैः क्षीरेण पाचितैः । 135 ।
मरीचिजीरलवणैर्घृतयुक्तैश्च मर्दितैः।
दध्यादिभिश्च सम्स्कुर्याद्गुल्माषं
सरसं यथा । 136 ।
स्थालीशरावपूर्णेषु पाचितानि पुरैव तु।
कदळीपनसादीनि नाळिकेरफलानि च । 137 ।
कूश्माण्डबृहतीपूग कारवल्लीफलानि च।
क्षुद्रकन्दसमेतानि वल्लीपिण्डारकानि च । 138 ।
अम्बरीषादिपात्रेषु विततेषु समन्ततः।
घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च । 139 ।
चूर्णीभूतैर्मरीचैश्च जीरकेण घृतेन च।
प्रतापितानि स्निग्धानि दर्व्यालोड्यपुनःपुनः । 140 ।
स्थापनीयानि भाण्डेषु छादितान्यम्बरादिभिः।
आम्रादीनि च शुष्काणि अशुष्काणि फलानि च । 141
तिन्त्रिणीगुळमिश्राणि मरीचैर्जीरकैरपि।
नाळिकेरोत्थपयसा सर्षपैः पोषितैरपि । 142 ।
स्थापयेदात्मसारोत्थं लवणेन समन्वितम् ।
शृङ्गिबेरं च लिकुचं दळितं हरितं च वा । 143 ।
वासितं लवणोपेतं लिकुचोत्थरसेन तु।
कदळीपनसाम्राणां केवलानि फलानि च । 144 ।
गोधूमशालिजैः पिष्टैर्गुळपाकेन लोळितैः।
पाचितैर्मुद्गसारैश्च शकलैर्नाळिकेरजैः । 145 ।
[[394]]
जीरकैस्समरीचैश्च घृतेऽपूपानि पाचयेत् ।
सुवृत्तान्याम्रतुल्यानि धात्रीफलसमानि च। 146 ।
न्यग्रोधफलतुल्यानि लिकुचाद्याकृतीनि च ।
अन्तर्निक्षिप्तमुद्गानि रसवन्ति समन्ततः। 147 ।
गुळपिष्टेन बद्धानि नाळिकेराकृतीनि च।
नानाभेदसमुत्थानि घृतेऽपूपानि साधयेत् । 148 ।
शालिव्रीहिसमुत्थां श्च स्थालीषु स्फुटितानि च।
लघूनि वह्नितप्तानि गुळपाकान्वितानि च। 149 ।
चूर्णितैश्च मरीचैश्च जीरकैः खण्डितैरपि।
नाळिकेरफलैश्शुष्कैः पृथुकानि च साधयेत् । 150 ।
भर्जितैश्शालिपिष्टैश्च मिश्रितैर्जीरकादिना।
लोलितैर्गुळपाकेन पिण्डीभूतैः पृथक्पृथक् । 151 ।
सक्तु स्यात्साधितं तद्वत्तिलैः पिण्डं सुभर्जितैः।
तिलपिण्ड इति ख्यातस्सदा देवस्य सम्मतः । 152 ।
सुशृतं च घनीभूतं खण्डचूर्णसमन्वितम् ।
क्षीरं च मधुसर्पिभ्यां संवृतं सुघनं दधि । 153 ।
तरुणैश्शकलीभूतैरुर्वारुसहकारयोः।
रुक्षसर्षपसम्मिश्रं समरीचं तथा दधि । 154 ।
पॄथक्पात्रगतं शुद्धं गाळितं माक्षिकं मधु।
द्राक्षापनसरम्भाम्र समुत्थैर्मर्दितैरसैः । 155 ।
लोळितं गुळखण्डेन जीरकादिसमन्वितम् ।
रसालमेतद्विज्ञेयं दधिमिश्रं तु पानकम् । 156 ।
केवलं दधिसम्मिश्रं वारिणा तत्समेन तु।
मथितं समरीचं च लवणैश्चाधिवासितम् । 157 ।
खण्डचूर्णसमोपेतं पानकं श्रमशान्तिकृत् ।
अन्नानामपि संस्कारो पुरा मन्त्राः प्रकीर्तिताः । 158 तदन्येषां
तु संस्कारो द्वादशार्णेन वा हृदा।
साङ्गेन मूलमन्त्रेण सर्वं संसाधयीत वा । 159 ।
विष्णुगायत्रियावाऽथ पञ्चोपनिषदाऽथ वा।
संसाद्य परमान्नाद्यमुपदंशान्वितं क्रमात् । 160 ।
फलतादिषु संस्थाप्य चोर्ध्वपुण्ड्राद्यलङ्कृतम् ।
महानसद्वारभूमेरालयद्वार पश्चिमम् । 161 ।
गोमयेनानुलिप्तेन सुधाचूर्णेन शोभिना।
यथास्त्रमन्त्रसञ्जप्तवारि धारापुरस्सरम् । 162 ।
शङ्खतूर्यादिघोषेण तथा मङ्गळगीतिभिः।
प्रदीपच्छत्रयुक्तैश्च हविःपालनतत्परैः । 163 ।
वेत्रपाणिभिरन्यैश्च नास्तिकोत्सारणोद्यतैः।
स्नाताश्शुक्लाम्बरा दक्षाः कृतपादा वने जनाः । 164 ।
स्वचान्ताः कुशहस्ताश्च मृदा वा चन्दनादिना।
धृतोर्ध्वपुण्ड्रा नियता मनोवाक्कायकर्मभिः। 165।
सितकञ्चुकधर्तारः स्थगितानननासिकाः।
बलमन्त्रेण भाण्डानि वहेयुः परिचारकाः । 166 ।
मूलालयाग्रदेशस्थे मण्टपे विततेऽथ वा।
[[395]]
प्रथमावरणे धाम्नो दक्षिणे मालिकावनौ । 167 ।
सुगुप्ते सुवितानाड्ये दीपमालाद्यलङ्कृते।
प्रदेशे वस्त्रसञ्छन्ने स्थाप्यानि फलकादिके । 168 ।
हविःप्रमाणतुल्याश्च हेमराजतताम्रजाः।
स्थालिकाश्च यथालिप्ताः प्रक्षाळ्यास्त्रेण वारिणा । 169
पाणिना दक्षिणेनैव परामृश्याथ तेन च।
तारेण तासु निक्षिप्याधाराज्यस्य समन्ततः । 170 ।
स्थालीभ्यस्समुपाहृत्य दर्व्या हेमादिक्लृप्तया।
तदूर्ध्वे निक्षिपेन्मौनी पायसादीन्यनुक्रमात् । 171 ।
घृतेनाप्लुत्य मधुरव्यञ्जनानि समन्ततः।
दधिक्षीरादिपूर्णानि चषकाण्यूर्ध्वतो न्यसेत् । 172 ।
सिद्धान्यपूपभेदानि पृथुकादीनि यान्यपि।
पानकानि विचित्राणि पृथक्पात्रगतानि च । 173 ।
कर्पूरचन्दनक्षोदप्रसूनैश्चाधिवासितम् ।
शीतळं वस्त्रसञ्छन्नं पानीयं करकादिषु । 174 ।
एलालवङ्गतक्कोलजातीपूगफलान्वितम् ।
कर्पूरतैलसम्मिश्रं खण्डितं च क्षुरादिभिः । 175 ।
नागवल्लीदळोपेतं सचूर्णं चेन्द्रसंयुतम् ।
ताम्बूलं च प्रतिष्ठाप्य पात्रेष्वब्जाकृतीषु च । 176 ।
चन्दनादीनि गन्धानि तथा नानाविधास्स्रजः ।
स्थापयित्वा यथास्थानमाराधकमुखेन तु । 177 ।
विज्ञापयेयुर्देवस्य तत्तत्कर्माधिकारिणः।
भोज्यासनाधिरूढस्य देवस्याराधकस्स्वयम् । 178 ।
अर्घ्याद्यैः प्राग्वदभ्यर्च्य साध्यबीजावसानकैः।
द्वारस्याभ्यन्तरगते देवस्य पुरतः स्थले । 179 ।
शोधिते चास्त्रतोयेन चन्दनाद्यैश्च मण्डिते।
मण्डले तु परिस्तीर्य तण्डुलानि यथारुचि । 180 ।
क्षाळितं वस्त्रखण्डं तु तदूर्ध्वे सम्प्रसार्य च।
अन्नाधारं प्रतिष्ठाप्य तदूर्ध्वे लोहनिर्मितम् । 181 ।
ऊर्ध्वतो वसनार्थं तत्तदूर्ध्वे स्रोतसम्प्लुते।
विन्यसेत्परमान्नादिपात्राण्येकैकशः क्रमात् । 182 ।
तर्पणं तु प्रतिष्ठाप्य हस्तप्रक्षाळनाम्भसा।
कुर्याद्दक्षकरे देवे प्रागुपस्तरणार्हणम् । 183 ।
ततो देवादिमूर्तीनां हवींषि विनिवेशयेत् ।
प्रथमं पायसं पश्चाद्
गुळान्नं मुद्गभेदितम् । 184 ।
शुद्धान्नं तिलसम्मिश्रं निशान्नं दधिमिश्रितम् ।
मिश्रान्नं
च क्रमाद्दद्यादपूपानि तदन्तिमे । 185 ।
पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च।
कदळीपनसादीनि फलानि विविधानि च । 186 ।
रसभेदसमेतानि पानकानि च तर्पणम् ।
नाळिकेररसं चैव हस्तप्रक्षाळनं ततः । 187 ।
उपस्पर्शं च ताम्बूलं दत्वा प्रागुक्तवर्त्मना।
[[396]]
राजभिर्हविषोनित्यं प्राचुर्ये कल्पिते सति । 188 ।
आधारेषु प्रतिष्ठाप्य वितते गर्भमन्दिरे।
निवेद्यानि यथायोग मन्यथा सङ्कटे भुवि । 189 ।
तदेकस्मिन्
दृढाधारे वस्त्रच्छन्ने यथाक्रमम् ।
निधाय विनिवेद्याथ तथा तमपनीय च । 190 ।
प्रोक्षिते चास्त्रमन्त्रेण निक्षेप्यं हविरन्तरम् ।
निवेदयेद्यथापूर्वं विशेषेऽत्र समीरितः । 191 ।
मन्त्रक्रियाविहीनं च गन्धदुष्टं विवर्णकम् ।
अतिपक्वमपक्वं च विस्रावितजलं तथा । 192 ।
अदीक्षितैश्च पतितैरीक्षितं प्रतिलोमजैः।
अत्युष्णमतिशीतं च प्रमाणरहितं तथा । 193 ।
समुद्धृतं च निश्शेषं मुखवातादिदूषितम् ।
व्यञ्जनादिविहीनं चाप्यपात्रस्थमगोपितम् । 194 ।
अन्तस्तण्डुलसंयुक्तं भिन्नभाण्डगतं तथा । ।
अनाधारं परस्पृष्टं
श्वसितापहतं तथा । 195 ।
अङ्गारतुषसम्युक्तं केशपाषानसंयुतम् ।
क्रिमिलोष्टादिभिर्जुष्टम्
प्राण्यङ्गादिसमन्वितम्
अपूर्णपाकमाघाररहितं व्यञ्जनाज्झितम् ।
गव्याज्यदधिनिर्मुक्तं काङ्क्षितं चेतरैर्जनैः । 197,।
अपिधानविनिर्मुक्तं देवतान्तरसम्मितम् ।
एवं दुष्टं
हविर्बुध्वा प्रक्षिपेज्जलमध्यतः । 198 ।
मोहात्त्यक्त हविर्विष्णोर्यदि दद्यात्तर्चनम् ।
निरर्थकं स्यात्कर्तॄणां विनाशं च भवेद्धृवम् । 199 ।
तस्मात्तदैव मूलस्य सहस्रं जपमाचरेत् ।
ततस्तत्राश्रयाणां च स्थापितानां विधानतः । 200 ।
विभवव्यूहमुर्तीनां मण्टपे गोपुरादिषु।
स्थापितानां
च मूर्तीनां प्रादुर्भावात्मनामपि । 201 ।
पूजितानां
यथान्यायं सत्यादीनां खगात्मनाम् ।
कुमुदादिगणेशानां द्वारस्थानामपि सद्मनि । 202 ।
प्रतिष्ठितानां भक्तानां प्रागुक्तानां विधानतः।
तत्तन्मन्त्रेण विधिवत्
सिद्धानि च पृथक्पृथक् । 203
हवींषिपायसादीनि क्रमेण विनिवेशयेत् ।
गारुडेनैव मन्त्रेण बल्यर्थं साधयेत्ततः । 204 ।
अन्येषां प्रणवेनैव सिद्धमन्नं निवेदयेत् ।
अग्निकार्यहविस्साध्यं यथामूलालयाकृतेः । 205 ।
सर्वाण्यपूपभेदानि नाग्निकार्ये हितानि वै।
अन्यानि पायसादीनि नित्यं नैमित्तिकादिषु । 206 ।
होतव्यानि विशेषेण फलानि विविधानि च।
भूतानां बलिदानेषु पायसादीनि नित्यशः । 207 ।
अपूपानि च सक्तूनि पृथुकानि फलानि च।
तिलपिण्डसमेतानि मिश्रितान्यथ वा पृथक् । 208 ।
दातव्यानि यथान्यानं तेषां तृप्तिकरं यतः।
[[397]]
तेन क्रूरादिभिर्ब्रह्मन्नुत्सवादिषु कर्मसु । 209 ।
तत्र तत्रोक्तविधिना बलिद्रव्याण्युपाहरेत् ।
अभावे सर्ववस्तूनां सोदकं केवलोदनम् । 210 ।
तण्डुलंवोदकेनैव दातव्यं मन्त्रवित्तमैः।
इतिसम्यक्समाख्यातं हविषां
साधनादिकम् । 211
इत्येवं मुनिशार्दूला भवद्भिर्यद्यदर्थितम् ।
तत्सर्वं
विस्तरेणैव यथावत्प्रकटीकृतम् । 212 ।
सर्वोत्तमा संहितैषा सात्वतार्थप्रकाशिका।
नाख्येया दुष्टबुद्धीनामभक्तानां जनार्दने । 213 ।
गर्वात्सच्छास्त्रसद्वस्तुनिन्दकानां
विशेषतः।
शास्त्रापकर्तृणामन्यदर्शने भावितात्मनाम् । 214 ।
देवसंसक्तबुद्धीनां स्वधर्मनिरतात्मनाम् ।
संसारभयभीरूणां प्रपन्नानां महात्मनाम् । 215 ।
समाख्येयमिदं शास्त्रं दीक्षां कृत्वा यथाविधि।
शास्त्रार्थश्चानुवक्तव्यो मन्त्रार्थैश्च समन्वितः । 216 ।
एतच्छास्त्रोक्तविधिना योऽर्चयत्यच्युतं विभुम् ।
सोऽचिराल्लभते स्वेष्टान्
सर्वाथांश्च द्विजोत्तमः। 217 ।
इति यां कुण्डस्रुक्स्रुव लक्ष्ण हविःपाकविधानं नाम
पञ्चविंशोऽध्यायः।
ईश्वरसंहिता समाप्तं
सर्वं श्रीकृष्णार्पणमस्तु