२४

[[364]] चर्तुींवशोऽध्यायः 24 - मुद्रालक्षणविधिः नारदः- अथ मुद्राविधिं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः!।
मुदं कर्मात्मतत्वानां ददात्यमलयाजिनाम् । 1 ।
द्रावयन्ति च दोषाणां बाह्याभ्यन्तरचारिणाम् ।
तेन मुद्रा समाख्याता कृतस्यापि च मुद्रणात् । 2 ।
तस्मात्स्वाभाविकं कृत्वा बन्धं वा मानसं पुरा।
स्वेन स्वेन तु मन्त्रेण स्मरेद्व्याप्तं सदैव हि । 3 ।
चैतन्येनानुविद्धो यश्शाखासङ्घश्च यद्यपि।
तत्रापि मन्त्रोत्राध्यक्षस्तत्कार्यं सम्प्रयच्छति । 4 ।
गन्धादिग्धौ करौ कृत्वा मुद्राबन्धं समाचरेत् ।
मध्यमानामिकाभ्यां तु द्वन्द्वयुक्तं करद्वयात् । 5 ।
पराम्मुखं च सुस्पष्टं कृत्वायोज्यं परस्परम् ।
आमूलान्नखपर्यन्तं नैरन्तर्येण यत्नतः । 6 ।
समुत्ताने करतले शेषाश्चाङ्गुलयस्तथा।
अधरोत्तरयोगेन वामदक्षिणतस्तथा । 7 ।
तर्जन्यामूर्ध्वतोङ्गुष्ठे सम्मुखे सम्प्रसार्य च।
निविष्टा हॄदये कार्या मुद्रैषा मुनिपुङ्गवाः । 8 ।
चातुरात्म्यर्चने योज्या सर्वसिद्धिप्रदायिनी।
शिष्टौ विकसितौ हस्तौ योज्यौ च मणिबन्धनात् । 9 ।
तद्बाहुकूर्परौ द्वौ च नाभौ सम्रोध्य दण्डवत् ।
ईषद्वै डोळयेत्पश्चादध ऊर्ध्वे तु तौ करौ । 10 ।
गुप्तिं कॄत्वा तु योज्यैषा मुद्राराधनकर्मणि।
मूर्तीनां केशवादीनां ततोऽन्यां शृणुत द्विजाः । 11 ।
श्लेष्य पाणितले द्वे प्रान्नम्रं कुर्याल्लतागणम् ।
विमुक्तमन्तरीकृत्य सह्याङ्गुष्टद्वयेन तु…12 ।
मणिबन्धद्वयं कुर्यात्सुलग्नमतिनिश्चलम् ।
करयुग्मं सगर्भन्तु सन्धार्य स्वधियाचलम् । 13 ।
ऊरुमध्ये निषण्णे तु कुर्याद्वै बाहुकूर्परे।
गुप्तां कृत्वा प्रयत्नेन बन्धमस्याः समाचरेत् । 14 ।
एषा विभवदेवानां मुद्रैका वैभवी द्विजा।
प्रणवेन प्रयोज्येयं सहस्रांशुसमप्रभा । 15 ।
विश्वत्रातृनृसिंहस्य मुद्राद्वयमथोच्यते।
ध्यात्वा त्रेताग्निरूपं तु दक्षिणादङ्गुलत्रयम् । 16 ।
स्पृष्ट्वामूर्ध्वमुखं सैव ज्येष्ठाक्रान्ता कनीयसी।
अथाखिलाध्वरूपा चाप्यध्वातीतोग्निरूपधृक् । 17 ।
देवो गुणत्रयातीतस्तथा मार्गत्रयातिगः।
धर्मैस्थूलतरैर्मुक्तो योयं व्यक्तो धियार्चितः । 18 ।
परस्परमुखौ श्लिष्टौ शाखाक्रान्तौ परस्परम् ।

[[365]] किन्तु वै दक्षिणं हस्तमूर्ध्वं चाप्यपरेपरम् । 19 ।
अविद्यादळनीह्येषा मुद्रा पूर्वमुदाहृता ।
ततो हृदादिमन्त्राणां मुद्राषट्कन्तु कथ्यते । 20 ।
सम्पुटं हृदयोद्देशे बध्वा हस्तद्वयेन तु।
निरन्तराभ्यां शाखाभ्यां मुद्रैषा हार्दधीस्मृता । 21 ।
अङ्गुष्टादि कनिष्टान्तं शाखायुग्मं पृथक् पृथक्।
सान्तरं सम्पुटादस्मात्कनिष्ठादौ तथा भवेत् । 22 ।
शिरश्शिकातनुत्रास्त्रनेत्रमुद्रा यथा क्रमम् ।
हस्तौ मुकुळितौ कृत्वा न्यसेच्छिरसि मन्त्रतः । 23 ।
ज्ञेया किरीटमुद्रेयं मार्ताण्डायुतसन्निभा ।
ततः श्रीवत्समुद्रा तु पद्ममुद्रैव कीर्तिता । 24 ।
मध्यमानामिका न्यूना मुष्टिवत्पाणिमध्यगा।
उभयोर्हस्तयोर्विप्र पश्चान्मुष्टिद्वयं तु यत् । 25 ।
श्लेषयेत्समरन्ध्रेण तर्जन्यौ द्वे प्रसार्य च।
ततः संश्लेषयेदग्रादङ्गुष्ठाग्रे नियोजयेत् । 26 ।
मध्यतस्तर्जनीभ्यां तु अन्योन्येन क्रमेण तु।
मुद्रैषा कौस्तुभस्योक्ता मालामुद्रामथो शृणु । 27 ।
शाखाष्टकं कराभ्यां यदग्रस्तमग्रादपूरतः।
संश्लक्ष्णं लम्बमानं च उपविष्टोथ वा स्थितः । 28 ।
कुर्याद्बाहुद्वयं विप्र ऊरुमध्यावलम्बितम् ।
मणिबन्धाधौ सम्यम्मालामुद्रा प्रकीर्तिता । 29 ।
अङ्गुष्टौ सङ्गतौ लग्नौ अङ्गुळ्यौ विरळास्थिताः।
पाद्मीह्येषा भवेन्मुद्रा पुष्टिसौभाग्यदायिका । 30 ।
मुष्टिना ग्राहयेद्वामङ्गुष्टं दक्षिणेन तु।
अङ्गुळीर्वामहस्तात्तु दक्षिणस्योपरि न्यसेत् । 31 ।
वामतर्जनिकाग्रं तुय् अङ्गुष्ठाग्रं च दक्षिणात् ।
परस्परं सम्मुखं तु सुश्लिष्टं विनियोजयेत् । 32 ।
शङ्खस्यैषा भवेन्मुद्रा उत्तानात्तु यथा स्थिता।
स्पष्टौ प्रसारितौ हस्तौ परस्पनियोजितौ । 33 ।
भ्रमणाच्चक्रवत्तौ तु चक्रमुद्रेति कीर्तिता।
नाशिनी सर्वदुःखानां मुद्राणां भेदिनीपरा । 34 ।
बध्वा मुष्टिं दक्षिणेन वामाङ्गुष्ठस्य मूर्धनि।
कृत्वैवं दर्शयेदेषा कौमोदक्यास्सुशोभना । 35 ।
गदामुद्रेति विख्याता दोषसैन्यप्रमर्दिनी।
प्रसार्य वाममुत्तानाम् अङ्गुळ्यो विरळस्थिताः । 36 ।
कार्यास्त्वाकुञ्चिता प्रान्तादङ्गुष्ठं सेतुवद्भवेत् ।
सम्मुखं तासु संलग्नं करशाखासु मध्यतः । 37 ।
हृत्सम्मुखात्तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम् ।
प्रादिशिन्यादितो विद्धि कनिष्ठान्तं श्रियादिषु । 38 ।
प्रसार्य संहितं कृत्वा पुरा पाणिद्वयं द्विज।
अनाममूलदेशाभ्या मङ्गुष्ठाग्रद्वयं न्यसेत् । 39 ।
अधोमुखं तु पतितं मणिबन्धस्य सम्मुखम् ।

[[366]] सुस्पष्टमुच्छ्रितं लग्नं पुच्छवत्कन्यसायुगम् । 40 ।
पक्षिराजस्य मुद्रैषा केवलस्य महात्मनः।
सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः स्मृता । 41 ।
स्वेन स्वेन तु मन्त्रेण संयुक्तां तां प्रयोजयेत् ।
दक्षे करतले रक्तपङ्कजे भास्करं स्मरन् । 42 ।
द्रव्याणि संस्पृशेत्तेन मुद्रैषा दहनात्मिका।
वामहस्ततले श्वेतपङ्कजे शशिनं स्मरन् । 43 ।
द्रव्याणि संस्पृशेत्तेन मुद्रैषाप्यायनात्मिका।
ग्रथितौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ । 44 कनीयसौ तदङ्गुष्टौ सुश्लेषेण नियोज्य च।
मध्यमाङ्गुळियुग्मं तु अन्योन्यकरपृष्टगम् । 45 ।
विक्षिप्तानामिकायुग्मं तर्जनीयुगळं तथा।
मुद्रैषा कामधेन्वाक्या सर्वेच्छा परिपूरणी । 46 ।
अथ चासनमन्त्राणां मुद्राबन्धस्तु वक्ष्यते।
अधोमुखस्य वामस्य अनामा तर्जनी उभे । 47 ।
आकुञ्च्य पृष्ठलग्ने तु मध्यमायां तु संस्थिते।
तयोरधस्तान्मध्याभ्यामृज्वां कुर्यादधोमुखाम् । 48 ।
कनिष्ठिका तु साङ्गुष्ठा कार्या सुप्रसुता मुने।
अनन्तासनमुद्रेयं मन्त्रेनास्यायतो द्विज! । 49 ।
सर्वं जगदिदं ह्येषा क्रोडीकृत्य च वर्तते।
करद्वयमसंलग्ने कृत्वा तदनु योजयेत् । 50 ।
मुखे मुखं तर्जनीभ्यां न मुञ्चेदथ मध्ययोः।
कुर्यात्तादृग्विढं बन्धं तं त्यक्त्वानामिकाद्वये । 51 ।
उपसंहृत्य तं चापि द्वे कनिष्ठे नियोजयेत् ।
प्रत्येकबन्धे संलग्नमङ्गुष्ठयुगळं न्यसेत् । 52 ।
धर्मादेश्चाप्यधर्मादेरिदं मुद्रा चतुष्टयम् ।
तदूर्ध्वस्य पद्मस्य प्रागुक्ता मन्त्रयोगतः । 53 ।
दक्षिणस्यतु हस्तस्य तर्जन्यङ्गुष्ठमेळनम् ।
कृत्वा तदनु तद्बन्धं विकास्य च शनैश्शनैः । 54 ।
समुत्थानं पृथक्कुर्याच्छाखासङ्घं पृथक् स्थितम् ।
धामत्रयस्यमुद्रैषा गणेशादेस्तथोच्यते । 55 ।
वामहस्तकनिष्ठाद्यास्तिस्रस्स्वतल मध्यगाः।
तासामङ्गुष्ठतः पृष्ठे तर्जनी प्रोन्नता भवेत् । 56 ।
नासावंशप्रदेशस्था ततो दक्षिणपाणिना।
अङ्गुली त्रितयेनैव मुष्टिं बध्वा तु पूर्ववत् । 57 ।
तर्जनीं द्विगुणीकृत्य अङ्गुष्टाग्रे नियोजयेत् ।
प्रोद्यतो दक्षिणोबाहुश्चक्रक्षेपे यथोद्यतः । 58 ।
विष्वक्सेनस्य मुद्रैषा विश्वबन्धनिकर्तनी ।
सम्मुखौ सम्पुटीकृत्य द्वौ हस्तौ सम्प्रसारितौ । 59 ।
विनियोज्यौ ललाटाग्रे शिरसावनतेन तु।
गुर्वादित्रितयस्यैषा मुद्रा चेतःप्रसादिनी । 60 ।
करद्वयं समुत्तानं नाभिदेशे नियोजयेत् ।
वामस्य दक्षिणं पृष्ठे मुद्रैषा सिद्धिसन्ततेः । 61।

[[367]] तदन्येषां तु सर्वेषां स्यादञ्जलिर्द्विजाः।
तथैव परिवाराणां द्वारावरणवासिनाम् । 62 ।
स्वमन्त्रयुक्ता चान्येषामर्चितानां यथा क्रमम् ।
पुनः पुनः प्रयोक्तव्या हार्द्रधीश्शिरसा सह । 63 ।
पद्माकारौ करौ कृत्वा अङ्गुष्ठे च कनिष्ठके।
सम्मील्य चाग्रदेशात्तु कर्णिकेव यथा द्विजाः । 64 ।
तर्जन्यादित्रयं शेषमूर्ध्वगं च करद्वयात् ।
अंसलग्नं तु निक्षिप्य मुद्राग्नेः सम्प्रकीर्तिता । 65 ।
किञ्चिदाकुञ्चयद्धस्तं दक्षिणं हृदयोपमम् ।
अङ्गुष्ठौ विरळौ स्पष्ठौ मुद्रा ह्यावाहने स्मृता । 66 ।
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।
स्वां स्वां कनिष्ठां विसृजेदेषा सन्निधिमुद्रिका । 67 ।
अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं ततः।
संस्तम्भसन्निरोधौ च द्वौ कृते भवतस्तथा । 68 ।
पाणिभ्यामञ्जलिं कुर्यादीषद्विकसितं द्विजाः।
एषा साम्मुख्यमुद्रा हि सम्मुखीकुरुते विभुम् । 69 ।
खड्गाधारसमाकारौ विरळाङ्गुळिका उभौ।
अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः । 70 ।
कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने।
अनेन विधिना मुद्रां यो बध्नाति विधानवित् । 71 ।
तेनेदं मुद्रितं विश्वं पुनर्भवति सिद्धिदम् ।
अथ प्रागुक्त मन्त्राणां ध्यानं वक्ष्ये क्रमाद्द्विजाः! । 72
प्रथमं त्वेकमूर्तेर्वै शृणुध्वं ध्यानमुत्तमम् ।
ध्येयः परो जगन्नाथो देवोनन्तसमन्वितः । 73 ।
वरदाभयदेनैव शङ्खचक्राङ्कितेन तु।
त्रैलोक्योद्धृतदक्षेण युक्तः पाणिद्वयेन तु । 74 ।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया।
अनौपम्येन वपुषा ह्यमूर्तोमूर्तताङ्गतः । 75 ।
विश्वमाप्यायन्कान्त्या पूर्णेन्द्वयुततुल्यया।
रश्मिभिर्भास्करो यद्वत्समुद्र इव वीचिभिः । 76 ।
स्वमूर्तिभिरमुक्ताभिरच्युतादिभिरन्वितः।
दीप्तिमद्भिरमूर्तैस्तु सुधाकल्लोलसङ्कुलः । 77 ।
पूर्ण आभरणैः सर्वैर्निर्विकाराङ्घ्रिविग्रहः।
ततः सुषुप्तिव्यूहस्य वक्ष्ये ध्यानमनुत्तमम् । 78 ।
वेदकत्वेन भगवान् ब्रह्मसंवलिताकृतिः।
स्तम्भवत्कर्णिकामध्ये स्थित्वा वेद्यत्वमेति च । 79 ।
स्वयमेवोपकाराय कर्मिणां ब्रह्मयाजिनाम् ।
प्राग्भागादुत्तरं यावद्गुणभेदेन ला॑ङ्गलिन् । 80 ।
विभजत्यात्मनान्मानं वासुदेवः परः प्रभुः।
अनुज्झितस्वरूपस्तु प्राग्भागे षड्गुणात्मना । 81 ।
बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे।
ऐश्वर्येण च वीर्येण प्रत्यग्भागे प्रतिष्ठितः । 82 ।

[[368]] तेजश्शक्त्यात्मना सौम्ये संस्थितः परमेश्वरः।
यद्यद्रूपो भगवान् व्यूहात्मा गुणलक्षणः । 83 ।
अत्रापि पूर्वमेवोक्तं रूष् (प)मस्योपचर्यते।
किं तु द्वितीयमूर्तेर्वै शुभे पाणितलद्वये । 84 ।
स्फुटो रेखामयः शङ्खं सुव्यक्तं लाङ्गलं महत् ।
रम्येषुणा तृतीयस्य दक्षिणश्चिह्नितः करः । 85 ।
तुर्यस्यासिवरेणैव शङ्ख आभ्यां करद्वये।
अवाम्मुखः करवशादूर्ध्ववक्त्रः स्वभावतः । 86 ।
एतावता लक्षणेन व्यक्तिभावं गतेन च।
भावस्थितिं निबध्नाति व्यूहेस्मिन् साधकस्य तु । 87
सादृश्यात्षड्गुणत्वाच्च समत्वाच्च विशेषतः।
शान्तवन्निष्क्रयत्वाच्च न भेदो विद्यते यतः । 88 ।
गुणद्वयद्वयेनैव यद्यप्युक्तः पुरा मया।
एकैकं भगवद्रूपं मुख्यवृत्या तथापि हि । 89 ।
चतुष्कमवशिष्टं यद्गुणानां समवस्थितम् ।
यद्भजेतानुवृत्तिं च एकैकस्य च सर्वदा । 90 ।
स्वप्नव्यूहध्यानमथ शृणुध्वं मुनिसत्तमाः।
येनात्मा स्वप्न एवात्मा कर्मिणामनुकम्पया । 91 ।
क्रमेण व्यक्ततां नीतो वाग्वर्णकमलोपरि।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितः । 92।
भाभिः सितादिभिर्दीप्तमभिन्नाभिर्निरन्तरम् ।
अवलोक्यामलन्देवमुदितत्वेन तेजसा । 93 ।
कर्णिकाग्रं समाश्रित्य दिव्यं मन्त्रतनुं पुनः।
पश्येत्स्वयं स्वशक्त्या वै कालेनालक्ष्यमूर्तिना । 94 ।
संहरन्तं च तद्रूपं व्यक्तं पूर्वोक्तलक्षणम् ।
एवं मन्त्रमयं देहमुपसंहृत्य लाङ्गलिन् ! । 95 ।
आमूलात्कर्णिकाग्रं च सम्पूर्यास्ते स्वतेजसा।
ब्रह्मायूपस्वरूपेण त्वाक्रम्य स्वं महामते! । 96 ।
सौम्य मूर्तिचतुष्कन्तु सर्वदिक्प्रसृतं च यत् ।
प्राच्यां सितेन वपुषा सूर्यकान्त्यधिकेन तु । 97 ।
व्यक्तिन्मभ्येति भगवान् वासुदैवात्मना स्वयम् ।
पद्मरागसमानेन तेजसा तदनन्तरम् । 98 ।
उदेति दक्षिणस्यां वै प्रभुः सङ्कर्षणात्मना।
वर्मांशुरश्मिसन्तप्त शतधामाधिकेन तु । 99 ।
रूपेण पश्चिमस्यां च व्यक्तं प्रद्युम्नसञ्ज्ञया।
शरद्गगनसङ्काशवर्णेन परमेश्वरः । 100 ।
समास्त उत्तरस्यां चाप्यनिरुद्धात्मना ततः।
संस्थान आदिमूर्तिर्वै सर्वेषां तु समं स्मृतम् । 101 ।
सूर्यकोटिप्रभा सर्वे तेजसा कमलेक्षण!।
दन्तज्योत्स्नवितानैस्तु प्रकटीकृतदिम्मुखाः । 102 ।
पूर्णचन्द्रायुताकारा मुक्ताहाराद्यलङ्कृताः।
लसत्पीयूषसदृशैः स्वाम्बरैः स्रग्वरैर्युताः । 103 ।

[[369]] वरायुधोद्यतकराः स्वकैश्चिह्नैरनुज्झिताः।
लेखोत्थितैस्तु कल्हारैः पादपत्रतलाङ्किताः । 104 ।
निमग्नजनसन्ताप शमनव्यपृताननाः।
करुणापूर्णहृदया जगदुद्धारणोद्यताः । 105 ।
स्वदेहतेजस्सम्भूत ज्वालामण्डलमद्यगाः।
एवमेवैष भगवान् सन्तर्प्य प्राक्प्रयोगतः । 106 ।
एकैकेन तु भागेन प्रभवेन क्रमेण तु।
पुनरेवानिरुद्धादि प्राम्मूर्त्यन्तं महामते! । 107 ।
क्रमान्निरन्तरैर्भोगैरभ्यर्च्यः परमेश्वरः।
प्रणवद्वितयेनैव बुद्ध्या तु सुविशुद्धया । 108 ।
अप्ययाख्येन विधिना हृद्यागनिरतैर्बुधैः।
ततस्तु जाग्रद्व्यूहस्य वक्ष्ये ध्यानक्रमं द्विजाः । 109 ।
अनन्तसरसि क्षार्णे विश्रान्तं यन्महामते!।
अकाराक्षरमूलं तु नित्यं सर्वाश्रयाम्बुजम् । 110 ।
अकाराक्षरनाळं तु शेषसर्वार्णपल्लवम् ।
दिगष्टकं समाश्रित्य यत्तु तिष्ठति चक्रवत् । 111 ।
तत्पत्रमध्ये भगवान् जाग्रत्सञ्ज्ञे पदे त्वथ।
यष्टव्यो भावनीयश्च यथा तदधुनोच्यते । 112 ।
परःप्रणवबीजेन सम्पूर्णः स्वेन तेजसा।
स्थितस्त्वाकर्णिकोर्ध्वा च केसरान्तर्निरीक्ष्य च । 113।
ततः प्रणवपूर्वं तु ब्रह्मबीजचतुष्टयात् ।
कदम्बपुष्प सन्दृश्यान् मरीचिशतसङ्कुलात् । 114 ।
दिक्क्रमेणोदितं ध्यायेद्विभोर्मूर्तिचतुष्टयम् ।
सुव्यक्तलक्षणं मान्त्रं विभवेनावृतं बहिः । 115 ।
स्फुलिङ्गकणतुल्येन समुद्भूतेन वै परात् ।
वाचकान्तर्निविष्टेन व्यक्ततामागतेन च । 116 ।
तत्राद्यं भगवद्रूपं हिमकुन्देन्दु कान्तिमत् ।
चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षणम् । 117 ।
पीतकौशेयवसनं सुवर्णध्वजशोभितम् ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् । 118 ।
विद्याकोशस्तु वामेन सङ्गृहीतश्च शङ्खराट्।
पृष्टगे ह्यपरस्मिंस्तु प्रोद्यतं दक्षिणोत्वरि । 119 ।
तथाविधे गदा वामे निषण्णा वसुधातले।
सिन्दूरशिखराकारमेकवक्त्रं चतुर्भुजम् । 120 ।
अतसी पुष्पसङ्काश वासोभृत्ताललाञ्छितम् ।
मुख्येन पाणियुग्मेन तुल्यामाद्यस्य वै विभो । 121 ।
सीरं तच्चक्रहस्तेस्य मुसलं तु गदाकरे।
प्रावृण्णिशासमुदित खद्योतचयदीधिति । 122 ।
रक्तकौशेयवसनं मकरध्वजशोभितम् ।
एकवक्त्रं चतुर्बाहुं तृतीयं परमेश्वरम् । 123 ।
मुख्यहस्तद्वयं चास्य प्राद्वद्ध्येयं महामते! ।
वामेपरस्मिन् शार्ङ्गं च दक्षिणे भानपञ्चकम् । 124 ।

[[370]] अञ्जनाद्रिप्रतीकाशं सुसिताम्बरवेष्टितम् ।
चतुर्भुजं विशालाक्षम् मृगलाञ्छनभूषितम् । 125 ।
आदिवत्पाणियुगळामाद्यमस्यापि कीर्तितम् ।
दक्षिणादिक्रमेणाथ द्वाभ्यां वै खड्गखेटकौ । 126 ।
वनमालाधरास्सर्वे श्रीवत्सकृतलक्षणाः।
शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि । 127 ।
किरीटमकुटैः रम्यैः हारकेयूर नूपुरैः।
ललाटतिलकैश्चित्रैः स्फुरन्मकरकुण्डलैः । 128 ।
स्रग्वरैर्विविधैर्माल्यैः कर्पूराद्यैर्विलेपनैः।
रम्यैरलङ्कृताश्चैव भावनीयाः सदैव हि । 129 ।
पुनरप्यययोगेन प्रागुदम्मध्यमेदळे।
सितकृष्णेन वपुषा अनिरुद्धं स्मरेत्प्रभुम् । 130 ।
उदक्पश्चिम मध्यस्ते प्रद्युम्नं भावयेच्छदे।
रूपेण कृष्णपीतेन अप्ययावसरेतु वै । 131 ।
प्रत्यग्दक्षिण मध्यस्ते पीतरक्ते वपुर्धरम् ।
स्मरेत्सङ्कर्षणं देवं प्रतिस्रोतः क्रियाविधौ । 132 ।
मध्ये प्राग्दक्षिणस्यां च सितरक्तेन तेजसा।
वासुदेवो जगन्नाथो भावनीयो महामते! । 133 ।
अथ शुद्धाशयत्वेन स्फटिकोपलवद्विभुः।
स्थानभेदं समासाद्य सचकान्तिद्वयात्तु वै । 134 ।
गृह्णातिशबलं रूपम् उपसंहारलक्षणम् ।
अभेदेनादिमूर्तिर्वै संस्थितं वटबीजवत् । 135 ।
सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः।
चातुरात्म्यं तदाद्यं वै शुद्धस्तंविन्मयं महत् । 136 ।
वह्न्यर्केन्दुसहस्राभ मानन्दस्पन्दलक्षणम् ।
बीजं सर्वक्रियाणां यद्विकल्पमानं यथास्पदम् । 137 ।
चातुरात्म्यं तु तद्विद्धि द्वितीयममलेक्षण!।
नित्यं नित्याकृतिधरं तेजसा सूर्यवर्चसम् । 138 ।
भिन्नं सितादिभेदेन ऊर्ध्वाधः संस्थितेन च।
कैवल्यभोगफलदं भवबीजजयङ्करम् । 139 ।
चतुरात्म्यं तृतीयं तु सुधासन्दोहसुन्दरम् ।
स्थित्युत्पत्तिप्रळयकृत् सर्वोप्करणान्वितम् । 140 ।
प्रकृतिं स्वामधिष्टाय समुदेत्यस्थितमेपि च।
चतुर्थं विद्धि तद्यस्य विश्वं तिष्ठति शासनात् । 141 ।
यत्तत्सितादिकंरूपं चतुर्था यत्कृते युगे।
रक्ताद्यं सितनिष्ठं च त्रेतायां हि महामते । 142 ।
पीतं कृष्णं सितं रक्तं सम्प्राप्ते द्वापरेयुगे।
कलौकृष्णं सितं रक्तं पीतं चानुक्रमेण तु । 143 ।
युगसन्ध्याचतुष्के तु बिभर्ति परमेश्वरः।
विभिन्नमूर्तिसामान्यं रूपं यत्तन्निबोध मे। 144 ।
पीतरक्तं कृतान्ते तु रक्तपीतमतः परम् ।
पीतकृष्णं च तदनु कृष्णशुक्लमनन्तरम् । 145, ।

[[371]] भेदः प्रागुदितैर्ज्ञेयः आयुधाम्बरलाञ्छनैः।
समत्वादन्यथा केन विभागोत्रावधार्यते । 146 ।
ततस्तु केशवादीनां ध्यानं वक्ष्ये मुनीश्वराः!।
सर्वगम् परमं ज्योतिरमूर्तममलं हि यत् । 147 ।
स एव वासुदेवेति मत्वा सम्यग्यजेत्ततः।
चेतसामृतसङ्काशैः पुष्पाद्यैरखिलैः प्रभुम् । 148 ।
पश्चात्तममलन्धाम ध्यायेन्मूर्तमनश्वरम् ।
श्रोणीतटार्पितकरं सानुकम्पमनूपमम् । 149 ।
दक्षिणेन तु हस्तेन भक्तानामभयप्रदम् ।
पुष्पाभरणवस्त्राड्यं शङ्खचक्रद्वयान्वितम् । 150 ।
ततः तस्मात्तु वै धाम्नो युगपन्निःसृतं स्मरेत् ।
महत्स्फुलिङ्गसङ्काशं समूहं सततोदितम् । 151 ।
तेनचाक्रमरबृन्दं समाक्रान्तं च भावयेत् ।
अथ प्रत्येकतेजोंशादुद्भूतं भावयेत् क्रमात् । 152 ।
त्रयं त्रयं सिताद्यं च केशवाद्यं चतुर्भुजम् ।
दक्षिणोत्तरपाणिभ्यां पृष्ठतः केशवादिषु । 153 ।
युग्मं युग्मं परिज्ञेयं क्रमेणोर्ध्वगतं त्विदम् ।
शङ्खचक्रे कजं विद्या सा च शङ्खो गदाम्बुजम् । 154 ।
तच्छङ्खः कजं विद्या चक्रं चक्रं गदा गदा ।
शङ्खचक्रं कजं पद्मं चक्रं शङ्खस्ततो गदा । 155 ।
तद्वद्भूयोग्रसंस्थाभ्या मधरस्थं द्वयं द्वयम् ।
ज्ञेयं दामोदरान्तानां द्वादशानामिदं शृणु । 156 ।
पद्मं गदा ध्वनिश्चक्रं तत्पद्मो हेतिराट् ध्वनि।
गदा चक्रं च तद्विद्या पद्मं शङ्खंश्च साम्बुजम् । 157 ।
गदा पद्म गदाशङ्खः स विद्याम्बुरुहं त्वरि।
भूयोधामगणात्तस्मात् संस्मरेन्निःसृतं महत् । 158 ।
केशवादि विभागेन श्रियाद्यं च त्रयं त्रयम् ।
कमलादित्रयेणैव त्वन्योन्यत्वेन लाञ्छितम् । 159 ।
बद्धपद्मासनस्थं च दिग्विदिक्षु च सम्मुखम् ।
संवीजयत्तु विनयाच्चामरेण सितेन च । 160 ।
देवीद्वादशकं चैव तासां रूपमथोच्यते।
पूर्णचन्द्राननाः सर्वाः सर्वर्तु कुसुमान्विताः । 161 ।
सर्वलक्षणसम्पूर्णाः सर्वाभरणभूषिताः।
विद्रुमाभं त्रयं त्वाद्यमपरं चम्पकप्रभुम् । 162 ।
प्रियङ्गुमञ्जरीश्यामं त्रितीयं देवतात्रयम् ।
चतुर्थं त्रितयं ध्यायेज्जातिपुष्पसमप्रभम् । 163 ।
आद्यायां कमलं पाणावन्यस्यां हेतिराट् करे।
शङ्खं ध्यायेत्त्रितीयस्यामेवं ध्यायेत्त्रिषु त्रिषु । 164 ।
ततो विभवदेवानां ध्यानं वक्ष्ये द्विजोत्तमाः!।
वैभवीयो महाबुद्धेः! देवतानिचयो महान् ! । 165 ।
य उक्तस्ते मया पूर्वमेकैकं विद्धितं त्रिधा।
चतुर्णां युगसन्धीनां युगानां च तथैव हि । 166 ।

[[372]] विश्वविप्लवदोषाणां विनाशाय समुद्यतम् ।
सितरक्तादिरूपेण ज्वलदस्त्रकराङ्कितम् । 167 ।
कार्यारम्भे तथा मध्ये ह्यवसाने तु सर्वदा।
सन्दत्ते रूपमात्मीय एक एवत्वनेकधा । 168 ।
श्रेयसे सर्वलोकानां स्थूलं तत्कामरूपधृक्।
अनुद्यतेन वपुषा कुन्देन्दुधवळेन च । 169 ।
वीरासनादिना चैव स्थितं मुदितमानसम् ।
लीलाविद्रुत सर्वास्त्रं सौम्यवक्त्रमनाकुलम् । 170 ।
धियादोषगणं सर्वं ध्वंसयन्तं च मोक्षिणाम् ।
तद्व्यक्तं शान्त सञ्ज्ञं च रूपं रूपवतां वर! । 171 ।
प्रकाशयति सन्मार्गं समाधि निरतात्मनाम् ।
तेजोमयं यत्तद्रूपं वैभवं शान्तसञ्ज्ञकम् । 172 ।
उपासकानां भक्तानां सर्वे सर्वफलप्रदाः।
विशाखयूपो भगवान् ! स्वयं विश्व सिसृक्षया । 173 ।
अध्यक्षेणस्वरूपेण समुदेत्येक एव हि।
महिमानं तु निश्शेषं शुद्धं संवित्पुरस्सरम् । 174 ।
आदायाऽऽद्यपदस्तस्य चातुरात्म्यस्य वै विभोः।
तथा चाधारभूयिष्ठं देवानां चेष्टितं हि यत् । 175 ।
सितादयःकान्तयो याःश्र्यादिकं च महामते!।
सलाञ्छनं वैभवीयं सायुधं बीजमेव तु । 176 ।
ज्ञानाद्यं गुणषट्कं च तदुक्ताः शक्तयोऽखिलाः।
अणिमाद्यष्टकं चैव स्थित्युत्पत्तिलयोदयाः । 177 ।
शक्तिःसा चातुरात्मीयात्वैश्वरीत्यभिधीयते।
यथार्ककिरणत्रातं त्यक्त्वा तेजः कणोमहान् । 178 ।
स्वकारणं विना सर्वमापूरयति गोचरम् ।
स्वातन्त्यात्परिपूर्णत्वात्तद्वत्स परमेश्वरः । 179 ।
विहाय वासुदेवाद्यं मूर्तिशाखाचतुष्टयम् ।
वैभवीयस्य यूधस्य पतित्वेनावतिष्ठते । 180 ।
सम्भूतिस्थितिसंहार भोहकैवल्यलक्षणम् ।
प्रेरयन्वै धिया चक्रं पञ्चारमिदमुत्तमम् । 181 ।
स्मर्तव्यस्व पदस्थः स स्वबीजेनामलात्मना।
आमूर्धतोङ्घ्रिपर्यन्तं तद्धियं गात्रमण्डलम् । 182 ।
रत्नवद्वैभवीयस्तु बीजैर्भाव्यमलङ्कृतम् ।
क्रमादुच्चार्यमानस्थैरमृतौघेन पूर्ववत् । 183 ।
पूजनात्परमेशत्वमचिरादेव यच्छति।
इत्येवमादिः सर्वेषाम् भाविनां परमेश्वरः । 184 ।
स्थितोऽन्तर्यामिभावेन रूपमासाद्य निष्कळम् ।
आप्ताकामः स भगवान् स्वव्यापारवशेन तु । 185 ।
स्वांशक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः।
धराम्बुहुतभुग्वात मूलनाळदळोदरे । 186 ।
चतुःतत्वमये पद्मे गगणैकार्णवोदरे।
मानसेऽनन्तशयने दिव्यबोधतनुर्विभुः । 187 ।

[[373]] सहस्रांशु सहस्राभ उत्तानस्थो हि लीलया।
ततो विविध रत्नाभे मायीयेनाभिपुष्करे । 188। ’ प्रोद्वहं स्ववीर्येण विद्यां सामर्थ्यविग्रहाम् ।
मूर्तैर्ध्वजादिकैः सर्वैरावृतस्तत्परायणैः । 189 ।
अनन्तचेष्टस्य विभोरित्येवं त्वीश्वरात्मनः।
लोकापवर्गदं रूपं शान्तं व्यक्तं च वैभवम् । 190 ।
प्राग्वत्तुर्यपादावस्थं स्मरेद्धृत्कमलाम्बरे ।
दिशो दश द्योतयन्तं नानागात्ररुहैश्चितम् । 191 ।
सौम्यं द्विरष्टवर्षं च राजीवदळलोचनम् ।
भचक्रचक्रधृग्देवं गदादेहं तथैव च । 192 ।
शक्तिमाधारसञ्ज्ञां च प्रोद्वहन्तं स्मरेद्धृवम् ।
स्थितो यः स्तम्भभूतस्तु अस्मिन् वै विश्वमन्दिरे 193।
नभोऽनिलात्मनाचैव भूमिकाभिन्नलक्षणे।
इत्येवं मुख्यपूर्वाणां ध्रुवान्तानां प्रकीर्तितम् । 194 ।
शेषादीनां च शेषाणामिदानीमवधारय।
ध्यानं पाताळनिलयपर्यन्तानां यथास्थितम् । 195 ।
एक एव जगन्नाथ स्वरूपाद्यैस्तु शक्तिभिः।
नानात्वेनाप्यनन्तो यो भक्तानुग्रहकाम्यया । 196 ।
तस्याभिमानिकं रूपं शृणु सर्वेश्वरस्य तु।
तुहिनाचलसङ्काशं पूर्णचन्द्रसमाननम् । 197 ।
स्वमणिव्यञ्जितेनैव युक्तं फणगणेन तु।
प्रोद्वहन्तं हलं चक्रमपसव्यद्वयेन तु । 198 ।
वामहस्तद्वयेनैव शङ्खं मुसलमेव च।
नित्यसन्निहितं शेषशक्तिं सर्वज्ञमच्युतम् । 199 ।
मनस्यन्तर्मुखानां यत्कर्मिणां पूरयेच्च तत् ।
शक्तीशोप्यथ सञ्जिन्त्यः पुण्डरीकनिभेक्षणः । 200 ।
इच्छारूपधरश्चैव सौम्यः प्रहसिताननः।
व्यक्तये च फलादीनां भक्तानामनुकम्पया । 201 ।
पिण्डयन् स्वाङ्घ्रियुग्मेन वसुधां च करद्वयम् ।
युगानुसारिकान्तिश्च चतुर्वक्त्रश्चतुर्भुजः । 202 ।
मूर्तचक्रगदाहस्त स्वमूर्ताच्चाम्बुजाङ्कितः।
शमं नयति सन्तापं कमलेनेन्दुकान्तिना । 203 ।
नानामन्त्रमयीं विद्यां व्यञ्जयत्यमलात्मनाम् ।
सम्यग्वाक्पतिना चैव कम्बुना शब्दमूर्तिना । 204 ।
आज्ञाप्रतीक्षकेनैव गदाचक्रद्वयेन तु।
प्रेरितेन हिनस्त्याशु साधुसन्तापकारिणम् । 205 ।
नारसिंहेनवक्त्रेण भवभीतिविघातकृत् ।
पुष्णाति सर्वभूतानि वाराहेणाऽमृतात्मना । 206 ।
कुरुते पश्चिमस्थाने कापिलेनोपसंहृतिम् ।
भक्तिश्रद्धापराणां च स्मृतमात्रे सदैव हि । 207 ।
हृन्मध्ये गगने भूमौ वह्निमध्ये जलान्तरे।
चतुर्णां ब्राह्मणादीनां स्वयमेवाऽनुकम्पया । 208 ।

[[374]] चातुरात्म्येन रूपेण चतुर्धा व्यक्तिमेति च।
आत्मतुल्येन देहेन शङ्खपद्माङ्कितेन तु । 209 ।
मूर्तिमद्भिर्हलाद्यैस्तु युक्तेन वदनैर्विना।
वर्णानुरूपवर्णेन समेनाप्यसमेन तु । 210 ।
अन्योन्यानुगतेनैव पूर्वोद्दिष्टेन नान्यथा।
प्रळयानलसूर्याभः स्मर्तव्यो मधुसूदनः । 211 ।
अष्टबाहुर्विशालांसो प्यग्निष्टोमकराङ्कितः।
शङ्खचक्रधरश्चैव बाणाकार्मुकधृक्तथा । 212 ।
रजस्तमोभ्यां मूर्ताभ्यां सम्प्रवृत्तिनिवृत्तये।
कर्णिपीठनिविष्टं च ध्येयं पाणियुगं विभोः । 213 ।
विद्याधिदेवं भगवन् ! चतुर्वक्त्रं चतुर्भुजम् ।
लम्बकूर्चं जटादण्डकमण्डल्वक्षसूत्रिणम् । 214 ।
फुल्लरक्ताम्भुजाभासं श्वेतपद्मकराङ्कितम् ।
शृतीॠगाद्या वक्त्रेभ्यः प्रोद्गिरन्तमतः स्मरेत् । 215 ।
निर्धूमाङ्गारवर्णाभं शङ्खपद्माक्षसूत्रिणम् ।
फुल्लरक्तांशुविभवं देवताध्यात्मसूत्रकम् । 216 ।
ध्यायेदभयपाणिन्तं कपिलं तेजसां निधिम् ।
येऽन्तः सर्वेश्वरो देवः साक्षीभूतो व्यवस्थितः । 217 ।
स्फटिकोपलवद्भावान् स्वशक्त्याऽर्थान् बिभर्ति च।
अविद्याविकृतानां तु भक्तानां सत्पदाप्तये । 218 ।
तमनादिं जगन्नाथं बहिःस्थूलतरात्मना।
द्यावापृथिव्योरन्तस्थं विश्वरूपमतः स्मरेत् । 219 ।
अनेकवक्त्राङ्घ्रिनयन मनेकितकराङ्कितम् ।
यद्यप्यनेकवदनमनेकभुजभूषितम् । 220 ।
तथापि वै त्रयस्त्रिंशद्वदनैर्विविधैर्युतम् ।
चतुरम्याधिकैर्दिव्यैश्चत्वारिंशन्महाभुजैः । 221 ।
ब्रह्मरुद्रेन्द्रदक्षार्क चन्द्रसिद्धास्तथा श्रुतिः।
पौरुषस्य तु वक्त्रस्य चोर्ध्ववक्त्रस्थितास्त्वमी । 222
पिशाचाग्निमरुच्छैल द्वीपगन्धर्व वारिभिः।
वक्त्रैरूध्वस्थितैर्ध्यायेर्दक्षिणं वदनं विभोः । 223 ।
पाताळदिम्महामेघ लोकराशिगृहोत्थितैः।
वक्त्रैस्तारसमेतैस्तु ध्यायेद्वक्त्रं तु पश्चिमम् । 224 ।
यक्षान्तकाम्बुनागाद्यैर्वसुनक्षत्रगोगणैः।
वक्त्रैर्वाराहवक्त्रोर्ध्वं ध्यायेच्चैवमतश्शुभैः । 225 ।
पद्माद्यं चातुरात्मीयमन्त्राणां दशकं महत् ।
प्रोच्छितं हि सुवर्णाद्यं तल्लाञ्छनचतुष्टयम् । 226 ।
लोके शास्त्राष्टकं चैव पुस्तकं चाक्षसूत्रकम् ।
दर्वीकमण्डलुं हैममभयं हि वरान्वितम् । 227 ।
दर्भाजिनं ततश्छत्रं सशुभं चामरं सितम् ।
स्रुक्स्रुवौ चापि कलशौ वेदिर्वह्निसमन्विता । 228 ।
चन्द्रार्कमण्डले पूर्णे नागेन्द्रो मणिदर्पणः।
पुष्पस्रग्व्यजनं दिव्यं विश्वपत्रलता तथा । 229 ।

[[375]] स्मर्तव्यास्तु भुजेष्वस्य विभोः संस्थानकैः समैः।
यथोदितक्रमेणैव व्यत्ययो न भवेद्यथा । 230 ।
भाभिर्नानाप्रकाराभिर्देहोत्थाभिरिदं जगत् ।
भासयन्तं जगन्नाथं स्मरेद्धृत्कमलादिषु । 231 ।
हंसमूर्तिमथात्मानं ज्ञानयज्ञभुजं स्मरेत् ।
कुन्देन्दुस्रग्विकान्तिं च हेमतुण्डम् महातनुम् । 232 ।
रजस्तमोङ्घ्रिं सत्व्सत्वं विग्रहम् परमेश्वरम् ।
धर्मीधर्मेक्षणे ध्यायेदग्नीषोमात्मकेन तु । 233 ।
दक्षिणोत्तरसंस्थेन पक्षयुग्मेन राजितम् ।
बहिःस्थमेवोदकस्थं काञ्जनाचलसन्निभम् । 234 ।
ध्यात्वार्चयेत्तु विधिवद्धंसविग्रहमच्युतम् ।
बहिर्द्रव्यमयस्त्वेकः सामान्येनैकलक्षणम् । 235 ।
सम्यन्निर्वर्णितः स्वर्गं पूर्वमिच्छति चार्थिनाम् ।
अन्तर्वेद्यां चतुर्धा यस्त्वेक एव महामखम् । 236 ।
तपोयाग जपध्यान स्वरूपः शश्वदेव हि।
याजिनामपवर्गं तु विदधाति समापनात् । 237 ।
तं यज्ञपुरुषं ब्रह्म वासुदेवमजं हरिम् ।
ध्यायेद्वै सूकरात्मानमञ्जनाद्रि समप्रभम् । 238 ।
यज्ञाङ्गचिह्निताङ्घ्रिं च महाव्याहृतिदंष्ट्रिणम् ।
भूर्भुवस्स्वशरीरं च शब्दब्रह्मैकमानसम् । 239 ।
निर्णुदन्तं प्रपन्नानामविद्यापङ्कमञ्जसा।
वैद्येन पोत्रप्रान्तेन त्वक्षयेनाऽमलेन च । 240 ।
वासनावासितानां च जीवानां भवशान्तये।
महाविभूतिर्भगवान् पूर्णषाड्गुण्यविग्रहः । 241 ।
स्वकाच्छान्ततराद्ब्रह्मतत्वादादाय चाऽञ्जलिम् ।
करोति सेचनं दोषदग्धानां च स्वतेजसा । 242 ।
स्थूलरूपेण तमजं बहिराराधनान्विधौ।
आध्मातं वायुना यद्वन्निर्धूमाङ्गारपर्वतम् । 243 ।
ध्यायेत्तद्वन्म॑हादीपं वाजिवक्त्रमलाञ्छनम् ।
बद्धब्रह्माञ्जलीकस्थं द्रवत्कनकलोचनम् । 244 ।
घोणाग्रेणाहरन्तं च त्रैलोक्योत्थं जलेन्धनम् ।
कृत्वा तद्भस्मसात्सम्यक् फूत्कुर्वन्तं मुखेन तु । 245।
धर्मं सामान्यममलमनादिनिधनं विभुम् ।
दुर्लभं यत्प्रबुद्धानां तत्प्रसादधिया विना । 246 ।
तस्य स्थूलतरं रूपं श्रुणु तत्प्राप्तये परम् ।
तुहिनाचलसङ्काशं सौम्यवक्त्रं चतुर्भुजम् । 247 ।
कामार्थावुद्वहन्तं च शङ्खपद्मच्छलेन तु।
साधुमार्गे स्थितानां तु संयच्छन्तं धिया च तौ । 248 ।
सिताक्षमालागर्भं तु वरपाणिमतः स्मरेत् ।
वाम्मयं निखिलं यस्य वस्तुजातमनश्वरम् । 249 ।
शक्तित्वेन स्वभावस्थचिद्रूपस्यामितद्युतेः।
वरवाजिमुखं ध्यायेदथ वागीश्वरं प्रभुम् । 250।

[[376]] सूर्यकान्तादिसङ्काशमनेकभुज भूषितम् ।
कमलं चाक्षसूत्रं च वेदिं त्रेताग्नि भूषितम् । 251 ।
साज्यधारौ स्रुक्स्रुवौ तु विष्टरं सोमसंयुतम् ।
दर्भाजिनं मेखलांश्चाप्यपसव्येषु षट्समी । 252 ।
स्मरेद्वामकरेष्वस्य पुस्तकं शङ्खमेव च।
दण्डं कमण्डलुं दर्वीमेकस्मिस्त्रितयं करे । 253 ।
पूर्णं ग्राम्यैस्तथाऽऽअरण्यैश्चरुबीजैस्तु पञ्चमे।
स्रम्ममूलपात्रैस्तु यज्ञद्रव्यैः सदक्षिणैः । 254 ।
सर्वाश्रमोपकरणैर्युक्तं च सभाजनम् ।
ध्येयस्य भुज षष्टे वृत्तं मूर्तै ऋगादिभिः । 255 ।
वेदाङ्गैरुपवेदैस्तु संस्कारैः समखैस्तथा।
विकारवसुधाधारे ह्यभावे तु गुणोदधौ । 256 ।
स्वशक्तिभावितं कृत्वा मनः पूर्वं चतुष्टयम् ।
प्रकृत्यन्तः समास्ते यः सर्वज्ञः पुरुषात्मना । 257 ।
निषण्णं भोगिशय्यायां तपनीयरुचिं स्मरेत् ।
देवमर्णवशय्याख्यं मूर्तैश्चक्रादिकैर्वृतम् । 258 ।
लक्ष्म्या संवाह्यमानं च समाक्रान्तं च निद्रया।
वीज्यमानं हि वै प्रीत्या गीयमानं हि विद्यया । 259 ।
कूर्मात्मा कूर्मवद्देवो ध्यातव्यस्त्वथ लाङ्गलिन् !।
द्रवत्कनकवर्णाभस्वसामर्थ्यजलाश्रयः । 260 ।
शक्त्यादिककलाद्वन्द्व द्वितयाङ्घ्रिः सनातनः।
शान्त्यादिककलाड्यश्च प्रोद्गिरंस्तु श्रुतित्रयम् । 261 ।
अतसीपुष्पसङ्काशः शङ्खचक्रगदाधरः।
मखोपकरणाङ्गश्च निमग्नोद्धारणक्षमः । 262 ।
स्वशक्तिविभवाधारमिच्छाज्ञान क्रियार्चिषम् ।
नानाविशेषविज्ञानस्फुलिङ्गोर्मिसदोदितम् । 263 ।
दारयन्तं स्थितं हार्दमनूनं मोहमुल्बणम् ।
नदन्नादमनाख्येयं तमजं परमेश्वरम् । 264 ।
सन्तप्तकनकाभं च ध्यायेद्देवं नृकेसरिम् ।
ज्वलदग्निस्फुलिङ्गाभिः स्वदेहोत्थाभिरावृतम् । 265
रथाङ्गशङ्खधातारं ब्रह्ममूर्तसुभीषणम् ।
सत्सत्वकरजश्रेणी दीप्तेनोभयपाणिना । 266 ।
संयच्छन्तं धिया सम्यग्भविनां साभयम्परम् ।
अमृताध्मातमेघाभममृताहरणं विभुम् । 267 ।
पीताम्बरधरं ध्यायेदेकवक्त्रं चतुर्भुजम् ।
श्रोणीतटार्पितकरं शङ्खचक्रविभूषितम् । 268 ।
मध्यतो दक्षिणेनैव वहन्तं गिरिरूपधृक्।
शुद्धज्ञानानुविद्धं च कर्मसम्भवभीतिहम् । 269 ।
दिशन्तं स्वधिया सम्यग्भक्तानां भक्तवत्सलम् ।
मायामथितदुग्धाब्धिं क्षोभयित्वा प्रकाशितम् । 270 ।
अमृतं क्षुतृषादीनां प्रतिपक्षमनामयम् ।
एवं चानश्वरं भाव्यं मायाख्यार्णवमध्यगम् । 271 ।

[[377]] आत्मामृतमनौपम्यमहरध्वंस कर्मणा।
ध्यायेत्कमलगर्भाभं देवदेवं श्रियःपतिम् । 272 ।
कमलालयहेतीश विभूषितकरद्वयम् ।
द्वयं देवीपरिणये लीलयैव समर्पणम् । 273 ।
प्रकाशयन्ननादित्वमात्मना प्रकृतेः सह।
मत्करैरनुविद्धेयं प्रकृतेः प्रकृतेरहम् । 274 ।
यतोहमाश्रयश्चास्य मूर्तिमध्ये तदात्मिका।
यामालम्ब्य सुखेनैव दुस्तरं हि गुणोदधिम् । 275 ।
निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः।
मदविह्वलनेत्रञ्च देवमुद्भिन्नयौवनम् । 276 ।
फुल्लरक्ताम्बुजाभास मत्यजन्तं निजांस्मृतिम् ।
त्रैलोक्यविस्मयकरं कान्ताकृतिधरं स्मरेत् । 277 ।
आनन्दामृतसम्पूर्णवदनेनेन्दुकान्तिना।
कलशाकृतिरूपेण करस्थेन विराजितम् । 278 ।
लीलाकटाक्षवाग्बाणैस्सूदयन्तं सुरद्विषम् ।
द्विरेफपटलाक्रान्त सहकारलताकरम् । 279 ।
कलामूर्त्यभिधानात्मा राहुसञ्ज्ञोऽतिभीषणः।
मूर्तामूर्तेन रूपेण सग्रसत्यनिशं किल । 280 ।
अग्नीषोम मयीं र्मूीन्त कर्मिणामुपकारिणीम् ।
येऽन्तःप्राणादिरूपेण चन्द्रादित्यात्मना बहिः । 281 ।
स्थितस्तद्विजयेऽध्यक्ष स्सत्यध्यानरतात्मनाम् ।
निष्पन्दबोधभावेन तन्तु व्यक्तं स्मरेद्बहिः । 282 ।
नीलनीरदवर्णाभं पद्मप्त्रनिभेक्षण।
मध्याह्नभास्कराकारं द्वादशारकरोद्यतम् । 283 ।
श्रोणीतटनिविष्टेन वामहस्तेन लीलया।
ध्रियमाणं गदां गुर्वीं निषण्णां धरणीत्यले । 284 ।
अविद्याख्या च यो नेमिः कालचक्रस्य दुर्धरा।
सामायीमं समाश्रित्य विग्रहं विधुनेति च । 285 ।
जपयज्ञ क्रियादीनां तामसेन बलेन च।
ध्यायेत्तत्प्रसरघ्नं च देवं राजोपलद्युतिम् । 286 ।
विज्ञानरश्मिभिर्दीप्तं सत्सत्वगरुडासनम् ।
नानास्त्ररूपभूतात्मा सद्विद्याभुजभूषितम् । 287 ।
चक्रं खड्गं गदां बाणमङ्कुशं कुन्तमेव च।
षट्सु दक्षिणहस्तेषु शक्तिं चापं च कार्मुकम् । 288,।
मुसलं मुद्गरं भीमं खेटकं वामबाहुषु।
देव आम्रदळाभश्च संस्मार्यः पारिजातजित् । 289 ।
आक्लिष्टकर्मा देवेश स्त्वनेकाद्भुतविक्रमः।
प्रबन्धप्रतिपन्नानां भक्तानामपि देहिनाम् । 290 ।
यो बोधभूमौ संरूढो ह्यनित्यश्चानुरञ्जकः।
न्यग्रोधविटपाकारोऽअप्यविद्याबन्धलक्षणः । 291 ।
कर्मवृक्षस्सुविततो मोहमायाफलावृतः।
तदुत्पाटनसिद्ध्यर्थ मनुग्राह्यं जनं सदा । 292 ।

[[378]] आविश्याऽऽस्तेंशमात्रेण कृपया स जगत्प्रभुः।
स विवेकात्मना भूत्वा ज्ञानबाहुवितानधृक् । 293 ।
ऐश्वर्यधर्मवैराग्यशमस्य स्थितिशक्तिधृक्।
आदाय संयमास्त्रौघं नियमास्त्रगणं तथा । 294 ।
इन्द्रियारिगणं जित्वा कर्मिणां दोषदो हि यः।
यदस्य सुरजिद्रूपं तद्द्वादशभुजं स्मरेत् । 295 ।
दिव्यमाल्याम्बरधरं दिव्याभरणभूषितम् ।
चतुर्वक्त्रं सुनयनं वामोत्सङ्गार्पितप्रियम् । 296 ।
खड्गं चक्रगदाबाणं मुसलं च तरूत्तमम् ।
षट्सु दक्षिणहस्तेषु शङ्खमङ्कुशकार्मुकम् । 297 ।
छत्रं च फणभृत्पाशं विभोर्वामभुजेष्वमी।
षष्टेनालिङ्गिता देवी सारविन्देन बाहुना । 298 ।
तदंसलग्नकरया देव्या तच्चिन्तयाऽनिशम् ।
संवीज्यमानं विनयाच्चामरेण सितेन तम् । 299 ।
लोकनाथं विशालाक्षं सर्वदेवनमस्कॄतम् ।
वरसिंहासनारूढं ध्यानोन्मीलित लोचनम् । 300 ।
पद्मासनेनोपविष्टं पद्मगर्भोपमद्युतिम् ।
करुणाविष्टबुद्धिं च शङ्खपद्मकराङ्कितम् । 301 ।
ज्ञानवैराग्यसद्धर्ममार्गत्रय निदर्शकम् ।
संस्मरेदथ दत्ताख्यं ज्ञानमूर्तिमलेपकम् । 302 ।
मनस्यमूनि देवानां समाधिनिरतात्मनाम् ।
ईषल्लब्धरसानां च ब्रह्ममार्गानुसारिणाम् । 303 ।
स्वप्रभानिकरेणैव भासयन्तं च सत्पथम् ।
मनसा सह वायूना मागतिप्रतिषेधकृत् । 304 ।
श्रुतीनामागमानां च व्यापाराणां तथैव च।
वर्णानामाश्रमाणां चाऽप्याचाराणां तथैव च । 305 ।
वर्णानामाश्रमाणां च परिरक्षक एव हि।
मानसैकार्णवान्तस्थे निष्कम्पे बुद्धिपादपे । 306 ।
अभिधानलताड्ये त्वप्युपरिस्थमनुस्मरेत् ।
प्रावृड् गिरिमिव श्यामं तेजसा ज्वलनोपमम् । 307 ।
ध्वंसकृद्विघ्नजालस्य निद्राऽऽलस्यचयस्य यः।
उत्कृष्टद्विजरूपेण विकसत्पद्मरूपिणा । 308 ।
स एव द्विभुजो ध्येयः दण्डदर्भाक्षसूत्रधृक्।
दन्तज्योत्स्नाजिताज्ञानं न्यग्रोधशयनं विभुम् । 309 ।
निषण्णमीषदुत्तानं द्विभुजं शिशुरूपिणम् ।
एवमेव निरस्तास्त्रं शान्तानिद्रारसस्थितम् । 310 ।
अनुज्झितस्वभावं च योगमायाबलेन च।
त्यजन्तमाहरन्तं च श्वासोच्छ्वासद्वयेन तु । 311 ।
आब्रह्मभुवनं सर्वं कर्मप्राधानिकं हि यत् ।
अपौरुषेण रूपेण संवृतावयवात्मना । 312 ।
स्वमायाजलमध्यस्थ मध्यमक्षथ संस्मरेत् ।
ज्ञानादिगुणबृन्देन पक्षभूतेन भूषितम् । 313 ।

[[379]] स्वोत्थसन्निस्सृतं ब्रह्म एकशृङ्गविराजितम् ।
कल्पावसानसमये वहन्तं चैव चिन्तयेत् । 314 ।
नौरूपां विततां क्षोणीं प्रजापतिगणान्विताम् ।
मुक्ताफलनिभेनैव वपुषा निर्मलेन च । 315 ।
अनिमीलितनेत्रस्सन्मीनात्मा भगवानथ।
यो नित्यं भवभीतानां बुधानां कृपया स्वयम् । 316 ।
हृत्स्थे नियमदण्डेन मार्ताण्डायुतसन्निभः।
जित्वा ज्ञानबलं भीममिन्द्रियारिगणान्वितम् । 317 ।
संयच्छत्यचिराद्ब्रह्म नन्दनं सत्सुखाय च।
ध्यायेत्तमेव ह्रस्वाङ्गं श्यामं पद्मदळेक्षणम् । 318 ।
अन्तर्निविष्टभुवनं जटावल्कलभूषितम् ।
छत्रं तद्वामहस्तेन दण्डमन्यत्र वैणवम् । 319 ।
आक्रम्य जाग्रदादित्यसूर्येन्दु हुतभुक्प्रभान् ।
तिष्ठत्यनन्तो भावांस्तुर्याख्याश्चिद्विभूति धृक् । 320
सम्प्रेरयन्ननिच्छातस्स्वपदादमृतप्रभाम् ।
आह्लादजननीं शक्तिं कर्मिणां भवितात्मनाम् । 321 ।
त्रैलोक्यपूरकं ध्यायेत्तमेव हरितद्युतिम् ।
नानामुद्रास्त्रयुक्ते तु भुजबृन्देन भूषितम् । 322 ।
खेगतेगं त्रिदण्डेन वहन्तमरिसूदनम् ।
द्युसिन्धुं सद्वैजयन्तीं देवानां च जयार्थिनाम् । 323 ।
खड्गचक्रगदादण्ड बाणाङ्कुशसमुद्गराः।
शक्तिः परशुशैलेन्द्रः दश दक्षभुजेष्वमी । 324 ।
शङ्खतोमरशार्ङ्गं च पाशशूलमहीरुहाः।
कुशिलं क्षुरिका चैव लाङ्गलं मुसलं महत् । 325 ।
वामहस्तेष्वमी ध्येया अन्ये मुद्रान्विता दश।
भयविस्मयहृद्वेणी कर्णग्रहणलक्षणम् । 326 ।
ध्येया मुद्रा विभोः पञ्च सर्वे तु करपञ्चके।
वराख्यं भूतिसञ्ज्ञां च युक्ताभ्यां सभयां तु वै । 327 ।
गोपनीं दक्ष हस्तेषु तत्सङ्ख्येषु च च सम्स्मरेत् ।
जगत्सूत्रं सहाक्षैस्तु येनोत्तमामतात्मना । 328 ।
गुणषट्कस्वरूपेण पूर्वोक्ताकृतिभिर्विना।
स्मर्तव्यस्स चतुर्धा वै लाञ्छनास्त्रविवर्जितः । 329 ।
सर्वदा परिरक्षांस्तु जपपूर्वं चतुष्टयम् ।
योगक्रियातपोन्तं च सद्विभूत्यपवर्गदम् । 330 ।
नराद्यः कृष्णनिष्ठश्च पृथगेकत्रवेच्छया।
नरं तत्र प्रवाळाभमर्धोन्मीलितलोचनम् । 331 ।
अन्तर्निविष्टभावं च शब्दब्रह्मैकमानसम् ।
यदोमलक्षणं मन्त्रे लपमानमलक्षणम् । 332 ।
स्फाटिकेनाक्षसूत्रेण करस्थेन च शोभितम् ।
गणयन्नक्षसूत्रीयानावर्तान् वामपाणिना । 333 ।
अथ नारायणं देवं ध्यायेत्कुमुदपाण्डरम् ।
बद्धब्रह्माञ्जलिं शान्तं हृत्पद्मार्पितमानसम् । 334 ।
युञ्जानं च स्वमात्मानं परस्मिन्नव्यये पदे।

[[380]] कमण्डलुकरं ध्यायेत्काञ्चनाभमतो हरिम् । 335 ।
विष्टराविष्टपाणिञ्च क्रियाकाण्डप्रदर्शकम् ।
पठन्तमनिशं शास्त्रं पञ्चरात्रपुरस्सरम् । 336 ।
कृष्णमिन्दीवरश्याममूर्ध्वबाहुं जटाधरम् ।
पादेनैकेन तिष्ठन्तमाहरन्तञ्च मारुतम् । 337 ।
एकत्रिषड्द्विषड्रात्र्याद्यतिकृच्छ्रपरायणम् ।
पक्षमासोपवासाश्च दिशन्तमनुचिन्तयेत् । 338 ।
कृष्णाजिनोत्तरीयाश्च सर्वे काषायधारिणः।
ब्रह्मलिङ्गधरास्सर्वे सर्वे ब्रह्मपरायणः । 339 ।
मुख्यकर्मपरिक्रान्तास्साधूनां प्रेरणाय च।
कालानुकूलमाश्रित्य सर्वे सर्वे परायणाः । 340 ।
असङ्गशत्या भगवान् सकुठाराभिधानया।
छिनत्ति बन्धमूलान् यः कर्मवृक्षांस्तु कर्मिणाम् । 341 तमेव द्विभुजं ध्यायेद् उदयादित्यवर्चसम् ।
कृष्णैनचर्मवसनं सत्कुठारकराङ्कितम् । 342 ।
दशेन्द्रियाननं घोऱं यो मनोरजनीचरम् ।
विवेकशरजालेन शमं नयति योगिनाम् । 343 ।
ध्येयस्स एव विश्वात्मा सतोयजलदप्रभः।
रक्तराजीवनयनः धनुश्शरकराङ्कितः । 344 ।
वाग्देवं मण्डलं यो वै स्वरूपद्युतिलक्षणम् ।
स्वयं स्वोत्थं विभजति त्रिधा पश्यन्ति पूर्वकम् । 345
बोधमारुतहृत्पूर्वस्थानेष्वभ्युदितं क्रमात् ।
स्मर्तव्यस्सोपि भगवानतसीकुसुमाद्युतिः । 346 ।
वहन्तौ वामहस्तेन सर्वशास्त्रार्थपुस्तकम् ।
दक्षिणेन तु शास्त्रार्थमादिशंश्च यथास्थितम् । 347 ।
युगानुसारिभेदानामखेदजननाय च।
विभजं तु चतुर्था वै वेदमेकं त्रिकालवित् । 348 ।
दानधर्मरतानाञ्च यागयज्ञानुयाजिनाम् ।
तपस्स्वाध्यायसक्तानां मुक्तानामपुनर्भवात् । 349 ।
संरक्षणाय योग्यत्व विज्ञानव्यक्तयेपि च।
समुदेति जगन्नाथस्तेषां हृत्कमलेवनेः । 350 ।
मनोवाजिनमाक्रम्य त्वदायात्मगुणायुधान् ।
नूनमुत्पाटयत्याशु जन्मान्तरशतोत्थितम् । 351 ।
वैषंयं वासननाजालं शुद्धविज्ञानसिद्धये।
ध्यायेद्वराश्वगं तं वै तनुत्रावृतविग्रहम् । 352 ।
सितोष्णीषललाटञ्च नातिदीर्घजटाधरम् ।
द्रवत्कनकवर्णाभ मिषुधिद्वयमध्यगम् । 353 ।
शरचापकरव्यग्रखड्ग कुन्तकुठारिणम् ।
यज्ञाध्ययनदानादि परिरक्षन्तमेव हि । 354 ।
शान्तयन्तमवर्णाना मधर्मनिरतात्मनाम् ।
सर्वतत्वाश्रयं तत्वं सर्वशक्तिमयं विभुम् । 355 ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
निश्शेषभुवनानां च ध्यातव्यं तदधः स्थितम् । 356 ।

[[381]] अनन्तशयनारूढं कल्पान्तहुतभुग्प्रभम् ।
ज्वलज्ज्वालावळीयुक्तं ज्वलनांशुविवेष्टितम् । 357 ।
चक्राद्यायुध बृन्देन मूर्तेन परिवारितम् ।
स्थिताङ्घ्रिदेशतोलक्ष्मीश्चिता दक्षिणतो विभोः । 358 ।
मूर्धदेशगता निद्रा पुष्टिस्तद्वामतस्थिता।
प्रधानदेवताध्यानमिदमुक्तं समासतः । 359 ।
यज् ज्ञात्वा विनिवर्तन्ते जन्ममृत्युजरारुजः।
नास्त्रैर्वस्त्रैर्ध्वनैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये । 360 ।
तेपि लाञ्छनबृन्दैस्तु धारयन्त्यङ्घ्रिगोचरे।
लालाटे चाङ्कपट्टे तु पृष्ठे पाणितलद्वये । 361 ।
तनूरुहद्वये मूर्ध्नि कर्मिणां प्रतिपत्तये।
अपि सम्सारिणो जन्तोः स्वभावाद्वैष्णवस्य च । 362 ।
नजहात्यच्युतं लिङ्गं किं पुनर्विभवाकृतेः।
सर्वेषां कर्मचारित्वं यदुक्तं वै मया पुरा । 363 ।
तदङ्घ्रिभुजवर्णास्य बृहन्मध्यानुलक्षणः।
एकाद्यनेकसङ्ख्यञ्च दृश्यं सर्वत्र सर्वदा । 364 ।
न त्वन्यरूपता कार्या करणं कामरूपता।
यस्मादस्मिन् पृथग्भूतो व्यापारो विश्वमन्दिरे । 365 ।
देवानां स्थितिसम्हारसृष्टिकाले स्वकं स्वकम् ।
सत्येवं नियमे सिद्धे तथापि भगवद्वशात् । 366 ।
चातुरात्म्यसमूहात्तु यत्पद्मदळभूस्थितम् ।
तथा विभवदेवानां मध्यात्पद्मदळेक्षणम् । 367 ।
एकस्त्वनुग्रहार्थं तु शक्त्यात्मा भावितात्मनाम् ।
बिभर्ति बहुभेदोत्थं रूपं सद्वाहनस्थितम् । 368 ।
यदनुस्मरणाद्ध्यानादर्चनादचिरात्पुमान् ।
प्राप्नोति मनसोऽभीष्टं तन्मे निगदतः शृणु । 369 ।
सत्यस्सुपर्णो गरुडस्तार्क्ष्यस्तु विहगेश्वरः।
पञ्चात्मकस्य प्राणस्य विकारास्त्वेक पञ्चधा । 370
आचाङ्घ्रिगोचरात्सर्वे यस्य देहस्तु पौरुषः।
द्विभुजस्तुहिनाभश्च स सत्यः प्राणदैवतः । 371 ।
सुपर्णः पद्मरागाभः निर्मलः स्वर्णलोचनः।
गरुडः काञ्चनाभस्तु कुटिलभ्रूरुणेक्षणः। 372 ।
केकराक्षस्तु तार्क्ष्यो वै प्रावृड्जलदसन्निभः ।
द्रवत्कनकनेत्रस्तु शबलाभस्तु पञ्चम । 373 ।
चतुर्भुजा स्सुपर्णाद्या सौम्यरूपा स्त्वनाकुला।
पतत्रिचरणा सर्वे पक्षमण्डलमण्डिताः । 374 ।
लम्बोदरास्सुपीनाङ्गाः कुण्डलाद्यैस्तु भूषिताः।
कुटिलभ्रूसुवृत्ताक्षा वक्रतुण्डाःस्मिताननाः । 375 ।
अपानादि समीराणामाधिपत्येन सम्स्थिताः।
महाबलामहाकाया रक्ततुण्डोऽत्र पञ्चमः । 376 ।
आधेयचरणाधस्थ सव्य आद्यस्य वै करः।
दक्षिणश्चाक्षसूत्रेण सुसितेन च भासितः । 377 ।

[[382]] एवमेव सुपर्णस्य परिज्ञेयं भुजद्वयम् ।
नाभ्युद्देशी परे वाम उत्तानस्तु सविस्मयः । 378 ।
पुष्पस्तबकसम्पूर्ण ऊर्ध्ववक्त्रस्तु दक्षिणः।
गरुडस्य द्वयं विद्धि हृद्देशेऽञ्जलिरूपिणम् । 379 ।
तत्रैव सम्पुटाकार चतुर्थस्य करद्वयम् ।
दक्षिणेऽमृतकुम्भस्तु वामे तु विषमं फणी । 380 ।
पत्रमस्य द्वयं शेषं त्रयाणां च द्वयोस्समम् ।
आधेयचरणाक्रान्तो यदि वै दक्षिणः करः। 381 ।
सञ्चारो विहितो वामे त्वक्षसूत्रस्य वै तदा ।
आधेयचरणाधस्थं यस्य पाणितलद्वयम् । 382 ।
निरस्तसूत्र तं विद्धि वाहनं भगवन्मयम् ।
अनुग्रपरस्त्वास्ते पक्षिपक्षाब्जविष्टरे । 383 ।
स्वतेजोनिजसामर्थ्यमसूरकवरान्विते।
पद्मासनादिना चैव केवलं वा श्रियाऽन्वितः । 384 ।
सुव्यक्तावयवस्थित्वा विद्धि तं गरुडासनम् ।
मेढ्रभूस्सोदरस्यैव गोपिताद्वेगगामिना । 385 ।
वीर्यपातास्त्वशिरसा गच्छतश्चाण्डजेन तु।
लोकान्तराणां कार्यार्थं वात्सल्याध्यायिनामपि । 386
प्रत्यक्षदर्शनार्थं तु स्मृतो गरुडवाहनः।
तस्माद्भगवतो विष्णोरेवं रूपधरस्य तु । 387 ।
समाहृतस्य सिद्ध्यर्थमासीनं संस्मरेत् स्थितम् ।
उपसंहृतवामाङ्घ्रिः कञ्जत्थो वा खगस्थितः । 388 ।
वाममिच्छाफलानां यद् ध्वंसयत्यन्यचिन्तितम् ।
आजानोर्दक्षिणस्येवमविक्षिप्ते स्मृतोऽच्युत। 389 ।
आमोक्षात्सर्वसिद्धीनां दक्षिणोध्यायिनां भवेत् ।
सर्वमेव ॠजुस्थित्यां सम्स्थितश्चार्थिनां भवेत् । 390 ।
स्वस्तिकाद्यैर्भवत्येव किं तु ते वाहनं विना।
विहितापीठकल्हार सिंहासनगतस्य च । 391 ।
विहगाधिपतिश्चात्र योगैश्वर्याद्बिभर्ति च।
सवक्त्रम् भुजबृन्दं तु नागेन्द्रास्त्रवरान्वितम् । 392 ।
विभोराज्ञावशेनैव तुष्ट्यर्थं वा स्वयं विभो।
जगज्जयोदयार्थं तु शान्तये शरणैषिणाम् । 393 ।
विभिन्नेन च रूपेण नानालोकान्तरेषु च।
अनिरुद्धागतिर्वैरो विवरत्येक एव हि । 394 ।
तदारूढस्य यद्रूपं शक्तीशस्य च साम्प्रतम् ।
अनेकभेदभिन्नं तु निबोध गदतो मम । 395 ।
संयच्छ त सदा शान्तं भविता दक्षिणेन तु।
प्रोद्वहन्तं च वामेन शङ्खं पूर्वोक्तलक्षनम् । 396 ।
द्विभुजस्य त्विदं रूपं शक्तीशस्य तु केवलम् ।
रूपेणानेन च पुनष्षोढा समुपयाति च । 397 ।
सह कान्तागणेनैव त्वेकाद्येन पृथक्पृथक्।
प्राग्वल्लक्ष्म्या समेतं यत्तदेकं रूपमैश्वरम् । 398 ।
श्रीपुष्ट्योरथ मध्यस्थं द्वितीयं परिकीर्तितम् ।

[[383]] श्रियादिमायानिष्ठेन चतुष्कोणावृतं परम् । 399 ।
शुद्ध्यादिकेन षट्केण चतुर्थं विद्धि साम्प्रतम् ।
पुष्ट्यन्तेन श्रियाद्येन त्वष्टकेन तु पञ्चमम् । 400 ।
लक्ष्म्याद्येन द्विषट्केण षष्टं विद्धि समन्वितम् ।
श्रियादिविमला कीर्तिर्जया लक्ष्मीर्हलायुधा । 401 ।
चतुर्थीभगवन्माया विश्वस्यास्य निबन्धिनी।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्त्यपराजिते । 402 ।
प्रकृतिस्सुन्दरी षट्कमित्युक्त सर्वसिद्धिदम् ।
लक्ष्मी शब्दनिधि स्सर्वकामदा प्रीतिवर्धनी । 403 ।
यशस्करी शान्तिदा च तुष्टिदा पुष्टिदाष्टकम् ।
द्विषट्कवैभवे योगे देवीनां कीर्तितं हि यत् । 404 ।
लक्ष्म्याद्यन्त च बोद्धव्यं भेदेऽस्मिन्पारमेश्वरे।
पुनश्चतुर्भुजस्यैवं विज्ञेयं भेदसप्तकम् । 405 ।
किं तु वै शङ्खचक्रे द्वे वामहस्तद्वयेन तु।
जगत्यस्मिन् हि यच्छन्तं शान्तिमाद्येन शाश्वतीम् ।
प्रोद्वहन्तं द्वितीयेन त्वपसव्येन वै गदाम् ।
भूयः करचतुष्केन पूर्वोक्तेन क्रमेण तु । 407 ।
चतुर्नामब्जपूर्वाणामन्योन्यत्वेन धारणात् ।
यत्ते द्वादशथा रूप निश्शक्तिं च केवलम् । 408 ।
पुनर्द्वादशकं तच्च सह शक्तिद्वयेन तु।
स्थितमेकाधिकेनैव षोढा कमललोचन । 409,।
एवं चतुर्भुजेनैव वपुषा बहुधा स्थितम् ।
सप्तथा षड्भुजाद्येन भुजाधिक्येन वा पुनः । 410 ।
स्थितस्त्वनेकथा देवो यथा तदवधारय।
षड्बाहुरष्टबाहुश्च दश द्वादशबाहुधृक् । 411 ।
द्विसप्तषोडशकरस्तथाष्टादशभूषितः।
केवलादिश्च सर्वेषां प्राग्वद्भेदस्तु सप्तथा । 412 ।
तन्मे शृणु यथावस्थमस्त्रविन्यासचिह्नितम् ।
षड्भुजो दक्षिणैर्धत्ते निस्त्रिंशं कमलं गदाम् । 413 ।
सशरं कार्मुकं शङ्खं वामैरस्त्रोत्तमं त्रिभिः।
गदामुसलचक्रासीनष्टबाहुस्तु दक्षिणैः । 414 ।
शङ्खमङ्कुशपाशश्च वामैस्तु सशरं धनुः।
खड्गबाण गदा पद्मशक्तियुक्तास्तु दक्षिणाः । 415 ।
दशबाहोर्धनुश्शङ्ख चक्रखेताश्च साभयाः।
षण्णां दक्षिणहस्तानां द्विषट्कभुजभूषितः। 416 ।
सन्धत्ते कमलं खड्गचक्रबाणगदाङ्कुशान् ।
शङ्खपाशाभयं शक्तिं सव्यानां मुसलं धनुः । 417 ।
चतुर्दशभुजो धत्ते वामेतु भुजसप्तके ।
शङ्खं गदाङ्कुशं पाशं मुसलं मुद्गरं हलम् । 418 ।
दण्डाब्जकुलिशं चक्रं खड्गशक्तिपरश्वधान् ।
बिभृत्याष्षोडशभुजो मुख्यहस्तस्समुद्गरान् । 419 ।
अभयं कमलं खड्गं शक्तिदण्डशराङ्कुशान् ।

[[384]] शङ्खचक्रगदावज्राच लाङ्गूलकार्मुकान् । 420 ।
वरं कराष्टकेनैव यत्ते सव्येन विश्वजित् ।
पद्मखड्गगदावज्र वक्त्रबाण पराङ्कुशान् । 421 ।
दण्डदक्षिणहस्तैस्तु धत्तेऽष्टादशबाहुधृक्।
शङ्खाभयं हलं शक्तिं मुद्गरं मुसलं धनुः । 422 ।
कुठारमतुलं पाशं विभुर्वामभुजैरमून् ।
बिभर्ति दुष्टशान्त्यर्थं साधूनां पालनाय च । 423 ।
भूयो विशेषरूपाणि एतान्येव विशेषतः।
सद्वक्त्रद्वयमात्रेन नयत्यमितविक्रमम् । 424 ।
संहतेजोसहिष्णूनां पितृयानरतात्मनाम् ।
अङ्गनादिकसंवारभीतानां वै हिताय च । 425 ।
अमृते वै गृहे भागे तेजसे नित्यदक्षिणे।
वामदक्षिणवक्त्राभ्यां कुर्याद्वै व्यत्ययम् प्रभुः । 426 ।
वृद्धयेऽपि च शान्त्यर्थं तेजसः पद्मलोचनः।
हेतुना तेन भगवान् बहिरन्तर्गतेन वै । 427 ।
अग्नीषोमौ समीकृत्य त्वास्ते साधारणात्मना।
व्यक्तिं वागीशवक्त्रं तु नीत्वैव शिरसोपरि । 428 ।
पञ्चवक्त्रेण वपुषा त्वामूलाद्यात्वनेकथा।
शब्दब्रह्मरतानां च ध्यायिनामात्मसिद्धये । 429 ।
आपाताळाच्च सर्वेषां लोकानां पूरणाय च।
नानावपुर्धरो भूयस्त्वेकैकेनैष याति च । 430 ।
भेदेन रूपमाश्रित्य दशया च सितादिकम् ।
विना वक्त्रैर्नृसिंहाद्यैस्सर्वज्ञ महिमान्वितम् । 431 ।
बिभर्ति रूपाण्येतानि अनिरुद्धस्तु तार्क्ष्यकः।
एवमाक्रम्य गरुडं प्रद्युम्नो बिभृयात्तनुम् । 432 ।
नानात्वमपिचाभ्येति सङ्कर्षणस्सुपर्णगः।
देवस्सत्यो मरुत् स्थित्वा विश्वात्मा यात्यनेकथा। 33।
सुरसिद्धमनुष्यादि भूतानां दुःखशान्तये।
चतुर्णां ये निजा वर्णास्ते तु मूर्त्यन्तरेषु च । 434 ।
चतुर्भुजस्यादिमूर्तेर्विष्णोर्मूर्त्यन्तरस्य च।
वरलाञ्छनतुल्यत्वे भेदकृत्सध्वजद्वयम् । 435 ।
अपसव्यस्थितेनैव तत्तालाख्यध्वजेन तु।
स्वरूपभेदमाप्नोति स्वमूर्त्या सह सर्वदा । 436 ।
यस्मात्कार्यवशेनैव मूर्तीनामपि पाणिगाः।
चतुःपद्मादयश्शान्तामूर्ता मूर्तास्तथोद्यताः । 437 ।
इत्यैवं भगवद्ध्यानं सर्वमूर्तं मुनीश्वराः।
दिव्यायुधानां केषां चिद्ध्यानयुक्तं पुरैव हि । 438 ।
शेषाणाम् आयुधानां तु ध्यानं वक्ष्येऽधुना द्विजाः।
सन्ध्याजलद सङ्काशं लाङ्गलं भीमलोचनम् । 439
क्षमाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् ।
स्वरश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम् । 440।
शरदाकाशसङ्काशं दर्शन्तं दशनावळिम् ।
सूर्यमण्डलसङ्काशं खेटकं सौम्यमूर्तिकम् । 441 ।

[[385]] ग्रसन्तमस्त्रपूगानि स्ववक्त्रेणानिशं बलात् ।
बलमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम् । 442 ।
क्रोधर्मूीन्त स्वदशनैर्दंशन्तमधरं स्वकम् ।
शक्रकार्मुकवर्णं च परशुं भीमविग्रहम् । 443 ।
द्रवत्कनकनेत्रं च ज्वलज्ज्वालाजटाधरम् ।
मुद्गरं शतधामाभं पीनांसं पृथुविग्रहम् । 444 ।
जटाकलापधृक्सौम्यं पुण्डरीकनिभेक्षणम् ।
वज्रं वज्रोपलाभं तु स्थितं दीर्घनखाङ्कितम् । 445 ।
दंष्ट्राकराळवदनं ज्वलत्कनकलोचनम् ।
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम् । 446
घनघर्घरनिर्घोषमुद्गिरन्तं मुहुर्मुहुः।
अन्यत्सर्वं तु पूर्वोक्तं ध्यानमेषां मुनीश्वराः । 447 ।
अधिष्टातृक्रमस्त्वेषामोषध्यो लाङ्गलं द्विजाः।
नन्दकं सर्वशास्त्राणि खेटकं वसुधा स्मृता । 448 ।
ज्ञेयो हि दण्डो नियतिर्वैराग्यं परशुस्स्मृतम् ।
मुद्गरस्तु परिज्ञेयो ह्यहङ्कारो मुनीश्वराः । 449 ।
विज्ञानमण्डलं वज्रं समाधिश्शक्तिरुच्यते।
भिन्नरूपस्य च विभोर्य उक्तस्सुन्दरीगणः । 450 ।
साधारश्चाप्यसाधारस्तासां ध्यानं क्रमाच्छृणु।
चिन्ताखण्डलचापाभा लक्ष्मी रक्ताम्बुजप्रभा । 451 ।
पुष्टिः कनकगौरा च कीर्तिः कुमुदपाण्डुरा ।
जयार्ककान्तिसदृशी मायाञ्जननिभा स्मृता । 452 ।
शुद्धिः किंशुकसङ्काशा कुन्दाभा तु निरञ्जना।
बन्धुजीवोज्वला नित्या ज्ञानशक्तिस्सितारुणा । 453
फुल्लेन्दीवरवर्णा च परिज्ञेया पराजिता।
रक्तोत्पलाभा प्रकृति स्मितपीता सरस्वती । 454 ।
सर्वकामप्रदा सिद्धिस्त्विन्द्रनीलसमप्रभा।
सिन्दूरपुञ्जवर्णाभा विज्ञेया प्रीतिवर्धिनी । 455 ।
यशस्करी च दुग्धाभा शान्तिदा विद्रुमोज्ज्वला।
तुष्टिस्तुहिनसङ्काशा दया वैदूर्यसन्निभा । 456 ।
निद्रायस्कान्तसदृशी क्षमा पीतारुणप्रभा।
कान्तिदर्पणसङ्काशा धृतिर्गोरोचनोज्वला । 457 ।
मैत्रीबन्धूकपुष्पाभा रतिर्गैरिकसन्निभा।
मतिर्मरतकाभा वै सर्वाः प्रमुदिता गुणाः । 458 ।
दिव्यमाल्याम्बरधरा नानालङ्कारभूषिताः।
दिव्यस्रग्वेष्टनोपेता वीक्षमाणास्स्वकं पतिम् । 459 ।
चतस्रशक्तयो यास्तु विभोश्शयनगस्य तु।
प्रागुक्तास्तत्र पूर्वाशावस्थिता वीजयन्त्यजम् । 460 ।
त्रयं यद्दिक्त्रयस्थं तु तत्संवाहनतत्परम् ।
यत्रैकाश्रीर्विभोस्तत्र सन्निवेशः पुरोधितः । 461 ।
यत्रैका श्रीर्विभोस्तत्र वामे वा दक्षिणेपि वा।
श्रीपुष्ट्याख्यद्वयं यत्र तत्र तद्दक्षिणोत्तरे । 462 ।
पद्मासनेनोपविष्टं पक्षिपक्षद्वयेन ते।

[[386]] नळिनीनाळहस्ताद्याऽमृतकुम्भकरा परा । 463 ।
अग्नीषोममयो देह आद्यो यस्सर्वगस्य च।
तस्य शक्तिद्वयं तादृगमिश्रं भिन्नलक्षणम् । 464 ।
भोक्तृशक्तिस्स्मृता लक्ष्मी पुष्टिर्वै कर्तृसञ्ज्ञिता।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया । 465 ।
उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
नानात्वेन हि वै यस्य परिणामः प्रकाशित । 466 ।
दिक्पत्रचतुरन्तस्थं यद्वै देवीचतुष्टयम् ।
शक्तिः परशुपाशास्त्रमङ्कुशं तत्करे क्रमात् । 467 ।
षट्कं केसरजालस्थं तत्र प्राक्पश्चिमे द्वयम् ।
द्वयन्द्वयं सौम्ययाम्ये तासां वामकरेषु च । 468 ।
शङ्खचक्रगदासीरमिष्वस्त्रं नन्दकं सितम् ।
पत्रमध्यनिविष्टं तु यत्कान्ताष्टकमुत्तमम् । 469 ।
तस्य वामकराणां च विज्ञेयं त्वादितोऽष्टकम् ।
श्रीफलं चाक्षसूत्रं स्रग्दर्पणं पुष्पमञ्जरीम् । 470 ।
विष्टरं किङ्किणी शस्त्रसञ्चयः कमलेक्षण।
विज्ञेयश्शक्तिदः पाणिर्द्वादशानां तु साभयः । 471 ।
अन्तरान्तरयोगेन सर्वाश्चामर लाञ्छिताः।
स्वस्तिकेनोपविष्टाश्चाप्यन्तर्मुदितमानसाः । 472 ।
द्व्यादिकस्यास्य सङ्घस्य द्वादशान्तस्य लाङ्गलिन् ।
सितादिकेन वर्णेन लाञ्छनव्यत्यययेन तु । 473 ।
तुल्यलाञ्छनयोगेन तन्निरासे च वै सति।
वराभयाभ्यामन्योन्यपाणित्वादथ केवलात् । 474 ।
बहुधा भेदबृन्दं तु परिज्ञेयं तु पूर्ववत् ।
शेषं भवोपकरणदेवानां निचयो हि यः । 475 ।
सुप्रसिद्धो महाबुद्धे किं त्वब्जाद्यैस्तु पूर्ववत् ।
ध्यातव्या लाञ्छनास्सर्वे पाणिपादतलादिषु । 476 ।
भक्तिश्रद्धाव्रतपरस्सर्वेषां यस्सदैव हि।
ध्यात्वैवमर्चनं कुर्याद्भोगैस्सांस्पर्शपूर्वकैः । 477 ।
सोचिरान्मोक्षनिष्ठं तु फलमाप्नोत्यभीप्सितम् ।
किरीटाद्यस्त्रनिष्टेन परिवारेण चावृतम् । 478 ।
भक्त्याह्यभीप्सितं रूपमर्चनीयमथापि वा।
निर्मुक्तपरिवारं वा स्वेन ध्यानेन लक्षितम् । 479 ।
निदधात्यर्चनां नूनं स्वं पदं फलसंयुतम् ।
ज्ञात्वैवं साधकः कुर्याद्यथाभिमतमर्चनम् । 480 ।
आत्मशक्तिसमैर्भोगैरखिलैश्शुद्धविग्रहः।
हृदि वेद्यां बहिर्मूर्तौ प्रासादे स्वगृहे तु वा । 481 ।
बहुप्रकारनिर्मुक्ते धूमदाहादिनोज्झिते।
शरणे रमणीये च निस्सम्पर्के तु भाविते । 482 ।
इति यां मुद्रालक्षण भगवद्ध्यानादि प्रकारो नाम चर्तुींवशोऽध्यायः।